भाषा

ENहिગુ
ग्रंथ पाठ

अष्टाङ्गसंग्रह · अध्याय 3.6

3.6.1

अथातो मदात्ययनिदानं नामाध्यायं व्याख्यास्यामः ।
इति ह स्माहुरात्रेयादयो महर्षयः ॥

3.6.2

तीक्ष्णोक्ष्णरूक्षसूक्ष्माम्लं व्यवाय्याशुकरं लघु ।
विकाशि विशदं मद्यमोजसो ऽस्माद्विपर्ययः ॥

3.6.3

तीक्ष्णादयो विषे ऽप्युक्ताश्चित्तोपप्लाविनो गुणाः ।
जीवितान्ताय जायन्ते विषे तूत्कर्षवृत्तितः ॥

3.6.4

तीक्ष्णादिभिर्गुणैर्मद्यं मन्दादीनोजसो गुणान् ।
दशभिर्दश सङ्क्षोभ्य चेतो नयति विक्रियाम् ॥

3.6.5

आद्ये मदे द्वितीये तु प्रमादायतने स्थितः ।
दुर्विकल्पहतो मूढः सुखमित्यवबुध्यते ॥

3.6.6

मध्यमोत्तमयोः सन्धिं प्राप्य राजसतामसः ।
निरङ्कुश इव व्यालो न किञ्चिन्नाचरेज्जडः ॥

3.6.7

इयं भूमिरवद्यानां दौश्शील्यस्येदमास्पदम् ।
एको ऽयं बहुमार्गाया दुर्गतेर्देशिकः परम् ॥

3.6.8

निश्चेष्टः शववच्छेते तृतीये तु मदे स्थितः ।
मरणादपि पापात्मा गतः पापतरां दशाम् ॥

3.6.9

धर्माधर्मं सुखं दुःखमर्थानर्थ हिताहितम् ।
यदासक्तो न जानाति कथं तच्छीलयेद्बुधः ॥

3.6.10

मद्ये मोहो भयं शोकः क्रोधो मृत्युश्च संश्रिताः ।
सोन्मादमदमूर्च्छायाः सापस्मारापतानकाः ॥

3.6.11

यत्रैकः स्मृतिविभ्रंशस्तत्र सर्वमसाधु यत् ।
अयुक्तियुक्तमन्नं हि व्याधये मरणाय वा ।
मद्यं त्रिवर्गधीधैर्यलज्जादेरपि नाशनम् ॥

3.6.12

नातिमाद्यन्ति बलिनः कृताहारा महाशनाः ।
स्निग्धाः सत्ववयोयुक्ता मद्यनित्यास्तदन्वयाः ।
मेदःकफाधिका मन्दवातपित्ता दृढाग्नयः ॥

3.6.13

विपर्यये ऽतिमाद्यन्ति विस्रब्धाः कुपिताश्च ये ।
मद्येन चाम्लरूक्षेण साजीर्णे बहुनाति च ॥

3.6.14

वातात् पित्तात् कफात् सर्वैश्चत्वारः स्युर्मदात्ययाः ।
सर्वे ऽपि सर्वैर्जायन्ते व्यपदेशस्तु भूयसा ॥

3.6.15

सामान्यं लक्षणं तेषां प्रमोहो हृदयव्यथा ।
विड्भेदः सततं तृष्णा सौम्याग्नेयो ज्वरो ऽरुचिः ॥

3.6.16

शिरःपार्श्वास्थिरुक्कम्पो मर्मभेदस्त्रिकग्रहः ।
उरोविबन्धस्तिमिरं कासश्वासप्रजागराः ॥

3.6.17

स्वेदो ऽतिमात्रं विष्टम्भः श्वयथुश्चित्तविभ्रमः ।
प्रलापश्छर्दिरुत्क्लेशो भ्रमो दुःस्वप्नदर्शनम् ॥

3.6.18

विशेषाज्जागरश्वासकम्पमूर्धरुजो ऽनिलात् ।
स्वप्ने भ्रमत्युत्पतति प्रेतैश्च सह भाषते ॥

3.6.19

पित्ताद्दाहज्वरस्वेदमोहातीसारतृड्भ्रमाः ।
देहो हरितहारिद्रो रक्तनेत्रकपोलता ।
श्लेष्मणा छर्दिहृल्लासनिद्रोदर्दाङ्गगौरवम् ॥

3.6.20

सर्वजे सर्वलिङ्गत्वम् मुक्त्वा मद्यं पिबेत्तु यः ।
सहसानुचितं चान्यत्तस्य ध्वंसकविक्षयौ ॥

