भाषा

ENहिગુ
ग्रंथ पाठ

अष्टाङ्गसंग्रह · अध्याय 2.5

2.5.1

अथातो ऽङ्गविभागं शारीरं व्याख्यास्यामः ।
इति ह स्माहुरात्रेयादयो महर्षयः ॥

2.5.2

सकलमपि शरीरमङ्गमित्युच्यते तत्र पुनः षडङ्गं शिरोन्तराधिर्द्वौ बाहू सक्थिनी च नेत्रनाभिपाणिपादादीनि त्वस्य प्रत्यङ्गानि ॥

2.5.3

महागुणमयेभ्यश्च खपवनतेजोजलभूम्याख्येभ्यो महाभूतेभ्यश्चेतनाधिष्ठितेभ्यो ऽभिनिर्वृत्तिरङ्गस्य ॥

2.5.4

भूतानामेव च दृष्टादृष्टविविधकर्मवशादनेकरूपात्सन्निवेशविशेषादाकृतिप्रमाणस्नेहदीप्तिस्वरादीनां सारूप्यमसारूप्यं वा सूक्ष्मस्थूलतारतम्यभेदभिन्नमतिबहुप्रकारं निष्पद्यते ॥

2.5.5

तत्र सत्त्वबहुलमाकाशम् ।
रजोबहुलो वायुः ।
उभयबहुलो ऽग्निः ।
सत्त्वतमोबहुलमम्बु ।
तमोबहुला भूः ।
तेषामप्रतिघातश्चलत्वमौष्ण्यं द्रवता काठिन्यमिति क्रमाल्लिङ्गानि ।
विशेषतश्च श्रोत्रादिष्विन्द्रियेष्ववस्थानम् ।
शब्दस्पर्शरूपरसगन्धैरेकैकप्रवृद्धैरन्वयः ॥

2.5.6

तत्राकाशजानि श्रोत्रं शब्दः सर्वस्रोतांसि विविक्ता च ।
वायवीयानि स्पर्शनं स्पर्शः प्रश्वासोच्छ्वासादिपरिस्पन्दनानि लाघवं च ।
आग्नेयानि दर्शनं रूपं पित्तमूष्मा पक्तिः सन्तापो मेधा वर्णो भास्तेजः शौर्यं च ।
आम्भसानि रसनं रसः स्वेदक्लेदवसारसासृक्शुक्रमूत्रादिद्रवसमूहः शैत्यं स्नेहश्च ।
पार्थिवानि घ्राणं गन्धः केशनखास्थ्यादिमूर्तसमूहो धैर्यं स्थैर्यं च ॥

2.5.7

तेषु मातृजानि मृदूनि त्वग्रक्तमांसमेदोमज्जनाभिहृदयामाशयगर्भशययकृत्प्लीहाक्लोमान्त्रगुदादीनि ॥

2.5.8

षितृजानि स्थिराणि केशनखास्थिशुक्रसिरास्नाय्वादीनि ॥

2.5.9

आत्मजानि नानायोनिषूत्पत्तिर्मनश्चेतनेन्द्रियाणि प्राणापानौ धारणमाकृतिस्वरवर्णविशेषाः कामक्रोधलोभभयहर्षधर्मार्धमशीलतास्मृतिबुद्धीच्छाद्वेषप्रयत्नाहङ्कारसुखदुःखायुरात्मज्ञानानि च ॥

2.5.10

सात्म्यजान्यायुरारोग्यमनालस्यलोलुपत्वमिन्द्रियप्रसादस्वरवर्णौजःसम्पत्प्रशस्तता प्रहर्षभूयस्त्वं मेधाबलं च ॥

2.5.11

रसजानि कृत्स्नस्य देहस्य सम्भवो वृत्तिर्वृद्धिस्तृप्तिरलौल्यं पुष्टिरुत्साहश्च ॥

2.5.12

शुद्धसत्त्वजानि शौचमास्तिकत्वं कृत्ज्ञता दाक्षिण्यं व्यवसायः शौर्यं गाम्भीर्यं बुद्धिर्मेधा स्मृतिः शुक्लवर्त्मरुचिर्भाक्तिराभिषङ्गाभावस्तमोगुणविपर्ययश्च ॥

