भाषा

ENहिગુ
ग्रंथ पाठ

अष्टाङ्गसंग्रह · अध्याय 2.6

2.6.1

अथातः सिराविभागमध्यायं व्याख्यास्यामः ।
इति ह स्माहुरात्रेयादयो महर्षयः ॥

2.6.2

दश मूलसिरा हृदयप्रतिबद्धाः सर्वाङ्गप्रत्यङ्गेष्वोजो नयन्ति ।
तत्प्रतिबद्धा हि शरीरचेष्टाः ।
तास्तुद्व्यङ्गुलमङ्गुलमर्धाङ्गुलं यवं यवार्धं च गत्वा द्रुमपत्रसेवनीप्रतानवद्भिद्यमानाः सप्तशतानि भवन्ति ॥

2.6.3

तासां चतुःशती शाखासु ।
तत्र षोडशाव्यधनीयाः ।
षट्त्रिंशं शतमन्तराधौ ।
तत्र द्वात्रिंशत् ।
चतुष्षष्ट्यधिकं शतमूर्ध्वम् ।
तत्रापि पञ्चाशत् ॥

2.6.4

तासामेकैकस्मिन् सक्थ्नि शतम् ।
तत्र न विध्येज्जालन्धराम् ।
तिस्रश्चाभयन्तरगताः ॥

2.6.5

द्वात्रिंशच्छ्रोण्या गुदमेढ्राश्रयाः ।
तासां द्वे द्वे वङ्क्षणयोः कटीकतरुणयोश्चेत्यष्टौ शस्त्रतो रक्षेत् ।
षोडश पार्श्वयोः तयोरूर्ध्वगामेकैकां पार्श्वसन्धिसंज्ञाम् ।
चतुर्विंशतिः पृष्ठे ।
तासां पृष्ठवंशमुभयतो द्वे द्वे ऊर्ध्वगामिन्यौ ताश्चतस्रः ।
चतुर्विंशतिरुदरे ।
तासां मेढ्रस्योपरि रोमराजीमुभयतो द्वे द्वे ता अपि चतस्रः ।
चत्वारिंशद्वक्षसि ।
तासां द्वे हृदये द्वे द्वे च स्तनमूलस्तनरोहितेषु ।
एकैकापस्तम्भापालापेष्विति ।
ताश्चतुर्दश ॥

2.6.6

चतुर्विंशतिर्ग्रीवायाम् ।
तासां चतस्रो ऽष्टौ च मर्मसंज्ञाः ।
द्वे कृकाटिकयोर्द्वे विधुरयोरिति षोडश शस्त्रेण न स्पृशेत् ।
हन्वोः षोडश तासां सन्धिसम्बन्धिन्यौ द्वे ।
षोडश जिह्वायाम् ।
तासामधो द्वे रसवेदिन्यौ द्वे वाक्प्रवर्तिन्यौ ताश्चतस्रः ।
चतुर्विंशतिर्नासायाम् ।
तासां द्वे गन्धवेदिन्यौ तासामेव च तालुन्येकामिति तिस्रः ।
षट्पञ्चाशन्नेत्रयोः ।
तयोरुन्मेषनिमेषक्रिये द्वे द्वे ।
द्वे चापाङ्गयोरिति षट् ।
नासानेत्रगतास्तु ललाटे षष्टिः ।
तासां केशान्तानुगताश्चतस्रो द्वे चावर्तयोरेका च स्थपन्यामिति सप्त ।
कर्णयोः षोडश ।
तासां शब्दवाहिन्यौ द्वे ।
त एव च शङ्खयोस्तासां शङ्खसन्धिगते द्वे ।
द्वादश मूर्धनि ।
तासामुत्क्षेपयोर्द्वे सीमन्तेष्वेकैकामेकामधिपतावित्यष्टौ शस्त्रेण परिहरेत् ।
तथा क्षुद्रिकाः कुटिलाः सङ्कीर्णा ग्रथिताः सन्धिषु चाशस्त्रकृत्याः ॥

