भाषा

ENहिગુ
ग्रंथ पाठ

अष्टाङ्गसंग्रह · अध्याय 1.8

1.8.1

अथातो ऽन्नरक्षाविधिमध्यायं व्याख्यास्यामः इति ह स्माहुरात्रेयादयो महर्षयः ॥

1.8.2

ईश्वराणां वसुमतां विशेषेण तु भूभुजां प्रायेण मित्रेभ्यो ऽप्यमित्रा भूयांसो भवन्ति ।
ततस्तत्प्रयुक्ताः समासन्नवर्तिनो ऽन्नपानादिषु विषं प्रयच्छन्ति ।
स्त्रियश्च तत्प्राणिधिप्रयुक्ताः सौभाग्यलोभेन ।
तस्माद्राजा कुलीनं स्निग्धमाप्तमास्तिकर्मायर्मायपरिग्रहं दक्षं दक्षिणं निभृतं शुचिमनुद्धतमनलसमव्यसनिनमनहङ्कृतमकोपनमसाहसिकं वाक्यार्थावबोधकुशलं निष्णातमष्टाङ्गे यथाम्रायमार्युवेदे सुविहितयोगक्षेमं सन्निहितागदादियोगं सात्म्यज्ञं च प्राणाचार्यं परिगृह्णीयात् ।
तमर्थमानाभ्यां यथाकालं गुरुमिव शिषयः पितरमिव पुत्रः पूजयेत् ।
प्रतिकूलमपि तद्वचः साम्प्रतं मतमिति प्रतिमन्येत ।
न हि भद्रो ऽपि गजपतिर्निरङ्कुशः श्लाघनीयो जनस्य ।
तस्मात्तदायत्तमाहारविहारं प्रति चात्मानं कुर्यात् ।
उपात्तमपि खलु जीवितमुपायबलेन स्वयमधितिष्ठति ॥

1.8.3

अपि च बहुपरिग्रहा नरपतयः ।
सन्ति चाशुकारिणः शूलसन्यासादयः ।
प्रतिक्षणं प्रत्यवेक्षणीयावस्थाश्च रोगिणो विशेषेण राजानः ।
ते हि प्रमादपरिगता दुःखासहिष्णवश्च स्वयमप्यपथ्यरुचयः सन्निहिताहितप्रियवचनप्रायपरिचारकाश्च तस्माद्भिषजो राजा राजगृहासन्ने निवेशनं कारयेत् ।
तथा हि सर्वोपकरणेषु नृपतिशरीरोपयोगिष्वपरोक्षवृत्तिर्भवति ॥

1.8.4

स सम्यक्सम्पन्नमन्नं सुपरीक्षितं विशुद्धमग्न्यादिषु प्रागुपनीतं शिखिना दृष्टमभिप्रोक्षितं प्रोक्षाणैः पुरःस्थितो राजानं हस्तबद्धौषधिरत्नं भोजयेत् ॥

1.8.5

भुञ्जानस्य चास्य दुन्दुभीनगदप्रलिप्तान् वादयेत् ॥

1.8.6

तत्र सविषमन्नं स्राव्यमाणमविस्राव्यं भवति
चिरेण पच्यते
पक्वं च सद्यः पर्युषितमिव निरूष्म स्तब्धं च जायते
यथास्ववर्णगन्धरसैर्व्यापद्यते
प्रक्लिद्यते
चन्द्रकाचितं च भवति ॥

1.8.7

व्यञ्जनानामाशु शुष्कत्वं भवति ।
क्वाथः ध्यामता श्यामता हीनातिरिक्तविकृतानां चात्रच्छायानां दर्शनमदर्शनमेव वा
फेनपटलसीमन्तोर्ध्वविविधराजितन्तुबुद्बुदप्रादुर्भावो
विशेषेण लवणोल्बणेषु फेनमाला रसस्य मध्ये नीला राजिः
पयसस्ताम्रा
मद्यतोययोः काली
दध्नः श्यावा
तक्रस्य नीलपीता
मस्तुनः कपोताभा
धान्याम्लस्य कृष्णा
द्रवौषधस्य कपिला
घृतस्य कपिलाभा
क्षौद्रस्य हरिता
तैलस्यारुणा
वसागन्धश्च ॥

1.8.8

फलानामामानां पाकः
पक्वानां प्रकोथः
दव्याणामार्द्राणां सहसा म्लानत्वमुत्पक्वभावः
शुष्काणां श्यावता वैवर्ण्यं वा
कठिनानां मृदुता
मृदूनां कठिनत्वं
माल्यस्य म्लानता गन्धनाशः स्फुटिताग्रत्वं
आस्तरणप्रावरणानां ध्याममण्डलता तन्तुरोमपक्ष्मशातनं च
लोहमणिमयानां पङ्कमलोपदेहः
स्नेहरागगौरवप्रभावर्णस्पर्शनाशश्च ॥