2.5.13

राजसानि दुरुपचारता ऽनार्यं शौर्यं मात्सर्यममितभाषित्वमहङ्कारो लोलुपत्वं दम्भो मानः क्रोधो हर्षः कामश्च ॥

2.5.14

तामसान्यज्ञानं विषादः प्रमादो निद्रालस्यं क्षुत्तृष्णा शोको मात्सर्यं विप्रतिपत्तिः परातिसन्धानं सत्त्वगुणवैपरीत्यं च ॥

2.5.15

तत्र सत्त्वं मनस्तस्योषप्लवो रजस्तमश्चेत्येवं भूतात्मकं देहमाहुः ॥

2.5.16

तस्य पुनः प्रविभागः ।
त्वचः कला दोषा धातवो मला बुद्धीन्द्रियाणि तदधिष्ठितानि कर्मेन्द्रियाण्यतीन्द्रियमाशयाः प्राणायतनानि कण्डराजालानि कूर्चारज्जवस्सीवन्यो ऽस्थिसङ्घाताःसीमन्ता अस्थीन्यस्थिसन्धयः स्नायूनि पेश्यस्सिराधमन्यस्स्रोतांस्यूष्माणो मर्माणि केशश्मश्नुलोमानि प्रकृतिविकृतिभेदाश्च ।
तत्रासृजः पच्यमानस्य क्षीरस्येव सन्तानिकाः षट् त्वचो भवन्ति ।
त्वक्प्रसादाद्रक्तस्य प्रसादः ॥

2.5.17

तासामुदकधरा चाद्या ।
द्वितीया ऽसृग्धरा ।
तृतीया सिध्मकिलासाधिष्ठाना ।
चतुर्थी सर्वकुष्ठाधिष्ठाना ।
पञ्चमी पुनरलजीविद्रध्यधिष्ठाना ।
षष्ठी तु प्राणधरा ।
यस्यां छिन्नायां ताम्यत्यन्धमिव च तमः प्रविशति यां चाधिष्ठायारूपंषि जायन्ते पर्वसु कृष्णरक्तानि स्थूलमूलानि दुश्चिकित्स्यतमानि ॥

2.5.18

अन्ये सप्त त्वचो वदन्ति ।
तत्र प्रथमा भासिनी नाम या वर्णानामवभासिनी खादीनाञ्च षञ्चानां छायानां सा व्रीहेरष्टादशभागप्रमाणा ।
द्वितीया लोहिनी नाम षोडशभागप्रमाणा ।
तृतीया श्वेता नाम द्वादशभागप्रमाणा ।
चतुर्थी ताम्रा नामाष्टभागप्रमाणा ।
पञ्चमी वेदिनी नाम पञ्चभागप्रमाणा ।
षष्ठी रोहिणी नाम व्रीहिप्रमाणा ।
सप्तमी मांसधरा नाम व्रीहिद्वयप्रमाणा ॥

2.5.19

यस्तु धात्वाशयान्तरेषु क्लेदो ऽवतिष्ठते स यथास्वमूष्मभिर्विपक्वः स्नायुश्लेष्मजरायुच्छन्नः काष्ठ इव सारो धातुसारशेषो रसशेषोल्पत्वात् कलासंज्ञः ।
ता धात्वाशयान्तरमर्यादाः सप्त कलाः ॥

2.5.20

तासां प्रथमा मांसधरा नाम यस्यां मांसे सिरास्नायुधमनीस्रोतसां भूमाविव पङ्कोदकेन बिसमृणालानां प्रतानानि भवन्ति ॥

2.5.21

द्वितीया रक्तधरा नाम मांसस्याभ्यन्तरतस्तस्यां शोणितं विशेषतश्च सिराप्लीहयकृत्सु भवति ।
मांसाच्च क्षतात् क्षतजं वृक्षादिव क्षीरिणः क्षीरं प्रवर्तते ॥

