अष्टाङ्गसंग्रह · अध्याय 3.13
अथातः पाण्डुशोफविसर्पनिदानं नामाध्यायं व्याख्यास्यामः ।
इति ह स्माहुरात्रेयादयो महर्षयः ॥
पित्तप्रधानाः कुपिता यथोक्तैः कोपनैर्मलाः ।
तत्रानिलेन बलिना क्षिप्तं पित्तं हृदि स्थितम् ॥
धमनीलेन सम्प्राप्य व्याप्नुवत्सकलां तनुम् ।
श्लेष्मत्वग्रक्तमांसानि प्रदूष्यान्तरमाश्रितम् ॥
त्वङ्मांसयोस्तत् कुरुते त्वचि वर्णान्पृथग्विधान् ।
पाण्डुहारिद्रहरितान् पाण्डुत्वं तेषु चाधिकम् ॥
यतो ऽतः पाण्डुरित्युक्तः स रोगः तेन गौरवम् ।
धातूनां स्याच्च शैथिल्यमोजसश्च गुणक्षयः ॥
ततो ऽल्परक्तमेदस्को निःसारः स्याच्छ्लथेन्द्रियः ।
मृद्यमानैरिवाङ्गैर्ना द्रवता हृदयेन च ॥
शूनाक्षिकूटवदनः कोपनः ष्ठीवनोल्पवाक् ।
अन्नद्विट्शिशिरद्वेषी शीर्णरोमा हतानलः ॥
सन्नसक्थी ज्वरी श्वासी कर्णक्ष्वेडी श्रमी भ्रमी ।
स पञ्चधा पृथग्दोषैः समस्तैर्मृत्तिकादनात् ॥
प्राग्रूपमस्य हृदयस्पन्दनं रूक्षता त्वचि ।
अरुचिः पीतमूत्रत्वं स्वेदाभावो ऽल्पवाह्निता ॥
सादः श्रमो ऽनिलात्तत्र गात्ररुक्तोदकम्पनम् ।
कृष्णरूक्षारुणसिरानखविण्मूत्रनेत्रता ॥
शोफानाहास्यवैरस्यविट्शोषाः पार्श्वमूर्धरुक् ।
पित्ताद्धरितपीताभसिरादित्वं ज्वरस्तमः ॥
तृट्स्वेदमूर्च्छा शीतेच्छा दौर्गन्ध्यं कटुवक्त्रता ।
वर्चोभेदो ऽम्लको दाहः कफाच्छुक्लसिरादिता ॥
तन्द्रा लवणवक्त्रत्वं रोमहर्षः स्वरक्षयः ।
कासश्छर्दिश्च निचयान्मिश्रलिङ्गो ऽतिदुस्सहः ॥
मृत् कषायानिलं पित्तमूषरा मधुरा कफम् ।
दूषयित्वा रसादींश्च रौक्ष्याद्भुक्तं विरूक्ष्य च ॥
स्रोतांस्यपक्वैवापूर्य कुर्याद्रुध्वा च पूर्ववत् ।
पाण्डुरोगं ततः शूननाभिपादास्यमेहनः ॥
पुरीषं कृमिवन्मुञ्चेद्भिन्नं सासृक्कफं नरः ।
यः पाण्डुरोगी सेवेत पित्तलं तस्य कामलाम् ॥
कोष्ठशाखाश्रयं पित्तं दग्ध्वासृङ्मांसमावहेत् ।
हारिद्रनेत्रमूत्रत्वङ्नखवक्त्रशकृत्तया ॥
दाहाविपाकतृष्णावान् भेकाभो दुर्बलेन्द्रियः ।
भवेत् पित्तोल्बणस्यासौ पाण्डुरोगादृते ऽपि च ॥
उपेक्षया च शोफाढ्या सा कृछ्रा कुम्भकामला ।
हरितश्यावपीतत्वं पाण्डुरोगे यदा भवेत् ॥
वातपित्ताद्भ्रमस्तृष्णा स्त्रीष्वहर्षो मृदुज्वरः ।
तन्द्राबलानलभ्रंशो लोढरं तं हलीमकम् ॥
अलसं चेति शंसन्ति तेषां पूर्वमुपद्रवाः ।
शोफप्रधानाः कथिताः स एवातो निगद्यते ॥
पित्तरक्तकफान् वायुर्दुष्टो दुष्टान् बहिःसिराः ।
नीत्वा रुद्धगतिस्तैर्हि कुर्यात् त्वङ्मांससंश्रयम् ॥
उत्सेधं संहतं शोफं तमाहुर्निचयादतः ।
