अष्टाङ्गसंग्रह · अध्याय 3.5
अथातो राजयक्ष्मादिनिदानं व्याख्यास्यामः ।
इति ह स्माहुरात्रेयादयो महर्षयः ॥
अनेकरोगानुगतो बहुरोगपुरोगमः ।
राजयक्ष्मा क्षयः शोषो रोगराडिति च स्मृतः ॥
नक्षत्राणां द्विजानां च राज्ञो ऽभूद्यदयं पुरा ।
यच्च राजा च यक्ष्मा च राजयक्ष्मा ततो मतः ॥
देहौषधक्षयकृतेः क्षयस्तत्सम्भवाच्च सः ।
रसादिशोषणाच्छोषो रोगराट् तेषु राजनात् ॥
साहसं वेगसंरोधः शुक्रौजःस्नेहसङ्क्षयः ।
अन्नपानविधित्यागश्चत्वारस्तस्य हेतवः ॥
तैरुदीर्णो ऽनिलः पित्तं कफं चोदीर्य सर्वतः ।
शरीरसन्धीनाविश्य तान् सिराश्च प्रपीडयन् ॥
मुखानि स्रोतसां रुध्वा तथैवातिविवृत्य वा ।
सर्पन्नूर्ध्वमधस्तिर्यग्यथास्वं जनयेत् गदान् ॥
रूपं भविष्यतस्तस्य प्रतिश्यायो भृशं क्षवः ।
प्रसेको मुखमाधुर्य्ंअ सदनं वह्निदेहयोः ॥
स्थाल्यमत्रान्नपानादौ शुचावप्यशुचीक्षणम् ।
मक्षिकातृणकेशादिपातः प्रायो ऽन्नपानयोः ॥
हृल्लासश्छर्दिररुचिरश्नतो ऽपि बलक्षयः ।
पाण्योरवेक्षा पादस्य शोफो ऽक्ष्णोरतिशुक्लता ॥
बाह्वोः प्रमाणजिज्ञासा काये बैभत्स्यदर्शनम् ।
स्त्रीमद्यमांसप्रियता घृणित्वं मूर्धगुण्ठनम् ॥
नखकेशातिवृद्धिश्च स्वप्ने चाभिभवो भवेत् ।
पतङ्गकृकलासाहिकपिश्वापदपक्षिभिः ॥
केशास्थितुषभस्मादिराशौ समधिरोहणम् ।
शून्यानां ग्रामदेशानां दर्शनं शुष्यतो ऽम्भसः ॥
ज्योतिर्गिरीणां पततां ज्वलतां च महीरुहाम् ॥
पीनसश्वासकासांसमूर्धस्वररुजो ऽरुचिः ।
ऊर्ध्वं विट्स्रंससंशोषावधश्छरिदिस्तु कोष्ठगे ॥
तिर्यक्स्थे पार्श्वरुक्दोषे सन्धिगे भवति ज्वरः ।
रूपाण्येकादशैतानि जायन्ते राजयक्ष्मिणः ॥
तेषामुपद्रवान् विद्यात् कण्ठोद्ध्वंसमुरोरुजम् ।
जृम्भाङ्गमर्दनिष्ठीववह्निसादास्यपूतिताः ॥
तत्र वाताच्छिरःपार्श्वशूलमंसाङ्गमर्दनम् ।
कण्ठोद्ध्वंसः स्वरभ्रंशः पित्तात् पादास्यपाणिषु ॥
दाहोतिसारो ऽसृक्छर्दिर्मुखगन्धो ज्वरो मदः ।
कफादरोचकश्छर्दिः कासो मूर्धाङ्गगौरवम् ॥
प्रसेकः पीनसः श्वासः स्वरसादो ऽल्पवह्निता ॥
दोषैर्मन्दानलत्वेन सोपलेपैः कफोल्बणैः ।
स्रोतोमुखेषु रुद्धेषु धातूष्मस्वल्पकेषु च ॥
विदह्यमानः स्वस्थाने रसस्तांस्तानुपद्रवान् ।
