अष्टाङ्गसंग्रह · अध्याय 1.9
अथातो विरुद्धान्नविज्ञानीयमध्यायं व्याख्यास्यामः ।
इति हस्माहुरात्रेयादयो महर्षयः ॥
ग्राम्यानूपौदकपिशितानि मधुगुडतिलपयोमाषमूलकबिसैर्विरूढधान्यैश्च नैकध्यमद्यात् ।
विशेषतः पयसा मत्स्यान् ।
उभयं ह्येतन्मधुररसविपाकित्वादभिष्यन्दि शीतोष्णवीर्यत्वात् परस्परं विरुद्धम् ।
तेष्वपि विशेषेण चिलिचिमः ।
स पुनः शकली लोहितनयनः सर्वतो लोहितराजिर्लोहितप्रभाकरः प्रायो भूमौ चरति सो ऽत्याभिष्यन्दितमत्वात् सुतरां व्याधीनुपजनयत्यामविषं च ॥
सर्वं चाम्लं पयसैकध्यं विरुद्धम् ।
तत उत्तरं वा विरुद्धं फलञ्च कङ्गुवरकमकुष्ठवेल्लकुलत्थमाषनिष्पावाश्च ।
नमूलकदिहरितं भक्षयित्वा पयः सेव्यं कुष्ठाबाधभयात् ।
पौष्करं रौहिणीकं जातुकं वा शाकं सह मधुप्योभ्यां नाभ्यवहरेत् ।
ताभ्यां च सह कपोतान् सर्षपतैलभृष्टान् ।
तथा सर्षपतैलभृष्टानां मत्स्यबदराणां बदराणि श्वाविद्वराहमांसं चैकध्यं पित्तेनाममांसानि
दध्ना कुक्कुटं पृषतं च कुसुम्भशाकेनैरौरभ्रं सौवीरकेण तिलशष्कुलीः
क्षीरेण लवणं मूलकेन माषसूपं
नवनीतेन शाकं
उपोदकां मैरेयमार्द्वीकाभ्यां
पीलूनि करीरैः
बिसैर्विरूढकानि
दध्ना माषसूपेन गुडेन मधुना घृतेन वा लकुचफलं
दध्ना तक्रेण गुडेन वा काकमाचीं
तामेव मत्स्यपचने शृङ्गिवेरपचने वा भाजने सिद्धामन्यत्र वा सिद्धां रात्रिमुषितां
कांस्यभाजने दशरात्रोषितं सर्पिर्मद्यदधिमधुभल्लातकेषु चोष्णम् ॥
तक्रसिद्धकाम्पिल्लको विरुद्धः ।
अङ्गारशूल्यो भासः ।
सुराकृसरापायसाश्चैकध्यं विरुद्धाः ॥
मधुसर्पिर्वसातैलोदकानि समधृतानि द्विशस्त्रिशः समस्तानि वा ।
मधुघृते भिन्नांशे दिव्योदकानुपाने ।
मधुपुष्करबीजं पद्मोत्तरिकाशाकं शार्करो मैरयो मधु च सहोपयुक्तं विरुद्धम् ।
वातं चातिकोपयति ।
हारिद्रकः सर्षपतैलभृष्टो विरुद्धः ।
पित्तं चातिकोपयति ।
पायसो मन्थानुपानो विरुद्धः ।
श्लेष्माणं चातिकोपयति ।
उपोदका तिलकल्कसिद्धा हेतुरतीसारस्य ।
बलाका वारुण्या कुल्माषैश्च विरुध्दा ।
सैव वराहवसया परिभृष्टा सद्यो व्यापादयति ।
गोधालावंतित्तिरिमयूरकपिञ्जलाश्चैरण्डदार्वग्निसिद्धा एरण्डतैलसम्मूर्छिताः ।
हारीतमांसं हारिद्रशूलकावसक्तं हारिद्राग्निप्लुष्टं च ।
तदेव भस्मपांसुपरिध्वस्तं सक्षौद्रं च ॥
