भाषा

ENहिગુ
ग्रंथ पाठ

अष्टाङ्गसंग्रह · अध्याय 3.14

3.14.1

अथातः कुष्ठश्वित्रकृमिनिदानं नामाध्यायं व्याख्यास्यामः ।
इति ह स्माहुरात्रेयादयो महर्षयः ॥

3.14.2

मिथ्याहारविहारेण विशेषेण विरोधिना ।
साधुनिन्दावधान्यस्वहरणाद्यैश्च सेवितैः ॥

3.14.3

पाप्मभिः कर्मभिः सद्यः प्राक्तनैर्वेरिता मलाः ।
सिराः प्रपद्य तिर्यग्गास्त्वग्लसीकासृगामिषम् ॥

3.14.4

दूषयन्तः श्लथीकृत्य निश्चरन्तस्ततो बहिः ।
त्वचः कुर्वन्ति वैवर्ण्यं दुष्टाः कुष्ठमुशन्ति तत् ॥

3.14.5

कालेनोपेक्षितं यस्मात् सर्वं कुष्णाति तद्वपुः ।
प्रपद्य धातून्व्याप्यान्तः सर्वान्सङ्क्लेद्यचावहेत् ॥

3.14.6

सस्वेदक्लेदसङ्कोथान् कृमीन् सूक्ष्मान् सुदारुणान् ।
लोमत्वक्स्नायुधमनीतरुणास्थीनि यैः क्रमात् ॥

3.14.7

भक्षयेत् श्वित्रमस्माच्च कुष्ठबाह्यमुदाहृतम् ।
कुष्ठानि सप्तधा दोषैः पृथङ्मिश्रैः समागतैः ॥

3.14.8

सर्वेष्वपि त्रिदोषेषु व्यपदेशो ऽधिकत्वतः ।
वातेन कुष्ठं कापालं पित्तादौदुम्बरं कफात् ॥

3.14.9

मण्डलाख्यं विचर्ची च ऋष्याख्यं वातापित्तजम् ।
चर्मैककुष्ठकिटिभसिध्मालसविपादिकाः ॥

3.14.10

वातश्लेष्मोद्भवाः श्लेष्मपित्ताद्दद्रुशतारुषी ।
पुण्डरीकं सविस्फोटं पामा चर्मदलं तथा ॥

3.14.11

सर्वैः स्यात् काकणं पूर्वं त्रिकं दद्रु सकाकणम् ।
पुण्डरीकर्ष्यजिह्वे च महाकुष्ठानि सप्त तु ॥

3.14.12

अतिश्लक्ष्णखरस्पर्शस्वेदास्वेदविवर्णताः ।
दाहः कण्डूस्त्वचि स्वापस्तोदः कोठोन्नतिःश्रमः ॥

3.14.13

व्रणानामधिकं शूलं शीघ्नोत्पत्तिश्चिरस्थितिः ।
रूढानामपि रूक्षत्वं निमित्ते ऽल्पे ऽपि कोथनम् ॥

3.14.14

रोमहर्षो ऽसृजः कार्ष्ण्यं कुष्ठलक्षणमग्रजम् ।
कृष्णारुणकपालाभं रूक्षं सुप्तं खरं तनु ॥

3.14.15

विस्तृतासमपर्यन्तं हृषितैर्लोमभिश्चितम् ।
तोदाढ्यमल्पकण्डूकं कापालं शीघ्रसर्पि च ॥

3.14.16

पक्वोदुम्बरताम्रत्वग्रोमगौरसिराचितम् ।
बहलं बहुलक्लेदं रक्तं दाहरुजाकरम् ॥

3.14.17

आशूत्थानावदरणकृमि विद्यादुदुम्बरम् ॥

3.14.18

स्थिरं स्त्यानं गुरु स्निग्धं श्वेतरक्तमनाशुगम् ।
अन्योन्यासक्तमुत्सन्नं बहुकण्डूस्रुतिक्रिमि ॥

3.14.19

श्लक्ष्णपीताभपर्यन्तं मण्डलं परिमण्डलम् ।
सकण्डूपिटका श्यावा लसीकाढ्या विचर्चिका ॥