1.8.9

विषदस्तु स्वदोषशङ्कया त्रस्तो
भीतः
स्वेदवेपथुमान्
शुष्कश्याववक्त्रः
समन्तात् सोद्वेगं विलक्षो ऽभिवीक्षते ।
यत्र चानेन विषं प्रयुक्तं तद्विशेषेण ।
तथा स्रस्तोत्तरीयः स्तम्भकुड्यादिभिरात्मानमन्तर्धत्ते ।
स्खलितगतिर्दीनो लज्जावानस्थानहासी पृष्टो ऽप्यसम्बन्धमुत्तरं ददाति ।
नैववा विवक्षुर्मुह्यति
अङ्गुलीः स्फोटयति
ग्रीवामालभते
शिरः कण्डूयति
औष्ठौ परिलेढि
जृम्भते
भुवं विलिखति
क्रियासु त्वरते
विपरीतमाचरति
स्वभूमौ च नावतिष्ठते ॥

1.8.10

नृपाज्ञात्वरयापि केचिदपराधान्तराद्वा ऽनवस्थितसत्त्वाः समाचरन्त्येवम् ।
तस्मादग्न्यादिप्वपि परीक्षेत ।
वह्निस्तु सविषमन्नं प्राप्यैकावर्तो रूक्षमन्दार्चिरिन्द्रायुधवदनेकवर्णज्वालो भृशं चटचटायते ।
कुणपगन्धी धूमश्चास्य मूर्च्छाप्रसेकरोमहर्षशिरोवेदनापीनसदृष्ट्याकुलतां जनयति ॥

1.8.11

तत्र नलदकुष्ठलामज्जकैः क्षौद्रद्रुतैर्नस्यमञ्जनं च कुर्यात् ।
धूममेव वापामार्गविडङ्गबलाद्वयचित्रकमेषशृङ्गिपुष्पसुमनःक्षारकद्राक्षाघृतगुडकृतं पिबेत् ॥

1.8.12

स्नेहलवणयोगादपि चाग्निरित्थं स्यात् ।
अतो वयोभिः परीक्षेत ।
तत्र विषजुष्टाहाराभ्यवहारात्काकाः क्षामस्वरा भवन्ति ।
मक्षिकाः सविषान्ने न निलीयन्ते ।
निलीनाश्च व्यापद्यन्ते ।
दृष्ट एव चास्मिंस्तु चकोरस्याक्षिणी विरज्येते ।
कोकिलस्य स्वरो विकृतिमेति ।
हंसस्य गतिः स्खलति ।
कूजति भृङ्गराजः ।
माद्यति क्रौञ्चः ।
विरौति कृकवाकुः ।
विक्रोशति शुकः शारिका च ।
छर्दयति चामीकरः ।
अन्यतो याति कारण्डवः ।
म्रियते जीवञ्जीवको
ग्लायति वा ।
हृष्टरोमा भवति नकुलः ।
शकृद्विस्र्जति वानरः ।
रोदिति पृषतः ।
हृष्यति मयूरः ।
दर्शनादेव चास्य विषं मन्दतामुपैति ॥

1.8.13

विषदूषितस्य पुनराहारस्योष्मा मयूरकण्ठाभो ऽभ्युदेति ।
तद्वाष्पेणापि धूमवन्मूर्छादयः ।
तेषां तद्वदेव साधनम् ।
हस्तेन स्पृष्टमन्नं विषवद्दाहशोफस्वापनखशातान् करोति ।
तस्य श्यामेन्द्रगोपसोमोत्पलैर्लेपः ॥

1.8.14

अभ्यवह्रियमाणं त्वोष्ठचिमिचिमान्तर्वक्त्रदाहजिह्वामूलगौरवहनुस्तम्भदन्तहर्षलालाः करोति रसापरिज्ञानं च ।
तत्र धूमोक्तं दन्तकाष्ठोक्तं च कर्म ।
आमाशयगतं स्वेदमदमूर्छछर्दिवैवर्ण्याध्मानरोमहर्षदाहारुचिदृष्टिहृदयोपरोधान् बिन्दुभिश्चाचयमङ्गानां करोति ॥

1.8.15

तत्र मदमफलालबुबिम्बीकोशातकीफलैर्दाधिमधुयुक्तमाशु वमनं दद्यात्
निष्पावाम्बुभिर्वा ।
ततः स्निग्धशरीरं विरेचयत् ।
त्रिफलात्रिकटुनागपुष्पमधुकबर्हिणपर्णीबृहतीद्वयचूर्णं सिंहव्याघ्रवृकतरक्षुद्वीपिमार्जारसृगालमृगगोधानामन्यतमपित्तरससंयुक्तं सक्षौद्रं पानमेष जीवनो नामागदः परं सर्वविषौषधम् ।
तस्मिन् जीर्णे श्यामाव्योषातिविषासिद्धेन पयसा घृतेन वोपस्तम्भितां मुद्गयूषेण किंचिल्लवणेन ससर्पिष्केण मृद्वोदनं भोजयेत् ।
मधुकशिरीषचन्दनैश्चैनमालिम्पेत् ॥