तथा मत्स्यनिस्तालितस्नेहसाधिताः पिप्पल्यः ।
शीतोष्णं नवपुराणमामपक्वं च नैकमैकध्यमद्यात् ।
सलिलावगाहः सहसोष्णाभितप्तस्य त्वग्दृष्ट्योरुपघाताय ।
तृष्णाभिप्रवृद्धये च ।
तथैव च पयःपानं रक्तपित्ताय ।
शरीरेणायस्तस्य सहसाभ्यवहारः छर्दिषे गुल्माय वा ।
वाचा त्वायस्तस्य स्वरसादाय ।
इत्यन्नपानद्रव्यविरोधैकदेशो बाहुल्येनोपयोगी कथितः ।
भेषजद्रव्याणां तु यथोपदेशमेव प्रयोगो न्याय्यतरः ।
तद्विरोधः पुनरतिप्रसङ्गभयान्नोक्तः ।
न च तद्विज्ञानमेकान्तभद्रकं ॥
अपिच ।
उत्क्लेश्य दोषान्न हरेत् द्रव्यं यत्तत्समासतः ।
विरुद्धं तद्धि धातूनां प्रत्यनीकतया स्थितम् ॥
बलिनां मिथोगुणानां विषमतया समतयाप्युभयथापि ।
संस्कारादिवशेन च भवति निसर्गादपि विरोधः ॥
क्षीरं कुलत्थैः पनसेन मत्स्यैस्तप्तं दधि क्षौद्रघृते समांशे ।
वार्यूषरे रात्रिषु सक्तवश्च तोयान्तरास्ते यवकास्तथा च ॥
कुशाग्रीयधियामेतदुदाहरणमात्रकम् ।
उपनीतमलं विद्धान् सर्वत्र क्रमते यतः ॥
विस्फोटशोफमदविद्रधिगुल्मयक्ष्मतेजोबलस्मृतिमतीन्द्रियचित्तनाशान् ।
कुर्याद्विरुद्धमशनं ज्वरमस्त्रपित्तमष्टौ गदांश्च महतो विषवच्च मृत्युम् ॥
तेष्वाशु कुर्यात्संशुद्धिं शमं वा तद्विरोधिभिः ।
द्रव्यैस्तैरेव वा पूर्वं शरीरस्याभिसंस्कृतिम् ॥
व्यायामस्निग्धदीप्ताग्निवयस्थबलशालिनाम् ।
विरोध्यपि न पीडायैसात्म्यमल्पं च भोजनम् ॥
दोषादिवैपरीत्येन हरते रोगिणां रुजम् ।
ऐकध्यं दधिदुग्धादियोजना न विरुध्यते ॥
योगादिभेदाद्यद्यद्वा पथ्यानामप्यपथ्यता ।
तद्भेदान्तरतस्तद्वद्विरोधो ऽपि निवर्त्तते ॥
पादांशेन त्यजेत्सात्म्यमहितं हितमाचरेत् ।
एकान्तरं ततश्चोर्ध्वं द्व्यन्तरं त्र्यन्तरं तथा ॥
क्रमेणानेन सन्त्यक्ता दोषाः संवर्द्धिता गुणाः ।
प्रभवन्ति न पीडायै प्राप्नुवन्ति स्थिरात्मताम् ॥
त्रितयं चतदुपस्तम्भनमाहारः स्वप्नो ऽब्रह्मचर्यं च ।
एभिर्युक्तियुक्तैरुपस्तब्धमुपस्तम्भैः शरीरं बलवर्णोपचयोचितमनुवर्त्तते यावदायुःसंस्कारः ।
तत्र आहार उक्तो वक्ष्यते च ॥
लोकादिसर्गप्रभवा तमोमूला तमोमयी ।
बाहुल्यात्तमसो रात्रौ निद्रा प्रायेण जायते ॥
श्लेष्मावृतेषु स्रोतस्सु श्रमादुपरतेषु च ।
इन्द्रियेषु स्वकर्मभ्यो निद्रा विशति देहिनम् ॥