2.5.22

तृतीया मेदोधरा नाम ।
मेदो हि तस्यामुदरे ऽण्वस्थिषु च सरक्तं भवति ।
तदेव च शिरसि कपालप्रतिच्छन्नं मस्तिष्काख्यं मस्तुलुङ्गाख्यं च स्थूलास्थिषु च मज्जा ।
चतुर्थी श्लेष्मधरा नाम ।
तत्स्थेन हि श्लेष्मणा श्लेषिताः सर्वसन्धयो दृढा भवन्ति सोपाङ्गा इवाक्षाः ।
पञ्चमी पुरीषधरा नाम ।
सा ह्यत्रामपक्वाशयाश्रिता कोष्ठान्तरुण्डुकस्थं मलं विभजति ॥

2.5.23

षष्ठी पित्तधरा नाम पक्वामाशयमध्यस्था ।
सा ह्यन्तरग्नेराधिष्ठानतयामाशयात् पक्वाशयोन्मुखमन्नं बलेन विधार्य पित्ततेजसा शोषयति पचति पक्वं च विमुञ्चति दोषाधिष्ठिता तु दौर्बल्यादाममेव ।
ततो ऽसावन्नस्य ग्रहणात् पुनर्ग्रहणीसंज्ञा ।
बलं च तस्याः पित्तमेवाग्न्यभिधानमतः साग्निनोपस्तब्धोपबृंहितैकयोगक्षेमा शरीरं वर्तयति ॥

2.5.24

सप्तमी शुक्रधरा नाम द्व्यङ्गुले दक्षिणे पार्ण्वे बस्तिद्वारस्याधो मूत्रमार्गमाश्रिता सकलशरीरव्यापिनी शुक्रं प्रवर्तयति ॥

2.5.25

दोषा धातवो मलाश्च प्रागुदिताः ।
पञ्च बुद्धीन्द्रियाणि श्रोत्रं स्पर्शनं दर्शनं रसनं घ्राणं च ।
तेषां सभागतया क्रमाद्विषयाः शब्दस्पर्शरूपरसगन्धाः ।
पञ्चबुद्धीन्द्रियाधिष्ठानानि कर्णौ त्वगक्षिणी जिह्वा नासिके च ॥

2.5.26

पञ्च कर्मेन्दिर्याणि वाक्पायूपस्थपाणिपादसंज्ञकानि ।
तान्यपि च वचनोत्सर्गहर्षादानगमनार्थानि ॥

2.5.27

अतीन्द्रियं तु मनः सर्वार्थैरन्वयात् तद्योगेन पञ्चेन्द्रियाणामर्थप्रवृत्तेः बुद्धिकर्मेन्द्रियोभयात्मकत्वाच्च ॥

2.5.28

सप्ताशयः क्रमादसृक्कफामपित्तपक्ववायुमूत्राधाराः स्त्रीणां पित्तपक्वाशययोर्मध्ये गर्भाशयो ऽष्टमः ।
तेषु सप्तसु प्रतिबद्धानि कोष्ठाङ्गानि हृदययकृत्प्लीहफुफ्फुसोण्डुकवृक्कान्त्रादीनि ।
तत्र समानेनाध्मायमानस्य देहोष्मणा पच्यमानस्य शोणितस्याच्छतो जायते यकृत् प्लीहा च ।
रक्तफेनात् फुफ्फुसम् ।
रक्तकिट्टादुण्डुकः ।
रक्तमेदःप्रसादाद् वृक्कौ ।
रक्तमांसप्रसादादान्त्राणि ।
तानि सार्धत्रिव्यामानि पुंसाम् ।
त्रिव्यामानि स्रीणाम् ।
रक्तस्यानिलयोगात् कालीयम् ।
हृदयं पुनः श्लेष्मरक्तप्रसादात् सम्भवति पद्मकोशसङ्काशं सुषिरमधोमुखम् ।
तद्विशेषेण चेतनायाः स्थानं सर्वभावानां च चेतनानुगतानाम् ।
तस्य वामपार्ण्वे प्लीहा फुफ्फुसश्च दक्षिणतो यकृत् क्लोम च ॥

