भाषा

ENहिગુ
ग्रंथ पाठ

अष्टाङ्गसंग्रह · अध्याय 3.12

3.12.1

अथात उदरनिदानं नामाध्यायं व्याख्यास्यामः ।
इति ह स्माहुरात्रेयादयो महर्षयः ॥

3.12.2

रोगाः सर्वे ऽपि मन्दे ऽग्नौ सुतरामुदराणि तु ।
अजीर्णान्मलिनैश्चान्नैर्जायन्ते मलसञ्चयात् ॥

3.12.3

ऊर्ध्वाधो धातवो रुध्वा वाहिनीरम्बुवाहिनीः ।
प्राणाग्न्यपानान् सन्दूष्य कुर्युस्त्वङ्मांससन्धिगाः ॥

3.12.4

आध्माप्य कुक्षिमुदरम् अष्टधा तच्च भिद्यते ॥

3.12.5

पृथग्दोषैः समस्तैश्च प्लीहबद्धक्षतोदकैः ।
तेनार्ताः शुष्कताल्वोष्ठाः शूनपादकरोदराः ॥

3.12.6

नष्टचेष्टाबलाहाराः कृशाः प्रध्मातकुक्षयः ।
स्युः प्रेतरूपाः पुरुषा भाविनस्तस्य लक्षणम् ॥

3.12.7

क्षुन्नाशो ऽन्नं चिरात्सर्वं सविदाहं च पच्यते ।
जीर्णाजीर्णं न जानाति सौहित्यं सहते न च ॥

3.12.8

क्षीयते बलतः शश्वच्छ्वसित्यल्पे ऽपि चेष्टिते ।
वृद्धिर्विशो ऽप्रवृत्तिश्च किञ्चिच्छोफश्च पादयोः ॥

3.12.9

रुग्बस्तिसन्धौ ततता लघ्वल्पाभोजनैरपि ।
राजीजन्म वलीनाशो जठरे जठरेषु तु ॥

3.12.10

सर्वेषु तन्द्रा सदनं मलसङ्गो ऽल्पवह्निता ।
दाहः श्वयथुराध्मानमन्ते सलिलसम्भवः ॥

3.12.11

सर्वं त्वतोयमरुणमशोफं नातिभारिकम् ।
गवाक्षितं सिराजालः सदा गुडुगुडायते ॥

3.12.12

नाभिमन्त्रं च विष्टभ्य वेगं कृत्वा प्रणश्यति ।
मारुतो हृत्कटीनाभिपायुवङ्क्षणवेदनः ॥

3.12.13

सशब्दो निश्चरेद्वायुर्विड् बद्धा मूत्र्मल्पकम् ।
नातिमन्दो ऽनलो लौल्यं न च स्याद्विरसं मुखम् ॥

3.12.14

तत्र वातोदरे शोफः पाणिपान्मुष्कसन्धिषु ।
कुक्षिपार्श्वोदरकटीपृष्ठरुक् पर्वभेदनम् ॥

3.12.15

शुष्ककासो ऽङ्गमर्दो ऽधोगुरुता मलसङ्ग्रहः ।
श्यावारुणत्वगादित्वमकस्माद्ध्रासवृद्धिमत् ॥

3.12.16

सतोदभेदमुदरं तनुकृष्णसिराततम् ।
आध्मातदृतिवच्छब्दमाहंतं प्रकरोति च ॥

3.12.17

वायुश्चात्र सरुक्शब्दो विचरेत्सर्वतोगतिः ।
पित्तोदरे ज्वरो मूर्च्छा दाहस्तृट् कटुकास्यता ॥

3.12.18

भ्रमो ऽतिसारः पीतत्वं त्वगादावुदरं हरित् ।
पीतताम्रसिरानद्धं सस्वेदं सोष्म दह्यते ॥

3.12.19

धूमायति मृदुस्पर्शं क्षिप्रपाकं प्रदूयते ।
श्लेष्मोदरे ऽङ्गसदनं स्वापः श्वयथुगौरवम् ॥

3.12.20

निद्रोत्क्लेशारुचिश्वासकासशुक्लत्वगादिता ।
उदरं स्तिमितं स्निग्धं शुक्लराजीततं महत् ॥

3.12.21

चिराभिवृद्धि कठिनं शीतस्पर्शं गुरु स्थिरम् ।
त्रिदोषकोपनैस्तैस्तैःस्त्रीदत्तैश्च रजोमलैः ॥

3.12.22

गरदूषीविषाद्यैश्च सरक्ताः सञ्चिता मलाः ।
कोष्ठं प्राप्य विकुर्वाणाः शोफमूर्च्छाभ्रमान्वितम् ॥

3.12.23

कुर्युस्त्रिलिङ्गमुदरं शीघ्रपाकं सुदारुणम् ।
बाधते तच्च सुतरां शीतवाताभ्रदर्शने ॥

3.12.24

अत्याशितस्य सङ्क्षोभाद्यानयानादिचेष्टितैः ।
अतिव्यवायभाराध्वगमनव्याधिकर्शनैः ॥

3.12.25

वामपार्श्वाश्रितः प्लीहा च्युतः स्थानाद्विवर्द्धते ।
शोणितं वा रसादिभ्यो विवृद्धं तं विवर्द्धयेत् ॥