सर्वम् हेतुविशेषैस्तु रूपभेदान्नवात्मकम् ॥
दोषैः पृथग्द्वयैः सर्वैरभिघाताद्विषादपि ।
द्विधा वा निजमागन्तुं सर्वाङ्गैकाङ्गजं च तम् ॥
पृथून्नतग्रथितताविशेषैश्च त्रिधा विदुः ।
सामान्यहेतुः शोफानां दोषजानां विशेषतः ॥
व्याधिकर्मोपवासादिक्षीणस्य भजतो द्रुतम् ।
अतिमात्रमथान्यस्य गुर्वम्लस्निग्धशीतलम् ।
लवणक्षारतीक्ष्णोष्णशाकाम्बुस्वप्नजागरम् ॥
मृद्ग्राम्यमांसवल्लूरमजीर्णश्रममैथुनम् ।
पदातेर्मार्गगमनं यानेन क्षोभिणापि वा ॥
श्वासकासातिसारार्शोजठरप्रदरज्वराः ।
विषूच्यलसकच्छर्दिगर्भवीसर्पपाण्डवः ॥
अन्ये च मिथ्योपक्रान्तास्तैर्दोषा वक्षसि स्थिताः ।
ऊर्ध्वं शोफमधो बस्तौ मध्ये कुर्वन्ति मध्यगाः ॥
सर्वाङ्गाः सर्वगतं प्रत्यङ्गेषु तदाश्रयाः ।
तत्पूर्वरूपं दवथुः सिरायामो ऽङ्गगौरवम् ॥
वाताच्छोफश्चलो रूक्षः खररोमारुणासितः ।
सङ्कोचस्पन्दहर्षार्तितोदभेदप्रसुप्तिमान् ॥
क्षिप्रोत्थानशमः शीघ्रमुन्नमेत् पीडितस्तनुः ।
स्निग्धोष्णमर्दनैः शाम्येद्रात्रावल्पो दिवा महान् ॥
त्वक्च सर्षपलिप्तेव तस्मिंश्चिमिचिमायते ।
पीतरक्तासिताभासः पित्तादाताम्ररोमकृत् ॥
शीघ्रानुसारप्रशमो मध्ये प्राग्जायते तनोः ।
सतृड्दाहज्वरस्वेददवक्लेदमदभ्रमः ॥
शीताभिलाषी विड्भेदी गन्धी स्पर्शासहो मृदुः ।
कण्डूमान् पाण्डुरोमत्वक्कठिनः शीतलो गुरुः ॥
स्निग्धः श्लक्ष्णः स्थिर स्त्यानो निद्राच्छर्द्यग्निसादकृत् ।
आक्रान्तो नोन्नमेत् कृच्छ्रशमजन्मा निशाबलः ॥
स्रवेन्नासृक् चिरात् पिच्छां कुशशस्त्रादिविक्षतः ।
स्पर्शोष्णकाङ्क्षी च कफाद्यथास्वं द्वन्द्वजास्त्रयः ॥
सङ्कराद्धेतुलिङ्गानां निचयान्निचयात्मकः ।
अभिघातेन शस्त्रादिच्छेदभेदक्षतादिभिः ॥
हिमानिलोदध्यनिलैर्भल्लातकपिकच्छुजैः ।
रसैश्शूकैश्चसंस्पर्शाच्छ्रवयथुः स्याद्विसर्पवान् ॥
भृशोष्मा लोहिताभासः प्रायशः पित्तलक्षणः ॥
विषजः सविषप्राणिपरिसर्पणमूत्रणात् ।
दंष्ट्रादन्तनखापातादविषप्राणिनामपि ॥
विण्मूत्रशुक्रोपहतमलवद्वस्त्रसङ्करात् ।
विषवृक्षानिलस्पर्शाद्गरयोगावचूर्णनात् ॥
मृदुश्चलो ऽवलम्बी च शीघ्रदाहरुजाकरः ।
नवो ऽनुपद्रवः शोफः साध्यो ऽसाध्यः पुरेरितः ॥
स्याद्विसर्पो ऽभिघातान्तैर्दोषैर्दूष्यैश्च शोफवत् ।
त्र्यधिष्ठानं च तं प्राहुर्बाह्यान्तरुभयाश्रयात् ॥
यथोत्तरं च दुःसाध्यास्तत्र दोषा यथायथम् ।
प्रकोपणैः प्रकुपिता विशेषेण विदाहिभिः ॥
देहे शीघ्रं विसर्पन्ति ते ऽन्तरन्तःस्थिता बहिः ।
बहिःस्था द्वितये द्विस्थाः विद्यात्तत्रान्तराश्रयम् ॥
मर्मोपतापात्सम्मोहादयनानां विघट्टनात् ।
