भाषा

ENहिગુ
ग्रंथ पाठ

अष्टाङ्गसंग्रह · अध्याय 1.7

1.7.1

अथात अन्नस्वरूपविज्ञानीयं नामाध्यायं व्याख्यास्यामः ।
इति ह स्माहुरात्रेयादयो महर्षयः ॥

1.7.2

रक्तो महान् सकलमस्तूर्णकः शकुनाहृतः ।
शारामुखो दीर्घशूको लोध्रशूकः सुगन्धिकः ॥

1.7.3

पुण्ड्रः पाण्डुः पुण्डरीकः प्रमोदो गौरशारिवौ ।
काञ्चनो महिषः शूको दूषकः कुसुमाण्डकः ॥

1.7.4

लाङ्गला लोहवालाख्याः कर्दमाः शीतभीरुकाः ।
पतङ्गास्तपनीयाश्च ये चान्ये शालयः शुभाः ॥

1.7.5

स्वादुपाकरसाः स्निग्धा वृष्या बद्धाल्पवर्चसः ।
कषायानुरसाः पथ्या लघवो मूत्रला हिमाः ॥

1.7.6

शूकजेषु वरस्तत्र रक्तस्तृष्णात्रिदोषहा ।
महांस्तं चानु कलमस्तं चाप्यनु ततः परे ॥

1.7.7

यवका हायनाः पांसुवाप्यनैषधकादयः ।
स्वादूष्णा गुरवः स्निग्धाः पाके ऽम्लाः श्लेष्मपित्तलाः ॥

1.7.8

सृष्टमूत्रपुरीषाश्च पूर्वं पूर्वं च निन्दिताः ।
स्निग्धो ग्राही लघुः स्वादुस्त्रिदोषघ्नः स्थिरो हिमः ॥

1.7.9

षष्टिको व्रीहिषु श्रेष्ठो गौरश्चासितगौरतः ।
ततः क्रमान्महाव्रीहिकृष्णव्रीहिजतूमुखाः ॥

1.7.10

कुक्कुटाण्डकलाबाक्षपारावतकसूकराः ।
वरकोद्दालकोज्जालचीनशारददर्दुराः ॥

1.7.11

गन्धनाः कुरुविन्दाश्च गुणैरल्पान्तराः स्मृताः ।
स्वादुरम्लविपाको ऽन्यो व्रीहिः पित्तकरो गुरुः ॥

1.7.12

बहुमूत्रपुरीषोष्मा त्रिदोषस्त्वेव पाटलः ।
कङ्गुकोद्रवजूर्णाह्वगदीवरुणपादिकाः ॥

1.7.13

श्यामाकतोयश्यामाकहस्तिश्यामाकशिल्बिकाः ।
शिशिरोद्दालनीवारवरूकबरकोत्कटाः ॥

1.7.14

मधूलिकान्तनिर्गण्डीवेणुपर्णीप्रशान्तिकाः ।
गवेथुकाण्डलौहित्यतोयपर्णीमुकुन्दराः ॥

1.7.15

कफपित्तहरा रूक्साः कषायमधुरा हिमाः ।
वातला बद्धविण्मूत्रा लघवो लेखनात्मकाः ॥

1.7.16

भग्नसन्धानकृत्तत्र प्रियङ्गुबृंहणी गुरुः ।
कोरदूषः परं ग्राई स्पर्शे शीतो विषापहः ॥

1.7.17

उद्दालकस्तु वीर्योष्णो नीवारः श्लेष्मवर्धनः ।
शीतवीर्या विशेषेण स्निग्धा वृष्या मधूलिका ॥

1.7.18

रूक्षः शीतो गुरुः स्वादुः सरो विड्वातकृद्यवः ।
वृष्यः स्थैर्यकरो मूत्रमेदःपित्तकफान् जयेत् ॥

1.7.19

पीनसश्वासकासोरुस्तम्भकण्ठत्वगामयान् ।
गुणैर्न्यूनतरा ज्ञेया यवादनुयवाह्वयाः ॥

1.7.20

ऊष्णाः सरा वेणुयवाः कषाया वातपित्तलाः ।
वृष्यः शीतो गुरुः स्निग्धो जीवनो वातपित्तहा ॥

1.7.21

सन्धानकरी मधुरो गोधूमः स्थैर्यकृत् सरः ।
पथ्या नन्दीमुखी शीता कषाया मधुरा लघुः ॥
इति शूकधान्यवर्गः ।

1.7.22

शिम्बिजा मुद्गमङ्गल्यवनमुद्गमकुष्ठकाः ।
मसूरकफलाढक्यश्चणकाश्चपृथग्विधाः ॥

1.7.23

कषायस्वादुलघवो विबन्धाध्मानकारिणः ।
रूक्षा बद्धमलाः शीता विपाके कटुका हिताः ॥

1.7.24

पित्तासृक्कफमेदस्सु सूपालेपादियोजनात् ।
सूप्यानामुत्तमा मुद्गा लघीयांशो ऽल्पमारुताः ॥

1.7.25

हरितास्तेष्वपि वरा मकुष्ठाः क्रिमिकारिणः ।
वर्ण्याः परं प्रलेपाद्यैर्मसूरा ग्राहिणो भृशम् ॥

1.7.26

राजमाषो गुरुर्भूरिशकृद्रूक्सो ऽतिवातलः ।
कषायस्वादुरूक्षोष्णाः कुलत्था रक्तपित्तलाः ॥

1.7.27

पीनसश्वासकासार्शोहिध्मानाहकफानिलान् ।
घ्नन्ति शुक्राश्मरीं शुक्रं दृष्टिं शोफं तथोदरम् ॥

1.7.28

ग्राहिणो लघवस्तीक्ष्णा विपाके ऽम्ला विदाहिनः ।
निष्पावस्तु सरो रूक्षः कषायमधुरो गुरुः ॥

1.7.29

पाके ऽम्लो वातविष्टम्भी स्तन्यमूत्रास्रपित्तकृत् ।
उष्णो विदाही दृक्च्छुक्रकफशोफविशापहः ॥