2.6.7

तासां यथास्वं तुर्यांशविभागेन पञ्चसप्तत्यधिकं शतमनिलरक्तं वहति ।
एष विभागः पित्तश्लेष्मशुद्धरक्तेष्वपि ।
स्थिता ह्येवं देहमनुगृह्णन्ति दोषाः ।
व्यत्ययेन तु पीडयन्ति ॥

2.6.8

तत्र श्यावारुणाः प्रस्पन्दिन्यः सूक्ष्माः क्षणपूर्णरिक्ता वातरक्तं वहन्ति ।
नीलपीतासिताः स्पर्शोष्णाः क्षिप्रस्राविण्यः पित्तरक्तम् ।
गौर्यः स्निग्धाः स्थिराः शीताः कण्डूमत्यः कफरक्तम् ।
लक्षणसङ्करे संसर्गसन्निपातारक्तम् ।
समा गूढाः स्निग्धा रोहिण्यः शुद्धरक्तमिति ॥

2.6.9

धमन्यस्तु चतुर्विंशतिः ।
ताभिः कायो ऽयमाराम इव जलहारिणीभिः केदार इव कुल्याभिरुपस्निह्यति ।
ताभिश्च नाभिश्चक्रनाभिरारकैरिवावृता ।
तस्या नाभ्यां विशेषेण प्राणा व्यवस्थिताः ।
यतश्च सान्तरग्न्यधिष्ठानम् ॥

2.6.10

तासां खलु धमनीनां दशोर्ध्वं प्रसृता दशाधश्चतस्रस्तिर्यक् ।
ततस्ताभिर्यथास्वमङ्गावयवा धार्यन्ते आप्याय्यन्ते च ॥

2.6.11

तासामूर्ध्वगा हृदयमभिप्रपन्नाः प्रत्येकं त्रिधा जायन्ते ।
ततस्त्रिंशतो मध्ये द्वे द्वे वातपित्तकफरक्तरसान् वहतः ।
अष्टाभिः शब्दरूपरसगन्धा गृह्यन्ते ।
द्वाभ्यां द्वाभ्यां भाषते घोषं करोति स्वपिति प्रतिबुध्यते च ।
द्वे चाश्नु वहतः ।
द्वे च स्तनाश्रिते नार्याः स्तन्यं नरस्य शुक्रम् ॥

2.6.12

अधोगमाः पक्वाशयस्था एवं त्रिधा जायन्ते ।
तत्र दशाद्याः पूर्ववत् ।
द्वे वहतो ऽन्नं मात्राश्रयेण ।
द्वे तोयम् ।
द्वे मूत्रम् ।
द्वे शुक्रं वहतो द्वे च मुञ्चतः ।
ते एव नारीणामार्तवम् ।
द्वे वर्चोनिरसिन्यौ स्थूलान्त्रप्रतिबद्धे ।
एवं द्वादश ।
शेषास्त्वष्टौ धमन्यस्तिरश्चीनाः स्वेदमभितर्पयन्ति ॥

2.6.13

तिर्यग्गामिन्यश्चतस्रो भिद्यमानाः सुबहुधा भवन्तीत्युक्तं प्राक् ॥

2.6.14

स्रोतांसि पुंसां नव ।
कर्णौ नेत्रे नासापुटौ मुखं पायुर्मूत्रपथो ऽन्यानि च त्रीणि स्त्रीणां स्तनौ रक्तपथश्च ।
तथापराण्यन्तस्स्रोतांसि जीवितायतनानि त्रयोदश प्राणोदकान्नधातुमलानामयनानि ॥

2.6.15

तत्र प्राणवाहिनां हृदयं मूलं महास्रोतश्च ।
तानि धातुक्षयरौक्ष्यपिपासाक्षुद्व्यायामवेगधारणादिभिर्दुष्यन्ति ।
ततो ऽतिसृष्टं प्रतिबद्धमल्पाल्पमभीक्ष्णं वा सशब्दशूलमुच्छ्वसनम् ।
तत्र श्वासवत् साधनम् ॥

2.6.16

उदकवाहिनां तलु मूलं क्लोम च ।
तान्यामभयातिपानोष्ण शुष्कान्नकषायतृण्निग्रहादिभिर्दुष्यन्ति ।
ततो ऽतितृष्णा मुखशोषः कर्णक्ष्वेडनं तमोदर्शनं च ।
तत्र तृष्णोक्तमौषधम् ॥

