भाषा

ENहिગુ
ग्रंथ पाठ

अष्टाङ्गसंग्रह · अध्याय 3.15

3.15.1

अथातो वातव्याधिनिदानं व्याख्यास्यामः ।
इति ह स्माहुरात्रेयादयो महर्षयः ॥

3.15.2

सर्वार्थानर्थकरणे विश्वस्यास्यैककारणम् ।
अदुष्टदुष्टः पवनः शरीरस्य विशेषतः ॥

3.15.3

स विश्वकर्मा विश्वात्मा विश्वरूपः प्रजापतिः ।
स्रष्टा धाता विभुर्विष्णुः संहर्ता मृत्युरन्तकः ॥

3.15.4

तददुष्टौ प्रयत्नेन यतितव्यमतः सदा ।
तस्योक्तं दोषविज्ञाने कर्म प्राकृतवैकृतम् ॥

3.15.5

समासाद्व्यासतो दोषभेदीये नाम धाम च ।
प्रत्येकं पञ्चधा चारो व्यापारश्चेह वैकृतम् ॥

3.15.6

तस्योच्यते विभागेन सनिदानं सलक्षणम् ।
असङ्ख्यमपि सङ्ख्यायै यदशीत्या पुरेरितम् ॥

3.15.7

धातुक्षयकरैर्वायुः कुप्यत्यतिनिषोवितैः ।
चरन् स्रोतःसु रिक्तेषु भृशं तान्येव पूरयन् ॥

3.15.8

तेभ्यो ऽन्यदोषपूर्णेभ्यः प्राप्य वावरणं बली ।
तत्र पक्वाशयं क्रुद्धः शूलानाहान्त्रकुजनम् ॥

3.15.9

मलरोधाश्मवर्ध्मार्शस्त्रिकपृष्ठकटीग्रहम् ।
करोत्यधरकाये च तांस्तान् कृच्छ्रानुपद्रवान् ॥

3.15.10

आमाशये तृड्वमथुश्वासकासविषूचिकाः ।
कण्ठोपरोधमुद्गारान् व्याधीनूर्ध्वं च नाभितः ॥

3.15.11

श्रोत्रादिष्विन्द्रियवधं त्वचि स्फुटनरूक्षते ।
रक्ते तीव्रां रुजां स्वापं तापं रागं विवर्णताम् ॥

3.15.12

अरुंष्यन्नस्य विष्टम्भमरुचिं कृशतां भ्रमम् ।
मांसमेदोगतो ग्रन्थींस्तोदाढ्यान् कर्कशान् भ्रमम् ॥

3.15.13

गुर्वङ्गं चातिरुक् स्तब्धं मुष्टिदण्डहतोपमम् ।
अस्थिस्थः सक्थिसन्ध्यस्थिशूलं तीव्रं बलक्षयम् ॥

3.15.14

मज्जस्थो ऽस्थिषु सौषिर्यमस्वप्नं सन्ततं रुजम् ।
शुक्रस्य शीघ्रमुत्सर्गं सङ्गं विकृतिमेव वा ॥

3.15.15

तद्वद्गर्भस्य शुक्रस्थः सिरास्वाध्मानरिक्तते ।
तत्स्थः स्नावस्थितः कुर्यात्गृध्रस्यायामकुब्जताः ॥

3.15.16

वातपूर्णदृतिस्पर्शं शोफं सन्धिगतो ऽनिलः ।
प्रसारणाकुञ्चनयोः प्रवृत्तिं च सवेदनाम् ॥

3.15.17

सर्वाङ्गसंश्रयस्तोदभेदस्फुरणभञ्जनम् ।
स्तम्भनाक्षेपणस्वापसन्ध्याकुञ्चनकम्पनम् ॥

3.15.18

यदा तु धमनीः सर्वाः क्रुद्धो ऽभ्येति मुहुर्मुहुः ।
तदाङ्गमाक्षिपत्येष व्याधिराक्षेपकः स्मृतः ॥

3.15.19

अधःप्रतिहतो वायुर्व्रजन्नूर्ध्वं हृदाश्रिताः ।
नाडीः प्रविश्य हृदयं शिरः शङ्खौ च पीडयन् ॥

