भाषा

ENहिગુ
ग्रंथ पाठ

अष्टाङ्गसंग्रह · अध्याय 3.4

3.4.1

अथातः श्वासहिध्मानिदानं व्याख्यास्यामः ।
इति ह स्माहुरात्रेयादयो महर्षयः ॥

3.4.2

कासवृध्या भवेच्छ्रूवासः पूर्वैर्वा दोषकोपनैः ।
आमातिसारवमथुविषपाण्डुज्वरैरपि ॥

3.4.3

रजोधूमानिलैर्मर्मघातादतिहिमाम्बुना ।
क्षुद्रकस्तमकश्छिन्नो महानूर्ध्वश्च पञ्चमः ॥

3.4.4

कफोपरुद्धगमनः पवनो विष्वगास्थितः ।
प्राणोदकान्नवाहीनि दुष्टः स्रोतांसि दूषयन् ॥

3.4.5

उरस्थः कुरुते श्वासमामाशयसमुद्भवम् ॥

3.4.6

प्राग्रूपं तस्य हृत्पार्श्वशूलं प्राणविलोमता ।
आनाहः शङ्खभेदश्च तत्रायासातिभोजनैः ॥

3.4.7

प्रेरितः प्रेरयेत् क्षुद्रं स्वयंसंशमनं मरुत् ॥

3.4.8

प्रतिलोमं सिरा गच्छन्नुदीर्य पवनः कफम् ।
परिगृह्य शिरोग्रीवमुरःपार्श्वे च पीडयन् ॥

3.4.9

कासं घुर्घुरकं मोहमरुचिं पीनसं तृषम् ।
करोति तीव्रवेगं च श्वासं प्राणोपतापिनम् ॥

3.4.10

प्रताम्येत्तस्य वेगेन निष्ठ्यूतान्ते क्षणं सुखी ।
कृच्छ्राच्छयानः श्वसिति निष्ण्णः स्वास्थ्यमृच्छति ॥

3.4.11

उच्छ्रिताक्षो ललाटेन स्विद्यता भृशमर्तिमान् ।
विशुष्कास्यो मुहुः श्वासी काङ्क्षत्युष्णं सवेपथुः ॥

3.4.12

मेघाम्बुशीतप्राग्वातैः श्लेष्मलैश्च विवर्धते ।
स याप्यस्तमकः साध्यो नवो वा बलिनो भवेत् ॥

3.4.13

ज्वरमूर्छायुतः शीतैः शाम्येत् प्रतमकस्तु सः ॥

3.4.14

छिन्नाच्छ्वसिति विच्छिन्नं मर्मच्छेदरुजार्दितः ।
सस्वेदमूर्छः सानाहो बस्तिदाहनिरोधवान् ॥

3.4.15

अधोदृग्विप्लुताक्षश्च मुह्यन् रक्तैकलोचनः ।
शुष्कास्यः प्रलपन्दीनो नष्टच्छायो विचेतनः ॥

3.4.16

महता महता दीनो नादेन श्वसिति क्रथन् ।
उद्धूयमानः संरब्धो मत्तर्षभ इवानिशम् ॥

3.4.17

प्रणष्टज्ञानविज्ञानो विभ्रान्तनयनाननः ।
वक्षः समाक्षिपन् बद्धमूत्रवर्चा विशीर्णवाक् ॥

3.4.18

शुष्ककण्ठो मुहुर्मुह्यन् कर्णशङ्खशिरो ऽतिरुक् ॥

3.4.19

दीर्घमूर्ध्वं श्वसित्यूर्ध्वान्न च प्रत्याहरत्यधः ।
श्लेष्मावृतमुखस्रोताः क्रुद्धगन्धवहार्दितः ॥

3.4.20

मर्मसु छिद्यमानेषु परिदेवी निरुद्धवाक् ॥

3.4.21

एते सिध्येयुरव्यक्ता व्यक्ताः प्राणहरा ध्रुवम् ॥

3.4.22

श्वासैकहेतुप्राग्रूपसङ्ख्याग्रकृतिसंश्रयाः ।
हिध्मा भक्तोद्भवा क्षुद्रा यमला महतीति च ॥

3.4.23

गम्भीरा च मरुत्तत्र त्वरयायुक्तिसेवितैः ।
रूक्षतीक्ष्णखरासात्म्यैरन्नपानैः प्रपीडितः ॥

3.4.24

करोति हिध्मामरुजां मन्दशब्दां क्षवानुगाम् ।
शमं सात्म्यान्नपानेन या प्रयाति च सान्नजा ॥

3.4.25

आयासात् पवनः क्रुद्धः क्षुद्रां हिध्मां प्रवर्तयेत् ।
जत्रुमूलप्रविसृतामल्पवेगां मृदुं च सा ॥

3.4.26

वृद्धिमायास्यतो याति भुक्तमात्रे च मार्दवम् ॥

3.4.27

चिरेण यमलैर्वेगैराहारे या प्रवर्तते ।
परिणामोन्मुखे वृद्धिं परिणामे च गच्छति ॥

3.4.28

कम्पयन्ती शिरोग्रीवामाध्मातस्यातितृष्यतः ।
प्रलापच्छर्द्यतीसारनेत्रविप्लुतिजृम्भिणः ॥

3.4.29

यमला वेगिनी हिध्मा परिणामवती च सा ॥

3.4.30

ध्वस्तभ्रूशङ्खयुग्मस्य सास्रविप्लुतचक्षुषः ।
स्तम्भयन्ती तनुं वाचं स्मृतिं संज्ञां च मुष्णती ॥

3.4.31

रुन्धती मार्गमन्नस्य कुर्वती मर्मघट्टनम् ।
पृष्ठतो नमनं शोषं महाहिध्मा प्रवर्तते ॥

3.4.32

महामूला महाशब्दा महावेगा महाबला ।
षक्वाशयाद्वा नाभेर्वा पूर्ववद्या प्रवर्तते ॥

3.4.33

तद्रूपा सा मुहुः कुर्यात् जृम्भामङ्गप्रसारणम् ।
गम्भीरेणानुनादने गम्भीरा तासु साधयेत् ।
आद्ये द्वे वर्जयेदन्त्ये सर्वलिङ्गां च वेगिनीम् ॥

3.4.34

सर्वाश्च सञ्चितामस्य स्थविरस्य व्यवायिनः ।
व्याधिभिः क्षीणदेहस्य भक्तच्छेदक्षतस्य वा ॥

3.4.35

सर्वे ऽपि रोगा नाशाय नत्वेवं शीघ्रकारिणः ।
हिध्माश्वासौ यथा तौ हि मृत्युकाले कृतालयौ ॥

मूल पाठ: Aṣṭāṅgasaṃgraha · Edition: e-text by SARIT · SARIT: Search and Retrieval of Indic Texts · SARIT (e-text) via Internet Archive · CC BY-SA 3.0

Esc