2.6.17

अन्नवाहिनामामाशयो मूलं वामपार्श्वं च ।
तेषा दुष्टौ सर्वं मात्राशितीयोक्तमवगच्छेत् ॥

2.6.18

रसवाहिनां हृदयं मूलं दश धमन्यश्च ।
रक्तवाहिनां यकृत् प्लीहा च ।
मांसवाहिनां स्नावानि त्वक् च ।
भेदोवाहिनां वृक्कौ मांसं च ।
अस्थिवाहिना जघनं मेदश्च ।
मज्जवाहिनां पर्वाण्यस्थीनि च ।
शुक्रवाहिनां स्तनौ मुष्कौ मज्जा च ।
मूत्रवाहिनां बस्तिर्वङ्क्षैणा च ।
शकृद्वाहिनां पक्वाशयः स्थूलान्त्रं च ।
स्वेदवाहिनां मेदो रोमकूपाश्च ।
तेषां दूषणं विविधमहिताहारविहारमुपद्रवान् पृथक् पृथक् साधनं दोषादिविज्ञानीयाद्यथास्वं वृद्धिक्षयलक्षणेन लक्षयेत् ॥

2.6.19

व्यधे तु स्रोतसां भ्रममोहकम्पप्रलापाध्मानशूलारुचितृट्छर्दिज्वरातिरुधिरस्रुतिमूत्रपुरीषरोधा मरणं च ।
तस्मात्स्रोतोविद्धं प्रत्याख्यायोपाचरेत् ।
उद्धृतशल्यं च सद्योव्रणविधानेन ॥

2.6.20

तत्र स्रोतसामेव विशेषाः सिराधमन्यः ।
अन्ये त्वन्यत्वमिच्छन्ति सिराधमनीस्रोतसाम् ।
केवलं परस्परसन्निकर्षात् सदृशकर्मत्वात् सौक्ष्म्याच्च विभक्तकर्मणामप्यविभाग इव लक्ष्यते ॥

2.6.21

अपरे पुनराहुः ।
स्रोतांसि सिराधमन्यो रसवाहिन्यो नाड्यः पन्थानो ऽयनानि गार्गाः शरीरच्छिद्राणि संवृतासंवृतानि स्थानान्याशयाः क्षयानिकेताश्चेति शरीरे धात्ववकाशानां लक्ष्यालक्ष्याणां नामानीति ॥

2.6.22

ते चावकाशाः प्रकुपिताः स्थानस्थान्मार्गस्थांश्च धातून् प्रकोपयन्ति ।
ते ऽपि कुपितास्तानि स्रोतांसि ।
स्रोतांसि च स्रोतांसि ।
धातवश्च धातून् ।
तेषां सर्वेषामेव दूषयितारो दुष्टा दोषाः ।
ते च प्रायशो दुष्यन्त्यग्निदोषात् ।
तस्मात्तन्निमित्तान्यायुरारोग्यबलोपचयवर्णौजांसि ।
तत्प्रतिबद्धान्येव च रञ्जकादीनि भूताग्नयो धात्वग्नयश्च ।
तथान्नमपि तैनैव पक्वममृततां यात्यपक्वं च विषताम् ॥

2.6.23

तत्र पित्तविशेषः पाचकसंज्ञो ऽग्निरिति प्रागभिहितः ।
अन्ये पुनराचक्षते दोषधातुमलसन्निपातजनितो ऽन्तरूष्मा यथानिर्दिष्टाधिष्ठानकर्माग्निरिति ॥

2.6.24

स खलु विधिवदभ्यवहृतमन्नजातं प्राणेन वायुना कोष्ठमाकृष्टं द्रवैर्विभिन्नसङ्घातं स्नेहेन मृदूकृतमभिसन्धुक्षितः समानेनामाशयस्थं स्थालीस्थमिवाम्बुतण्डुलमग्निरन्तरग्निः पचति ॥