1.8.16

पक्वाशयगतं तृड्दाहमूर्च्छातीसाराटोपतन्द्रेन्द्रियविकृतिबलभ्रंशकार्श्यपाण्डुत्वोदराणि जनयति ।
तत्र नीलिनीफलयुक्तेन सर्पिषा विरेचनं समाक्षिकं च दूषीविषारिं दध्ना पाययेत् ।
दन्तकाष्ठप्रयुक्ते तु विषे कूर्चकविशरणमौषधगन्धो रूक्षता तालुदन्तजिह्वोष्ठमांसशोफश्च तत्र प्रच्छाय धातकीपुष्पजाम्बवास्थिहरीतकीचूर्णैः सक्षौद्रैः सप्तच्छदकल्केन वा प्रतिसारणं कुर्यात् ।
दाडिमकरमदर्भव्याम्रातककोलबदररसक्षौद्रयुक्तं गण्डूषम् ।
अनेन जिह्वानिर्लेखनकवलगण्डूषा व्याख्याताः ॥

1.8.17

अञ्जनप्रयुक्ते ऽश्रुदूषिकोपदेहरागवेदनादृष्टिविभ्रमा भवन्त्यान्ध्यं च ।
तत्र सर्पिष्पानं योज्यम् ।
शृतेन पयसा सप्तकृत्वः पिप्पलीर्भावयेत् ।
ततस्तत्कल्केन सर्पिर्विपक्वं नेत्रतर्पणम् ।
कपित्थमेषशृङ्गीभल्लातकानां पुष्पैर्वरणनिर्यासेन वाञ्जनं बृहतीशिरीषबीजप्रपौण्डरीकनागबलाचूर्णं सप्तकृत्वो मधुना भावयेत् ।
तच्च स्रोतो ऽञ्जनसुवर्णचूर्णयुक्तमञ्जनं देयम् ।
नस्यधूमप्रयुक्ते शिरोरुक्काफास्रावः खेभ्यो रुधिरागमनमिन्द्रियवैकृतं च ।
तत्रातिविषाश्वेताकाकमाचीमदयन्तिकाकल्के क्षीरसिद्धं सर्पिर्न्नस्ये पाने च विदध्यात् ॥
अभ्यङ्गप्रयुक्ते त्वग्दाहस्वेदपाकस्फोटावदरणानि ।
तत्र शीताम्बुपरिषिक्तस्य चन्दनतगरोशीरकुष्ठवेणुपत्रिकामृतासोमवल्लीश्वेतापद्मकालेयकैरनुलेपनम् ।
एतान्येव च सकपित्थरसगोमूत्राणि पानम् ।
गिरिकर्णिकाश्वेतमूलप्रियङ्गुसारिवामधुकसर्पसुगन्धामृगोर्वारुकतकमूलानि शेलुक्वाथपिष्टानि प्रलेपः ।
अनेनोद्वर्त्तनघर्षणपरिषेकानुलेपनभूषणयानशय्यास्तरणवस्त्रकवचपादुकोपानत्पादपीठा व्याख्याताः ॥

1.8.18

विशेषतस्त्वाभरणकृते विकारे ऽश्वगन्धापामार्गकिणिहीखदिरशिरीषकल्कैर्गोपित्तयुक्तैः प्रदेहः ।
पादपीठकृते श्लेष्मातकसर्पसुगन्धाम्रकल्को मधुयुक्तः ।
छत्रप्रयुक्ते वेदनास्फोटानां क्षिप्रपाकानां पक्वजाम्बवप्रकाशानां प्रादुर्भावः ।
तत्र मधुकपाटलाकशेरुकलोध्राञ्जनकुष्ठसर्पसुगन्धाखदिरशिरीषकल्कैः सर्वगात्रप्रदेहः ।
अनेन चामरव्यजने व्याख्याते ॥

1.8.19

शिरो ऽभ्यङ्गप्रयुक्ते शिरोवेदना ग्रन्थिजन्म केशच्यवनं च ।
तत्र श्यामापालिन्दीतण्डुलीयकचूर्ण घृतर्क्षपित्तैः सुभावितया कृष्णमृदा प्रलेपः ।
गोमयमालतीमूषिककर्ण्यन्यतमरसो वागारधूमो वा श्लेष्मातकत्वक्पाटलाशिरीषमधुकहरिद्राद्वयैरजाक्षीरालोडितैः परिषेकः ।
अनेन शिरःस्नानोदककङ्कतस्रगुष्णीषा व्याख्याताः ॥

1.8.20

कर्णपूरणप्रयुक्ते शोफशूलपाकाः श्रोत्रवैगुण्यं च ।
तत्र बहुपत्रास्वरसो घृतक्षौद्रसंयुक्तः प्रतिपूरणं सोमवल्करसो वा सुशीतः ।
मुखालेपप्रयुक्ते मुखश्यावता पद्मकण्टका भवन्त्यभ्यङ्गजाश्च विकाराः ।
तत्र मधुकपयस्याबन्धुजीवभञ्जीपुनर्नवचन्दनैः सघृतैर्लेपो
मधुसर्पिषी पानम् ।
सविषपुष्पाघ्राणाच्छिरोव्यथा साश्रुनेत्रत्वं गन्धाज्ञानं च ।
तत्रानन्तरोक्तो विधिर्बाष्पोदितश्चेति ॥

