अष्टाङ्गसंग्रह · अध्याय 2.8
अथातः प्रकृतिभेद्दीयं शारीरं व्याख्यास्यामः ।
इति ह स्माहुरात्रेयादयो महर्षयः ॥
सप्त प्रकृतयो दोषैः पृथक् संसर्गेण साम्येन च भवन्ति ।
तत्र शुक्रार्तवगर्भाशयकालेषु मातुश्चाहारविहारयोरेको ऽनेको वा यो दोषो भवत्याधिक्येन तेनामरणाद्विषवल्यामिवोत्पद्यमानस्य कृमेर्विषेण सविषकृमेरिव वृश्चिकादेराशीविषस्येव वा स्वविषेण प्रकृतिर्जायते ॥
तस्मात्तन्मयतया शुक्रार्तवयोर्देहस्य भावितत्वात् प्राकृतत्वाच्च तावता तेन दोषेण न विहन्यते ।
तद्गुणैरेव चास्यशरीरमुपस्क्रियते ।
ततश्च तद्गुणप्रतिपक्षैः सहसा न बाध्यते ।
तस्यां त्ववस्थायां विकृतिमति दोषे उल्बणेनैव गर्भः सम्भवति ।
सम्भव एव विपद्यते ।
विकृतो वा भवति ॥
तथा च केचिदाहुः ।
द्विविधा वातादयः प्राकृता वैकृताश्च ।
तत्र प्राकृताः सप्तविधायाः प्रकृतेर्हेतुभूताः शरीरैकजन्मानः ।
ते शरीरधारणाद्धातुसंज्ञाः ।
दोषाख्यानां विकृतानां बीजभूताः ।
मुमूर्षोः स्वरूपाच्चलन्ति ।
सर्वेष्वपि च देहे सन्निहितेषु प्रकृतावुल्बणेन व्यपदेशः ॥
वैकृतास्तु गर्भादभिनिस्सृतस्याहाररसस्य मलाः सम्भवन्ति ।
प्राकृतेष्ववरोहन्ति ।
ते कालादिवशेन स्वप्नमाणवृद्धिक्षययोगाद्देहमनुगृह्णन्ति दूषयन्ति च ।
तद्वदोजो ऽपि परं हृदयस्थमष्टबिन्दुप्रमाणमाधारः प्रासृतिकस्य रसात्मकस्यौजसः क्षयवृद्धिभाजः ॥
अथ स्वदोषगुणानुरोधाद्वातप्रकृतिस्तनुरूक्षस्तब्धाल्पाङ्गदन्तनखरोमनेत्रस्वरः शीतद्विडुद्वद्धपिण्डिकः सशब्दसन्धिगामी शीघ्रारम्भक्षोभग्रहणविस्मरणश्चलधृतिमतिगतिदृष्टिस्वभावसौहार्दस्तेनो ऽनार्यो मत्सर्यजितेन्द्रियः प्रियगान्धर्वेतिहासहासविलासकलहमृगयोद्यानयात्रः स्निग्धोष्णमधुराम्ललवणान्नपानकाङ्क्षोपशयश्च भवति ॥
अपि च ।
अल्पवित्तबलजीवितनिद्रः क्षामवाग्धमनिसन्ततगात्रः ।
दुर्भगो ऽतिबहुभुग्बहुभाषी नास्तिकः स्फुटितकेशकराङ्घ्रिः ॥
किञ्चिदुन्मिषितदुर्मुखसुप्तस्त्रस्यति क्रथति खादति दन्तान् ।
शुष्करूक्षविषमासु सरित्सु व्योम्नि शौलशिखरेषु च याति ॥