कुर्यादगच्छन् मांसादीनसृक् चोर्ध्वं प्रधावति ॥
पच्यते कोष्ठ एवान्नमन्नपक्त्रैव चास्य यत् ।
प्रायो ऽस्मान्मलतां यातं नैवालं धातुपुष्टये ॥
रसो ऽप्यस्य न रक्ताय मांसाय कुत एव तु ।
अवष्टब्धः स शकृता केवलं वर्तते क्षयी ॥
लिङ्गेष्वल्पेष्वपि क्षीणं व्याध्यौषधबलाक्षमम् ।
वर्जयेत् साधयेदेव सर्वेष्वपि ततो ऽन्यथा ॥
दोषैर्व्यस्तैः समस्तैश्च क्षयात् षष्ठश्च मेदसा ।
स्वरसादो भवेत्तत्र क्षामो रूक्षश्चलः स्वरः ॥
शूकपूर्णाभकण्ठत्वं स्निग्धोष्णोपशयो ऽनिलात् ।
पित्तात्तालुगले दाहः शोष उक्तावसूयनम् ॥
लिम्पन्निव कफात् कण्ठं मन्दः खुरखुरायते ।
स्वरो विबद्धः सर्वैस्तु सर्वलिङ्गः क्षयात् कषेत् ॥
धूमायतीव चात्यर्थं मेदसा श्लेष्मलक्षणः ।
कृच्छ्रलक्ष्याक्षरश्चात्र सर्वैरन्त्यं च वर्जयेत् ॥
अरोचको भवेद्दोषैर्जिह्वाहृदयसंश्रयैः ।
सन्निपातेन मनसः सन्तापेन च पञ्चमः ॥
कषायतिक्तमधुरं वातादिषु मुखं क्रमात् ।
सर्वोत्थे विरसं शोकक्रोधादिषु यथामलम् ॥
छर्दिर्दोषैः पृथक् सर्वैर्द्विष्टैरर्थैश्च पञ्चमी ।
उदानो विकृतो दोषान् यूसर्वास्वर्प्ध्वमस्यति ॥
तासूत्क्लेशास्यलावण्यप्रसेकारुचयो ऽग्रगाः ।
नाभिं पृष्ठं रुजन् वायुः पार्श्वेचाहारमुत्क्षिपेत् ॥
ततो विच्छिन्नमल्पाल्पं कषायं फेनिलं वमेत् ।
शब्दोद्गारयुतं कृष्णमच्छं कृच्छ्रेण वेगवत् ॥
कासास्यशोषहृन्मूर्धस्वरपीडाक्लमान्वितः ।
पित्तात् क्षारोदकनिभं धूम्रं हरितपीतकम् ॥
सासृगम्लं कटूष्णं च तृण्मूर्छादाहतापवान् ।
कफात् स्निग्धं घनं श्वेतं श्लेष्मतन्तुगवाक्षितम् ॥
मधुरं लवणं भूरिप्रसक्तं लोमहर्षणम् ।
मुखश्वयथुमाधुर्यतन्द्राहृल्लासकासवान् ॥
सर्वलिङ्गा मलैः सर्वै रिष्टोक्ता याच तां त्यजेत् ।
पूत्यमेध्याशुचिद्विष्टदर्शनश्रवणादिभिः ॥
तप्ते चित्ते हृदि क्लिष्टे छर्दिर्द्विष्टार्थयोगजा ॥
वातादीनेव विमृशेत् कृमितृष्णामदौहृदे ।
शूलवेपथुहृल्लासैर्विशेषात् कृमिजां वदेत् ॥
कृमिहृद्रोगलिग्गैश्च स्मृताः पञ्च तु हृद्गदाः ।
तेषां गुल्मनिदानोक्तैः समुत्थानैश्च सम्भवः ॥
वातेन शूल्यते ऽत्यर्थं तुद्येते स्फुटतीव च ।