सर्वेन्द्रियव्युपरतौ मनो ऽनुपरतं यदा ।
विषयेभ्यस्तदा स्वप्नं नानारूपं प्रपश्यति ॥
निद्रायत्तं सुखं दुःखं पुष्टिः कार्श्यं बलाबलम् ।
वृषता क्लीबता ज्ञानमज्ञानं जीवितं न च ॥
अकाले ऽतिप्रसङ्गाच्च न च निद्रा निषेविता ।
सुखयुषी पराकुर्यात् कालरात्रिरिवापरा ॥
सैव युक्ता पुनर्युङ्क्ते निद्रा देहं सुखायुषा ।
योगाभियोगिनो बुद्धिर्निर्मला तपसा यथा ॥
रात्रौ जागरणं रूक्षं स्निग्धं प्रस्वपनं दिवा ।
अरूक्षमनभिष्यन्दि त्वासीनप्रचलायितम् ॥
ग्रीष्मे वायुचयादानरौक्ष्यरात्र्यल्पभावतः ।
दिवास्वप्नो हितो ऽन्यस्मिन् कफपित्तकरो हि सः ॥
मुक्त्वातिभाष्ययानाध्वमद्यस्त्रीभारकर्मभिः ।
क्रोधशोकभयैः क्लान्तान् श्वासहिध्मातिसारिणः ॥
वृद्धबालाबलक्षीणक्षततृट्च्छूलपीडितान् ।
अजीर्ण्यभिहतोन्मत्तान् दिवास्वप्नोचितानपि ।
धातुसाम्यं तथा ह्येषां श्लेष्मा चाङ्गानि पुष्यति ॥
बहुमेदःकफाः स्वप्युः स्नेहनित्याश्च नाहनि ।
विषार्त्तः कण्ठरोगी च नैव जातु निशास्वपि ॥
हलीमकशिरोजाड्यस्तैमित्यगुरुगात्रताः ।
ज्वरभ्रममतिभ्रंशस्रोतोरोधाग्निमन्दताः ॥
शोफारोचकहृल्लासपीनसार्द्धावभेदकाः ।
कण्डूरूक्कोठपिटकाकासतन्द्रागलामयाः ॥
विषवेगप्रवृत्तिश्च भवेदहितनिद्रया ।
अपच्यमानो बाहुल्यात् स्रोतांस्यावृणुते कफः ॥
ततः स्रोतस्सु रुद्धेषु जायते गात्रगौरवम् ।
गुरुगात्रस्य चालस्यमालस्यादतिनिद्रता ॥
विरेकः कायशिरसोर्वमनं रक्तमोक्षणम् ।
धूमः क्षूत्तृड्व्यथाहर्षशोकमैथुनभीक्रुधः ॥
चिन्तोत्कण्ठासुखा शय्यासत्वौदार्यं तमोजयः ।
रूक्षान्नं चाहितां निद्रां वारयन्ति प्रसङ्गिनीम् ॥
एत एव च विज्ञेया निद्रानाशस्य हेतवः ।
कालशीलक्षयो व्याधिर्वृद्धिश्चानिलपित्तयोः ॥
निद्रानाशादङ्गमर्द्दशिरोगौरवजृम्भिकाः ।
जाड्यग्लानि भ्रमापक्तितन्द्रारोगाश्च वातजाः ॥
कफो ऽल्पो वायुनोद्धूतो धमनीः सनिरुध्य तु ।
कुर्यात्संज्ञापहां तन्द्रां दारुणां मोहकरिणीम् ॥
उन्मीलितविनिर्भुग्ने परिवर्त्तिततारके ।
भवतस्तत्र नयने स्रुते लुलितपक्ष्मणी ॥
अर्द्धत्रिरात्रात्सा साध्या न सा साध्या ततः परम् ।
यथाकालमतो निद्रां रात्रौ सेवेत सात्म्यतः ॥
असात्म्याज्जागरादर्धं प्रातः स्वप्यादभुक्तवान् ।