पित्तप्रकृतिरुष्णगौरगात्रस्ताम्रनखनयनजिह्वौष्ठपाणिपादतलः शिथिलसन्धिबन्धमांसः करभकपिलविरलमृदुकेशरोमा मध्यबलायुरल्पशुक्रव्यवायापत्यः शूरो ऽभिमानी शीघ्रवलीखलतिपलितपिप्लुव्यङ्गक्षुत्पिपासो मेधावी दुर्भगः स्वादुतिक्तकषायशीताभिलाषोपशयश्च भवति ॥
अपि च ।
दयितमाल्यविलेपनमण्डनः सुचरितः शुचिराश्रितवत्सलः ।
विभवसाहसबुद्धिबलान्वितो भवति भीषु गतिर्द्विषतामपि ॥
घर्मद्वेषी स्वेदनः पूतिगन्धिर्भूर्युच्चारक्रोधपानाशनेर्ष्यः ।
सुप्तः पश्येत् कर्णिकारान् पलाशान् दिग्दाहोल्काविद्युदर्कानलांश्च ॥
कफप्रकृतिस्तु दूर्वेन्दीवरशरकाण्डान्यतमवर्णः समसुविभक्तस्निग्धस्थिरसुकुमारश्लिष्टमांससन्धिबन्धः परिपूर्णचारुगात्रो महाललाटोरुबाहुर्व्यक्तसितासितप्रसन्नायतविशालपक्ष्मलाक्षः सिंहमृदङ्गघनघोषः क्षुत्पिपासोष्णसहिष्णुर्बह्वोजोबलशुक्रव्यवायापत्यश्चिरशोषमाल्यानुलेपनो दृढप्रच्छन्नवैरः पेशलः सत्यवादी स्मृतिमान् धृतिमानलोलुपो बाल्ये ऽप्यरोदनः कटुतिक्तकषायोष्णरूक्षेच्छोपशयश्च भवति ॥
अपि च ।
अल्पव्याहारक्रोधपानाशनेहः प्राज्यायुर्वित्तो दीर्घदर्शी वदान्यः ।
श्राद्धो गम्भीरः स्थूललक्षः क्षमावानार्यो निद्रालुर्दीर्धसूत्रः कृतज्ञः ॥
ऋजुर्विपश्चित्सुभगः सलज्जो भक्तो गुरूणां दृढसौहृदय्यः ।
स्वप्ने सपद्मान् सविहङ्गमालांस्तोयाशयान् पश्यति तोयदांश्च ॥
उभयलक्षणसङ्करे तु संसर्गप्रकृतिः ।
सर्वगुणसमुदितः समदोषप्रकृतिः ।
तत्राद्यास्त्रयो नित्यातुराः दोषानुशयितप्रकृतित्वात् ।
विशेषतश्च द्वन्द्वप्रकृतयः ।
तेषु हि गुणमिश्रविकारकारिषु क्षुत्पिपासादिष्विवारोग्यव्यपदेशः ।
तस्माद्विपरीतगुणेन विधिना दोषोपक्रमणीयोक्तेन तानुपाचरेत् ।
समसर्वरसेन सात्म्येनान्त्यं यथर्तुविहितेन च ॥
दोषवच्च गुणैरपि सत्त्वादिभिः सप्त प्रकृतयो भवन्ति ।
तास्तदभिनिर्वृत्तैरेव यथोक्तैः शौचादिभिर्जानीयात् ॥
तथा पुनः सप्त प्रकृतयो जातिकुलदेशकालवयोबलप्रत्यात्मसंश्रयाः ।
दृश्यन्ते हि पुरुषाणां जात्यादिनियतास्ते ते भावविशेषाः ॥
सत्त्वादीनां च तरतमयोगाच्छरीरविशेषेभ्यश्चान्योन्यानुविधायित्वाच्च भेदाश्रयमसङ्ख्येयं भवति ।
शरीरमपि सत्त्वादीननुरुध्यते ।
सत्त्वादयो ऽपि शरीरम् ॥