1.7.30

माषः स्निग्धो बलश्लेष्ममलपित्तकरः सरः ।
गुरूष्णो ऽनिलहा स्वादुः शुक्रवृद्धिविरेककृत् ॥

1.7.31

फलानि गुणवद्विद्यात् काकाण्डोलात्मगुप्तयोः ।
कुशाम्रशिम्बी मधुरा वातपित्तहरा हिमा ॥

1.7.32

मधुराः शीतला गुर्व्यो बलघ्न्यो रूक्षणात्मिकाः ।
स्नेहाढ्या बलिभिर्भोज्या विविधाः शिम्बिजातयः ॥

1.7.33

स्निग्धोष्णतिक्तकटुकः कषायमधुरस्तिलः ।
मेध्यः केश्यो गुरुर्वर्ण्यः स्पर्शशीतो ऽनिलापहः ॥

1.7.34

अल्पमूत्रः कटुः पाके मेधाग्निकफपित्तकृत् ।
कृष्णः प्रशस्तस्तमनु शुक्लस्तमनु चारुण ॥

1.7.35

स्निग्धोमा स्वादुतिक्तोष्णा कफपित्तकरी गुरुः ।
दृक्च्छुक्रहृत् कटुः पाके तद्वत् बीजं कुसुम्भजम् ॥

1.7.36

माषो ऽत्र सर्वेष्ववरो यवकः शूकजेषु च ।
नवं धान्यमभिष्यन्दि सेक्यं केदारजं च यत् ॥

1.7.37

लघु वर्षोषितं दग्धभूमिजं स्थलसम्भवम् ।
शीघ्रजन्म तथा सूप्यं निस्तुषं युक्तिभर्जितम् ॥
इति शिम्बिधान्यवर्गः ।

1.7.38

मण्डपेयाविलेपीनामोदनस्य च लाघवम् ।
यथापूर्वं शिवस्तत्र मण्डो वातानुलोमनः ॥

1.7.39

तृड्ग्लानिदोषशेषघ्नः पाचनो धातुसाम्यकृत् ।
स्रोतोमार्दवकृत् स्वेदी सन्धुक्षयति चानलम् ॥

1.7.40

क्षुत्तृष्णाग्लानिदौर्बल्यकुक्षिरोगज्वरापहा ।
मलानुलोमनी पथ्या पेया दीपनपाचनी ॥

1.7.41

विलेपी ग्राहिणी हृद्या तृष्णाघ्नी दीपनी हिता ।
व्रणाक्षिरोगसंशुद्धदुर्बलस्नेहपायिताम् ॥

1.7.42

सुधौतः प्रस्रुतः स्विन्नस्त्यक्तोष्मा चौदनो लघुः ।
यश्चाग्नेयौषधक्वाथसाधितो भृष्टतण्डुलः ॥

1.7.43

विपरीतो गुरुः क्षीरमांसाद्यैर्यश्च साधितः ।
इति द्रव्यक्रियायोगमानाद्यैः सर्वमादिशेत् ॥

1.7.44

शुष्यतां व्याधिमुक्तानां शुद्धानां शुद्धिकाङ्क्षिणाम् ।
कृशक्षामक्षतोरस्कक्षीणधात्विन्द्रियौजसाम् ॥

1.7.45

दृष्टिश्रवणवह्न्यायुर्बलवर्णस्वरार्थिनाम् ।
भग्नाविश्लिष्टसन्धीनां व्रणिनां वातरोगिणाम् ॥

1.7.46

हृद्यः पथ्यः परं वृष्यो बृंहणः प्रीणनो रसः ।
मौद्गस्तु पथ्यः संशुद्धव्रणकण्ठाक्षिरोगिणाम् ॥

1.7.47

वातानुलोमी कौलत्थो गुल्मतूनिप्रतूनिजित् ।
प्रभूताभ्यन्तरमलो माषसूपः परं स्मृतः ॥

1.7.48

खलकाम्बलिकौ हृद्यौ च्छेदिनौ स्वौषधानुगौ ।
पिशितेन रसस्तत्र यूषो धान्यैः खलः फलैः ॥

1.7.49

मूलैश्च तिलकल्काम्लप्रायः काम्बलिकः स्मृतः ।
ज्ञेयाः कृताकृतास्ते तु स्नेहादियुतवर्जिताः ॥

1.7.50

अल्पमांसादयः स्वच्छा दकलावणिकाः स्मृताः ।
विद्याद्यूषे रसे सूपे शाके चैवोत्तरोत्तरम् ॥

1.7.51

गौरवं तनुसान्द्राम्लस्वादुष्वेषु पृथक् तथा ।
तिलपिण्याकविकृतिः शुष्कशाकं विरूढकम् ॥

1.7.52

चाण्डाकीवटकं दृघ्नं दोषलं ग्लपनं गुरु ।
पर्पटा लघवो रुच्या लघीयान् क्षारपर्पटः ॥

1.7.53

हृद्या वृष्या रुचिकरा गुरुवो रागषाडवाः ।
प्रीणना भ्रमतृट्च्छरिदिमेदमूर्छाश्रमच्छिदः ॥

1.7.54

तृट्च्छर्दिश्रमनुन्मन्थः शीतः सद्योबलप्रदः ।
प्रमेहक्षयकुष्ठानि न च स्युर्मन्थपायिनः ॥

1.7.55

रसाला बृंहणी वृष्या स्निग्धा बलय रुचिप्रदा ।
श्रमक्षुत्तृट्क्लमहरं पानकं प्रीणनं गुरु ॥

1.7.56

विष्टम्भि मूत्रलं हृद्यं यथाद्रव्यगुणं च तत् ।
लाजास्तृट्च्छर्द्यतीसारमेहमेदःकफच्छिदः ॥

