भाषा

ENहिગુ
ग्रंथ पाठ

अष्टाङ्गसंग्रह · अध्याय 3.2

3.2.1

अथातो ज्वरनिदानं व्याख्यास्यामाः ।
इति ह स्माहुरात्रेयादयो महर्षयः ॥

3.2.2

अष्टाभिः कारणैर्ज्वरः सञ्जायते मनुष्याणां पृथग्दोषैः संसृष्टैः सन्निपतितैरागन्तुना च ॥

3.2.3

तत्र यथोक्तैः प्रकोपणविशेषैः प्रकुपिता दोषाः प्रविश्यामाशयमूष्मणा मिश्रीभूयाममनुगम्य रसस्वेदवाहीनि स्रोतांसि पिधाय पित्तं तु द्रवत्वात्तप्तमिव जलमनलमुपहत्य सर्वे ऽपि च दोषाः पक्तारं स्वस्थानाद्बहिर्निरस्य सह तेन सकलमपि शरीरमभिसर्पन्तः तत्सम्पर्काल्लब्धबलेन स्वेनोष्मणा नितरां देहोष्माणमेधयन्तो ऽन्तस्स्रोतोमुखपिधानात् स्तम्भमादधाना बहिरपि स्वेदमपहरन्तः सर्वेन्द्रियाणि चोपतापयन्तो ज्वरमभिनिर्वर्तयन्ति ॥

3.2.4

तस्येमानि पूर्वरूपाणि मुखवैरस्यमन्नानभिलाषो गुरुगात्रत्वमालस्यमल्पप्राणता गतिस्खलनं निद्राधिक्यमरतिरसूया हितोपदेशेषु प्रद्वेषो बालेषु मधुरेषु च भक्ष्येष्वम्ललवणकटुकाभिनन्दनमविपाके ऽङ्गमर्दश्चक्षुषोराकुलत्वं साश्रुता जृम्भा विनामः क्लमो रोमहर्षः शब्दानलाम्बुशीतवातच्छायातपेष्वकस्मादिच्छाद्वेषौ च ।
तदनन्तरं व्यक्तीभावो ज्वरस्येति ।
भवति चात्र ॥

3.2.5

आगमापगमक्षोभमृदुता वेदनोष्मणाम् ।
वैषम्यं तत्र तत्राङ्गे तास्ताः स्युर्वेदनाश्चलाः ॥

3.2.6

पादयोः सुप्तता स्तम्भः पिण्डिकोद्वेष्टनं क्लमः ।
विश्लेष इव सन्धीनां साद ऊर्वोः कटीग्रहः ॥

3.2.7

पृष्ठं क्षोदमिवाप्नोति निष्पीड्यत इवोदरम् ।
भिद्यन्त इव चास्थीनि पार्श्वगानि विशेषतः ॥

3.2.8

हृदयस्य ग्रहस्तोदः प्राजनेनेव वक्षसः ।
स्कन्धयोर्मथनं बाह्वोर्भेदः पीडनमंसयोः ॥

3.2.9

अशक्तिर्भक्षणे हन्वोर्जृम्भणं कर्णयोः स्वनः ।
निस्तोदःशङ्खयोर्मूर्ध्नि वेदना विरसास्यता ॥

3.2.10

कषायास्यत्वमथवा मलानामप्रवर्तनम् ।
रूक्षारुणत्वगास्याक्षिनखमूत्रपुरीषता ॥

3.2.11

प्रसेकारोचकाश्रद्धाविपाकास्वेदजागराः ।
कण्ठौष्ठशोषस्तृट्शुष्कौ छर्दिकासौ विषादिता ॥

3.2.12

हर्षो रोमाङ्गदन्तेषु वेपथुः क्षवथोर्ग्रहः ।
भ्रमः प्रलापो घर्मेच्छा विनामश्चानिलज्वरे ॥

3.2.13

युगपद्व्याप्तिरङ्गानां प्रलापः कटुवक्त्रता ।
नासास्यपाकः शीतेच्छा भ्रमो मूर्छा मदो ऽरतिः ॥

3.2.14

विट्स्रंसः पित्तवमनं रक्तष्ठीवनमम्लकः ।
रक्तकोठोद्गमः पीतहरितत्वं त्वगादिषु ॥

3.2.15

स्वेदो निश्वासवैगन्ध्यमतितृष्णा च पित्तजे ॥

3.2.16

विशेषादरुचिर्जाड्यं स्रोतोरोधो ऽल्पवेगता ।
प्रसेको मुखमाधुर्यं हृल्लेपश्वासपीनसाः ॥