1.8.21

भवति चात्र ।
फलमूलच्छदादीनां दद्यात्प्रक्षालनोदकम् ।
भाजनव्यञ्जनानां च तथा कुर्यादतन्द्रितः ॥

1.8.22

घ्रेयाणि घ्रापयित्वा तु स्पृश्यान् संस्पृश्य तानपि ।
प्रतीवापं ततो दत्वा प्रतीक्ष्यैवैकनाडिकाम् ॥

1.8.23

ततो विज्ञाय शुद्धिं च भाजनस्योदकस्य च ।
आहारमुपयुञ्जीत यथावद्वसुधाधिपः ॥

1.8.24

मन्दं तीक्ष्णविषाभ्यासाद्विषमुत्क्षीयते भृशम् ।
तस्मात्तीक्ष्णविषं हस्ते बध्नीयात्कुशलो भिषक् ॥

1.8.25

विषसंधारणं धन्यं रक्षोघ्नं प्रीतिवर्धनम् ।
अपि च सापिधानघटीमूटफलकस्थापितौषधम् ॥

1.8.26

प्रागुदीच्योर्दिशोर्गुप्तं भेषजागारमिष्यते ।
उच्चैः प्रशस्तदिग्देशं बहुवातायनं महत् ॥

1.8.27

महानसं सुसंमृष्टं विश्वास्यजनसेवितम् ।
सद्द्वास्स्थाधिष्ठितद्वारं कक्ष्यावत्सुवितानकम् ॥

1.8.28

सुधौतदृठकुम्भादि परिशुद्धजलेन्धनम् ।
स्वकर्मकुशला दक्षाः सूदास्तत्राप्रमादिनः ॥

1.8.29

क्ल्प्तकेशनखाः पित्र्या राज्ञः कृत्यैरसङ्गताः ।
तेषामधिपतिर्विप्रः कुलजः सुपरीक्षितः ॥

1.8.30

संविभक्तश्च भक्तश्च शुचिर्वैद्यवशूनुगः ।
सर्वे ऽपि भूभृदासन्नाः शस्ताः सततमीदृशाः ॥

1.8.31

मिथो विग्रहसङ्घातरहिता भूभृते हिताः ।
तान् वैद्यो गुणवानेको मनसा प्रतिजागृयात् ॥

1.8.32

भूभृद्देहोपकरणसंरक्षणसमुद्यतः ॥

1.8.33

अथाभ्यमित्रं व्रजतो जिगीषोर्वैद्यः सुसज्जौषधशस्त्रयन्त्रः ।
तुङ्गध्वजाख्यातनिवासभूमिर्युद्धागतं योधजनं चिकित्सेत् ॥

1.8.34

पन्थानमुदकं छायां भक्तं यवसमिन्धनम् ।
दूषयन्त्यरयो यस्मात्तान् विद्याच्छोधयेत च ॥

1.8.35

प्रस्थानं वा निवेशं वा नाविज्ञाय प्रयोजयेत् ।
भूवारितृणकाष्ठाश्ममार्गोन्मार्गवनस्पतीन् ॥

1.8.36

विषेणोपहता भूमिः क्वचिद्दग्धेव लक्ष्यते ।
प्रम्लानतृणगुल्मादिमृतकीटसरीसृपा ॥

1.8.37

विशीर्यन्ते खुरनखा दाहकण्डूरुजान्विताः ।
छर्दिर्मूर्छा ज्वरो मोहः शिरोदुःखं च जायते ॥

1.8.38

तत्र सौभञ्जनान्मूलं सोमवल्लीमुशीरकम् ।
मातुलुङ्गरसं हिङ्गुं पाययेद्दधिमात्रया ॥

1.8.39

मूत्राण्यजाविहस्तिभ्यो मांसानि रुधिराणि च ।
सर्वगन्धैः समं योज्य पचेत्पक्वे च निक्षिपेत् ॥

1.8.40

सोमराजीं सुनन्दाख्यां सरलं गन्धनाकुलीम् ।
चारटीं त्रायमाणां च प्रोक्षयेत्तेन तां भुवम् ॥

1.8.41

सविषं विरसं तोयं कवोष्णं राजिभिश्चितम् ।
फेनिलं गुरु विच्छिन्नं खगैरनाभिनन्दितम् ॥

1.8.42

मृताकुलितमत्स्यं च स्पर्शाद्रुक्शोफकण्डुमत् ।
औदनः साधितस्तेन भुक्तमात्रो ऽपि दह्यते ॥

1.8.43

विदग्धः पच्यते कृच्छ्रात्पक्वो मूर्छाज्वरप्रदः ।
दर्शयेत्सर्वतो नीलपीतकर्बुरलोहितम् ॥