शीलयेन्मन्दनिद्रस्तु क्षीरमिक्षुरसं रसान् ॥
आनूपौदकमांसानां भक्ष्यान् गौडिकपैष्टिकान् ।
शालीन्मद्यानि माषांश्च कीलाटान् माहिषं दधि ॥
अभ्यङ्गोद्वर्त्तनस्नानमूर्ध्दश्रवणपूरणम् ।
चक्षुषस्तर्पणं लेपः शिरसो वदनस्य च ॥
प्रवाते सुरभौ देशे सुखां शय्यां यथोचिते ।
संवाहनं स्पर्शसुखं चित्तज्ञैरनुजीविभिः ॥
सर्पिः क्षीरानुपानं च जीवनीयैः शृतं पिबेत् ।
कान्ताबाहुलताश्लेषो निर्वृतिः कृतकृत्यता ॥
मनो ऽनुकूला विषयाः कामं निद्रासुखप्रदाः ।
ब्रह्मचर्यरतेर्ग्रम्यसुखनिस्पृहचेतसः ॥
निद्रा सन्तोषतृप्तस्य स्वं कालं नातिवर्त्तते ।
एतान्येव च भूयिष्ठं निद्रालुः परिवर्जयेत् ॥
कालस्वभावामयचित्तदेहखेदैः कफागन्तुतमोभवा च ।
निद्रा बिभर्त्ति प्रथमा शरीरं पाप्मान्तगा व्याधिनिमित्तमन्याः ॥
ग्राम्यधर्मप्रवृत्तौ तु रजस्वलामनिष्टामनिष्टाचारामशस्तामतिस्थूलामतिकृशां गर्भिणीं सूतिकामनुत्तानां विकृताङ्गां गणिकामप्रजसं दुष्टयोनिमन्ययोनिमन्यस्त्रियं विशेषाच्च वयोवर्णवृद्धां सगोत्रां गुरुमित्रबन्धुभृत्यपत्नीं वर्णिनीं तथा चैत्यचत्वरचतुष्पथोपवनश्मशानाघातसलिलौषधद्विजगुरुसुरनृपालयेष्वहनि गोसर्गे मध्यन्दिने ऽर्द्धरात्रौ पर्वेष्वनङ्गे पिपासुरप्रणीतसङ्कल्पो वा न गच्छेत् ।
न च विपरीतव्यवाये योजयेत् ।
विशेषेण चातिव्यायतां गर्भिणीं नवप्रसूतामृतुमतीं संवृतयोनिं च ।
मूर्द्धाभिघातं च परिहरेत् ।
न च निषेकाभिमुखं शुक्रं धारयेदिति ।
मनःशरिरस्थितिमात्रमेव व्यवायं सेवेत ।
न तत्परः स्यादिति ॥
भवति चात्र श्लोकः ।
विस्रब्धहृष्टो रहसि तत्कामस्तरुणः पुमान् ।
समस्थिताङ्गः सुरभिर्मुक्तमूत्रादिरव्यथः ॥
नानाशितो नात्यशितो वृष्याणां तर्पितस्त्र्यहम् ।
नारीं नारीर्गुणैर्युक्तां सहपूर्वगुणां व्रजेत् ॥
द्व्यहाद्वसन्ते तस्यान्ते पक्षात्तद्वत् घनोदये सेवेत कामतः कामं हेमन्ते शिशिरे बली ।
स्नानाङ्गरागव्यजनेन्दुपादमांसासवक्षीररसान् रसालाम् ॥
भक्ष्यान् सिताढ्यान् सलिलं सुशीतम् ।
सेवेत निद्रां च रतान्ततान्तः ॥
स्त्रीसंसर्गद्धि सद्यः स्यात् क्लीबता बलिनामपि ।
एवं चाप्यायते शीघ्रं तेषां शुक्रं च धाम च ॥
दृष्ट्यायुरोजःशुक्रानां क्षयं मेढ्राश्रयान् गदान् ।
वायोः कोपमधर्मं च मूढः प्राप्नोत्यतो ऽन्यथा ॥