3.12.26

सो ऽष्ठीलेवातिकठिनः प्रोन्नतः कूर्मपृष्ठवत् ।
क्रमेण वर्धमानश्च कुक्षावुदरमावहेत् ॥

3.12.27

श्वासकासपिपासास्यवैरस्याध्मानरुग्ज्वरैः ।
पाण्डुत्वमूर्च्छाच्छर्दीभिर्दाहमोहैश्च संयुतम् ॥

3.12.28

अरुणाभं विवर्णं वा नीलहारिद्रराजिमत् ।
उदावर्तरुजानाहैर्मोहतृड्दहनज्वरैः ॥

3.12.29

गौरवारुचिकाठिन्यैर्विद्यात्तत्र मलान् क्रमात् ।
प्लीहवद्दक्षिणात् पार्श्वात् कुर्याद्यकृदपि च्युतम् ॥

3.12.30

पक्ष्मवालैः सहान्नेन भुक्तैर्बद्धायने गुदे ।
दुर्नामभिरुदावर्तैरन्नैर्वान्त्रोपलेपिभिः ॥

3.12.31

वर्चः पित्तकफान् रुध्वा करोति कुपितो ऽनिलः ।
अपानो जठरं तेन स्युर्दाहज्वरतृट्क्षवाः ॥

3.12.32

कासश्वासोरुसदनं शिरोहृन्नाभिपायुरुक्
मलसङ्गो ऽरुचिच्छर्दिरुदरं मूढमारुतम् ॥

3.12.33

स्थिरं नीलारुणसिराराजीनद्धमराजि वा ।
नाभेरुपरि च प्रायो गोपुच्छाकृति जायते ॥

3.12.34

अस्थ्यादिशल्यैः सान्नैश्च भुक्तैरत्यशनेन वा ।
भिद्यते पच्यते चान्त्रं तच्छिद्रैश्च स्रवन् बहिः ॥

3.12.35

आम एव गुदादेति ततोल्पाल्पं सविड्रसः ।
तुल्यः कुणपगन्धेन पिच्छिलः पीतलोहितः ॥

3.12.36

शेषश्चापूर्य जठरं जठरं घोरमावहेत् ।
वर्धते तदधोनाभेराशु चैति जलात्मताम् ॥

3.12.37

उद्रिक्तदोषरूपं च व्याप्तं च श्वासतृट्भ्रमैः ।
छिद्रोदरमिदं प्राहुः परिस्रावीति चापरे ॥

3.12.38

प्रवृत्तस्नेहपानादेः सहसामाम्बुपायिनः ।
अत्यम्बुपानान्मन्दाग्रेः क्षीणस्यातिकृशस्य वा ॥

3.12.39

रुध्वाम्बुमार्गाननिलः कफश्च जलमूर्च्छितः ।
वर्द्धयेतां तदेवाम्बु तत्स्थानादुदराश्रितौ ॥

3.12.40

ततः स्यादुदरं तृष्णागुदस्रुतिरुजान्वितम् ।
कासश्वासारुचियुतं नावणसिराततम् ॥

3.12.41

तोयपूर्णदृतिस्पर्शशब्दप्रक्षोभवेपथु ।
दकोदरं महत् स्निग्धं स्थिरमावृत्तनाभि तत् ॥

3.12.42

उपेक्षया च सर्वेषु दोषाः स्वस्थानतश्च्युताः ।
पाकाद्द्रवा द्रवीकुर्युः सन्धिस्रोतोमुखान्यपि ॥

3.12.43

स्वेदश्च बाह्यस्रोतस्सु विहतस्तिर्यगास्थितः ।
तदेवोदकमाप्याय्य पिच्छां कुर्यात्तदा भवेत् ॥

3.12.44

गुरूदरं स्थिरं वृत्तमाहतं च न शब्दवत् ।
मृदु व्यपेतराजीकं नाभ्यां स्पृष्टं च सर्पति ॥

3.12.45

तदनूदकजन्मास्मिन् कुक्षिवृद्धिस्ततो ऽधिकम् ।
सिरान्तर्द्धानमुदकजठरोक्तं च लक्षणम् ॥

3.12.46

वातपित्तकफप्लीहसन्निपातदकोदरम् ।
कृच्छ्रं यथोत्तरं पक्षात् परं प्रायो ऽपरे हतः ॥

3.12.47

सर्वं च जातसलिलं रिष्ठोक्तोपद्रवान्वितम् ।
जन्मनैवोदरं सर्वं प्रायः कृच्छ्रतमं मतम् ॥

3.12.48

बलिनस्तदजाताम्बु यत्नसाध्यं नवोत्थितम् ॥

मूल पाठ: Aṣṭāṅgasaṃgraha · Edition: e-text by SARIT · SARIT: Search and Retrieval of Indic Texts · SARIT (e-text) via Internet Archive · CC BY-SA 3.0

Esc