1.8.44

तत्र शिग्रेवादिमगदं भूमिदोषोदितं पिबेत् ।
अजशृङ्गीं विशालाख्यां विषघ्नीमुत्तमारणीम् ॥

1.8.45

फणिज्जकं प्रतिविषां दग्ध्वा तद्भस्म गालयेत् ।
बहुशो गालितं तच्च पाचयेत्तत्र च क्षिपेत् ॥

1.8.46

कल्कयित्वा प्रतीवापं सरलं रजनीद्वयम् ।
एलामुदीच्यं मञ्जिष्ठां सुनन्दां बाकुचीअपि ॥

1.8.47

पात्यन्ते बिन्दवस्तस्माद्यत्र तन्निर्विषीभवेत् ।
पाटलापारिभद्राश्वकर्णशम्याकसिध्रकान् ॥

1.8.48

कलशान्तर्गतान् दग्ध्वा प्रक्षिपेत्सविषे ऽम्भसि ।
शीते घर्मो हिमश्चोष्णे मारुतो विषसंयुतः ॥

1.8.49

भ्रममूर्छादिकारी च शिग्र्वादिस्तत्र चेष्यते ।
देवदारुनतानन्तामधुकार्जुनगैरिकम् ॥

1.8.50

वज्रकन्दं लतां लोध्नं विकिरेच्छ्लक्ष्णचूर्णितम् ।
वृक्षाग्रेषु पताकासु दूष्येषु सुमहत्सु च ॥

1.8.51

सर्वतश्चूर्णसंपर्कान्निर्विषो जायते ऽनिलः ।
विकृता भवति छाया पादपे विषदूषिते ॥

1.8.52

निर्गन्धमतिगन्धं वा तत्पुष्पं हृच्छिरोरुजम् ।
कुर्यात् फलपलशादि कण्डूपाकातिसारकृत् ॥

1.8.53

भूमिमुद्दिश्य यत्प्रोक्तं तत्सर्वं तत्र चेष्यते ।
न च कन्यामविदितां संस्पृशेदपरीक्षिताम् ॥

1.8.54

विविधान् कुर्वते योगान् कुशलाः खलु मानवाः ।
आजन्मविषसंयोगात् कन्या विषमयीकृता ॥

1.8.55

स्पर्शोच्छ्वासादिभिर्हन्ति तस्यास्त्वेतत्परीक्षणम् ।
तद्धस्तकेशसंस्पर्शान्म्लायते पुष्पपल्लवैः ॥

1.8.56

शय्यायां मत्कुणैर्वस्त्रे यूकाभिः स्नानवारिणि ।
जन्तुभिर्म्रियते ज्ञात्वा तामेवं दूरतस्त्यजेत् ॥

1.8.57

नाप्रोक्षितं नाविदितं भिषजा नानवेक्षितम् ।
नाप्राशितं च सूदाद्यैः किञ्चिदप्याहरेन्नृपः ॥

1.8.58

धन्यं सर्वार्थसिद्धाख्यं पापरक्षोविषापहम् ।
परं चक्षुष्यमायुष्यं शत्रुघ्नं वक्ष्यते ऽञ्जनम् ॥