3.2.17

हृल्लासश्छर्दनं कासः स्तम्भः श्वैत्यं त्वगादिषु ॥

3.2.18

अङ्गेषु शीतपिटकास्तन्द्रोदर्दः कफोद्भवे ॥

3.2.19

काले यथास्वं सर्वेषां प्रवृत्तिर्वृद्धिरेव वा ।
निदानोक्तानुपशयो विपरीतोपशायिता ॥

3.2.20

यथास्वं लिङ्गसंसर्गे ज्वरः संसर्गजो ऽपि च ॥

3.2.21

शिरो ऽर्तिमूर्छावमिदाहमोहकण्ठास्यशोषारतिपर्वभेदाः ।
उन्निद्रतातृड्भ्रमरोमहर्षा जृम्भातिवाक्त्वं च चलात् सपित्तात् ॥

3.2.22

तापहान्यरुचिपर्वशिरोरुक्पीनसश्वसनकासविबन्धाः ।
शीतजाड्यतिमिरभ्रमतन्द्राः श्लेष्मवातजनितज्वरलिङ्गम् ॥

3.2.23

शीतस्तम्भस्वेददाहाव्यवस्था तृष्णा कासः श्लेष्मपित्तप्रवृत्तिः ।
मोहस्तन्द्रा लिप्ततिक्तास्यता च ज्ञेयं रूपं श्लेष्मपित्तज्वरस्य ॥

3.2.24

सर्वजो लक्षणैः सर्वैर्वाहो ऽत्र च मुहुर्मुहुः ।
तद्वच्छीतं महानिद्रा दिवा जागरणं निशि ॥

3.2.25

सदा वा नैव वा निद्रा मुहुः स्वेदो ऽति नैव वा ।
गीतनर्तनहास्यादिविकृतेहाप्रवर्तनम् ॥

3.2.26

सस्रुती कलुषे रक्ते भुग्ने लुलितपक्ष्मणी ।
अक्षिणी पिण्डिकापार्श्वमूर्धपर्वास्थिरुग्भ्रमः ॥

3.2.27

सत्वनौ सरुजौ कर्णौ कण्ठः शूकैरिवावृतः ।
परिदग्धा खरा जिह्वा गुरुस्रस्ताङ्गसन्धिता ॥

3.2.28

रक्तपित्तकफष्ठीवो लोलनं शिरसो ऽतितृट् ।
कोठानां श्यावरक्तानां मण्डलानां च दर्शनम् ॥

3.2.29

हृद्व्यथा मलसंसर्ङ्गः प्रवृत्तिर्वाल्पशो ऽति वा ।
स्निग्धास्यता बलभ्रंशः स्वरसादः प्रलापिता ॥

3.2.30

दोषपाकश्चिरात्तन्द्रा प्रततं कण्ठकूजनम् ।
सन्निपातमभिन्यासं तं ब्रूयाच्च हृतौजसम् ॥

3.2.31

वायुना कफरुद्धेन पित्तमन्तः प्रपीडितम् ।
व्यवायित्वाच्च सौक्ष्म्याच्च बहिर्मर्गं प्रवर्तते ॥

3.2.32

तेन हारिद्रनेत्रत्वं सन्निपातोद्भवे ज्वरे ।
दोषे विबद्धे नष्टे ऽग्नौ सर्वसम्पूर्णलक्षणः ॥

3.2.33

असाध्यः सो ऽन्यथा कृच्छ्रो भवेद्वैकल्यदो ऽपि वा ॥

3.2.34

अन्यच्च सन्निपातोत्थो यत्र पित्तं पृथक्स्थितम् ।
त्वचि कोष्ठे ऽथवा दाहं विदधाति पुरो ऽनु वा ॥

3.2.35

तद्वद्वातकफौ शीतं दाहादिर्दुस्तरस्तयोः ॥

3.2.36

शीतादौ तत्र पित्तेन कफे स्यन्दितशोषिते ।
शीते शान्ते ऽम्लको मूर्च्छा मदस्तृष्णा च जायते ॥