तृष्णातियोगाद्वेगानां विषमं च प्रवर्तनात् ॥
आशु चाग्निबलभ्रंशादतो बाह्यं विपर्ययात् ।
तत्र वातात् परीसर्पो वातज्वरसमव्यथः ॥
शोफस्फुरणनिस्तोदभेदायामार्तिहर्षवान् ।
पित्ताद्द्रुतगतिः पित्तज्वरलिङ्गो ऽतिलोहितः ॥
कफात्कण्डूयुतः स्निग्धः कफज्वरसमानरुक् ।
स्वदोषलिङ्गैश्चीयन्ते सर्वे स्फोटैरुपेक्षिताः ॥
ते पक्वभिन्नाः स्वं स्वं च बिभ्रति व्रणलक्षणम् ।
वातपित्ताज्ज्वरच्छर्दिमूर्छातीसारतृड्भ्रमैः ॥
अस्तिभेदाग्निसदनतमकारोचकैर्युतः ।
करोति सर्वमङ्गं च दीप्ताङ्गारावकीर्णवत् ॥
यं यं देशं विसर्पश्च विसर्पति भवेत्स सः ।
शान्ताङ्गारासितो नीलो रक्तो वाशु च चीयते ॥
अग्निदग्ध इव स्फोटैः शीघ्रगत्वाद्द्रुतञ्च सः ।
मर्मानुसारी वीसर्पः स्याद्वातो ऽतिबलस्ततः ॥
व्यथेताङ्गं हरेत्संज्ञां निद्रां च श्वासमीरयेत् ।
हिध्मां च स गतो ऽवस्थामीदृशीं लभते न ना ॥
क्वचिच्छर्मारतिग्रस्तो भूमिशय्यासनादिषु ।
चेष्टमानस्ततः क्लिष्टो मनोदेहश्रमोद्भवाम् ॥
दुष्प्रबोधो ऽश्नुते निद्रां सो ऽग्निवीसर्प उच्यते ॥
कफेन रुद्धः पवनो भित्वा तं बहुधा कफम् ।
रक्तं वा वृद्धरक्तस्य त्वक्सिरास्नावमांसगम् ॥
दूषयित्वा च दीर्घाणुवृत्तस्थूलखरात्मनाम् ।
ग्रन्थीनां कुरुते मालां रक्तानां तीव्ररुग्ज्वराम् ॥
श्वासकासातिसारास्यशोषहिध्मावमिभ्रमैः ।
मोहवैवर्ण्यमूर्च्छाङ्गभङ्गाग्निसदनैर्युताम् ॥
इत्ययं ग्रन्थिवीसर्पः कफमारुतकोपजः ॥
कफपित्तात् ज्वरः स्तम्भो तन्द्रानिद्राशिरोरुजः ।
अङ्गावसादविक्षेपप्रलापारोचकभ्रमाः ॥
मूर्छाग्निहानिर्भेदो ऽस्थ्नां पिपासेन्द्रियगौरवम् ।
आमोपवेशनं लेपः स्रोतसां स च सर्पति ॥
प्रायेणामाशये गृह्णन्नेकदेशञ्च नातिरुक् ।
पिटकैरवकीर्णो ऽतिपीतलोहितपाण्डुरैः ॥
मेचकाभो ऽसितःस्निग्धो मलिनःशोफवान् गुरुः ।
गम्भीरपाकः प्राज्योष्मा स्पृष्टः क्लिन्नो ऽवदीर्याते ॥
पङ्कवच्छीर्णमांसश्च स्पष्टस्नायुसिरागणः ।
शवगन्धी च वीसर्पः कर्दमाख्यमुशन्ति तम् ॥
सर्वजो लक्षणैः सर्वैः सर्वधात्वभिदर्पणः ।
बाह्यहेतोः क्षतात् क्रुद्धः सरक्तं पित्तमीरयन् ॥
विसर्पं मारुतः कुर्यात् कुलत्थसदृशैश्चितम् ।
स्फोटैः शोफज्वररुजादाहाढ्यं श्यावलोहितम् ॥
असाध्यौ क्षतसर्वोत्थौ सर्वे चाक्रान्तमर्मकाः ॥
शीर्णस्नायुसिरामांसाः प्रक्लिन्नाः शवगन्धयः ॥
मूल पाठ: Aṣṭāṅgasaṃgraha · Edition: e-text by SARIT · SARIT: Search and Retrieval of Indic Texts · SARIT (e-text) via Internet Archive · CC BY-SA 3.0