सत्त्वाद्यसङ्ख्यभेदावेशाच्च रूपस्वरचरितानुकरणमप्यनूकशब्दवाच्यमसङ्ख्यभेदं भवति ।
तदावेशस्त्वनन्तरजन्माभ्यासवासनया जन्यते ।
तस्माद्देवमानुषतिर्यक्प्रेतनारकाणां तत्तद्विशेषाणां च यथायथमेवानूकं पुरुषस्यान्ववेक्षेत ॥
वयस्त्रिविधं बालं मध्यं वृद्धं च ।
तत्राषोडशाद्वर्षाद्बालम् ।
आ षष्टेर्मध्यम् ।
ततो वृद्धम् ।
तेष्वपि स्तन्याहारोभयवृत्त्या बालं त्रिविधम् ।
तस्मिन् देहप्रमाणवृद्धिः श्लेष्मोद्रेकश्च ।
तेन बालस्य स्नेहमार्दवसौकुमार्याल्पक्रोधत्वसौभाग्यानि भवन्ति ॥
मध्यमपि त्रिविधं यौवनं सम्पूर्णत्वमपरिहानिश्च ।
तस्मिन् पित्तोद्रेकः ।
तेन दीप्ताग्निता प्रज्ञाधिक्यपरिपाकौ व्यवसायश्च ।
तत्रात्रिंशतो यौवनमाचत्वारिंशतः सर्वधात्विन्द्रियबलवीर्यपौरुषस्मरणवचनविज्ञानप्रश्रयगुणसम्पूर्णत्वमतः परमपरिहानिः ॥
वृद्धं तु शश्वत् क्षीयमाणधात्विन्द्रियादिगुणं वलीखलतिकासश्चसाग्निसादादिभिरभिभूयमानं जीर्णं भवनमिवाभिवृष्टमवसीदति ।
तस्मिन्मारुतोद्रेकः तेन श्लथसारमांससन्ध्यस्थिता त्वक्पारुष्यमवनामः कायस्य वेपथुः कासः श्वासः श्लेष्मसिङ्घाणकोदीरणं धातुक्षयश्च ॥
अन्ये पुनराहः ।
बाल्यं वृद्धिः प्रभा मेधां त्वक्शुक्राक्षिश्नुतीन्द्रियम् ।
दशकेषु क्रमाद्व्येति मनस्सर्वेन्द्रियाणि च ॥
एवं वर्षतमायुषः प्रमाणमस्मिन् काले ।
सन्ति पुनः कर्मविशेषादूनाधिकवर्षशतजीविनो मनुष्याः ।
तेषां यथोक्तैः प्रकृतिविशेषैरायुषः प्रमाणमुपलभ्य वयस्त्रिधा विभजेत् ॥
अपि च ।
वर्षं वर्षं क्षयं याति नृणां याते शते शते ।
आयुषो ऽपुण्यबाहुल्याद्यदा यन्मानमिष्यते ॥
बलमपि त्रिविधं भवति ।
सहजं कालकृतं युक्तिकृतं च ।
तत्र सहजं देहसत्त्वयोः प्राकृतम् ।
कालकृतमृतुविभागजं वयःकृतं च ।
युक्तिकृतं पुनराहारविहारोत्थमूर्जस्करयोगजं च ।
तद्वृद्धिकरास्त्विमे च भावा भवन्ति ।
तद्यथा ।
बलवत्पुरुषे देशे जन्म तद्विधे च काले सुखश्च कालयोगो बीजक्षेत्रगुणशरीराहारसत्त्वसम्पत्तयः स्वमावो यौवनं व्यायामो हर्षश्च ॥
तथा साराण्यष्टौ त्वग्रक्तमांसमेदो ऽस्थिमज्जशुक्रसत्वात्मकान्युत्तरोत्तरवराणि बलमानज्ञानार्थमुपदिश्यन्न्ते ।
अपि च ।