1.8.59

अथ शुक्लपक्षे पुण्ये ऽहनि पुष्यपुनर्वसुहस्तचित्रामृगशिरःश्रवणरेवतीशतभिषक्प्राजापत्योत्तराणामन्यतमेन नक्षत्रेण योगमुपगते भगवत्यौषधिपतौ प्रशस्ते मुहूर्ते सिन्धुस्रोतःसमुत्थंस्निग्धं सप्रभं गन्धवर्णच्छदैर्नीलोत्पलाभमञ्जनमाहरेत् ।
तस्याष्टौ भागाः कनकरजतोदुम्बराणामेकैको भागः ।
तत्सर्वं मूषायां प्रक्षिप्य बलिमङ्गलपूर्वकमग्निमुपसामाधाय खदिरकदरधवस्यन्दनानामन्यतमदारुभिगोमयैर्वा प्रज्वालयेत् ।
ततश्चार्यावलोकितेश्वरमार्यतारां ब्रह्मदक्षाश्विरुद्रेन्द्रदित्यसोमवरुणवैश्वानरवायुविष्णुजनकभरद्वाजधन्वन्तरिसुश्रुतभव्यसुकन्यास्कन्दश्च्यवनवैनतेयानन्यांश्च यथाविध्युक्तदेवताः सुमनो ऽक्षतलाजस्वस्तिकसंयावनिस्तुषयवसंस्कृतगुडघृतमिश्रपायसैरर्चयित्वावृद्धवैद्यब्रह्मणांश्च शुक्लवाससो महतीभिर्दक्षिणाभिः पूजयित्वा तस्मिन्नग्नौ तदञ्जनं ध्मातं ध्मातमावृत्य पृथक्पृथङ्निषेचयेत् ।
गोशकृद्रसमूत्रघृतदधिक्षौद्रवसामज्जतैलमद्यसर्वगन्धाम्बुशर्करोदकेक्षुरसेषु तथा हरीतक्यामलकबिभीतककाश्मर्यमृद्वीकाशृङ्गाटककशेरुकोत्पलनलिनसौगन्धिकमृणालिकक्वाथेषु तथा लावकपिञ्जलैणशशहरिणकुलीररसेषु तथा मधुकचन्दनकालानुसार्यनलदपद्मकोशीरमञ्जिष्ठानन्तागैरिककुङ्कुमोदकेषु ।
ततः शुक्ले वाससि बध्वा द्वादशरात्र मान्तरिक्षे ऽम्भासि वासयेत् ।
ततश्छायायां विशोष्य स्फटिकमुक्ताप्रवालकालनुसार्याप्रतीवापं पुनरपि बलिमङ्गलपूर्वकमहतवाससा कन्यया दृषदि पेषयित्वासुवर्णरजतताम्रशङ्खशैलद्विरदरदनगवयशृङ्गवैडूर्यस्फटिकमेषशृङ्ग्यसनसारान्यतमघट्टितायामञ्जनिकायां निधापयेत् ।
अथ पूर्ववत्पुनरपि कृतस्वस्त्ययनं सावित्रेण कर्मणा सर्ववित् द्विजन्मा विधिवत्तदभिसंस्कुर्यात् ।
ततो गजस्कन्धमारोप्य पाण्डुरच्छत्रचामरबालव्यजनैरनुगतं तथा शङ्खदुन्दुभिस्वनैर्द्विजातिवरप्रयुक्तैश्च वेदवादमिश्रैः पुण्याहघोषैः कृतपुष्पोपहारं वैद्यगृहान्नायकगृहमनुप्रवेशयेत् ।
अनन्तरं च तेन विदेहाधिपोपदिष्टेन सर्वार्थेषु सिद्धेनाञ्जनेन यथोक्तानामेवाञ्जनभाजनद्रव्याणामन्यतमया शलाकया गोब्राह्मणपूजापूर्वकं शुचिः सनियमो भूत्वा धारणीमिमां विद्यामधीयानः पूतः पूर्वमक्षि दक्षिणमञ्जयेत् ॥

1.8.60

अथ मन्त्रः नमश्चक्षुःपरिशोधनराजाय तथागतायर्हते सम्यक्सम्बुद्धाय तद्यथा औं चक्षुः प्रज्ञाचक्षुर्ज्ञानचक्षुर्विज्ञानचक्षुर्विशोधय स्वाहा ॥

1.8.61

ततः परं च तामेव धारिणीमनुस्मरन् सायम्प्रातः पत्यहमेतत्परमं पवित्रमारोग्यकरमूर्जस्करं सर्वविषघ्नमञ्जनमश्विभ्यामिन्द्रस्य वृत्रवधाभ्युद्यतस्य प्राक्प्रकल्पितम् ।
तस्मोदतद्राज्ञां राजमहामात्राणां च महीं विजगीषमाणानां च ब्राह्मणानां च वेदाध्ययनमन्यद्वा महच्छास्त्रमवगाहमानानां प्रसन्नमना भिषक्प्रकल्पयेदिति ।
भवन्ति चात्र श्लोकाः ॥

1.8.62

अथ योगाः प्रवक्ष्यन्ते बृहस्पतिकृताः शिवाः ।
यान् सेवमानो नृपतिः शत्रुभ्यो नैति पज्चताम् ॥

1.8.63

बिल्वाढकीयवक्षारपाटलीबाल्हिकोषणाः ।
श्रीपर्णीसल्लकीयुक्ता निष्क्वाथः प्रोक्षणः परम् ॥

1.8.64

सविषं प्रोक्षितं तेन सद्यो भवति निर्विसम् ।
यवसेन्धनपानीयशस्त्रशय्यासनोदकम् ॥

1.8.65

कवचाभरणच्छत्रबालव्यजनवेश्म च ।
शेलुपाटल्यतिविषाशिग्रुगोपीपुनर्नवम् ॥

1.8.66

समङ्गावृषमूलत्वक्कपित्थवृषशोणितम् ।
सहदन्तशठं तद्वत् प्रोक्षणं विषनाशनम् ॥

1.8.67

लाक्षाप्रियङ्गुमञ्जिष्ठासमङ्गालहरेणुकाः ।
यष्ट्याह्वमधुसंयुक्ता बब्रुपित्तेन कल्किताः ॥

1.8.68

निखनेद्गोविषाणस्थाः सप्तरात्रं महीतले ।
ततः कृत्वा मणिं हेम्ना बद्धं हस्तेन धारयेत् ॥

1.8.69

संस्पृष्टं सविषं तेन सद्यो भवति निर्विषम् ।
मनोह्वालशमीपुष्पत्वङ्निशाश्वेतसर्षपाः ॥