उत्तानो वेगरोधी वा वृद्धिमेहाश्मशर्कराः ।
तिमिरादिगदोत्पत्तिर्मूर्द्धाद्याहननाद्ध्रुवम् ॥
भ्रमक्लमोरुदौर्बल्यबलधात्विन्द्रियक्षयः ।
अपर्वमरणं च स्याद्विशेषेणातिमैथुनात् ॥
नचोनः षोडशाद्वर्षात् सप्ततेः परतो न अच् ।
आयुष्कामो नरः स्त्रीभिः संयोगं गन्तुमर्हति ॥
अतिबालो ह्यसंपूर्णसर्वधातुः स्त्रियं व्रजन् ।
उपतप्यते सहसा तटाकमिव काजलम् ॥
शुष्कं रूक्षं यथा काष्ठं जन्तुजग्धं विजर्जरम् ।
स्पृष्टमाशु विशीर्येत तथा वृद्धः स्त्रियं व्रजन् ॥
कायस्य तेजः परमं हि शुक्रमाहारसारदपि सारभूतम् ।
जितात्मना तत् परिरक्षणीयं ततो वपुः सन्ततिरप्युदारा ॥
अप्रमत्तो भजेद्भावांस्तदात्वसुखसंज्ञकान् ।
सुखोदर्केषु सज्जेत देहस्यैतदलं हितम् ॥
प्रज्ञापराधो ऽसात्म्यार्थसंयोगः कालवैकृतम् ।
हिते ऽपि रतमाहारे योजयन्त्यामयैर्नरम् ॥
नापथ्यसेविनं सद्यः प्रबाधन्ते तदा मलाः ।
प्रकोपं प्रतिविघ्नान्ति भिन्नैर्दूष्यादिभिर्यदा ॥
न च सर्वोपचारो ऽपि सर्वदा सर्वदोषकृत् ।
न हि सर्वाण्यपथ्यानि तुल्यदोषाणि नैव च ॥
सर्वे तुल्यबला दोषा न सर्वाणि वपूंषि च ।
व्याधिक्षमत्वे शक्तानि यतो ऽपथ्यं तदेव तु ॥
गच्छत्यपथ्यतमतां तुल्यदोषादिवर्द्धितम् ।
त एव च पुनर्द्दोषा हेतुभिर्बहुभिश्चिताः ॥
मिथो विरुद्धा बलिनो दीर्घकालानुबन्धिनः ।
सर्वे समप्रकुपिताः प्राप्याल्पमपि कारणम् ॥
प्राणायतनमाश्रित्य गर्भीराः सर्वमार्गगाः ।
देहे ऽहितोचिते ते स्युश्चिरादप्याशुकारिणः ॥
अहितान्यपि चान्येषामभ्यासादुपशेरते ।
दोषाश्चैषां क्षयं यान्ति कर्मवातातपादिभिः ॥
भिन्नाहारवयः सात्म्यप्रकृतीनां समं भवेत् ।
एको विकृतवाय्यादियुगपत्सेवनात् गदः ॥
वातादीनां तु विकृतिर्विकृताद्ग्रहचारतः ।
भौमान्तरिक्षदिव्येभ्य उत्पातेभ्यश्च जायते ।
सम्भवः पुनरेतेषां कर्मणः सामुदायिकात् ॥
दुष्टो वायुरभिष्यन्दी स्तिमितो ऽत्युष्णशीतलः ।
कुण्डली भैरवरवः परुषो ऽनार्त्तवो बली ॥
अन्योन्यव्याहतगतिः पांसुबाष्पविषान्वितः ।
रसवर्णादिविकृतमपक्रान्तविहङ्गमम् ॥
निन्दितप्रभवं तोयमुपक्षीणजलाशयम् ।
मक्षिकामूषिकाव्यालबहूत्पातप्रदूषितः ॥
देशो ऽपथ्यान्नबहुलो नष्टधर्ममहौषधिः ।
कालश्च विपरीतो ऽतिहीनलिङ्गो यथायथम् ॥
एते दुष्परिहारत्वादहितायोत्तरोत्तरम् ।