1.7.57

कासपित्तोपशमना दीपना लघवो हिमाः ।
पृथुका गुरवो बल्याः कफविष्टम्भकारिणः ॥

1.7.58

धान विष्टम्भिनी रूक्षा तर्पणी लेखनी गुरुः ।
कण्ठनेत्रमयक्षुत्तृट्श्रमछर्दिव्रणापहा ॥

1.7.59

सक्तवो लघवः पानात् सद्य एव बलप्रदाः ।
निचयात् कठिना गुर्वी प्रोक्ता पिण्डी मृदुर्लघुः ॥

1.7.60

सक्तूनां द्रवतायोगाल्लघीयस्यवलेहिका ।
शष्कुलीमोदकादीनां व्याख्यातैवं च कल्पना ॥

1.7.61

नोदकान्तरितान्न द्विर्न निशायां न केवलान् ।
न भुक्त्वा न द्विजैश्छित्वा सक्तूनद्यान्न वा बहून् ॥

1.7.62

कर्कन्धुबदरदीनां श्रमतृष्णाक्लमच्छिदः ।
सक्तवो ऽम्लरसा हृद्या यथाद्रव्यगुणाश्च ते ॥

1.7.63

पिण्याको ग्लपनो रूक्षो विष्टम्भी दृष्टिदूषणः ।
वेशवारो गुरुः स्निग्धो बलोपचयवर्धनः ॥

1.7.64

मुद्गदिजास्तु गुरवो यथाद्रव्यगुणानुगाः ।
कुकूलकर्परभ्राष्टकन्द्वङ्गारविपाचितान् ।
एकयोनीन् लघून्विद्यादपूपानुत्तरोत्तरम् ॥
इति कृतान्नवर्गः ।

1.7.65

हरिणैणकुरङ्गर्श्यगोकर्णमृगमातृकाः ।
कालपुच्छकचारुष्कवरपोतशशोरणाः ॥

1.7.66

श्वदंष्ट्रामशरभकोहकारकशम्बराः ।
करालकृतमालौ च पृषतश्च मृगाः स्मृताः ॥

1.7.67

लाववातिकवर्तीररक्तवर्त्मककर्कराः ।
कपिञ्जलोपचक्राख्यचकोररुरुबाहवः ॥

1.7.68

वर्तको वर्तिका चेति तित्तिरिः क्रकरः शिखी ।
तारचूडाख्यवरकगोनर्दगिरिवर्तिकाः ॥

1.7.69

तथा शारपदेन्द्राह्ववारटाश्चेति विष्किराः ।
शतपत्रो भृङ्गराजः कोयष्टी जीवजीवकः ॥

1.7.70

खञ्जरीटकहारीतदुर्नामारिकृशाग्रहाः ।
लट्वा लडूषो वटहा रोक्ष्वेलो डिण्डिमाणवः ॥

1.7.71

जटी दुन्दुभिपार्कारलोहपृष्ठकुलिङ्गकाः ।
शारिकाशुकशार्ङ्गाख्यचिरीटीककुयष्टिकाः ॥

1.7.72

मञ्जरीयकदात्यूहगोधापुत्रप्रियात्मजाः ।
कलविङ्कः परभृतः कपोतो ऽङ्गारचूडकः ॥

1.7.73

पारावतः पाणविक इत्युक्ताः प्रतुदा द्विजाः ।
श्वेतः श्यामश्चित्रपृष्ठः कालकः काकुली मृगः ॥

1.7.74

भेकचिल्लटकूचीका गोधाशल्यकशाण्डकाः ।
वृषाहिकदलीश्वाविन्नकुलाद्या बिलेशयाः ॥

1.7.75

गोखराश्वतरोष्ट्राश्वद्वीपिसिंहर्क्षवानराः ।
मार्जारमूषिकव्याघ्रवृकबभ्रुतरक्षवः ॥

1.7.76

लोपाकजम्बुकश्येनचाषोलूकश्ववायसाः ।
शशघ्नीभासकुररगृध्रवेश्यकुलिङ्गकाः ॥

1.7.77

धूमिका मधुहा चेति प्रसहा मृगपक्षिणः ।
महिषन्यङ्कुरोहीतवराहरुरुवारणाः ॥

1.7.78

सृमरश्चमरः खड्गो गवयश्च महामृगाः ।
हंससारसकादम्बबककारण्डवप्लवाः ॥

1.7.79

मृणालकण्ठचक्राह्वबलाका रक्तशीर्षकाः ।
उत्क्रोशपुण्डरीकाक्षशरारीमणितुण्डकाः ॥

1.7.80

काकतुण्डघनारावमद्गुक्रौञ्चाम्बुकुक्कुटाः ।
नद्यास्योमल्लिकाद्याश्च पक्षिणो जलचारिणः ॥

1.7.81

मत्स्या रोहितपाठीनकूर्मकुम्भीरकर्कटाः ।
शुक्तिशङ्खोद्रुशम्बूकशफरीवर्त्मिचन्द्रिकाः ॥

1.7.82

बुलूकीनक्रमकरशिंशुमारतिमिङ्गलाः ।
राजी चिलिचिमाद्यश्च मांसमित्याहुरष्टधा ॥

1.7.83

योनिष्वजावी व्यामिश्रगोचरत्वादनिश्चिते ।
आद्यान्त्या जाङ्गलानूपा मध्यौ साधारणौ स्मृतौ ॥

1.7.84

विकीर्यादिक्रियायोगैर्भक्षणाद्विष्किरादयः ।
तत्र बद्धमला रुच्या मांसानामुत्तमाः हिमाः ॥

1.7.85

कषायस्वादुविशदा लघवो जाङ्गला हिताः ।
पित्तोत्तरे वातमध्ये सन्निपाते कफानुगे ॥

1.7.86

ताम्रो ऽत्र हरिणः कृष्णस्त्वेणो हृद्यस्त्रिदोषजित् ।
लघीयान् षड्रसश्चासौ ग्राही रूक्षो हिमः शशः ॥

