अष्टाङ्गसंग्रह · अध्याय 2.7
अथातो मर्मविभागं नामाध्यायं व्याख्यास्यामः ।
इति ह स्महुरात्रेयादयो महर्षयः ॥
सप्तोत्तरं मर्मशतम् ।
तत्र चतुश्चत्वारिंशच्छाखासु ।
षड्विंशतिरन्तराधौ ।
सप्तत्रिंशदूर्ध्वम् ॥
अथैकस्मिन् सक्थ्नि मध्यमाङ्गुलिमभितो मध्ये पादतलस्य तलहृदयं नाम मर्म तत्र विद्धस्य रुजया मरणम् ।
अङ्गुष्ठाङ्गुल्योर्मध्ये क्षिप्रं तत्राक्षेपकेन मरणम् ।
क्षिप्रस्योपरि द्व्यङ्गुल उभयतः कूर्चः ।
तत्र पादस्य भ्रमणवेपने भवतः गुल्फसन्धेरधः कूर्चशिरः ।
तत्र रुजाशोफौ ।
पादजङ्घयोः सन्धाने गुल्फः ।
तत्र रुक् स्तब्धसक्थिता षण्ढता वा ।
पार्ष्णिप्रभृतिद्वादशभिरङ्गुलैर्जङ्घामध्ये इन्द्रबस्तिः ।
तत्र शोणित्क्षयान्मरणम् ।
जङ्घोर्वोः सन्धाने जानु तत्र खञ्जता ॥
जानुनस्त्र्यङ्गुलादूर्ध्वमुभयत आणिः ।
तत्र शोफाभिवृद्धिः स्तब्धसक्थिता च ।
ऊरुमध्ये उर्वी तत्र रक्तक्षयात्सक्थिशोषः ।
उर्व्यास्तूर्ध्वमधो वङ्क्षणसन्धेरूरुमूले लोहिताक्षम् ।
तत्र रक्तक्षयात् पक्षाघातः ।
वङ्क्षणवृषणमध्ये विटपम् ।
तत्र षण्ढ्यमल्पशुक्रता वा ।
सक्थिवद् बाह्वोः ।
विशेषस्तु गुल्फो मणिबन्धः तथा जानु कूर्परम् ।
तयोर्व्यधे कुणिता ।
विटपवच्च कक्षाक्षमध्ये कक्षाधरः तत्र कुणित्वम् ॥
वातवर्चोनिरसनः स्थूलान्त्रप्रतिबद्धो गुदः ।
तत्र सद्योमरणम् ।
अल्पमांसशोणितो ऽभ्यन्तरतः कट्याधनुर्वक्र एकद्वारो ऽधोमुखो बस्तिः ।
तत्रापि सद्योमरणमश्मरीव्रणादृते ।
तत्राप्युभयतो विद्धे न जीवति ।
एकतो भिन्ने मूत्रस्रावी व्रणो भवति ।
स तु यत्नेनोपक्रान्तो रोहति ।
पक्वामाशयमध्ये नाभिः तत्रापि सद्योमरणम् ॥
कोष्ठवक्षसोः स्तनयोश्च मध्ये सत्वरजस्तमोधिष्ठानमामाशयद्वारं हृदयं तत्रापि सद्योमरणम् ।
स्तनयोरधस्ताद्व्द्यङ्गुलमुभयतः स्तनमूले तयोः कफपूर्णकोष्ठस्य मरणम् ।
स्तनचूचुकयोरूर्ध्वं व्द्यङ्गुलमुभयतः स्तनरोहिते ।
तयोः शोणितपूर्णकोष्ठस्य मरणम् ।
उभयत्रोरसोर्नाड्यौ वातवहे अपस्तम्भौ तयोः शोणितपूर्णकोष्ठतया कासश्वासाभ्यां च मरणम् ।
अंसकूटयोरधः पार्श्वयोरुपरिभागयोरपालापौ तयोः पूयत्वमापन्नेन रक्तेन मरणम् ॥
पृष्ठवंशमुभयतः प्रतिश्रोणीकर्णावस्थिनी कटीकतरुणे ।
तयोः शोणितक्षयात् पाण्डुर्विवर्णो हीनरूपो म्रियते ।
पार्श्वयोर्जघनबहिर्भागे पृष्ठवंशमुभयतः कुकुन्दरौ ।
तयोः स्पर्शाज्ञानमधःकाये चेष्टानाशश्च ।
श्रोणीकर्णयोरुपर्याशयच्छादनौ पार्श्वान्तरप्रतिबद्धौ नितम्बौ ।
तयोरधःकाये शोफो दौर्बल्यं मरणं च ।
अधः पार्श्वान्तरप्रतिबद्धौ जघनपार्श्वमध्ये तिर्यगूर्ध्वं च पार्श्वसन्धी ।
तयोः शोणितपूर्णकोष्ठतया मरणम् ॥
स्तनमूलयोरार्जवेनोभयतः पृष्ठवंशं बृहत्यौ ।
तयोः शोणितातिप्रवृत्तिनिमित्तैरुपद्रवैर्मरणम् ।