येषामनियतं कर्म तस्मिन् काले सुदारुणे ॥
कर्म पञ्चविधं तेषां योज्यं तद्वद्रसायनम् ।
शस्यते देहवृद्धिश्च भेषजैः पूर्वमुद्धृतैः ॥
ब्रह्मचर्यं दया दानं सदाचाररतिः शमः ।
सद्धर्मः सत्कथा पूजा देवर्षीणां जितात्मनाम् ॥
देशानामविपन्नानां साधूनां च निषेवणम् ।
दैवव्यपाश्रयं चेष्टं कर्म जीवितरक्षणम् ॥
हेमन्तादिषु कुर्वीत स्वं स्वं चाकालिकेष्वपि ।
विधिं तच्छीलनं यस्माच्छीतादिद्वन्द्वकारितम् ॥
ऋतुचर्यादिशीतोष्णवृष्टिदोषप्रतिक्रिया ।
अत एव च चर्यायां हेमन्तशिशिरे समे ॥
सर्वप्राणभृतां नित्यमायुर्युक्तिमपेक्षते ।
दैवे पुरुषकारे च स्थितं तस्य बलाबलम् ॥
अन्यजन्मकृत कर्म दैवं पौरुषमैहिकम् ।
विद्यात्ते कर्मणी त्रेधा श्रेष्ठमध्यावरत्वतः ॥
तयोरुदारयोर्युक्तिर्दीर्घस्य सुसुखस्य च ।
नियतस्यायुषो हेतुर्विपरीतस्य चापरा ॥
मध्या मध्यस्य मिश्रस्य सङ्कीर्णा श्रुणु चापरम् ।
दैवं पुरुषकारेण दुर्बलं ह्युपहन्यते ॥
तथा दैवेन बलिना पौरुषं कर्म दुर्बलम् ।
दृष्ट्वा यदेके मन्यन्ते नियतं मानमायुषः ॥
कर्म किञ्चित् क्वचित्काले विपाकनियतं महत् ।
किञ्चिच्च कालनियतं प्रत्ययैः प्रतिबोध्यते ॥
एवं च द्विविधो मृत्युः कालाकालविभेदतः ।
उपदिष्टस्ततश्चैष हिताहितविधिक्रमः ॥
एकोत्तरं मृत्युशतं ब्रुवते वेदवादिनः ।
तत्रैकः कालसंयुक्तः शेषास्त्वागन्तवः स्मृताः ॥
श्येनादिना च यागेन भ्रातृव्यस्य तथा च तैः ।
दीर्घश्रवससोमाद्यैर्विहितश्चात्मनो वधः ॥
आयुष्कामस्य तत्प्राप्तिस्तथेष्ट्या मित्रविन्दया ।
सर्वस्मादेव चात्मानं गोपयेदीदृशी स्मृतिः ॥
तथा मरणमुद्दिष्टं सौगतानां चतुर्विधम् ।
विषमापरिहारेण जायते नियतायुषाम् ॥
ध्रुवं रोगित्वमन्येषां मृत्युरेव त्वपर्वणि ।
अकाण्डे शस्त्रघाताद्यैः प्रत्यक्षो मृत्युरन्यथा ॥
उद्भ्रान्तचण्डमातङ्गतुरङ्गादिसमागमम् ।
आरातिदुष्टवाय्वादिसाहसाहितभोजनम् ॥
वर्जयेदिति न ब्रूयुर्मुनयो दिव्यचक्षुषः ।
दैवव्यपाश्रयादीश्च रसायनविधीस्तथा ॥
न वा ते ऽपि यथाकाममायुषः स्थितिमाप्नुयुः ।
अहिसिंहगजादिभ्यो विदुषां न भयं भवेत् ॥
मिथ्याप्राकारदुर्गाणि मिथ्यामारणरक्षणम् ।
आयुष्कामस्य मिथ्यैव परदारादिवर्जनम् ॥
मन्त्रदेवतयाहूता नाचक्षीरन् महाहयः ।