3.14.20

परुषं तनुरक्तान्तमन्तःश्यावं समुन्नतम् ।
सतोददाहरुक्क्लेदं कर्कशैः पिटकैश्चितम् ॥

3.14.21

ऋष्यजिह्वाकृति प्रोक्तमृष्यजिह्वं बहुक्रिमि ।
हस्तिचर्मखरस्पर्शं चमकाख्यं महाश्रयम् ॥

3.14.22

अस्वेदं मत्स्यशकलसन्निभं किटिभं पुनः ।
रूक्षं किणखरस्पर्शं कण्डूमत् परुषासितम् ॥

3.14.23

सिध्म रूक्षं बहिःस्निग्धमन्तर्घृष्टं रजः किरेत् ।
श्लक्ष्णस्पर्शं तनुश्वेतताम्रं दौग्धिकपुष्पवत् ॥

3.14.24

प्रायेण चोर्ध्वकाये स्याद्गण्डैः कण्डूयुतैश्चितम् ।
रक्तैरलसकं पाणिपाददार्यो विपादिकाः ॥

3.14.25

तीव्रार्त्यो मन्दकण्ड्वश्च सरागपिटकाचिताः ।
दीर्घप्रताना दूर्वावदतसीकुसुमच्छविः ॥

3.14.26

उत्सन्नमण्डला दद्रुः कण्डूमत्यनुषङ्गिणी ।
स्थूलमूलं सदाहार्ति रक्तश्यावं बहुव्रणम् ॥

3.14.27

शतारुः क्लेदजन्त्वाढ्यं प्रायशः पर्वजन्म च ।
रक्तान्तमन्तरापाण्डुकण्डुदाहरुजान्वितम् ॥

3.14.28

सोत्सेधमाचितं रक्तैः पद्मपत्रमिवांशुभिः ।
घनभूरिलसीकासृक्प्रायमाशु विभेदि च ॥

3.14.29

पुण्डरीकम् तनुत्वग्भिश्चितं स्फोटैः सितारुणैः ।
विस्फोटं पिटकाः पामाकण्डूक्लेदरुजाधिकाः ॥

3.14.30

सूक्ष्माः श्यावारुणा बहूव्यः प्रायः स्फिक्पाणिकूर्परे ।
सस्फोटमस्पर्शसहं कण्डूषातोददाहवत् ॥

3.14.31

रक्तं दलच्चर्मदलं काकणं तीव्रदाहरुक् ।
पूर्वं रक्तं च कृष्णं च काकणन्तीफलोपमम् ॥

3.14.32

कुष्ठलिङ्गैर्युतं सर्वैर्नैकवर्णं ततो भवेत् ।
दोषभेदीयविहितैरादिशेल्लिङ्गकर्मभिः ॥

3.14.33

कुष्ठेषु दोषोल्बणतां सर्वदोषोल्बणं त्यजेत् ।
रिष्ठोक्तं यच्च यच्चास्थिमज्जशुक्रसमाश्रयम् ॥

3.14.34

याप्यं मेदोगतं कृच्छ्रं पित्तद्वन्द्वास्रमांसगम् ।
अकृच्छ्रं कफवाताढ्यं त्वक्स्थमेकमलं च यत् ॥

3.14.35

तत्र त्वचि स्थिते कुष्ठे तोदवैवर्ण्यरूक्षताः ।
स्वेदस्वापश्वयथवः शोणिते पिशिते पुनः ॥

3.14.36

पाणिपादाश्रिताः स्फोटाः क्लेदः सन्धिषु चाधिकम् ।
कौण्यं गतिक्षयो ऽङ्गानां दलनं स्याच्च मेदसि ॥

3.14.37

नासाभङ्गो ऽस्थिमज्जस्थे नेत्ररागः स्वरक्षयः ।
क्षते च कृमयः शुक्रे स्वदारापत्यबाधनम् ॥

3.14.38

यथापूर्वं च सर्वाणि स्युर्लिङ्गान्यसृगादिषु ।
कुष्ठैकसम्भवं श्वित्रं किलासं चारुणं च तत् ॥