न मुह्येद्देहमात्रदर्शनादेव भिषगयमुपचयेन माहाशरीरत्वाद्वा बलवानयं कृशत्वादल्पशरीरत्वाद्वाल्पबल इति ।
तच्चोभयमप्यन्यथा दृष्टं गजसिंहे ॥
तत्र सर्वैः सारैरुपेतो भवत्यतिबलः परमगौरवयुक्तः क्लेशक्षमः सर्वारम्भेष्वात्मनि प्रत्याशावान् कल्याणाभिनिवेशी स्थिरशरीरः सुसमाहितगतिः सानुनादस्निग्धगम्भीरमहास्वरः सुखैश्वर्यवित्तोपभोग सम्मानभाङ्मन्दजरामयः प्रायस्तुल्यगुणविस्तीर्णापत्यो दीर्घायुश्च ।
तद्विपरीतस्त्वसारः ।
मध्यो मध्यगुणः ॥
प्रमाणं पुनः स्वाङ्गुलैः पादाङ्गुष्ठप्रदेशिन्यौ द्व्यङ्गुलायते तिस्रो ऽन्याः क्रमेणोत्तरोत्तरं पञ्चमभागहीनास्तन्नखहीना वा ।
चतुरङ्गुलायताः पृथक् प्रपदपादतलपार्ष्णयः षट्पञ्चचतुरङ्गुलविस्तृताश्चतुर्दशैवायामेन पादश्चतुर्दशैव परिणाहेन ।
तथा गुल्फौ जङ्घामध्यं च ।
चतुरङ्गुलोत्सेधः पादः ।
अष्टादशायामा जङ्घा ऊरुश्च ।
चतुरङ्गुलं जानु ।
त्रिंशदङ्गुलपरिणाह ऊरुः ।
षडायामेन ॥
मुष्क्कमेढ्रावष्टपञ्चपरिणाहौ ।
षोडशविस्तारा कटी पञ्चाशत्परिणाहा ।
दशाङ्गुलं बस्तिशिरः ।
द्वादशाङ्गुलमुदरम् ।
दशविस्तारे द्वादशायामे पार्श्वे ।
द्वादशोत्सेधं त्रिकम् ।
अष्टादशोत्सेधं पृष्ठम् ।
द्वादशकं स्तनान्तरम् ।
द्व्यङ्गुलं स्तनपर्यन्तम् ।
चतुर्विंशत्यङ्गुलविशालं द्वादशोत्सेधमुरः ।
द्व्यङ्गुलं हृदयम् ।
अष्टकौ स्कन्धे कक्षे च ।
षट्कावंसौ ।
षोडशकौ प्रबाहू ।
पञ्चदशकौ प्रपाणी ।
द्वादशाङ्गुलौ पाणी ।
तत्रापि पञ्चाङ्गुला मध्यमाङ्गुलिः ।
ततो ऽर्धाङ्गुलहीने प्रदेशिन्यनामिके ।
सार्धत्र्यङ्गुलौ कनिष्ठिकाङ्गुष्ठौ ।
चतुरङ्गुलोत्सेधा द्वाविंशतिपरिणाहा शिरोधरा ।
द्वादशोत्सेधं चतुर्विंशतिपरिणाहमाननम् ॥
पञ्चाङ्गुलमास्यम् ।
चतुरङ्गुलं पृथक् चिबुकौष्ठनासादृष्ट्यन्तरकर्णललाटम् ।
त्रिभागाङ्गुलविस्तारा नासापुटमर्यादा ।
द्व्यङ्गुलायतमङ्गुष्ठोदरविस्तृतं नेत्रम् ।
तत्र शुक्लात्तृतीयांशं कृष्णम् ।
कृष्णान्नवमांशा मसूरदलमात्रा दृष्टिः ।
षडङ्गुलोत्सेधं द्वात्रिंशत्परिणाहं शिर इति ।
सर्वं पुनः शरीरमङ्गुलानि चतुरशीतिः ।
तदायामविस्तारसमं सममुच्यते ।
तत्र यथोक्तपरिमाणमिष्टमनिष्टं हीनमधिकं वा ।