2.5.29

तथा कफरक्तवाहिनां स्रोतसां महाभूतानां च प्रसादादिन्द्रियाणि ।
तेष्वपि च नेत्रे श्लेष्मणः प्रसादाच्छुक्लमण्डलं तत् पितृजम् ।
असृजः कृष्णमण्डलं तन्मातृजम् ।
मध्ये दृष्टिमण्डलं तदुभयात्मकम् ॥

2.5.30

पक्ष्मवत्मर्शुक्लकृष्णदृष्ट्याख्यानि पञ्च मण्डलानि ।
तत्सन्धयश्चत्वारः ।
द्वौ चापाङ्गकनीनयोः इति ते षट् ।
षट् च पटलानि ।
द्वे वर्त्मनी ।
बाह्यं चाश्रितमग्न्यम्भसी ।
द्वितीयं मांसं तृतीयं मेदश्चतुर्थमस्थि ।
तेषां बहलता दृष्टेः पञ्चमांशेन ॥

2.5.31

बन्धनगुणास्तु चत्वारः सिराकण्डरामेदःकफात्मकाः ।
श्लेष्मा तु परं सर्वसन्धिबन्धनमित्युक्तं प्राक् ।
नेत्राश्रितं तु तेजो बाह्यतेजसा स्वयोनिना योगाच्छस्त्रमिवाश्मना कर्मण्यं भवति ।
अतियोगादुपहन्यते ।
तच्च वैद्युतवद् बडवामुखवच्चाम्भोमध्यगमपि वीर्योत्कर्षात्तेजस्त्वं न जहाति ।
मांसासृक्कफप्रसादात्तु जिह्वा जायते ।
मांसासृक्कफमेदःप्रसादाद् वृषणाविति ॥

2.5.32

दश प्राणायतनानि मूर्धा जिह्वाबन्धनं कण्ठो हृदयं नाभिर्बस्तिर्गुदः शुक्रमोजो रक्तं च ।
तेषामाद्यानि सप्त पुनर्महामर्मसंज्ञानि ॥

2.5.33

षोडश कण्डराः ।
तासां द्वे द्वे करचरणेषु ।
चतस्रः पृथग्ग्रीवापृष्ठयोः ॥

2.5.34

षोडश जालानि तेषां मांससिरास्नाय्वस्थिजानि चत्वार्येकैकत्र गुल्फे मणिबन्धे च प्रस्परगवाक्षितानि तानि स्थितानि ॥

2.5.35

षट् कूर्चा हस्तपादग्रीवामेढ्रेषु ॥

2.5.36

चतस्रो मांसरज्जवः पृष्ठवंशमुभयतः पेशीनिबन्धनार्यं तासां द्वे बाह्ये ।
द्वे चाभ्यन्तरस्थिते ॥

2.5.37

सप्त सीवन्यः ।
ताः पञ्च शिरसि जिह्वामेहनयोरेकैका ।
परिहार्याश्च शस्त्रेण ॥

2.5.38

चतुर्दशास्थिसङ्घाताः ।
तेषामेकैको गुल्फजानुवङ्क्षणमणिबन्धकूर्परकक्ष्यासु त्रिकशिरसोश्च ॥

2.5.39

तद्वत् सीमन्ताः ।
ते तु पञ्च शिरसीत्यष्टादश ॥

2.5.40

त्रीणि षष्ट्यधिकान्यस्थिशतानि ।
तेषां च चत्वारिंशच्छतं शाखासु ।
सविंशं शतमन्तराधौ ।
शतमूर्ध्वमिति ।
तत्रैकैकस्मिन् सक्थ्नि पञ्च पादनखाः प्रत्येकमङ्ग्ल्यां त्रीण्यस्थीनि तानि पञ्चदश ।
पञ्चपादशलाकाः ।
तत्प्रतिबन्धकमेकम् ।
द्वे द्वे कूर्चगुल्फजङ्घास्वेकैकं पार्ष्णिजानूरुषु ।
सर्वाणि च नखास्थ्यादीनि सक्थिवद् बाह्वोश्च ॥