पृष्ठवंशमुभयतो बाहुमूलसम्बद्धे अंसफलके ।
तयोर्बाहुस्वापशोषौ ।
ग्रीवाबाहुशिरोमध्ये ऽसपीठस्कन्धबन्धनावंसौ ।
तयोः स्तब्धबाहुता ॥
कण्ठनाडीमुभयतश्चतस्रो धमन्यः ।
तासां द्वे नीले द्वे मन्ये ।
तासु मूकता स्वरवैकृत्यं रसाग्राहिता वा भवति ।
ग्रीवायामुभयतः पृथक् चतस्रः सिरामातृकास्तासु सद्योमरणम् ।
शिरोग्रीवयोः सन्धाने कुकाटिके ।
तयोश्चलमूर्धता ।
कर्णपृष्ठयोरधस्संश्रिते विधुरे ।
तयोर्बाधिर्यम् ।
घ्राणमार्गमुभयतः श्रोत्रमार्गप्रतिबद्धावभ्यन्तरतः फणौ ।
तयोर्गन्धाज्ञानम् ।
भ्रुवोः पुच्छान्तयोरधोक्ष्णोर्बाह्यतो ऽपाङ्गौ तयोरान्ध्यम् ।
भ्रुवोः पुच्छान्तयोरुपर्यनुकर्णं ललाटे शङ्खौ ।
तयोः सद्योमरणम् ।
भ्रुवोरुपरि निम्नयोरावर्तौ ।
तयोरान्ध्यम् ।
दृष्ट्युपघातो वा ॥
शङ्खयोरुपरि केशान्ते उत्क्षेपौ ।
तयोः सशल्यः पाकात् पतितशल्यो वा जीवेन्नोद्धृतशल्यः ।
भ्रुवोर्मध्ये स्थपनी ।
तत्रोत्क्षेपवत् ।
पञ्च सन्धयः शिरसि तिर्यगूर्ध्वं च सीमन्ता नाम ।
तेषून्मादभ्रमचित्तनाशैर्मरणम् ।
जिह्वाघ्राणाक्षिश्रोत्रतर्पणीनां सिराणां तालुनि सन्निपातः ।
तासां मुखानि चत्वारि शृङ्गाटकसंज्ञानि तेषु सद्योमरणम् ।
मस्तकाभ्यन्तर उपरिष्टात्सिरासन्धिसन्निपातो रोमावर्तः सो ऽधिपतिर्नाम ।
तत्रापि सद्योमरणं भवतीति ॥
सामान्यलक्षणं पुनर्मर्मणां पीडिते रुजोत्पत्तिर्विषमं च स्पन्दनम् ।
सामान्येनैव च ॥
देहप्रसुप्तिर्गुरुता सम्मोहः शीतकामिताअ ।
स्वेदो मूर्छा वमिः श्वासो मर्मविद्धस्य लक्षणम् ॥
अपि च मरणकारित्वान्मर्म ।
तत् पुनर्मांससिरास्नावास्थिसन्धिसन्निपातः ।
तेन तस्मिन् पीड्यमाने विशेषतः प्राणाबाधः ।
बाहुल्येन तु निर्देशः ।
तस्मान्मांसाद्याश्रयतो मर्माणि पञ्चधा भिद्यन्ते ॥
तद्यथा ।
तलहृदयेन्द्रबस्तिगुदस्तनरोहितान्येकादश मांसमर्माणि ।
उर्वीलोहिताख्यनाभिहृदयस्तनमूलापस्तम्भापालापपार्श्वसन्धिबृहतीनीलामन्यामातृकाफणापाङ्गस्थपनीशृङ्गाटकान्येकचत्वारिंशत् सिरामर्माणि ।
क्षिप्रकूर्चकूर्चशिरोविटपकक्षाधराणि बस्त्यंसविधुरोत्क्षेपाः सप्तविंशतिः स्नावमर्माणि ।
कटीकतरुणनितम्बांसफलकशङ्खास्त्वष्टावस्थिमर्माणि ।
गुल्फमणिबन्धजानुकूर्परकुकुन्दरकृकाटिकावर्तसीमन्ताधिपतयो विंशतिः सन्धिमर्माणि ॥
पुनश्च पञ्चधा गुदबस्तिनाभिहृदयमातृकाशङ्खशृङ्गाटकाधिपतय एकोनविंशतिः सद्यःप्राणहराण्याग्नेयत्वात्तेषां सप्तरात्राभ्यन्तरं कालः ॥
तलहृदयक्षिप्रेन्द्रबस्तिवक्षोमर्मकटीकतरुणनितम्बपार्श्वसन्धिबृहतीसीमन्तास्त्रयस्त्रिंशत् कालान्तरप्राणहराणि सौम्याग्नेयत्वात्तेषां पक्षाभ्यन्तरं कालः ।
तेष्वपि तु क्षिप्राणि कदाचिदाशु ॥
उत्क्षेपौ स्थपनी च त्रीणि विशल्यघ्नानि वायव्यत्वात् ।