3.2.37

दाहादौ पुनरन्ते स्युस्तन्द्राष्ठीववमिक्लमाः ॥

3.2.38

आगन्तुरभिघाताभिषङ्गशापाभिचारतः ।
चतुर्धात्र क्षतच्छेददाहाद्यैरभिघातजः ॥

3.2.39

श्रमाच्च तस्मिन् पवनः प्रायो रक्तं प्रदूषयन् ।
सव्यथाशोफवैवर्ण्यं सरुजं कुरुते ज्वरम् ॥

3.2.40

ग्रहावेशौषधिविषक्रोधभीशोककामजः ।
अभिषङ्गाद् ग्रहेणास्मिन्नकस्माद्धासरोदने ॥

3.2.41

औषधीगन्धजे मूर्छा शिरोरुक् श्वयथुः क्षवः ।
विषान्मूर्छातिसारास्यश्यावतादाहहृद्गदाः ।

3.2.42

क्रोधात् कम्पः शिरोरुक् च प्रलापो भयशोकजे ।
कामान्मोहो ऽरुचिर्दाहोद्रीनिद्राधधृतिक्षयः ॥

3.2.43

ग्रहादौ सन्निपातस्य भयादौ मरुतस्त्रये ।
कोपः क्रोधे तु पित्तस्य यौ तु शापाभिचारजौ ।
सन्निपातज्वरौ घोरौ तावसह्यतमौ मतौ ॥

3.2.44

तत्राभिचारिकैर्मन्त्रैर्हूयमानस्य तप्यते ।
पूर्वं चेतस्ततो देहस्ततो विस्फोटतृड्भ्रमैः ॥

3.2.45

सदाहमूर्छर्ग्रस्तस्य प्रत्यहं वर्धते ज्वरः ।
इति ज्वरो ऽष्टधा दृष्टः समासाद्द्विविधस्तु सः ॥

3.2.46

शारीरो मानसःसौम्यस्तीक्ष्णो ऽन्तर्बहिराश्रयः ।
प्राकृतो वैकृतःसाध्यो ऽसाध्यःसामो निरामकः ॥

3.2.47

पूर्वं शरीरे शारीरे तापो मनसि मानसे ।
पवने योगवाहित्वाच्छीतं श्लेष्मयुते भवेत् ॥

3.2.48

दाहः पित्तयुते मिश्रं मिश्रे अन्तः संश्रये पुनः ।
ज्वरेधिकं विकाराः स्युरन्तःक्षोभो मलग्रहः ॥

3.2.49

बहिरेव बहिर्वेगे तापो ऽपि च सुसाध्यता ॥

3.2.50

वर्षाशरद्वसन्तेषु वाताद्यैः प्राकृतः क्रमात् ।
वैकृतो ऽन्यःसदुः साध्यः प्रायश्च प्राकृतो ऽनिलात् ॥

3.2.51

एकमार्गक्रियारम्भव्यतिवृत्तेर्महात्ययात् ॥

3.2.52

वर्षासु मारुतो दुष्टः पित्तश्लेष्मान्वितो ज्वरम् ।
कुर्यात् पित्तं च शरदि तस्य चानुबलः कफः ॥

3.2.53

तत्प्रकृत्या विसर्गाच्च तत्र नानशनाद्भयम् ।
कफो वसन्ते तमपि बातपित्तं भवेदनु ॥

3.2.54

बलवत्स्वल्पदोषेषु ज्वरः साध्यो ऽनुपद्रवः ।
सर्वथा विकृतिज्ञाने प्रागसाध्य उदाहृतः ॥

3.2.55

ज्वरोपद्रवतीक्ष्णत्वमग्लानिर्बहुमूत्रता ।
न प्रवृत्तिर्न विड्जीर्णा न क्षुत्सामज्वराकृतिः ॥

3.2.56

ज्वरेगो ऽधिकं तृष्णा प्रलापः श्वसनं भ्रमः ।
मलप्रवृत्तिरुत्क्लेशः पच्यमानस्य लक्षणम् ॥

3.2.57

जीर्णतामविपर्यासात् सप्तरात्रं च लङ्घनात् ॥

3.2.58

ज्वरः पञ्चविधः प्रोक्तो मलकालबलाबलात् ।
प्रायः स सन्निपातेन भूयसा त्वपदिश्यते ॥

3.2.59

सन्ततः सततो ऽन्येद्युस्तृतीयकचतुर्थकौ ॥

3.2.60

धातुमूत्रशकृद्वाहिस्रोतसां व्यापिनो मलाः ।
तापयन्तस्तनुं सर्वां तुल्यदूष्यादिवर्धिताः ॥

