भाषा

ENहिગુ
ग्रंथ पाठ

अष्टाङ्गसंग्रह · अध्याय 3.16

3.16.1

अथातो वातशोणितनिदानं व्याख्यास्यामः ।
इति ह स्माहुरात्रेयादयो महर्षयः ॥

3.16.2

विदाह्यन्नं विरुद्धं च तत्तच्चासृक्प्रदूषणम् ।
भजतां विधिहीनं च स्वप्नजागरमैथुनम् ॥

3.16.3

प्रायेण सुकुमारणामचङ्क्रमणशीलिनाम् ।
अभिघातादशुद्धेश्च नृणामसृजि दूषिते ॥

3.16.4

वातलैः शीतलैर्वायुर्वृद्धः क्रुद्धो विमार्गगः ।
तादृशेनासृजा रुद्धः प्राक्तदेव प्रदूषयेत् ॥

3.16.5

आढ्यरोगं खुडं वातबलासं वातशोणितम् ।
तदाहुर्नामभिस्तच्च पूर्वं पादौ प्रधावति ॥

3.16.6

विशेषाद्यानयानाद्यैः प्रलम्बौ तस्य लक्षणम् ।
भविष्यतः कुष्ठसमं तथा सादः श्लथाङ्गता ॥

3.16.7

जानुजङ्घोरुकट्यंसहस्तपादाङ्गसन्धिषु ।
कण्डूस्फुरणनिस्तोदभेदगौरवसुप्तताः ॥

3.16.8

भूत्वा भूत्वा प्रणश्यन्ति मुहुराविर्भवन्ति च ।
पादयोर्मूलमास्थाय कदाचिद्धस्तयोरपि ॥

3.16.9

आखोरिव विषं क्रुद्धं कृत्स्नं देहं प्रधावति ।
त्वङ्मांसाश्रयमुत्तानं तत् पूर्वं जायते ततः ॥

3.16.10

कालान्तरेण गम्भीरं सर्वान् धातूनाभिद्रवत् ।
कण्ड्वादिसंयुतोत्ताने त्वक् ताम्रश्यावलोहिता ॥

3.16.11

सायामा भृशदाहोषा गम्भीरे ऽधिकपूर्वरुक् ।
श्वयथुर्ग्रथितः पाकी सन्ध्यस्थिमज्जसु ॥

3.16.12

भिन्दन्निव चरत्यन्तर्वक्रीकुवश्च वेगवान् ।
करोति खञ्जं पङ्गुं वा शरीरे सर्वतश्चरन् ॥

3.16.13

वाते ऽधिके ऽधिकं तत्र शूलस्फुरणतोदनम् ।
शोफस्य रौक्ष्यकृष्णत्वश्यावतावृद्धिहानयः ॥

3.16.14

धमन्यङ्गुलिसन्धीनां सङ्कोचो ऽङ्गग्रहो ऽतिरुक् ।
शीतद्वेषानुपशयौ स्तम्भवेपथुसुप्तयः ॥

3.16.15

रक्ते शोफो ऽतिरुक् तोदस्ताम्रश्चिमिचिमायते ।
स्निग्धरूक्षैः शमं नैति कण्डूक्लेदसमन्वितः ॥

3.16.16

पित्ते विदाहःसम्मोहः स्वेदो मूर्छा मदः सतृट् ।
स्पर्शाक्षमत्वं रुग्रागः शोफः पाको भृशोष्मता ॥

3.16.17

कफे स्तैमित्यगुरुतासुप्तिस्निग्धत्वशीतताः ।
कण्डूर्मन्दा च रुग्द्वन्द्वसर्वलिङ्गं च सङ्करे ॥

3.16.18

एकदोषानुगं साध्यं नवं याप्यं द्विदोषजम् ।
त्रिदोषजं त्यजेत् स्रावि स्तब्धमर्बुदकारि च ॥

3.16.19

रक्तमार्गं निहन्त्याशु शाखासन्धिषु मारुतः ।
निविश्यान्योन्यमावार्य वेदनाभिर्हरत्यसून् ॥

3.16.20

वायौ पञ्चात्मके प्राणो रौक्ष्यव्यायामलङ्घनैः ।
अत्याहाराभिघाताध्ववेगोदीरणधारणैः ॥