तथा ह्रस्वदीर्घगौरकृष्णरोमारोमस्थूलकृशं चेति ॥
इष्टं पुनर्महाशरीरदर्शनवदनहनुस्तनाग्रपृष्ठस्वरमुपचितोरुस्थिक्कटीवक्षोग्रीवातालुकमुभयगुणपाणिपादचिबुककर्णललाटम् ।
सूक्ष्मास्थिदन्तनखाङ्गुलिपर्वकेशम् ।
दीर्घाङ्गुलिसक्थिबाहूच्छ्वासेक्षितनेत्रजिह्वम् ।
विस्तीर्णास्याधरौष्ठजिह्वाललाटकर्णपठिवक्षो ऽल्पमेढ्रग्रीवाकेशम् ।
स्निग्धत्वक्कचकरजनयनस्वनम् ।
स्थिरेन्द्रियत्वङ्नखकेशपार्श्वम् ।
गम्भीरनाभिसन्धिस्वरम् ।
गूढजत्रुपृष्ठवंशदन्तमूलम् ।
रक्तताल्वोष्ठनखनेत्रान्तमाताम्रजिह्वाहस्तपादतलम् ।
कृष्णकेशभ्रूनेत्रपक्ष्मतारकम् ।
शुक्लशुक्लमण्डलदशनचरितमुन्नतचित्तरकन्धललाटोदरमुखनखपादम् ।
नीचैर्बद्धकर्णस्तननासाग्रचङ्क्रमणम् ।
घनस्कन्धकन्धरादन्ताङ्गुलित्वक्सौहार्दम् ।
तनुनखमध्यजिह्वम् ।
वृत्तस्फिग्ग्रीवानखम् ।
समपृष्ठदन्तललाटेक्षितम् ।
तथानुपूर्ववृत्तावूरू ।
दक्षिणावर्तनाभिः ।
प्रकृष्टान्तरौस्तनौ भ्रुवौ च ।
कूर्माकृतयो नखाः पादौ च ।
र्ज्वास्यं नासावंशश्च ।
अनुल्बणे हनू वेषश्च ।
श्लक्ष्णं तालु जिह्वा च ।
नातिस्थूलकृशावोष्ठौ देहबन्धश्च ।
सस्पन्दं हृदयं शङ्खौ मन्ये च ।
सोष्मतालुपादोदरं निश्वासश्च ।
पृष्ठतो ऽवनतौ रोमशौ च कर्णौ ।
ईषत्प्रलम्बिन्यौ भ्रुवौ वलिनं सुश्लिष्टसन्ध्यर्धचन्द्राकृतिललाटमातपत्रोपमं शिरः ।
नैकमूला मृदवः केशाः दृढं गूढं सिरास्थिसन्धि ।
प्रकृतियुक्तानि वातमूत्रपुरीषगुह्यानि ।
हसितरुदितानि च चेष्टितानि ।
तथा स्नातानुलिप्तमधःप्रसृतानुपूर्व्या शुष्यदिष्टं शरीरमिति भवति चात्र ॥
उत्तरोत्तरसुक्षेत्रं गर्भीद्भवति नीरुजम् ।
आयामज्ञानविज्ञानेर्वर्धमानं शनैश्शुभम् ॥
इति सर्वगुणोपेते शरीरे शरदां शतम् ।
आयुरैश्वर्यमिष्टाश्च सर्वे भावाः प्रतिष्ठिताः ॥
अनुत्सेकमदैन्यं च सुखं दुःखं च सेवते ।
सत्ववांस्तभ्यमानस्तु राजसो नैव तामसः ॥
दानशीलदयासत्यब्रह्मचर्यकृतज्ञताः ।
रसायनानि मैत्री च पुण्यायुर्वृद्धिकृद्गणः ॥
मूल पाठ: Aṣṭāṅgasaṃgraha · Edition: e-text by SARIT · SARIT: Search and Retrieval of Indic Texts · SARIT (e-text) via Internet Archive · CC BY-SA 3.0