3.2.61

बलिनो गुरवः स्तब्धा विशेषेण रसाश्रिताः ।
सन्ततं निष्प्रतिद्वन्दा ज्वरं कुर्युः सुदुस्सहम् ॥

3.2.62

मलाञ्ज्वरोष्मा धातून् वा स शीघ्रं क्षपयस्ततः ।
सर्वाकारं रसादीनां शुध्याशुध्यापि वा क्रमात् ॥

3.2.63

वातपित्तकफेः सप्त दश द्वादशवासरान् ।
प्रायो ऽनुयाति मर्यादां मोक्षाय च वधाय च ॥

3.2.64

इत्यग्निवेशस्य मतं हारीतस्य पुनः स्मृतिः ॥

3.2.65

द्विगुणा सप्तमी यावन्नवम्येकादशी तथा ।
एषा त्रिदोषमर्यादा मोक्षाय च वधाय च ॥

3.2.66

शुध्यशुद्धौ ज्वरः कालं दीर्घमप्यनुवर्तते ॥

3.2.67

कृशानां व्याधिमुक्तानां मिथ्याहारादिसेविनाम् ।
अल्पो ऽपि दोषो दूष्यादेर्लब्ध्वान्यतमतो बलम् ॥

3.2.68

सप्रत्यनीको विषमं कुर्याद्वृद्धिक्षयान्वितः ॥

3.2.69

सूक्ष्मसूक्ष्मतरास्येषु दूरदूरतरेषु च ।
दोषो रक्तादिमार्गेषु शनैरल्पश्चिरेण यत् ॥

3.2.70

याति देहं च नाशेषं भूयिष्ठं भेषजे ऽपि च ।
क्रमो ऽयं तेन विच्छिन्नसन्तापो लक्ष्यते ज्वरः ॥

3.2.71

विषमो विषमारम्भक्रियाकालो ऽनुषङ्गवान् ॥

3.2.72

यथोत्तरं मन्दगतिर्मन्दशक्तिर्यथा यथा ।
कालेनाप्नोति सदृशान् स रसादींस्तथा तथा ॥

3.2.73

दोषो ज्वरयति क्रुद्धश्चिराच्चिरतरेण च ॥

3.2.74

भूमौ स्थितं जलैः सिक्तं कालमेव प्रतीक्षते ।
अङ्कुराय यथा बीजं दोषबीजं रुजे तथा ॥

3.2.75

वेगं कृत्वा विषं यद्वदाशये लीयते ऽबलम् ।
कुप्यत्याप्तबलं भूयः काले दोषविषं तथा ॥

3.2.76

एवं ज्वराः प्रवर्तन्ते विषमाः सततादयः ॥

3.2.77

दोषः प्रवर्तते तेषां स्वे काले ज्वरयन् बली ।
निवर्तते पुनश्चैष प्रत्यनीकबलाबलः ॥

3.2.78

क्षीणे दोषे ज्वरः सूक्ष्मो रसादिष्वेव लीयते ।
लीनत्वात् कार्श्यवैवर्ण्यजाड्यादीनादधाति सः ॥

3.2.79

अतिलीनो ऽतिमन्दत्वात् भवत्यह्नि न पञ्चमे ॥

3.2.80

दोषो रक्ताश्रयः प्रायः करोति सततं ज्वरम् ॥

3.2.81

अहोरात्रस्य स द्विः स्यात्सकृदन्येद्युराश्रितः ॥

3.2.82

तस्मिन्मांसवहा नाडीर्मेदोनाडीस्तृतीयके ।
ग्राही पित्तानिलान्मूर्ध्नस्त्रिकस्य कफपित्ततः ॥

3.2.83

स पृष्ठस्यानिलकफात् स चैकाहान्तरः स्मृतः ॥

3.2.84

चतुर्थको मले मेदोमज्जास्थ्यन्यतमस्थिते ।
मज्जस्थ एवेत्यपरे प्रभावं स तु दर्शयेत् ॥

3.2.85

द्विधा कफेन जङ्घाभ्यां प्रथमं शिरसो ऽनिलात् ।
गम्भीरधातुचारित्वात् सनिपातेन सम्भवात् ॥