3.16.21

कुपितश्चक्षुरादीनामुपघातं प्रवर्तयेत् ।
पीनसार्दिततृट्कासश्वासादींश्चामयान्बहून् ॥

3.16.22

उदानः क्षवथूद्गारच्छर्दिनिद्राविधारणैः ।
गुरुभारातिरुदितहास्याद्यैर्विकृतो गदान् ॥

3.16.23

कण्ठरोधमनोभ्रंशच्छर्द्यरोचकपनिसान् ।
कुर्याच्च गलगण्डादीन्तांतान्जत्रूर्ध्वसंश्रयान् ॥

3.16.24

व्यानो ऽतिगमनस्थानक्रीडाविषमचेष्टितैः ।
विरोधिरूक्षभीहर्षविषादाद्यैश्च दूषितः ॥

3.16.25

पुंस्त्वोत्साहबलभ्रंशशोफचित्तोत्प्लवज्वरान् ।
सर्वाङ्गरोगनिस्तोदरोमहर्षाङ्गसुप्तताः ॥

3.16.26

कुष्ठं विसर्पमन्यांश्च कुर्यात्सर्वाङ्गगान् गदान् ।
समानो विषमाजीर्णशीतसङ्कीर्णभोजनैः ॥

3.16.27

करोत्यकालशयनजागराद्यैश्च दूषितः ।
शूलगुल्मग्रहण्यादीन् पक्वामाश्यजान् गदान् ॥

3.16.28

अपानो रूक्षगुर्वन्नवेगाघातातिवाहनैः ।
यानयानासनस्थानचङ्क्रमैश्चातिसेवितैः ॥

3.16.29

कुपितः कुरुते रोगान्कृच्छ्रान्पक्वाशयाश्रयान् ।
मूत्रशुक्रप्रदोषार्शोगुदभ्रंशादिकान् बहून् ॥

3.16.30

सर्वं च मारुतं सामं तन्द्रास्तैमित्यगौरवैः ।
स्निग्धत्वारोचकालस्यशैत्यशोफाग्निहानिभिः ॥

3.16.31

कटुरूक्षाभिलाषेण तद्विधोपशयेन च ।
युक्तं विद्यान्निरामं तु तन्द्रादीनां विपर्ययात् ॥

3.16.32

वायोरावरणं चातो बहुभेदं प्रवक्ष्यते ।
लिङ्गं पित्तावृते दाहस्तृष्णा शूलं भ्रमस्तमः ॥

3.16.33

कटुकोष्णाम्ललवणैर्विदाहः शीतकमता ।
शैत्यगौरवशूलानि कट्वाद्युपशयो ऽधिकम् ॥

3.16.34

लङ्घनायासरूक्षोष्णकामता च कफावृते ।
रक्तावृते सदाहार्तिस्त्वङ्मांसान्तरजा भृशम् ॥

3.16.35

भवेच्च रागी श्वयथुर्जायन्ते मण्डलानि च ।
मांसेन कठिनः शोफो विवर्णः पिटकास्तथा ॥

3.16.36

हर्षः पिपीलिकानां च सञ्चार इव जायते ।
चलः स्निग्धो मृदुः शीतः शोफो गात्रेष्वरोचकः ॥

3.16.37

आढ्यवात इति ज्ञेयः स कृच्छ्रो मेदसावृते ।
स्पर्शमस्थ्यावृते ऽत्युष्णं पीडनं चाभिनन्दति ॥

3.16.38

सूच्येव तुद्यते ऽत्यर्थमङ्गं सीदति शूल्यते ।
मज्जावृते विनमनं जृम्भणं परिवेष्टनम् ॥

3.16.39

शूलं च पीड्यमाने च पाणिभ्यां लभते सुखम् ।
शुक्रावृते ऽतिवेगो वा न वा निष्फलतापि वा ॥

3.16.40

भुक्ते कुक्षौ रुजा जीर्णे शाम्यत्यन्नावृते ऽनिले ।
मूत्राप्रवृत्तिराध्मानं बस्तेर्मूत्रावृते भवेत् ॥

