अष्टाङ्गसंग्रह · अध्याय 3.3
अथातो रक्तपित्तकासनिदानं व्याख्यास्यामः ।
इति ह स्माहुरात्रेयादयो महर्षयः ॥
भृशोष्णतीक्ष्णकट्वम्ललवणातिविदाहिभिः ।
कोद्रवोद्दालकैश्चान्नैस्तद्युक्तैरतिसेवितैः ॥
कुपितं पित्तलैः पित्तं द्रवं रक्तं च मूर्छिते ।
ते मिथस्तुल्यरूपत्वमागम्य व्याप्नुतस्तनुम् ॥
पित्तं रक्तस्य विकृतेः संसर्गाद् दूषणादपि ।
गन्धवर्णानुवृत्तेश्च रक्तेन व्यपदिश्यते ॥
प्रभवत्यसृजः स्थानात् प्लीहतो यकृतश्च तत् ॥
शिरोगुरुत्वमरुचिः शीतेच्छा धूमको ऽम्लकः ।
छर्दिश्छर्दितबैभत्स्यं कासश्वासौ भ्रमः क्लमः ॥
लोहलोहितमत्स्यामगन्धास्यत्वं स्वरक्षयः ।
रक्तहारिद्रहरितवर्णता नयनादिषु ॥
नीललोहितपीतानां वर्णानामविवेचनम् ।
स्वप्ने तद्वर्णदर्शित्वं भवत्यस्मिन् भविष्यति ॥
ऊर्ध्वं नासाक्षिकर्णास्यैर्मेढ्रयोनिगुदैरधः ।
कुपितं रोमकूपैश्च समस्तैस्तत् प्रवर्तते ॥
ऊर्ध्वं साध्यं कफाद्यस्मात्तद्विरेचनसाधनम् ।
बह्वौषधं च पित्तस्य विरेको हि वरौषधम् ॥
अनुबन्धी कफो यश्च तत्र तस्यापि शुद्धिकृत् ।
कषायाः स्वादवो ऽप्यस्य विशुद्धश्लेष्मणो हिताः ॥
किमु तिक्ताः कषाया वा ये निसर्गात् कफापहाः ॥
अधो याप्यं चलाद्यस्मात्तत् प्रच्छर्दनसाधनम् ।
स्वल्पौषधं च पित्तस्य वमनं न वरौषधम् ॥
अनुबन्धी चलो यश्च शान्तयेपि न तस्य तत् ।
कषायाश्च हितास्तस्य मधुरा एव केवलम् ॥
कफमारुतसंसृष्टमसाध्यमुभयायनम् ।
अशक्यप्रातिलोम्यत्वादभावादौषधस्य च ॥
न हि संशोधनं किञ्चिदस्त्यस्य प्रतिलोमनम् ।
शोधनं प्रतिलोमं च रक्तपित्ते भिषग्जितम् ॥
एवमेवोपशमनं सर्वशो नास्य विद्यते ।
संसृष्टेषु हि दोषेषु सर्वजिच्छमनं हितम् ॥
तत्र दोषानुगमनं सिरास्र एव लक्षयेत् ।
उपद्रवांश्च विकृतिज्ञानतः तेषु चाधिकम् ॥
आशुकारी यतः कासस्तमेवातः प्रवक्ष्यते ॥
पञ्च कासाः वातपित्तश्लेष्मक्षतक्षयैः ।
क्षयायोपेक्षिताः सर्वे बलिनश्चोत्तरोत्तरम् ॥
तेषां भविष्यतां रूपं कण्ठे कण्डूररोचकः ।
शूकपूर्णाभकण्ठत्वमस्वास्थ्यं हृदयस्य च ॥
कषायविज्जलासात्म्यकट्वम्ललवणोषणैः ।
रूक्षशीतगुरुस्निग्धोत्क्लेदिपर्युषिताशनैः ॥
धारणोदीरणायासरात्र्यहःस्वप्नजागरैः ।
अन्यैश्च तद्विधैर्धातुक्षयावरणकारिभिः ॥
क्रुद्धः प्रतिहतो ऽपाने यदापानः प्रपद्यते ।
ऊर्ध्वं रसस्य स स्थाने तिष्ठन्नुरसि पीड्यते ॥