3.2.86

तुल्योच्छ्रायाच्च दोषाणां दुश्चिकित्स्यश्चतुर्थकः ॥

3.2.87

अस्थिमज्जोमयगते चतुर्थकविपर्ययः ।
त्रिधा द्व्यहं ज्वरयति दिनमेकं तु मुञ्चति ॥

3.2.88

बलाबलेन दोषाणामन्नचेष्टादिजन्मना ।
ज्वरः स्यान्मनसस्तद्वत्कर्मणश्च तदा तदा ॥

3.2.89

उत्क्लेशो गौरवं दैन्यं भङ्गो ऽङ्गानां विजृम्भणम् ।
अरोचको वमिः सादः सर्वस्मिन् रसगे ज्वरे ॥

3.2.90

रक्तनिष्ठीवनं तृष्णा रक्तोष्णपिटकोद्गमः ।
दाहरागभ्रममदप्रलापा रक्तसंश्रिते ॥

3.2.91

तृड् ग्लानिः सृष्टवर्चस्त्वमन्तर्दाहो भ्रमस्तमः ।
दौर्गन्ध्यं गात्रविक्षेपो मांसस्थे मेदसि स्थिते ॥

3.2.92

स्वेदो ऽतितृष्णा वमनं स्वगन्धस्यासहिष्णुता ।
प्रलापो ग्लानिररुचिरस्थिस्थे त्वस्थिभेदनम् ॥

3.2.93

दोषप्रवृत्तिरूर्ध्वाधः श्वासाङ्गक्षेपकूजनम् ।
अन्तर्दाहो बहिःशैत्यं श्वासो हिध्मा च मज्जगे ॥

3.2.94

तमसो दर्शनं मर्मच्छेदनं स्तब्धमेढ्रता ।
शुक्रप्रवृत्तिर्मृत्युश्च जायते शुक्रसंश्रये ॥

3.2.95

उत्तरोत्तरदुस्साध्याः पञ्चात्रान्त्यौ तु वर्जयेत् ।
प्रलिम्पन्निव गात्राणि श्लेष्मणा गौरवेण च ॥

3.2.96

मन्दज्वरः प्रलेपस्तु सशीतः स्यात्प्रलेपकः ।
नित्यं मन्दज्वरो रूक्षः शीतः कृच्छ्रेण सिध्यति ॥

3.2.97

स्तब्धाङ्गः श्लेष्मभूयिष्ठो भवेद्वातबलासकः ।
हरिद्राभेकवर्णाभस्तद्वर्णं यः प्रमेहति ॥

3.2.98

स वै हारिद्रको नाम ज्वरभेदो ऽन्तकः स्मृतः ।
कफवातौ समौ यस्य हीनपित्तस्य देहिनः ॥

3.2.99

तीक्ष्णो वा यदि वा मन्दो जायते रात्रिकोज्वरः ।
दिवाकरापीतबले व्यायामाच्च विशोषिते ॥

3.2.100

शरीरे नियतं वाताज्ज्वरः स्यात् पूर्वरात्रिकः ।
आमाशये यदा दुष्टे श्लेष्मपित्ते व्यवस्थिते ॥

3.2.101

तदार्धं शीतलं देहे स्वर्धज्चोष्णं प्रजायते ।
काये पित्तं यदा दुष्टं श्लेष्मा चान्ते व्यवस्थितः ॥

3.2.102

उष्णत्वं तेन देहस्य शीतत्वं करपादयोः ॥

3.2.103

धातून् प्रक्षोभयन् दोषो मोक्षकाले विलीयते ।
ततो नरः श्वसन् स्विद्यन् कूजन् वमति चेष्टते ॥

3.2.104

वेपते प्रलपत्युष्णैः शीतैश्चाङ्गैर्हतप्रभः ।
विसंज्ञो ज्वरवेगार्तः सक्रोध इव वीक्षते ॥

3.2.105

सदोषशब्दञ्च शकृद् द्रवं सृजति वेगवत् ॥

3.2.106

देहो लघुर्व्यपगतक्लमममोहतापः पाको मुखे करणसौष्ठवमव्यथत्वम् ।
स्वेदः क्षवः प्रकृतियोगि मनो ऽन्नलिप्सा कण्डूश्च मूर्ध्नि विगतज्वरलक्षणानि ॥

मूल पाठ: Aṣṭāṅgasaṃgraha · Edition: e-text by SARIT · SARIT: Search and Retrieval of Indic Texts · SARIT (e-text) via Internet Archive · CC BY-SA 3.0

Esc