2.6.25

तत्तु सर्वरसमपि पच्यमानमादौ मधुरीभूतं कफं फेनीभूतमुदीरयति ।
ततो विदग्धमम्लीभूतमामाशयात् च्यवमानमच्छं पित्तम् ।
प्राप्य च पक्वाशयं कटुकीभूतमनिलम् ॥

2.6.26

ततश्चैवं विक्लिन्न आहारे पञ्च पञ्चात्मका महाभूताग्नयो वायुना व्यस्तान् यथास्वं पञ्चैव भूतगुणानाहारस्थान् पचन्ति ।
ते पक्वाः पुनर्यथास्वमेव देहाश्रितांश्च स्वविकारभूतान् भूतगुणानाप्याययन्ति ॥

2.6.27

एवं च पक्वादाहाराद्विविधौषधगर्भादिव स्नेहादच्छः सारभूतो रसाख्यः किट्टाख्यश्च मलो ऽभिनिर्वर्तते ।
ताभ्यां च सारमलाभ्यां तदात्मकानामेव शरीरगुणानां धात्वाख्यानां यथास्वं स्रोतांसि पारम्पर्येणाविच्छिन्नसन्तानमापूर्यन्ते ।
स्रोतोभ्यश्च यथाविभागं यथायथमेव धातवः पुष्यन्ति ।
उत्तरोत्तरानुप्रवेशे ऽपि च पूर्वेषां स्रोतसां यथाकालं सम्यगाहारोपयोगेन परिणामवताप्याय्यमानानां नापचयो भवति ।
ततश्च धात्वाख्याः प्रसादमलाः स्वं स्वमेव मानमनुवर्तन्ते ।
यथावयश्शरीरम् ॥

2.6.28

तत्राहाररसो व्यानीवक्षिप्तो यथास्वं सप्तसु धात्वग्निषु क्रमात् पच्यमानः स्वात्मभावप्रच्युतिसमनन्तरमेव प्राप्तरक्तादिधातुसंज्ञकः कालवदस्खलितबलप्रमाणो देहमूर्जयित्वा धातून् धातुमलांच पुष्णाति ॥

2.6.29

अथान्नकिट्टमच्छं मूत्रं घनं शकृत् ।
रसस्य सारो रक्तं मलः कफो लसीका च ।
रक्तस्य सारो मांसं कण्डरास्सिराश्च मलः पित्तम् ।
मांसस्य सारो मेदस्त्वचो वसा च किट्टं कर्णाक्षिनासिकास्यरोमकूपप्रजननमलाः ।
मेदसः सारो ऽस्थिस्नायुसन्धयः किट्टं स्वेदः ।
अस्थ्नः सारो मज्जा किट्टं केशरोमनखाः ।
मज्ज्ञस्तु सारः शुक्रं मलोक्षिविट्त्वचां स्नेहः ।
शुक्रस्य सारमोजः ।
अत्यन्तशुद्धतयास्य मलाभावः ।
अन्ये पुनरत एव तस्य नेच्छन्ति पाकम् ।
अपरे पुनः शुक्रसारं गर्भमेवामनन्ति ॥

2.6.30

वायुः पुनरग्नेराहारस्य च बह्वल्पतया तस्मात्तस्मान्मूर्च्छनाविशेषादमूर्तः शब्दवानीषच्छब्दः प्रचुरो ऽल्पो वा पञ्चात्मा कोष्ठे प्रादुर्भवति ।
एवं च कृत्वान्नमया एव देहे सर्वे भावाः ।
तेनैव चेदमेवं चिरेण व्याप्तमन्तर्बहिः शरीरयन्त्रमनवरतप्रवाहेण स्वास्थ्यबलोपचययुक्तं यावत्कर्मोपादानं याप्यते ।
अन्यथा त्वन्नरसोत्क्षेपणाद्विबद्धस्रोतसा वा यथावदनभिसन्धीयमानधातुप्रवाहमन्तरा व्यवच्छिद्यते ।
व्याधिभाजनं वा भवति ॥