उदानेन संजस्तत्र कण्ठे चानुप्रपूर्य च ।
वाहिनीर्गलमूर्धस्थास्ततो ऽङ्गान्युत्क्षिपन्निव ॥
क्षिपन्निवाक्षिणी पृष्ठमुरःपार्श्वे च पीडयन् ।
विवृतत्वान्मुखेनैति भिन्नकांस्योपमध्वनिः ॥
यस्मात्तस्मात्स वर्णैजोबलमांसक्षयावहः ॥
हेतुभेदात् प्रतीघातभेदो वायोः संरहसः ।
यद्रुजाशब्दवैषम्यं कासानां जायते ततः ॥
कुपितो वातलैर्वायुः शुष्कोरःकण्ठवक्त्रताम् ।
हृत्पार्श्वोरःशिरःशूलं मोहक्षोभस्वरक्षयान् ॥
करोति शुष्ककासं च महावेगरुजास्वनम् ।
सो ऽङ्गहर्षी कफं शुष्कं कृच्छ्रान्मुक्त्वाल्पतां व्रजेत् ॥
पित्तात् पीताक्षिकफता तिक्तास्यत्वं ज्वरो भ्रमः ।
पित्तासृग्वमनं तृष्णा वैस्वर्यं धूमको मदः ॥
प्रततं कासवेगेन ज्योतिषामिव दर्शनम् ।
कफादुरो ऽल्परुङ्मूर्धहृदयं स्तिमितं गुरु ॥
कण्ठोपलेपः सदनं पीनसच्छर्द्यरोचकाः ।
रोमहर्षो घनस्निग्धश्वेतश्लेष्मप्रवर्तनम् ॥
युद्धाद्यैः साहसैस्तैस्तैः सेवितैरयथाबलम् ।
उरस्यन्तःक्षते वायुः पित्तेनानुगतो बली ॥
कुपितः कुरुते कासं कफं तेन सशोणितम् ।
पीतं श्यावं च शुष्कं च ग्रथितं कुथितं बहु ॥
ष्ठीवेत् कण्ठेन रुजता विभीन्नेनेव चोरसा ।
सूचीभिरिव तीक्ष्णाभिस्तुद्यमानेन शूलिना ॥
पर्वभेदज्वरश्वासतृष्णावैस्वर्यकम्पवान् ।
पारावत इवाकूजन् पार्श्वशूली ततो ऽस्य च ॥
क्रमाद्वीर्यं रुचिः पक्तिर्बलं वर्णश्च हीयते ।
पक्षीणस्य सासृङ्मूत्रत्वं स्याच्च पृष्ठकटीग्रहः ॥
वायुप्रधानाः कुपिता धातवो राजयक्ष्मिणः ।
कुर्वन्ति यक्ष्मायतनैः कासं ष्ठीवेत् कफं ततः ॥
पूतिपूतोपमं पीतं विस्रं हरितलोहितम् ।
लुप्येत इव पार्श्वे च हृदयं पततीव च ॥
अकस्मादुष्णशीतेच्छा बह्वाशित्वं बलक्षयः ।
स्निग्धप्रसनवक्त्रत्वं श्रीमद्दशननेत्रता ॥
ततो ऽस्यक्षयरूपाणि सर्वाण्याविर्भवन्ति च ॥
इत्येष क्षयजः कासः क्षीणानां देहनाशनः ।
याप्यो वा बलिनां तद्वत् क्षतजो ऽभिनवौ तु तौ ॥
सिध्येतामपि सानाथ्यात् साध्या दोषैः पृथक् त्रयः ।
मिश्रा याप्या द्वयात्सर्वे जरसा स्थविरस्य च ॥
कासाच्छ्वासक्षयछर्दिस्वरसादादयो गदाः ।
भवन्त्युपेक्षया यस्मात्तस्मात्तं त्वरया जयेत् ॥
मूल पाठ: Aṣṭāṅgasaṃgraha · Edition: e-text by SARIT · SARIT: Search and Retrieval of Indic Texts · SARIT (e-text) via Internet Archive · CC BY-SA 3.0