3.15.20

आक्षिपेत् परितो गात्रं धनुर्वच्चास्य नामयेत् ।
कृच्छ्रादुच्छ्वसिति स्तब्धस्रस्तमीलितदृक् ततः ॥

3.15.21

कपोत इव कूजेच्च निस्संज्ञः सो ऽपतन्त्रकः ॥

3.15.22

स एव चापतानाख्यो मुक्ते तु मरुता हृदि ।
अश्नुवीत मुहुः स्वास्थ्यं मुहुरस्वास्थ्यमावृते ॥

3.15.23

गर्भपातसमुत्पन्नः शोणितातिस्रवोत्थितः ।
अभिघातसमुत्थश्च दुश्चिकित्स्यतमो हि सः ॥

3.15.24

मन्ये संस्तभ्य वातो ऽन्तरायच्छन् धमनीर्यदा ।
व्याप्नोति सकलं देहं जत्रुरायम्यते तदा ॥

3.15.25

अन्तर्धनुरिवाङ्गं च वेगैः स्तम्भं च नेत्रयोः ।
करोति जृम्भां दशनं दशनानां कफोद्वमम् ॥

3.15.26

पार्श्वयोर्वेदनां वाक्यहनुपृष्ठशिरोग्रहत् ।
अन्तरायाम इत्येष बाह्यायामश्च तद्विधः ॥

3.15.27

देहस्यबहिरायामात् पृष्ठतो ह्रियते शिरः ।
उरश्चेत्क्षिप्यते तत्र कन्धरा चावमृद्यते ॥

3.15.28

दन्तेष्वास्ये च वैवर्ण्यं प्रस्वेदः स्तब्धगात्रता ।
बाह्यायामं धनुष्कम्पं ब्रुवते वेगिनं च तम् ॥

3.15.29

व्रणं मर्माश्रितं प्राप्य समीरणसमीरणात् ।
व्यायच्छन्ति तनुं दोषाः सर्वामापादमस्तकम् ॥

3.15.30

तृष्यतः पाण्डुगात्रस्य व्रणायामः स वर्जितः ।
गते वेगे भवेत् स्वास्थ्यं सर्वेष्वाक्षेपकेषु तु ॥

3.15.31

जिह्वातिलेखनाच्छुष्कभक्षणादभिघाततः ।
कुपितो हनुमूलस्थः स्रंसयित्वानिलो हनू ॥

3.15.32

करोति विवृतास्यत्वमथवा संवृतास्यताम् ।
हनुस्रंसः स तेन स्यात् कृच्छ्राच्चर्वणभाषणम् ॥

3.15.33

वाग्वाहिनीसिरासंस्थो जिह्वां स्तम्भयते ऽनिलः ।
जिह्वास्तम्भः स तेनान्नपानवाक्येष्वनीशता ॥

3.15.34

शिरसा भारभरणादतिहास्यप्रभाषणात् ।
उत्त्रासवक्रक्षवथुखरकार्मुककर्षणात् ॥

3.15.35

विषमादुपधानाच्च कठिनानां च चर्वणात् ।
वायुर्विवृद्धस्तैस्तैश्च वातलैरूर्ध्वमास्थितः ॥

3.15.36

वक्रीकरोति वक्त्रार्धमुक्तं हसितमीक्षितम् ।
ततो ऽस्य कम्पते मुर्धा वाक्सङ्गः स्तब्धनेत्रता ॥

3.15.37

दन्तचालः स्वरभ्रंशः श्रुतिहानिः क्षवग्रहः ।
गन्धाज्ञानं स्मृतेर्मोषस्त्रासः सुप्तस्य जायते ॥

3.15.38

निष्ठीवः पार्श्वतो यायादेकस्याक्ष्णोर्निमीलनम् ।
जत्रोरूर्धवं रुजास्तीव्राः शरीरार्धे ऽधरे ऽपि वा ॥

3.15.39

तमाहुरर्दितं केचिदेकायाममथापरे ।
रक्तमाश्रित्य पवनः कुर्यान्मूर्धधराः सिराः ॥

3.15.40

रूक्षाः सवेदनाः कृष्णाः सो ऽसाध्यः स्यात् सिराग्रहः ।
गृहीत्वार्धं तनोर्वायुः सिराः स्नायूर्विशोष्य च ॥