2.5.41

चतुर्विंशतिः परशुकाः ।
तावन्त्येव स्थालकान्यर्बुदानि च ।
त्रिंशत् पृष्ठे ।
अष्टावुरसि ।
एकैकं भागे त्रिके ।
नितम्बयोश्च द्वे ।
तद्वदक्षकांसांसफलकेषु ॥

2.5.42

तथा गण्डक्र्णशङ्खेषु जत्रुतालुनोश्च ।
त्रयोदश ग्रीवायाम् ।
चत्वारि कण्ठनाड्याम् ।
द्वे हनुबन्धने ।
द्वात्रिंशद्दन्ताः ।
तद्वदुलूखलानि च ।
त्रीणि नासायां षट् शिरसि ॥

2.5.43

तानि जानुनितम्बांसगण्डतालुशङ्खवङ्क्षणमध्यशिरस्सु कपालसंज्ञानि ।
दशनास्तु रुचकाः ।
घ्राणकर्णग्रीवाक्षिकोशेषु तरुणानि ।
पाणिपादपार्श्वपृष्ठेषु वलयानि ।
शेषाणि नलकानीति ।
नामानुगताकृतीनि पञ्चविधान्यस्थीनि ।
तेषु हि सिराभिः स्नायुभिश्च निबद्धानि मांसानि ॥

2.5.44

दशोत्तरं शतद्वयमस्थिसन्धीनाम् ।
तेषामष्टषष्टिः शाखासु ।
एकोनषष्टिरन्तराधौ ।
त्र्यशीतिरूर्ध्वम् ।
तत्रैकैकस्मिन् सक्थ्नि पादाङ्गुलौ प्रत्येकं त्रयः ।
द्वावङ्गुष्ठे ।
ते चतुर्दश ।
एकैको गुल्फजानुवङ्क्षणेषु ॥

2.5.45

त्रयः कटीकपालेषु चतुर्विंशतिः पृष्ठवंशे ।
तद्वत् पार्श्वयोः ।
अष्टावुरसि ॥

2.5.46

अष्टौ ग्रीवायाम् ।
त्रयः कण्ठनाड्याम् ।
अष्टदश कण्ठनाडीनिबद्धा हृदययकृत्क्लोमनाडीषु ।
द्वात्रिंशद्दन्तमूलेषु ।
एकैकः काकलनासामूर्द्धसु ।
द्वौ द्वौ गण्डकर्णशङ्खवर्त्मनेत्रहनुसन्धिषु ।
द्वावुपरिष्टात् भ्रुवोः ।
पञ्च शिरःकपालेषु ॥

2.5.47

ते ऽङ्गुलिगुल्फजानुमणिबन्धकूर्परेषु कोरसंज्ञाः ।
कक्षावङ्क्षणदन्तमूलेषूलूखलसंज्ञाः ।
अंसपीठगुदभगनितम्बेषु सामुद्गाः ।
ग्रीवापृष्ठवंशयोः प्रतराः ।
शिरःकटीकपालेषु तुन्नसेवनीसंज्ञाः ।
हनूभयतो वायसतुण्डाः ।
कण्ठनेत्रहृदययकृत्प्लीहक्लोमनाडीषु मण्डलसंज्ञाः ।
श्रोत्रशृङ्गाटकेषु शङ्खावर्ताः ।
इत्यस्थिसन्धयो ऽष्टविधाः ॥

2.5.48

स्नायुपेशीसिराश्रितैस्तु सहस्रद्वयं न पुनः शस्त्रप्रणिधाने तेषु वाच्यमस्तीति पृथङ् नोच्यते ॥

2.5.49

नव स्नायुशतानि ।
तेषां षट् शतानि शाखासु ।
त्रिंशच्छतद्वयमन्तराधौ ।
ऊर्ध्वं सप्ततिः ।
तत्रैकैकस्मिन् सक्थ्नि पादाङ्गुल्यां प्रत्येकं षट् षट् ।
तानि त्रिंशत् ।
दश दश पादतलकूर्चगुल्फेषु ।
त्रिंशज्जङ्घायाम् ।
दश जानुनि ।
चत्वारिंशदूरौ ।
दश वङ्क्षणे ॥