1.7.87

कटुपाको ऽग्निकृत् पथ्यः सन्निपाते ऽनिलावरे ।
तद्वल्लावो ऽप्यरूक्षस्तुं किञ्चिद्रूक्षः कपिञ्जलः ॥

1.7.88

पारावताः कपोताश्चृअ तद्वद्वन्याः सुपूजिताः ।
ईषदुष्णगुरुस्निग्धा बृंहणा वर्तकादयः ॥

1.7.89

तित्तिरिस्तेष्वपि वरो मेधाग्निबलशुक्रकृत् ।
ग्राही वर्ण्यो ऽनिलोद्रिक्तसन्निपातहरः परम् ॥

1.7.90

धन्वानूपविचारित्वात् स्निग्धोष्णगुरुबृंहणः ।
नातिपथ्यः शिखी पथ्यः श्रोत्रस्वरवयोदृशाम् ॥

1.7.91

तद्वच्च कुक्कुटो वृष्यो ग्राम्यस्तु श्लेष्मलो गुरुः ।
मेधानलकरा हृद्याः करकराः सोपचक्रकाः ॥

1.7.92

गुरुः सलवणः काणकपोतः सर्वदोषकृत् ।
गुरूष्णस्निग्धमधुरा वर्गाश्चातो यथोत्तरम् ॥

1.7.93

मूत्रशुक्रकृतो बल्या वातघ्नाः कफपित्तलाः ।
शीता महामृगास्तेषु क्रव्यादाः प्रसहाः पुनः ॥

1.7.94

चक्षुष्याः सृष्टविण्मूत्रा मांसलाः कटुपाकिनः ।
जीर्णार्शोग्रहणीदोषशोषार्तानां परं हिताः ॥

1.7.95

गोधा नियछति विषं मूषिकः शुक्रवर्धनः ।
शुष्ककासश्रमात्यग्निविषमज्वरपीनसान् ॥

1.7.96

कार्श्यकेवलवातांश्च गोमांसं सन्नियच्छति ।
चटकाः श्लेष्मलाः स्निग्धा वातघ्नाः शुक्रलाः परम् ॥

1.7.97

गुरूष्णो महिषः स्निग्धः स्वप्नदार्ढ्यबृहत्वकृत् ।
तद्वद्वराहः श्रमहा रुचिशुक्रबलप्रदः ॥

1.7.98

हंसः स्वरकरः पित्तरक्तजिन्मेदुरो हिमः ।
कफपित्तकरा मत्स्याः परं पवननाशनाः ॥

1.7.99

प्रतिस्रोतोविचारित्वादाकाशप्लवनेन च ।
रोहितः प्रवरस्तेषां परं चिलिचिमो ऽवरः ॥

1.7.100

अगोचरविचारित्वात् सर्वदोषकरो हि सः ।
कुलीरः परमं वृष्यो बृंहणः प्रीणनो गुरुः ॥

1.7.101

नातिशीतगुरुस्निग्धं मांसमाजमदोषलम् ।
शरीरधातुसामान्यादनभिष्यन्दि बृंहणम् ॥

1.7.102

विपरीतमतो ज्ञेयमाविकं बृंहणं तु तत् ।
अतिमेद्यं त्यजेन्मांसं हतं व्याधिविषोदकैः ॥

1.7.103

स्वयं मृतं धूमपूर्णमगोचरभृतं कृशम् ।
सद्योहतं वयस्थं च शुद्धं सुरभि शस्यते ॥

1.7.104

एणः कुरङ्गो हरिणः शशो लावः कपिञ्जलः ।
तित्तिरिः क्रकरो गोधा श्वाविड्गृध्रो मृगाधिपः ॥

1.7.105

तथैव शारिका न्यङ्कुर्हंसो रोहितकच्छपौ ।
वर्त्मी चाग्र्याः स्ववर्गेषु प्रवरास्तेष्वपि स्मृताः ॥

1.7.106

लावैणगोधाः सिंहाश्च निन्दितो गौः सदर्दुरः ।
ऋश्यः काणकपोतश्च शेषमुक्तं यथायथम् ॥

1.7.107

गुरूण्यण्डानि बालानां कषायमधुरं पलम् ।
वृद्धानां स्नायुभूयिष्ठमबल्यं गुरुदोषलम् ॥

1.7.108

पुंस्त्रियोः पूर्वपश्चार्धे गुरुणी गर्भिणी गुरुः ।
लघुर्योषिच्चतुष्पात्सु विहङ्गेषु पुनः पुमान् ॥

1.7.109

शिरस्कन्धोरुपृष्ठस्य कट्याः सक्थ्योश्च गौरवम् ।
तथामपक्वाशययोर्यथापूर्वं विनिर्दिशेत् ॥

1.7.110

शोणितप्रभृतीनां च धातूनामुत्तरोत्तरम् ।
मांसात् गरीयो बृषणमेढ्रवृक्कयकृत्गुदम् ॥
इति मांसवर्गः ।

1.7.111

शाकं पाठाशटीश्रूषासुनिषण्डसतीनजम् ।
त्रिदोषघ्नं लघु ग्राहि सराजक्षववास्तुकम् ॥

1.7.112

सुनिषण्डो ऽग्निकृद्वृष्यस्तेषु राजक्षवः परम् ।
ग्रहण्यर्शोविकारघ्नो वर्च्चोभेदी तु वास्तुकः ॥

1.7.113

हन्ति दोषत्रयं कुष्ठं वृष्या सोष्णा रसायनी ।
काकमाची सरा स्वर्या चाङ्गेर्यम्ला ऽग्निदीपनी ॥

1.7.114

ग्रहण्यर्शो ऽनिलश्लेष्महितोष्णा ग्राहिणी लघुः ।
पटोलसप्तलारिष्टशार्ङ्गाष्ठावल्गुजामृताः ॥