3.6.21

भवेतां मारुतात् कष्टौ दुर्बलस्य विशेषतः ।
ध्वंसके श्लेष्मनिष्ठीवः कण्ठशोषो ऽतिनिद्रता ॥

3.6.22

शब्दासहत्वं तन्द्रा च विक्षये ऽङ्गशिरो ऽतिरुक् ।
हृत्कण्ठरोधः सम्मोहः कासस्तृष्णा वमिर्ज्वरः ॥

3.6.23

निवृत्तो यस्तु मद्येभ्यो जितात्मा बुद्धिपूर्वकृत् ।
विकारैः स्पूश्यते जातु न स शारीरमानसैः ॥

3.6.24

रजोमोहाहिताहारपरस्य स्युस्त्रयो गदाः ।
रसासृक्चेतनावाहिस्रोतोरोधसमुद्भवाः ।
मदमूर्च्छायसन्यासा यथोत्तरबलोत्तराः ॥

3.6.25

मदो ऽत्र दोषैः सर्वैश्च रक्तमद्यविषैरपि ।
सक्तानल्पद्रुताभाषश्चलस्खलितचेष्टितः ॥

3.6.26

रूक्षश्यावारुणतनुर्मदे वातोद्भवे भवेत् ।
पित्तेन क्रोधनो रक्तपीताभः कलहप्रियः ॥

3.6.27

स्वल्पसम्बद्धवाक् पाण्डुः कफाद् ध्यानपरो ऽलसः ।
सर्वात्मा सन्निपातेन रक्तात् स्तब्धाङ्गदृष्टिता ॥

3.6.28

पित्तलिङ्गं च मद्येन विकृतेहास्वराङ्गता ।
विषात्कम्पो ऽतिनिद्रा च सर्वेभ्यो ऽभ्यधिकश्च सः ।
लक्षयेल्लक्षणोत्कर्षाद्वातादीन् शोणितादिषु ॥

3.6.29

अरुणं नीलकृष्णं वा खं पश्यन् प्रविशेत्तमः ।
शीघ्रं च प्रतिबुध्येत हृत्पीडा वेपथुर्भ्रमः ॥

3.6.30

कार्श्यं श्यावारुणा छाया मूर्च्छाये मारुतात्मके ।
पित्तेन रक्तं पीतं वा नभः पश्यन् विशेत्तमः ॥

3.6.31

विबुध्येत च सस्वेदो दाहतृट्तापपीडितः ।
भिन्नविण्नीलपीताभो रक्तपीताकुलेक्षणः ॥

3.6.32

कफेन मेघसङ्क्शाशं पश्यन्नाकाशमाविशेत् ।
तमश्चिराच्च बुध्येत सहृल्लासप्रसेकवान् ॥

3.6.33

गुरुभिः स्तमितैरङ्गैरार्द्रचर्मावनद्धवत् ।
सर्वाकृतिस्त्रिभिर्दोषैरपस्मार इवापरः ॥
पातयत्याशु निश्चेष्टं विना बीभत्सचेष्टितैः ॥

3.6.34

दोषेषु मदमूर्च्छायाः कृतवेगेषु देहिनाम् ।
स्वयमेवोपशाम्यन्ति सन्न्यासो नौषधैर्विना ॥

3.6.35

वाग्देहमनसां चेष्टामाक्षिप्यातिबला मलाः ।
सन्न्यासं सन्निपतिताः प्राणायतनसंश्रयाः ॥

3.6.36

कुर्वन्ति तेन पुरुषः काष्ठभूतो मृतोपमः ।
म्रियेत शीघ्रं शीघ्रं चेच्चिकित्सा न प्रयुज्यते ॥

3.6.37

अगाधे ग्राहबहुले सलिलौघ इवातटे ।
सन्न्यासे विनिमज्जन्तं नरमाशु निवर्तयेत् ॥

3.6.38

मदमानरोषतोषप्रभृतिभिररिभिर्निजैः परिष्वङ्गः ।
युक्तायुक्तं च समं युक्तिवियुक्तेन मद्येन ॥

3.6.39

बलकालदेशसात्म्यप्रकृतिसहायामयवयांसि ।
प्रविभज्य तदनुरूपं यदि पिबति ततः पिबत्यमृतम् ॥

मूल पाठ: Aṣṭāṅgasaṃgraha · Edition: e-text by SARIT · SARIT: Search and Retrieval of Indic Texts · SARIT (e-text) via Internet Archive · CC BY-SA 3.0

Esc