विषसुप्तप्रबुद्धस्था भावाभावौ तदायुषः ॥
सन्यासरोहिणीकादिग्रस्तस्य सहसा भवेत् ।
उपेक्षया न मरणं जीवितं वा चिकित्सया ॥
प्रत्यहं नृसहस्रस्य युद्वे ऽन्योन्यमभिघ्नतः ।
साधुवृत्तस्य चातुल्या न भवेदायुषः स्थितिः ॥
नायुधैर्द्विषमिन्द्राद्या नौषधैरार्तमश्विनौ ।
उपक्रमेरन्न भवेदकालमरणं यदि ॥
घटानामामपक्वानां पालनापरिपालनैः ।
चिराल्पकालवर्त्तित्वं चित्रस्थानां च दृश्यते ॥
इत्यत्यन्तप्रसिद्धे ऽपि सिद्धे सर्वागमैरपि ।
दृष्टे ऽप्यकालमरणे विचिकित्सेत्कथं बुधः ॥
गुणवद्भिषगादीनां सम्भवे सम्भवेत्तु यः ।
मृत्युं तं कालजं प्राहुरितरं तद्विपर्यये ॥
यथा रथो वाह्यमानो न्यायेन क्रमशः क्षयम् ।
यायादात्मवतामायुस्तथान्येषां विपर्ययः ॥
शुचितैलदशो दीपः कीटवाताद्यपीडितः ।
दीप्तिमान् वर्त्तते सम्यक् यथैवास्नेहसङ्क्षयात् ॥
स एवातो यथा च स्याद्विपरीतो विपर्यये ।
हिताहितोपचारेण तथैव पुरुषो ध्रुवम् ॥
सर्वमन्यत् परित्यज्य शरीरं पालयेदतः ।
तदभावे हि भावानां सर्वाभावः शरीरिणाम् ॥
नगरी नगरस्येव रथस्येव रथी तथा ।
स्वशरीरस्य मेधावी कृत्येष्ववहितो भवेत् ॥
आहारकल्पनाहेतून् स्वभावादीन् विशेषतः ।
समीक्ष्य हितमश्नीयाद्देहो ह्याहारसम्भवः ॥
भीलज्जायन्त्रणालोभहर्षशोकवशं गतः ।
न जातु धारयेद्वेगांस्तद्धि सर्वापदास्पदम् ॥
हितमभ्यस्यतः पुंसो नाकाले कालदंष्ट्रया ।
सञ्जायते परामर्शो बलोत्साहेन्द्रियायुषाम् ॥
अहितान्यपि सन्त्यज्य दोषमाप्याप्नुयाद्यदि ।
तथाप्यानृण्यमायाति साधूनामात्मवानिति ॥
यच्च रोगसमुत्थानं न शक्यमिह केनचित् ।
परिवर्तुं न तत् प्राप्य शोचितव्यं मनीषिणा ॥
हिताहारविहाराणां सदाचारनिषेविणाम् ।
लोकद्वयव्यपेक्षाणां जीवितं ह्यमृतायते ॥
गृध्नुर्ग्राम्यसुखे वश्यः क्लेशानां हतसत्पथः ।
मूढो जीवत्यनर्थाय दुर्गतिं परिबृंहयन् ॥
विदुषान्तश्शरीरस्थान्नित्यं सन्निहितानरीन् ।
जित्वा वर्ज्यानि वर्ज्यानि चिरं जीवितुमिच्छता ॥
तदात्वे चानुबन्धे वा तस्मात् कर्माशुभोदयम् ।
स्मरन्नात्रेयवचसो न धीमान् कर्तुमर्हति ॥
मूल पाठ: Aṣṭāṅgasaṃgraha · Edition: e-text by SARIT · SARIT: Search and Retrieval of Indic Texts · SARIT (e-text) via Internet Archive · CC BY-SA 3.0