2.6.31

अन्ये तु वर्णयन्ति ।
अभ्यवहृत्मात्रस्याहारस्य कण्ठनाडीप्रलुठितस्य महानिम्रमवतीर्णस्य यो य एवांशः कायाग्निनावलीढः पाकमुपनीयते तस्य तस्यैव प्रसादाख्यो रसलेशो ऽभिनिर्वृत्तिसमनन्तरं समं समस्तधातुषु संवृतासंवृतैः प्रविसृतो विवृतमुखेष्वासन्नेषु स्रोतस्सु भूयान् प्रथमतरं चान्वेति पर्यायेणेतरेष्वपि ।
एवमन्नरस एव साक्षात्सर्वधातून् केनचिदेव कालभेदेन पुष्णाति ।
न पुनर्धातवो धात्वन्तरतां स्वरूपोपमर्देन प्रतिपद्यन्त इति ॥

2.6.32

अग्निस्तु बलभेदेन चतुर्विधो भवति ।
समो विषमस्तीक्ष्णो मन्द्श्च ।
तत्र समो यः सम्यगेवोपयुक्तमन्नं सम्यक् पचति ।
विषमो ऽसम्यगप्युपयुक्तं पचति सम्यगपि च न पचति ।
तीक्ष्णो ऽसम्यगप्युपयुक्तमाशु पचति ।
स एव वर्धमानो ऽत्यग्निर्भवति ।
मन्दस्तु सम्यगप्युपयुक्तमुदरगौरवाध्मानविबन्धाटोपान्त्रकूजनमुखशोषवायुस्तम्भादीन्यामलिङ्गानि दर्शयित्वा चिरात् पचति ।
बाह्येनापि च ज्वालाङ्गारात्मकेनाग्निना नैकाकारः सर्वदा पाको भवति ।
किमुतान्तराश्रयेणोष्णात्मना समेनापि ।
तस्मात्तं प्रयत्नतो रक्षेत् ।
तत्र प्रवरेण सात्म्येन समं यथास्वमपरेणेतरान् क्रमशः सात्म्यमापाद्य प्रवरेण परिपालयेद्दोषोपक्रमणीयोक्तेन च वातादिसाधनेन ग्रहणीरोगविहितैश्चौषधव्यायामयोगैरिति ।
भवति चात्र ॥

2.6.33

स्वधातुसमवर्णानि वृत्तस्थूलान्यणूनि च ।
स्रोतांसि दीर्घाण्याकृत्या प्रतानसदृशानि च ॥

2.6.34

आहारश्च विहारश्च यः स्याद्दोषगुणैः समः ।
धातुभिर्विगुणो यश्च स्रोतसां स प्रदूषकः ॥

2.6.35

अतिप्रवृत्तिः सङ्गो वा सिराणां ग्रन्थयो ऽपि वा ।
विमार्गतो वा गमनं स्रोतसां दुष्टिलक्षणम् ॥

2.6.36

बिसानामिव सूक्ष्माणि दूरं विप्रसृतानि च ।
द्वाराणि स्रोतसां देहे रसो यैरुपचीयते ॥

2.6.37

केचिदाहुरहोरात्रात् षडहादपरे परे ।
मासात् प्रयाति शुक्रत्वमन्नं पाकक्रमादिभिः ॥

2.6.38

वृष्यादीनि प्रभावेण सद्यः शुक्रादि कुर्वते ।
प्रायः करोत्यहोरात्रात् कर्मान्यदपि भेषजम् ॥

2.6.39

कफः पित्तं मलः खेषु प्रस्वेदो नखरोम च ।
स्नेहो ऽक्षित्वग्विशामोजो धातूनां क्रमशो मलाः ॥

2.6.40

समः समाने स्थानस्थे विषमो ऽग्निर्विमार्गगे ।
पित्ताभिमूर्छिते तीक्ष्णो मन्दोस्मिन्कफपीडिते ॥

2.6.41

शान्ते ऽग्नौ म्रियते युक्ते चिरं जीवत्यनामयः ।
रोगी स्याद्विकृते तस्मात्तं प्रयत्नेन पालयेत् ॥

मूल पाठ: Aṣṭāṅgasaṃgraha · Edition: e-text by SARIT · SARIT: Search and Retrieval of Indic Texts · SARIT (e-text) via Internet Archive · CC BY-SA 3.0

Esc