3.15.41

पक्षमन्यतरं हन्ति सन्धिबन्धान् विमोक्षयन् ।
कृत्स्नो ऽर्धकायस्तस्य स्यादकर्मण्यो विचेतनः ॥

3.15.42

एकाङ्गरोगं तं केचिदन्ये पक्षवधं विदुः ।
सर्वाङ्गरोगं तद्वच्च सर्वकायाश्रिते ऽनिले ॥

3.15.43

शुद्धवातहतः पक्षः कृच्छ्रसाध्यतमो मतः ।
कृच्छ्रस्त्वन्येन संसृष्टो विवर्ज्यः क्षतहेतुकः ॥

3.15.44

आमबद्धायनः कुर्यात् संस्तभ्याङ्गं कफान्वितः ।
असाध्यं हतसर्वेहं दण्डवद्दण्डकं मरुत् ॥

3.15.45

अंसमूलस्थितो वायुः सिराः सङ्कोच्य तत्रगाः ।
बाहुप्रस्पन्दितहरं जनयत्यपवाहुकम् ॥

3.15.46

तलं प्रत्यङ्गुलीनां या कण्डरा बाहुपृष्ठतः ।
बाहुचेष्टापहरणी विश्वाची नाम सा स्मृता ॥

3.15.47

वायुःकट्यां स्थितः सक्थ्नः कण्डरामाक्षिपेद्यदा ।
तदा खञ्जो भवेज्जन्तुः पङ्गुः सक्थ्नोर्द्वयोरपि ॥

3.15.48

कम्पते गमनारम्भे खञ्जन्निव च याति यः ।
कलायखञ्जं तं विद्यान्मुक्तसन्धिप्रबन्धनम् ॥

3.15.49

शीतोष्णद्रवसंशुष्कगुरुस्निग्धैर्निषेवितैः ।
जीर्णाजीर्णे तथायाससङ्क्षोभस्वप्नजागरैः ॥

3.15.50

सश्लेष्ममेदःपवनमाममत्यर्थसञ्चितम् ।
अभिभूयेतरं दोषमुरू चेत् प्रतिपद्यते ॥

3.15.51

सक्थ्यास्थना प्रपूर्यान्तः श्लेष्मणा स्तिमितेन तत् ।
तदा स्तभ्नाति तेनोरू स्तब्धौ शीतावचेतनौ ॥

3.15.52

परकीयाविव गुरू स्यातामतिभृशव्यथौ ।
ध्यानाङ्गमर्दस्तैमित्यतन्द्राच्छर्द्यरुचिज्वरैः ॥

3.15.53

संयुतः पादसदनकृच्छ्रोद्धरणसुप्तिभिः ।
तमूरुस्तम्भमित्याहुराढ्यवातमथापरे ॥

3.15.54

वातशोणितजः शोफो जानुमध्ये महारुजः ।
ज्ञेयः क्रोष्टुकणीर्षस्तु स्थूलः क्रोष्टुकशीर्षवत् ॥

3.15.55

रुक् पादे विषमन्यस्ते श्रमाद्वा जायते यदा ।
वातेन गुल्फमाश्रित्य तमाहुर्वातकण्टकम् ॥

3.15.56

पार्ष्णि प्रत्यङ्गुलीनां या कण्डरा मारुतार्दिता ।
सक्थ्युत्क्षेपं निगृह्णाति गृध्रसीं तां प्रचक्षते ॥

3.15.57

विश्वाची गृद्ध्रसी चोक्ता खल्ली तीव्ररुजान्विता ।
हृष्येते चरणौ यस्य भ्वेतां च प्रसुप्तवत् ॥

3.15.58

पादहर्षः स विज्ञेयः कफमारुतकोपजः ।
पादयोः कुरुते दाहं पित्तासृकसहितो ऽनिलः ॥

3.15.59

विशेषतश्चङ्क्रमिते पाददाहं तमादिशेत् ॥

मूल पाठ: Aṣṭāṅgasaṃgraha · Edition: e-text by SARIT · SARIT: Search and Retrieval of Indic Texts · SARIT (e-text) via Internet Archive · CC BY-SA 3.0

Esc