2.5.50

चत्वारिंशत् कट्याम् ।
विंशतिर्मुष्कमेढ्रबस्त्यन्त्रेषु ।
अशीतिः पृष्ठे ।
षष्टिः प्रार्श्वयोः ।
अष्टादशोरसि ।
चत्वार्यक्षकयोः ।
अष्टावंसयोः ॥

2.5.51

द्वे द्वे मन्यावटुनेत्रौष्ठतालुषु ।
त्रिंशद् ग्रीवायाम् ।
त्रीणि जत्रुणि ।
चत्वारि हन्वोः ।
पञ्च जिह्वायाम् ।
द्वादशोत्तराधरेषु दन्तमांसेषु ।
षण्मूर्धनि ॥

2.5.52

तत्र शाखासु सन्धिषु च प्रतानवन्ति ।
महास्नावानि तु वृत्तानि तानि कण्डरासंज्ञानि ।
बस्त्यामपक्वाशयान्त्रेषु सुषिराणि ।
पार्श्वपृष्ठोरश्शिरस्सु पृथूनि ॥

2.5.53

स्नावबन्धनैर्हि सन्धिषु सुबद्धा तनुर्नौरिव सम्यगीहते ।
तस्मादस्थिसिरादिभ्यो ऽपि तानि यत्नतो रक्षेत् ।
यश्च स्नावानि बाह्यान्यभ्यन्तराणि च सम्यग् जानाति स गूढमपि शल्यमाहर्तुं समर्थो भवति ॥

2.5.54

पञ्च पेशीशतानि ।
तासां चत्वारि शतानि शाखासु ।
षष्टिरन्तराधौ ।
चत्वारिंशदूर्ध्वम् ।
तत्रैकैकस्मिन् सक्थ्नि पादाङ्गुल्यां प्रत्येकं तिस्रः ।
ताः पञ्चदश ।
दश दश प्रपदे पादतले गुल्फे च ।
तथा पादस्योपरि कूर्चे सन्निविष्टाः ।
विंशतिर्जङ्घायाम् ।
पञ्च जानुनि ।
विंशतिरूरौ ॥

2.5.55

एकैका मेढ्रसेवन्योः ।
द्वे वृषणयोः ।
दश स्फिजोः ।
तिस्रो गुदे तास्तु वलीसंज्ञाः ।
द्वे बस्तिशिरसि ।
चतस्र उदरे ।
नाभ्यामेका ।
हृद्यामाशये च ।
षट् यकृत्प्लीहोण्डुकेषु ।
पृष्ठे पञ्चोर्ध्वसन्निविष्टाः ।
दश दीर्घाः पार्श्वयोः ।
दश वक्षसि ।
तिस्रो ऽंसाक्षकोपरितः ॥

2.5.56

दश ग्रीवायाम् ।
अष्टौ गण्डयोः ।
अष्टौ हन्वोः ।
एकैका गलकाकलजिह्वामूर्धसु ।
द्वे द्वे तालुललाटयोः ।
नासौष्ठकर्णेषु च ॥

2.5.57

स्त्रीणां तु विंशतिरधिका ।
तत्र दश स्तनयोः ।
तासां यौवने परिवृद्धिर्भवति ।
दश योनौ ।
तासामभ्यन्तराश्रिते द्वे ।
मुखाश्रिते वृत्ते द्वे ।
तिस्रो गर्भमार्गाश्रयाः ।
यस्यां गर्भस्तिष्ठति ।
योनिस्तु शङ्खनाभ्याकृतिस्त्र्यावर्ता ।
तस्यास्तृतीय आवर्ते पित्तपक्वाशयान्तरे गर्भशय्या ।
तस्यां शुक्रार्तवप्रवेशिन्यस्तिस्रः पेश्यः ॥