1.7.115

वेत्राग्रबृहतीवाशाकुन्तलीतिलपर्णिकाः ।
मण्डूकपर्णीकर्क्कोटकारवेल्लकपर्पटाः ॥

1.7.116

नाडीकलायगोजिह्वावार्त्ताकवनतिक्तकम् ।
करीरं कूलकं नन्दी कुवेला शकुलादनी ॥

1.7.117

कठिल्लं केम्बुकं शीतं सकोशातककर्क्कशम् ।
तिक्तं पाके कटु ग्राहि वातलं कफपित्तजित् ॥

1.7.118

हृद्यं पटोलं क्रिमिनुत् स्वादुपाकं रुचिप्रदम् ।
पित्तलं दीपन भेदि वातघ्नं बृहतीद्वयम् ॥

1.7.119

वृषं तु वमिकासघ्नं रक्तपित्तहरं परम् ।
कारवेल्लं सकटुकं दीपनं कफपित्तजित् ॥

1.7.120

वार्त्ताकं कटुतिक्तोष्णं मधुरं कफवातजित् ।
सक्षारमग्निजननं हृद्यं रुच्यमपित्तलम् ॥

1.7.121

करीरमाध्मानकरं कषायं स्वादुतिक्तकम् ।
कोशातकावल्गुजकौ भेदिनावग्निदीपनौ ॥

1.7.122

श्यामाशाल्मलिकाश्मर्यभञ्जकीर्णकयूथिकाः ।
वृक्षादिनीक्षीरवृक्षबिम्बीतनिकवृक्षकाः ॥

1.7.123

लोध्रः शणः कच्छुदारः सशेलुर्वृषमुष्टिका ।
भल्लातकः कोविदारः कमलोत्पलकिंशुकम् ॥

1.7.124

पटोलादिगुणं स्वादु कषायं पित्तजित् परम् ।
बद्धमूत्रा सरा भञ्जी करीरं स्यादभीरुजम् ॥

1.7.125

सतिक्तं लघु चक्षुष्यं वृष्यं दोषत्रयप्रणुत् ।
तण्डुलीयो हिमो रूक्षः स्वादुपाकरसो लघु ॥

1.7.126

मदपित्तविषास्रघ्नो मुञ्जातं वातपित्तजित् ।
स्निग्धं शीतं गुरु स्वादु बृंहणं शुक्रकृत् परम् ॥

1.7.127

पालक्या पिछिला गुर्व्वी श्लेष्मला भेदिनी हिमा ।
मदघ्न्युपोदका चुञ्चुर्ग्राही तौ पूर्ववत्तथा ॥

1.7.128

विदारी वातपित्तघ्नी मूत्रला स्वादुशीतला ।
जीवनी बृंहणी कण्ठ्या गुर्वीवृष्या रसायनी ॥

1.7.129

चक्षुष्या सर्वदोषघ्नी जीवन्ती मधुरा हिमा ।
शाकानां प्रवरा न्यूना द्वितीया किञ्चिदेव तु ॥

1.7.130

वातपित्तहरा भण्डी पर्वणी पर्वपुष्पिका ।
कूष्माण्डतुम्बकालिङ्गकर्कारूर्वारुतिण्डिशम् ॥

1.7.131

तथा त्रपुसचीनाकचिर्भिटं कफवातकृत् ।
भेदि विष्टम्भ्यभिष्यन्दि स्वादुपाकरसं गुरु ॥

1.7.132

वल्लीफलानां प्रवरं कूष्माण्डं वातपित्तजित् ।
बस्तिशुद्धिकरं वृषं त्रपुसं त्वतिमूत्रलम् ॥

1.7.133

तुम्बं रूक्षतरं ग्राहि कालिङ्गोर्वारुचिर्भिटम् ।
बालं पित्तहरं शीतं विद्यात् पक्वमतो ऽन्यथा ॥

1.7.134

शीर्णवृन्तं तु सक्षारं पित्तलं कफवातजित् ।
रोचनं दीपनं हृद्यमष्ठीलानाहनुल्लघु ॥

1.7.135

मृणालबिसशालूकशृङ्गाटककशेरुकाः ।
नन्दीमाषककेलूटक्रौञ्चादनकलोड्यकम् ॥

1.7.136

सतरूढं कदम्बं च रूक्षं ग्राहि हिमं गुरु ।
कलम्बुनालिकामाषकठिञ्जरकुतुम्बकम् ॥

1.7.137

चिल्लीलट्वाकनिष्पावकुरूटकगवेधुकाः ।
यातुका सालकल्याणी श्रीपर्णी पीलुपर्णिका ॥

1.7.138

कुमारी जीवलोणीका यवशाकसुवर्चलाः ।
कुष्माण्डनीलिनी स्वर्चा वृकधूमकलक्ष्मणा ॥

1.7.139

आलूपानि च सर्वाणि तथा सूप्यानि लक्ष्मणा ।
जीवन्तिकश्चुञ्चुपर्णीप्रपुन्नाटकुबेरकम् ॥

1.7.140

स्वादु रूक्षं सलवणं वातश्लेष्मकरं गुरु ।
शीतलं सृष्टविण्मूत्रं प्रायो विष्टभ्य जीर्यति ॥

1.7.141

स्विन्नं निष्पीडितरसं स्नेहाढ्यं नातिदोषलम् ।
लघुपत्रा तु या चिल्ली सा वास्तुकसमा मता ॥

1.7.142

तक्कारी वरणं स्वादु सतिक्तं कफवातजित् ।
वर्षाभ्वौ कालशाकं च सक्षारं कटुतिक्तकम् ॥

1.7.143

दीपनं भेदनं हन्ति गरशोफकफानिलान् ।
दीपनाः कफवातघ्नाश्चिरिबिल्वाङ्कुराः सराः ॥

1.7.144

लघुरुष्णा सरा तिक्ता सोरुपूका च लाङ्गली ।
वातलौ कटुतिक्ताम्लौ भेदिनौ तिलवेतसौ ॥

1.7.145

तद्वत् पञ्चाङ्गुलो वंशकरीरास्तु विदाहिनः ।
वातपित्तकरा रूक्षाः कटुपाकाः कफापहाः ॥