शल्यमुखावरुद्धो हि यावदत्र वायुस्तिष्ठति तावज्जीवति ॥
कूर्चजानुकूर्पराण्युर्वीलोहिताख्यविटपकक्षाधरकुकुन्दरांसफलकनीलामन्याकृकाटिकाविधुरफणापाङ्गावर्ताश्चतुश्चत्वारिंशद्वैकल्यकराणि सौम्यत्वात् ।
सोमो हि स्थैर्यशैत्याभ्यां प्राणान् धारयति ।
तान्यपि च कदाचिदभिहतानि मारयन्ति ॥
कुर्चशिरोगुल्फमणिबन्धास्त्वष्टौ रुजाकराण्यग्निवायुसोमगुणबाहुल्यात् ।
अग्निवायू हि विशेषेण रुजाकरौ ।
सोमस्तु प्राणानवलम्बत इत्युक्तम् ॥
अन्ये त्वाहुः ।
मांसादीनां पञ्चानामपि विवृद्धानां समवायात् सद्यः प्राणहराणि ।
एकैकहीनानामल्पानां च क्रमादितराणि स्वभावत एव च ॥
अन्ये वदन्ति ।
प्रतिनियतकर्माणि चन्द्रसूर्यायस्कान्तोपलानामिवाम्बुवह्निकाललोहसंश्लेषाः तथा च छिन्नेषु बहुमर्मस्वपि पाणिपादेषु स्वभावत एव न मृत्युः ॥
अपरे पुनरत्रापि हेतुमाहुः ।
पाणिपादच्छेदे हि सिराः सङ्कोचमायान्ति ।
ततोल्पासृक्प्रवृत्तेर्जीवितम् ।
मर्मव्यधे त्वतिरक्तस्रुतितो वायुवैकृतेन च मरणम् ।
तस्मान्मर्माभिहतस्य तदङ्गमाशु सन्धिदेशाच्छेदनीयम् ।
अतिहतानां तु मर्माणां यथास्वं पूर्वं पूर्वं च कर्म ईषदन्ते वा हतानामुत्तरोत्तरमेव ॥
पुनश्च पञ्चधा भिद्यन्ते ।
तद्यथा ।
उर्व्यः कूर्चशिरांसि विटपे कक्षाधरे च द्वादश स्वाङ्गुलोन्मितानि ।
गुल्फौ मणिबन्धौ स्तनमूले च षट् द्व्यङ्गुलानि ।
जानुनी कूर्परे च चत्वारि त्र्यङ्गुलानि ।
कूर्चा गुदो बस्तिर्नाभिर्हृदयं नीले मन्ये मातृकाः सीमन्ताः शृङ्गाटकानि चैकोनत्रिंशत् पाणितलसम्मितानि ।
शेषाणि षट् पञ्चाशदङ्गुलदलप्रमाणानि ।
अन्ये पुनराहुः ।
ब्रीहिप्रमाणानि क्षिप्राणि ।
कलायप्रमाणाः स्तनरोहितोत्क्षेपाः ।
तथान्ये तिलप्रमाणान्यपि मर्माणीच्छन्ति ।
भवन्ति चात्र ॥
मर्मव्याप्ते ऽपि देहे ऽस्मिन्नायुर्मर्माणि रक्षति ।
आयुष्याण्येव सेवेत सदा तस्माद्विचक्षणः ॥
मर्माभिघातः स्वल्पो ऽपि प्रायशो बाधतेतराम् ।
रोगा मर्माश्रयास्तद्वत् प्रकान्ता यत्नतोपि च ॥
विक्षिप्यते भृशं सीदन् शून्यो भ्रमति वेपते ।
ऊर्ध्वं श्वसिति कृच्छ्रेण स्रस्तगात्रो मुहुर्मुहुः ॥
हृदयं दद्यते चास्य नैकस्थाने ऽवतिष्ठते ।
मर्मोपघातान्मरणमेतैर्लिङ्गैः समश्नुते ॥
अमर्मविद्धो ऽपि नरश्छेदभेदादिपीडितः ।
अतिनिस्सृतरक्तश्च सद्यस्त्यजति जीवितम् ॥
अतो ऽन्यथा जीवति तु विद्धः शरशतैरपि ॥
पुण्यवान्नियतायुश्च न कथञ्चिन्न जीवति ।
तस्मादा चरमोच्छ्वासाच्चिकित्सेदेव यत्नतः ॥
तद्बन्धुमित्रानुमतः प्रत्याख्यायातुरं भिषक् ॥
मूल पाठ: Aṣṭāṅgasaṃgraha · Edition: e-text by SARIT · SARIT: Search and Retrieval of Indic Texts · SARIT (e-text) via Internet Archive · CC BY-SA 3.0