भिद्यते शुष्यति स्तब्धं हृदयं शून्यता द्रवः ॥
अकस्माद्दीनता शोको भयं शब्दासहिष्णुता ।
वेपथुर्वेष्टनं मोहः श्वासरोधो ऽल्पनिद्रता ॥
पित्तात्तृष्णा भ्रमो मूर्च्छा स्वेदो ऽम्लकःक्लमः ।
छर्दनं चाम्लपित्तस्य धूमकः पीतता ज्वरः ॥
श्लेष्मणा हृदयं स्तब्धं भारि कंसाश्मगर्भवत् ।
कासाग्निसादनिष्ठीवनिद्रालस्यारुचिज्वराः ॥
सर्वलिङ्गस्त्रिभिर्दोषैः कृमिभिः श्यावनेत्रता ।
तमःप्रवेशो हृल्लासः शोषः कण्डूः कफस्रुतिः ॥
हृदयं प्रततञ्चात्र क्रकचेनेव दार्यते ।
चिकित्सेदामयं घोरं तं शीघ्रं शीघ्रकारिणम् ॥
वातात् पित्तात् कफात् तृष्णा सन्निपाताद्रसक्षयात् ।
षष्ठी स्यादुपसर्गाच्च वातपित्ते तु कारणम् ॥
सर्वासु तत्प्रकोपो हि सौम्यधातुप्रशोषणात् ।
सर्वदेहभ्रमोत्कम्पतापतृट्दाहमोहकृत् ॥
जिह्वामूलगलक्लोमतालुतोयवहाः सिराः ।
संशोष्य तृष्णा जायन्ते तासां सामान्यलक्षणम् ॥
मुखशोषो जलातृप्तिरन्नद्वेषः स्वरक्षयः ।
कण्ठौष्ठजिह्वाकार्कश्यं जिह्वानिष्क्रमणं क्लमः ॥
प्रलापश्चित्तविभ्रंशस्तृड्ग्रहोक्तास्तथामयाः ॥
मारुतात् क्षामता दैन्यं शङ्खतोदः शिरोभ्रमः ।
गन्धाज्ञानास्यवैरस्यश्रुतिनिद्राबलक्षयाः ॥
शीताम्बुपानाद्वृद्धिश्च पित्तान्मूर्छास्यतिक्तता ।
रक्तेक्षणत्वं प्रततं शोषो दाहो ऽतिधूमकः ॥
कफो रुणद्धि कुपितस्तोयवाहिषु मारुतम् ।
स्रोतस्सु सकफस्तेन पङ्कवच्छोष्यते ततः ॥
शूकैरिवाचितः कण्ठो निद्रा मधुरवक्त्रता ।
आध्मानं शिरसो जाड्यं स्तैमित्यच्छर्द्यरोचकाः ।
आलस्यमविपाकश्च सर्वैः स्यात् सर्वलक्षणा ॥
आमोद्भवा च भक्तस्य संरोधाद्वातपित्तजा ।
उष्णक्लान्तस्य सहसा शीताम्भो भजतस्तृषम् ॥
ऊष्मा रुद्धो गतः कोष्ठं यां कुर्यात् पित्तजैव सा ।
या च पानातिपानोत्था तीक्ष्णाग्रेःस्नेहजा च या ॥
स्निग्धगुर्वम्ललवणभोजनेन कफोद्भवा ।
तृष्णा रसक्षयोक्तेन लक्षणेन क्षयात्मिका ॥
शोषमेहज्वराद्यन्यदीर्घरोगोपसर्गतः ।
या तृष्णा जायते तीव्रा सोपसर्गात्मिका स्मृता ॥
मूल पाठ: Aṣṭāṅgasaṃgraha · Edition: e-text by SARIT · SARIT: Search and Retrieval of Indic Texts · SARIT (e-text) via Internet Archive · CC BY-SA 3.0