1.7.146

बिल्वरास्नाबलाशाकं वातघ्नमतिसारजित् ।
वायुं वत्सादनी हन्यात् कफं गण्डीरचित्रकौ ॥

1.7.147

पत्तूरो दीपनस्तिक्तः प्लीहार्शःकफवातजित् ।
क्रिमिकासकफोत्क्लेदान् कासमर्दो जयेत् सरः ॥

1.7.148

रूक्षोष्णमम्लं कौसुम्भं गुरु पित्तकरं सरम् ।
सक्षारं मधुरं स्निग्धमुष्णं गुरु च सार्षपम् ॥

1.7.149

शाकानामवरं बद्धविण्मूत्रं सर्वदोषकृत् ।
यद्बालमव्यक्तरसं किंचित्क्षारं सतिक्तकम् ॥

1.7.150

तन्मूलकं दोषहरं लघु सोष्णं नियच्छति ।
गुल्मकासक्षयश्वासव्रणनेत्रगलामयान् ॥

1.7.151

स्वरग्निसादोदावर्तपीनसांश्च महत् पुनः ।
गुरूष्णकटुकं स्वादुविपाकं सर्वदोषकृत् ॥

1.7.152

गुर्वभिष्यन्दि च स्निग्धसिद्धं तदपि वातजित् ।
वातश्लेष्महरं शुष्कं सर्वमामं तु दोषलम् ॥

1.7.153

कटूष्णो वातकफहा पिण्डालुः पित्तवर्धनः ।
कुठेरशिग्रुसुरससुमुखासुरिभूस्तृणाः ॥

1.7.154

धान्यतुम्बुरुशैलेययवानीशृङ्गिवेरकाः ।
पर्णासो गृञ्जनो ऽजाजी जीरकं गजपिप्पली ॥

1.7.155

फणिर्जार्जकजम्बीरखराह्वाकालमालिकाः ।
दीप्यकः क्षवकद्वीपिबस्तगन्धादि बद्धविट् ॥

1.7.156

रसे पाके च कटुकं दोषोत्क्लेशकरं लघु ।
विदाहि रूक्षतीक्ष्णोष्णं दृक्शुक्रक्रिमिनाशनम् ॥

1.7.157

वर्गो हरितकाख्यो ऽयमुपदंशेषु युज्यते ।
वासनो व्यञ्जनानां च हृद्यो दीपनरोचनः ॥

1.7.158

हिध्माकासविषश्वासपार्श्वरुक्पूतिगन्धहा ।
सुरसः सुमुखः शोफगन्धहा धानका पुनः ॥

1.7.159

कषायतिक्तमधुरा मूत्रला न च पित्तकृत् ।
खराह्वा बस्तिशूलघ्नी चित्रको दीपनः परम् ॥

1.7.160

पत्रे सक्षारमधुरो मध्ये मधुरपिच्छिलः ।
तीक्ष्णोष्णो लशुनः कन्दे कटुपाकरसः सरः ॥

1.7.161

हृद्यः केश्यो गुरुर्वृष्यः स्निग्धो रोचनदीपनः ।
भग्नसन्धानकृत् बल्यो रक्तपित्तप्रदूषणः ॥

1.7.162

किलासकुष्ठगुल्मार्शोमेहक्रिमिकफानिलान् ।
सहिध्मापीनसश्वासकासान् हन्ति रसायनम् ॥

1.7.163

पलाण्डुस्तद्गुणैर्न्यूनो विपाके मधुरस्तु सः ।
कफं करोति नो पित्तं केवलानिलनाशनः ॥

1.7.164

दीपनः सूरणो रुच्यः कफघ्नो विशदो लघुः ।
विशेषादर्शसां पथ्यो भूकन्दस्त्वतिदोषलः ॥

1.7.165

पत्रे पुष्पे फले कन्दे च गुरुता क्रमात् ।
वरा शाकेषु जीवन्ती सार्षपस्त्ववराः परम् ॥
इति शाकवर्गः

1.7.166

द्राक्षा फलोत्तमा वृष्या चक्षुष्या सृष्टमूत्रविट् ।
स्वादुपाकरसा स्निग्धा सकषाया हिमा गुरुः ॥

1.7.167

निहन्त्यनिलपित्तास्रतिक्तास्यत्वमदात्ययान् ।
तृष्णाकासज्वरश्वासस्वरभेदक्षतक्षयान् ॥

1.7.168

उद्रिक्तपित्तान् जयति त्रिदोषान् स्वादु दाडिमम् ।
पित्ताविरोधि नात्युष्णमम्लं वातकफापहम् ॥

1.7.169

सर्वं हृद्यं लघु स्निग्धं ग्राहि रोचनदीपनम् ।
मोचखर्जूरपनसनालिकेरपरूषकम् ॥

1.7.170

आम्राततालकाश्मर्यराजादनमधूकजम् ।
सौवीरबदराङ्कोलफल्गुश्लेष्मातकोद्भवम् ॥

1.7.171

वातामाभिषुकाक्षोडमुकूलकनिकोचकम् ।
ऊरुमाणं प्रियालं च बृंहणं गुरु शीतलम् ॥

1.7.172

दाहक्षतक्षयहरं रक्तपित्तप्रसादनम् ।
स्वादुपाकरसां स्निग्धं विष्टम्भि कफशुक्रकृत् ॥

1.7.173

नालिकेरं गुरु स्निग्धं पित्तघ्नं स्वादु शीतलम् ।
बलमांसकरं हृद्यं बृंहणं बस्तिशोधनम् ॥

1.7.174

मोचं स्वादुरसं प्रोक्तं कषायं नातिशीतलम् ।
रक्तपित्तहरं वृष्यं रुच्यं श्लेष्मकरं गुरु ॥

1.7.175

स्निग्धं स्वादु कषायं च राजादनफलं गुरु ।
फलं तु पित्तलं तालं सरं काश्मर्यजं हिमम् ॥