1.8.70

कपित्थकुष्ठमञ्जिष्ठाः पित्तेन श्लक्ष्णकल्किताः ।
शुनो गोःकपिलायाश्च सौम्याख्यो ऽयं वरो ऽगदः ॥

1.8.71

विषजित्परमं कार्यो मणिरत्नं च पूर्ववत् ।
मूषिकाजरुहा वापि हस्तबद्धा विषापहाः ॥

1.8.72

हरेणुमांसीमञ्जिष्ठारजनीमधुकं मधु ।
अक्षत्वक्सुरस्ं लाक्षा श्वपित्तं पूर्ववन्मणिः ॥

1.8.73

वादित्राणि पताकाश्च पिष्टैरोभिश्च लेखिताः ।
श्रुत्वा दृष्ट्वा समाघ्राय सद्यो भवति निर्विषम् ॥

1.8.74

त्र्यूषणं पञ्चलवणं मञ्जिष्ठां रजनीद्वयम् ।
सूक्ष्मैलां त्रिवृतां पत्रं विडङ्गानीन्द्रवारुणीम् ॥

1.8.75

मधुकं चेति सक्षौद्रं गोविषाणे निधापयेत् ।
तस्मादुष्णाम्बुना मात्रां प्राग्भक्तं विनियोजयेत् ॥

1.8.76

विषं भुक्तं जरां याति निर्विषे ऽपि न दोषकृत् ।
जतुसर्जरसोशीरसर्षपा पत्रवालकैः ॥

1.8.77

सवेल्लारुष्करपुरैः कुसुमैरर्जुनस्य च ।
धूपो वासगृहे हन्ति विषं स्थावरजङ्गमम् ॥

1.8.78

न तत्र कीटाः सविषा नोन्दुरा न सरीसृपाः ।
न कृत्या कर्षणा(कार्मणा)द्याश्च धूपो ऽयं यत्र दह्यते ॥

1.8.79

शिखिपिञ्छं बलाकास्थि सर्षपाश्चन्दनं घृतम् ।
धूपो विषघ्नः शयनवसनासनगेहगः ॥

1.8.80

विशालाव्योषमञ्जिष्ठायष्टीलवणपञ्चकम् ।
द्विनिशापत्रवेल्लैलात्रिवृच्चूर्णं समाक्षिकम् ॥

1.8.81

गोशृङ्गे निहितं योज्यं स्नानीये ऽम्भसि भूपतेः ।
पूर्वोकतत्र्यूषणादिं च स्नानीये ऽम्भसि योजयेत् ॥

1.8.82

क्वाथो ऽथवार्ककुसुमश्वेतापामार्गसर्षपैः ।
सदध्याज्यः कृतो युक्तैः कतकानाकुलीद्वयैः ॥

1.8.83

कल्को वा चन्दनक्षीरिपलाशद्रुमवल्कलैः ।
मूर्वैलावालुसुरसनाकुलीतण्डुलीयकैः ॥

1.8.84

क्वाथः सर्वोदकार्थेषु काकमाचीयुतैर्हितः ।
रोचनापत्ननैपालीकुङ्कुमैस्तिलकान् वहन् ॥

1.8.85

विषैर्न बाध्यते स्याच्च नारीनरनृपप्रियः ।
चूर्णैर्हरिद्रामञ्जिष्ठाकिणिहीकणनिम्बजैः ॥

1.8.86

दिग्धं निर्विषतामेति गात्रमित्याह गौतमः ।
नस्यपानाञ्जनालेपैर्युञ्ज्यात् सञ्जीवनात्मकान् ॥

1.8.87

अगदान् विषभुक्तस्य तीक्ष्णानि वमनानि च ।
पिप्पलीमधुकक्षौद्रशर्करेक्षुरसैः सह ॥

1.8.88

द्विनिशापत्रवेल्लैलात्रिवृच्चूर्णं समाक्षिकम् ।
विरेचनं सिरामोक्षं प्राप्तं विस्रावणं यदि ॥

1.8.89

हृदयावरणं कार्यं प्रागेवामित्रमध्यतः ।
पिबेद्घृतमजेयाख्यममृतं वाप्यभुक्तवान् ॥

1.8.90

सर्पिः क्षौद्रं दधि क्षीरमन्ततः शीतलं जलम् ।
सितामधुकपालिन्दीकल्कवन्मांसमिष्यते ॥

1.8.91

गोधाहरिणबभ्रूणां सकणाशुण्ठिपार्षतम् ।
सनागरं सातिविषं शिखिनः ससितोपलम् ॥

1.8.92

सुशीताः सघृताश्चैषां यथास्वं कल्पिता रसाः ।
विषपीताय दद्याच्च शुद्धायोर्ध्वमधस्तथा ॥

1.8.93

सूक्ष्मं ताम्ररजः काले सक्षौद्रं हृद्विशोधनम् ।
शुद्धे हृदि ततः शाणं हेमचूर्णस्य दापयेत् ॥