3.16.41

विडावृते विबन्धो ऽधः स्वे स्थाने परिकृन्तति ॥

3.16.42

व्रजत्याशु जरां स्नेहो भुक्ते चानह्यते नरः ।
शकृत्पीडितमन्नेन दुःखं शुष्कं चिरात्सृजेत् ॥

3.16.43

सर्वधात्वावृते वायौ श्रोणिवङ्क्षणपृष्ठरुक् ।
विलोमो मारुतो ऽस्वास्थ्यं हृदयं पीड्यते ऽतिच ॥

3.16.44

भ्रमो मूर्छा रुजा दाहः पित्तेन प्राण आवृते ।
विदग्धे ऽन्ने च वमनमुदाने विभ्रमादयः ॥

3.16.45

दाहो ऽन्तरूर्जाभ्रंशश्च दाहो व्याने तु सर्वगः ।
क्लमो ऽङ्गचेष्टासङ्गश्च सन्तापः सहवेदनः ॥

3.16.46

समान उष्मोपहतिरतिस्वेदो ऽरतिः सतृट् ।
दाहश्च स्यादपाने तु मले हारिद्रवर्णता ॥

3.16.47

रुजो ऽतिवृद्धिस्तापश्च योनिमेहनपायुषु ॥

3.16.48

श्लेष्मणा त्वावऋते प्राणे सादस्तन्द्रारुचिर्वमिः ।
ष्ठीवनक्षवथूद्गारनिश्वासोच्छ्वाससङ्ग्रहः ॥

3.16.49

उदाने गुरुगात्रत्वमरुचिर्वाक्स्वरग्रहः ।
बलवर्णप्रणाशश्च व्याने पर्वास्थिवाग्ग्रहः ॥

3.16.50

गुरुताङ्गेषु सर्वेषु स्खलितं च गतौ भृशम् ।
समाने ऽतिहिमाङ्गत्वमस्वेदो मन्दवह्निता ॥

3.16.51

अपाने सकफं मूत्रशकृतोः स्यात् प्रवर्तनम् ।
इति द्वाविंशतिविधं वायोरावरणं विदुः ॥

3.16.52

प्राणादयस्तथान्योन्यमावृण्वन्ति यथाक्रमम् ।
सर्वेपि विंशतिविधं विद्यादावरणं च तत् ॥

3.16.53

निश्वासोच्छ्ववाससंरोधःप्रतिश्यायःशिरोग्रहः ।
हृद्रोगो मुखशोषश्च प्राणेनोदान आवृते ॥

3.16.54

उदानेनावृते प्राणे वर्णौजोबलसङ्क्षयः ।
दिशानया च विभजेत् सर्वमावरणं भिषक् ॥

3.16.55

स्थानान्यवेक्ष्य वातानां वृद्धिं हानिं च कर्मणाम् ।
प्राणादीनां च पञ्चानां मिश्रमावरणं मिथः ॥

3.16.56

पित्तादिभिर्द्वादशभिर्मिश्राणां मिश्रितैश्च तैः ।
मिश्रैः पित्तादिभिस्तद्वन्मिश्रणाभिरनेकधा ॥

3.16.57

तारतम्यविकल्पाच्च यात्यावृतिरसङ्ख्यताम् ।
तां लक्षयेदवहितो यथास्वं लक्षणोदयात् ॥

3.16.58

शनैश्शनैश्चोपशयाद् गूढामपि मुहुर्मुहुः ।
विशेषाज्जीवितं प्राण उदानो बलमुच्यते ॥

3.16.59

स्यात्तयोः पीडनाद्धानिरायुषश्च बलस्य च ॥

3.16.60

आवृता वायवो ऽज्ञाता ज्ञाता वा वत्सरं स्थिताः ।
प्रयत्नेनापि दुःसाध्या भवेयुर्वानुपक्रमाः ॥

3.16.61

विद्रधिप्लीहहृद्रोगगुल्माग्निसदनादयः ।
भवन्त्युपद्रवास्तेषामावृतानामुपेक्षणात् ॥

मूल पाठ: Aṣṭāṅgasaṃgraha · Edition: e-text by SARIT · SARIT: Search and Retrieval of Indic Texts · SARIT (e-text) via Internet Archive · CC BY-SA 3.0

Esc