2.5.58

ताभिर्हि शरीरे तनुबहलस्थूलाणुपृथुवृत्तह्रस्वदीर्घस्थिरमृदुश्लक्ष्णकर्कशाभिः सन्ध्यस्थिसिरास्नावानि प्रच्छादितानि ॥

2.5.59

सिराधमनीमुखानां त्वणुशो विभज्यमानानामेकोनत्रिंशच्छतसहस्राणि नव च शतानि षट्पञ्चाशानि भवन्ति ।
ताभिरिदं गवाक्षितं पिनद्धमाततं च ॥

2.5.60

तावन्ति च केशश्मश्रुलोमानि ।
तासां हि मुखानि तत्प्रतिबद्धान्यतस्तानि ताभिराप्याय्यन्ते ।
तैश्च ताः स्वेदमभिवहन्ति ।
तथाभ्यङ्गलेपादिवीर्यं त्वचि विपक्वमन्तर्नयन्ति स्पर्शं च गृह्णन्ति ॥

2.5.61

स्रोतांसि पुनरसङ्ख्येयान्येव ।
तथापि तु सिरादीनि यथास्थूलं यथोपयोगं चान्यत्रोपदेक्ष्यन्ते ।
इत्येवं परिसङ्ख्याताः शरीरे मूर्तिमन्तः स्थिरा भावाः ॥

2.5.62

द्रवास्तु यत्तदतियोगेन च्यवमानं पुरीषमनुबध्नाति ।
तथा मूत्रं रुधिरमन्यांश्चशरीरे धातून् ।
यच्च सर्वशरीरगतं बाह्या त्वग्बिभर्ति ।
यच्च त्वगन्तरे व्रणगतं लसीकाशब्दवाच्यम् ।
यच्चोष्मानुबद्धं रोमकूपेभ्यो ऽभिनिष्पतत्स्वेदवाच्यम् ।
तदुदकम् ॥

2.5.63

तस्याद्यस्य चाहारसारस्य रसाख्यस्य रक्तस्य शकृतः श्लेष्मणः पित्तस्य मूत्रस्य वसायाः मेदसो मज्ञश्च स्वेन स्वेनाञ्जलिप्रमाणेन यथापूर्वमेकादिसङ्ख्याप्रवृद्धिः ।
अर्द्धाञ्जलिः शुक्रस्य ।
तावदेव मस्तिष्कमोजश्च ।
स्त्रीणां रजसो ऽञ्जलयश्चत्वारः ।
स्तन्यस्य द्वौ ।
उभयमपि चैतद्रसप्रसादात्मकमिति ॥

2.5.64

समधातोः परिमाणमिदम् ।
अतो वृद्धिक्षयौ यथास्वं लक्षणैर्विभावयेदपराश्चापरिसङ्ख्यातान्मूर्तामूर्तान् भावान् ।
तद्यथा ।
मांसकर्णादिमलान् वायुबुद्धिस्मृत्यादीश्च ॥

2.5.65

धन्वन्तरीयाः पुनः पठन्ति ।
विलक्षणानि हि शरीराणि नित्यमेव च चला दोषधातुमलाः ।
तस्मादुदकादीनामपि समत्वं मांसादिवत् परिमाणतो निर्देष्टुमशक्यम् ।
केवलं स्वास्थ्यमात्रेणानुमानतो लक्षयेदिति ॥

2.5.66

सर्व एव त्ववयवाः परमाणुभेदेनाति सौक्ष्म्यादसङ्ख्येयतां यान्ति ।
तेषां संयोगविभागे परमाणूनां कर्मप्रेरितो वायुः कारणम् ॥

2.5.67

तदेतदङ्गमभेदेन भेदतश्च गृह्यमाणं बन्धाय मोक्षाय च भवतीति ।
भवति चात्र ॥

2.5.68

इति सर्वावयवशो यो जानाति कलेवरम् ।
अहितेषु स मोहेन न कदाचित् प्रवर्तते ॥

मूल पाठ: Aṣṭāṅgasaṃgraha · Edition: e-text by SARIT · SARIT: Search and Retrieval of Indic Texts · SARIT (e-text) via Internet Archive · CC BY-SA 3.0

Esc