3.14.39

निर्दिष्टमपरिस्रावि त्रिधातूद्भवसंश्रयम् ॥

3.14.40

वाताद्रूक्षारुणं पित्तात्ताम्रं कमलपत्रवत् ।
सदाहं रोमविध्वंसि कफाच्छ्वेतं घनं गुरु ॥

3.14.41

सकण्डु च क्रमाद्रक्तमांसमेदस्सु चादिशेत् ।
वर्णेनैवेदृगुभयं कृच्छ्रं तच्चोत्तरोत्तरम् ॥

3.14.42

अशुक्लरोमाबहुलमसंसृष्टं मिथो नवम् ।
अनग्निदग्धजं साध्यं श्वित्रं वर्ज्यमतो ऽन्यथा ॥

3.14.43

गुह्यपाणितलौष्ठेषु जातमप्यचिरन्तनम् ।
स्पर्शैकाहारशय्यादिसेवनात् प्रायशो गदाः ॥

3.14.44

सर्वे सञ्चारिणो नेत्रत्वग्विकारा विशेषतः ।
कृमयस्तु द्विधा प्रोक्ता बाह्याभ्यन्तरभेदतः ॥

3.14.45

बहिर्मलकफासृग्विड्जन्मभेदाच्चतुर्विधाः ।
नामतो विंशतिविधा बाह्यास्तत्रामृजोद्भवाः ॥

3.14.46

तिलप्रमाणसंस्थानवर्णाः केशाम्बराश्रयाः ।
बहुपादाश्च सूक्ष्माश्च यूका लिक्षाश्च नामतः ॥

3.14.47

द्विधा ते कोठपिटकाकण्डूगण्डान् प्रकुर्वते ।
कुष्ठैकहेतवो ऽन्तर्जाः श्लेष्मजास्तेषु चाधिकम् ॥

3.14.48

मधुरान्नगुडक्षीरदधिसक्तुनवोदनैः ।
शकृज्जा बहुविड्धान्यपर्णशाकौकुलादिभिः ॥

3.14.49

कफादामाशये जाता वृद्धाः सर्पन्ति सर्वतः ।
पृथुव्रद्ध्ननिभाः केचित् केचित् गण्डूपदोपमाः ॥

3.14.50

रूढधान्याङ्कुराकारास्तनुदीर्घास्तथाणवः ।
श्वेतास्ताम्रावभासाश्च नामतः सप्तधा तु ते ॥

3.14.51

अन्त्रादा उदरावेष्टा हृदयादा महारुहाः ।
चुरवो दर्भकुसुमाः सुगन्धास्ते तु कुर्वते ॥

3.14.52

हृल्लासमास्यस्रवणमविपाकमरोचकम् ।
मूर्छाच्छर्दिज्वरानाहकार्श्यक्षवथुपीनसान् ॥

3.14.53

रक्तवाहिसिरास्थाना रक्तजा जन्तवो ऽणवः ।
अपादा वृत्तताम्राश्च सौक्ष्म्यात् केचिददर्शनाः ॥

3.14.54

केशादा लोमविध्वंसा लोमद्वीपा उदुम्बराः ।
षट् ते कुष्ठैककर्माणः सहसौरसमातरः ॥

3.14.55

पक्वाशये पुरीषोत्था जायन्ते ऽधोविसर्पिणः ।
वृद्धास्ते स्युर्भवेयुश्च ते यदामाशयोन्मुखाः ॥

3.14.56

तदास्योद्गारनिश्वासा विड्गन्धानुविधायिनः ।
पृथुवृत्ततनुस्थूलाः श्यावपीतसितासिताः ॥

3.14.57

ते पञ्च नाम्ना कृमयः ककेरुकमकेरुकाः ।
सौसुरादाः सलूनाख्या लेलिहा जनयन्ति च ॥

3.14.58

विड्भेदशूलविष्टम्भकार्श्यपारुष्यपाण्डुताः ।
रोमहर्षाग्निसदनगुदकण्डूर्विनिर्गमात् ॥

मूल पाठ: Aṣṭāṅgasaṃgraha · Edition: e-text by SARIT · SARIT: Search and Retrieval of Indic Texts · SARIT (e-text) via Internet Archive · CC BY-SA 3.0

Esc