1.7.176

शकृन्मूत्रविबन्धघ्नं केश्यं मेध्यं रसायनम् ।
मधूकजमहृद्यं तु बदरं सरणात्मकम् ॥

1.7.177

वातामाद्युष्णवीर्यं तु कफपित्तकरं सरम् ।
परं वातहरं स्निग्धमनुष्णं तु प्रियालजम् ॥

1.7.178

प्रियालमज्जा मधुरो वृष्यः पित्तानिलापहः ।
कोलमज्जा गुणैस्तद्वत्तृट्छर्दिःकासजिच्च सः ॥

1.7.179

तिन्दुकाश्मन्तकासीनफलिनीबिम्बितोदनम् ।
टङ्काश्वकर्णबकुलगाङ्गेरुधवधन्वनम् ॥

1.7.180

श्वेतपाककपित्थानि सिञ्चतीभव्यजाम्बवम् ।
क्षीरिवृक्षभवं बीजं पौष्करं कफपित्तजित् ॥

1.7.181

कषायमधुरं रूक्षं शीतलं गुरु लेखनम् ।
विबन्धाध्मानजननं स्तम्भनं वातकोपनम् ॥

1.7.182

कपित्थमामं कण्ठघ्नं कषायाम्लं त्रिदोषकृत् ।
पक्वं रुच्यं कषायाम्लं स्वादु हिध्मावमिप्रणुत् ॥

1.7.183

दोषघ्नं षाडवारिष्टरागयुक्तिषु पूजितम् ।
विषघ्नमुभयं ग्राहि कपित्थान्येवमादिशेत् ॥

1.7.184

बृंहणं वातपित्तघ्नं स्निग्धं सिञ्चतिकाफलम् ।
भव्यं विशदमम्लं च जाम्बवं त्वतिवातलम् ॥

1.7.185

विष्टम्भकृदकण्ठ्यं च साम्लं तु क्षीरिवृक्षजम् ।
पित्तश्लेष्मघ्नमम्लं च वातलं चाक्षकीफलम् ॥

1.7.186

बालं कषायकट्वम्लं रूक्षं वातास्रपित्तकृत् ।
संपूर्णमाम्रमम्लं तु रक्तपित्तकफप्रदम् ॥

1.7.187

स्वादु साम्लं गुरु स्निग्धं मारुतघ्नमपित्तलम् ।
हृद्यं पर्यागतं श्लेष्ममांसशुक्रबलप्रदम् ॥

1.7.188

सहकाररसो हृद्यः सुरभिस्निग्धरोचनः ।
दीपनः पित्तवातघ्नः शुक्रशोणितशुद्धिकृत् ॥

1.7.189

कषायं रोचनं हृद्यं वातलं लवलीफलम् ।
गुर्वग्निसादकृद्विल्वं दोषलं पूतिमारुतम् ॥

1.7.190

पक्वं बालं पुनस्तीक्ष्णं पित्तलं लघु दीपनम् ।
वातश्लेष्मघ्नमुष्णं च स्निग्धं ग्राह्युभयं परम् ॥

1.7.191

वृक्षाम्लं ग्राहि रूक्षोष्णं लघु दीपनरोचनम् ।
वातश्लेष्महरं किञ्चिदूनं कोशाम्लम्जं ततः ॥

1.7.192

फलं करञ्जं विष्टम्भि पित्तश्लेष्माविरोधि च ।
गुरुष्णमधुरं रूक्षं केशघ्नं च शमीफलम् ॥

1.7.193

कटुपाकरसं पीलु तीक्ष्णोष्णं भेदि पित्तलम् ।
क्रिमिगुल्मोदरगरप्लीहार्शःकफवातजित् ॥

1.7.194

सतिक्तं स्वादु यत् पीलु नात्युष्णं तत्त्रिदोषजित् ।
नीपं शताक्षिकं प्राचीनागरं तृणशूल्यजम् ॥

1.7.195

अस्मादल्पान्तरगुणमैङ्गुदं सविकङ्कतम् ।
त्वक्तिक्तकटुका स्निग्धा मातुलुङ्गस्य वातजित् ॥

1.7.196

बृंहणं मधुरं मांसं वातपित्तहरं गुरु ।
लघु तत्केसरं कासश्वासहिध्मामदात्ययान् ॥

1.7.197

आस्यशोषानिलश्लेष्मविबन्धच्छर्द्यरोचकान् ।
गुल्मोदरार्शःशूलानि मन्दाग्नित्वं च नाशयेत् ॥

1.7.198

भल्लातकस्य त्वङ्मांसं बृंहणं स्वादु शीतलम् ।
तदस्थ्यग्निसमं मेध्यं कफवातहरं परम् ॥

1.7.199

स्वाद्वम्लं शीतमुष्णं च द्विधा पारावतं गुरु ।
रुच्यमत्यग्निशमनं रुच्यं मधुरमारुकम् ॥

1.7.200

पक्वमाशु जरां याति नात्युष्णं गुरु दोषलम् ।
द्राक्षापरूषकं चार्द्रमम्लं पित्तकफप्रदम् ॥

1.7.201

गुरूष्णवीर्यं वातघ्नं सरं सकरमर्दकम् ।
तथाम्लं कोलकर्कन्धुलिकुचाम्रातकारुकम् ॥

1.7.202

ऐरावतं दन्तशठं सत्रुदं मृगलण्डिकम् ।
नातिपित्तकरं पक्वं शुष्कं च करमर्दकम् ॥

1.7.203

दीपनं भेदनंशुष्कमम्लिकाङ्कोलयोः फलम् ।
तृष्णाश्रमक्लमच्छेदि लघ्विष्टं कफवातयोः ॥

1.7.204

फलानावरं तत्र लिकुचं सर्वदोषकृत् ।
हिमानिलोष्णदुर्वातव्याललालादिदूषितम् ॥

1.7.205

जन्तुजुष्टं जले मग्नमभूमिजमनार्तवम् ।
अन्यधान्ययुतं हीनवीर्यं जीर्णतया ऽति च ॥

1.7.206

धान्यं त्यजेत्तथा शाकं रूक्षसिद्धमकोमलम् ।
असञ्जातरसं तद्वच्छुष्कं चान्यत्र मूलकात् ॥