1.8.94

न सज्जते हेमपाङ्गे पद्मपत्रे ऽम्बुवद्विषम् ।
जायते विपुलं चायुर्गरे ऽप्येष विधिः स्मृतः ॥

1.8.95

इत्थं गरविषादिभ्यो रक्षेद्वैद्यो नरेश्चरम् ।
स्यादुच्छेदस्तदुच्छेदात्प्रजानां सर्वकर्मणाम् ॥

1.8.96

आज्ञाधैर्यक्षमात्यागा मानुषत्वे ऽप्यमानुषाः ।
यद्राज्ञः कर्मभिस्तस्मादाराध्यो ऽसावतीन्द्रियैः ॥

1.8.97

यत्र साक्षन्नृपस्तत्र विज्ञातः प्रविशोद्भिषक् ।
न सम्मतो ऽप्यनुचितं यानस्थानासनं भजेत् ॥

1.8.98

उचिते पुरतो राज्ञस्तिष्ठेद्वाक्यं च नाक्षिपेत् ।
अहीनकालं राजार्थं स्वार्थं प्रियहितैः सह ॥

1.8.99

देशे काले परार्थं च वदेद्धर्मार्थसंहितम् ।
नानुशिष्यादपृच्छन्तं महदेतद्धि साहसम् ॥

1.8.100

नाचरेदहितेनैनं मूलच्छेदकरं हि तत् ।
अनुकूलं हितं वाच्यमहिताद्वारयेन्मिथः ॥

1.8.101

उदारैः सान्त्वयन् वाक्यैर्दोषश्चेत्तदुपेक्षया ।
तूष्णीं वा प्रतिवाक्ये स्याद्वर्जयेद्वेष्यसङ्कथाम् ॥

1.8.102

विपश्चिदप्यचित्तज्ञो बालिशो ऽपि तु भाववित् ।
अतिप्रियो ऽपि द्वेष्यो ऽपि यात्याशु विपरीतताम् ॥

1.8.103

निवेद्य राज्ञे कुर्वीत कार्याणि सुलघून्यपि ।
न यायान्न चिरं तिष्ठेत् कोशस्थानावरोधयोः ॥

1.8.104

स्वल्पे ऽपि दर्शयेत्तुष्टिं लाभे ऽनुद्धतमानसः ।
मिथः कथनमन्येन कौलीनं द्वन्द्ववादिताम् ॥

1.8.105

वस्त्रादि राज्ञा सदृशं राजलीलां च वर्जयेत् ।
दत्तं यत्तु नृपेणव तद्धार्यं तुष्टिवृद्धये ॥

1.8.106

हसितव्ये सिमतं कुर्यात् प्रभोरेवानुवृत्तितः ।
उच्यमाने ऽवलम्बेत परमर्माणि मूकताम् ॥

1.8.107

स्वमर्मणि तु बाधिर्यं धैर्यमाधुर्यसौष्ठवान् ।
अत्यायासेन नात्मानं कुर्यादतिसमुच्छ्रितम् ॥

1.8.108

पातो यथा हि दुःखाय नोच्छ्रायः सुखकृत्तथा ।
आसन्नसेवा नृपतेः क्रीडाशस्त्राहिपावकैः ॥

1.8.109

कौशलेनातिमहता विनीतैः सा निरुध्यते ।
प्राप्य दुष्प्नापमैश्वर्यं बहुमानं च भूपतेः ॥

1.8.110

यथोपभुञ्जीत चिरं तथा स्यादप्रमादवान् ।
विदध्यात्परितः शय्यां रक्षामन्त्राभिमन्त्रिताम् ॥

1.8.111

रात्रौ सिद्धार्थकान् भूतिमक्षतैरन्वितां शुचिम् ।
रक्षाशक्तिं तथोच्छीर्षे सयवाङ्कुरयावकाम् ॥

1.8.112

सदूर्वं पूर्णकलशं सपुष्पफलपल्लवम् ।
उपहारं च सन्ध्यायां भुक्त्वा चान्ते निशासु च ॥

1.8.113

एतत्स्वस्त्ययनं कर्म कर्तव्यं शुचिना शुचेः ।
आयुस्यं पौष्टिकं भूतविषकार्मणपाप्मजित् ॥

1.8.114

सङ्क्षेप एष विषपालनसाधनाय प्रोक्तस्तु विस्तरविधिः पुनरुत्तरे तु ।
आलोच्य सम्यगखिलं मतिपूर्वकारी युञ्जीत तं परिविकल्प्य विकारचिह्नम् ॥

1.8.115

इति विषगररक्षोरक्षणायोपदेशं भजति नरपतिर्यो नित्यमेवाप्रमत्तः ।
निजपररिपुवृन्दैरप्रधृष्यो महात्मा जनयति जनतायाः क्षेमयोगौ चिराय ॥

मूल पाठ: Aṣṭāṅgasaṃgraha · Edition: e-text by SARIT · SARIT: Search and Retrieval of Indic Texts · SARIT (e-text) via Internet Archive · CC BY-SA 3.0

Esc