1.7.207

प्रायेण फलमप्येवं तथामं बिल्ववर्जितम् ।
इति फलवर्गः ॥
शूकशिम्बिजपक्वान्नमांसशाकफलाश्रयैः ॥

1.7.208

वर्गैरन्नैकदेशो ऽयं भूयिष्ठमुपयोगवान् ।
निर्दिष्टो रसवीर्याद्यैर्थयथास्वं कर्मसाधने ॥

1.7.209

न शक्यं विस्तरेणापि वक्तुं सर्वं तु सर्वथा ।
हिताहितत्वे ऽप्येकान्तनियमो ऽस्मादनिश्चितः ॥

1.7.210

मात्रायोगक्रियादेशकालावस्थादिभेदतः ।
ततस्ततो यतो दृष्टास्ते ते भावास्तथा तथा ॥

1.7.211

मात्रया सेवितं मद्यं हन्ति रोगास्तदुद्भवान् ।
निषेव्यमाणं तिलशो विषमप्यमृतायते ॥

1.7.212

हीनातिमात्रमशनं मरुन्निचयकोपनम् ।
भजतो विषरूपत्वं तुल्यांशे मधुसर्पिषी ॥

1.7.213

क्षारो ऽम्लरससंयोगे मधुरीभवति क्षणात् ।
उत्तुण्डक्यास्तिन्दुकेन तिक्तता मधुरायते ॥

1.7.214

हिङ्गुगैरिकसिन्धूत्थं गन्धवर्णरसाधिकम् ।
पूगताम्बूलशङ्खेभ्यो वर्णगन्धरसोद्भवः ॥

1.7.215

कोद्रवो हन्त्यसृक्पित्तं करोत्येव विदाहिभिः ।
कुष्ठं तत्कार्यपि तिलो हन्ति भल्लातकैः सह ॥

1.7.216

गुडः कर्ताग्निसादस्य स हिनस्त्यभयादिभिः ।
तृष्यत्यग्नेः समदनं सर्पिरप्युपदिश्यते ॥

1.7.217

जीवनीयमपि क्षीरं विषलेशेन मृत्यवे ।
तुल्ये अपि हतो ऽन्यो ऽन्यं विषे स्थावरजङ्गमे ॥

1.7.218

सक्तवो वातला रूक्षाः पीतास्ते तर्पयन्ति तु ।
विनापि चोपयोगेन मणिमन्त्रादि कार्यकृत् ॥

1.7.219

आर्द्रकाज्जायते शुण्ठी संस्कारेण लघीयसी ।
लघुभ्यो ऽपि हि सक्तुभ्यो गुरवः सिद्धापिण्डिकाः ॥

1.7.220

भृष्टः क्षुण्णो ऽपि पृथुको रक्तशालेर्लघोर्गुरुः ।
शालिः पिष्टो गरीयस्त्वं गोधूमादपि गच्छति ॥

1.7.221

लघु पित्तहरा लाजा व्रीहितो गुरुपित्तलात् ।
सङ्ग्राहिणो लघोर्मुद्गात् कुल्माषो भेदनो गुरुः ॥

1.7.222

आमं ग्राहितरं तक्रं नागरीकृतमार्द्रकम् ।
गुडात्तोयाच्च सुतरां मूत्रलं गुरु पानकम् ॥

1.7.223

गरीयो गुडदध्युत्था रसाला चातिशुक्रला ।
दण्डाभिमथनाद्दध्नो गुरुणश्चातिशोफदात् ॥

1.7.224

अनुद्धृतस्नेहमपि तक्रं शोफहरं लघु ।
सर्पिः स्निग्धतरं हन्ति नार्दितं नवनीतवत् ॥

1.7.225

चक्षुष्यो ऽपि हि गोधूमस्तैलपक्वस्तु दृष्टिहा ।
मूलकं दोषजननं सिद्धं तु तददोषलम् ॥

1.7.226

उष्णं विषीभवत्येव विषघ्नमपि माक्षिकम् ।
दुर्भाजनस्था द्राक्षाम्ला दोषला च प्रजायते ॥

1.7.227

श्लक्ष्णशुष्कघनो लेपश्चन्दनस्यापि दाहकृत् ।
त्वग्गतस्योष्मणो रोधाच्छीतकृत्त्वन्यथा ऽगुरोः ॥

1.7.228

मेध्यस्तिलः स्पर्शशीतो मेध्यं तैलं खलो हिमः ।
तस्यैव श्लेष्मकारित्वं न तैलस्य खलस्य वा ॥

1.7.229

दध्नि श्वयथुकारित्वं न तक्रनवनीतयोः ।
भूमिसात्म्यं दधिक्षीरकरीरं मरुवासिषु ॥

1.7.230

क्षारः प्राच्येषु मत्स्यास्तु सैन्धवेष्वश्मकेषु तु ।
तैलाम्लः कन्दमूलानि मलये कोङ्कणे पुनः ॥

1.7.231

पेयामन्थ उदीच्येषु गोधूमो ऽवन्तिभूमिषु ।
बाल्हीका बाल्हवाश्चीनाः शूलिका यवनाः शकाः ॥

1.7.232

मांसगोधूममार्द्वीकशस्त्रवैश्वानरोचिताः ।
देहसात्म्यं घृतं क्षीरं मद्यं मासं च कस्यचित् ॥

1.7.233

पेया यूषो रसो ऽन्यस्य गोधूमो ऽन्यस्य शालयः ।
अहितैरपि तेषां च तैरेवोपहितं हितम् ॥

1.7.234

अन्नपानौषधं दोषमात्राकालाद्यपेक्षया ।
सात्म्यं ह्याशु बलं धत्ते नातिदोषं च बह्वपि ॥

1.7.235

स्रंसनं सत् पयो गव्यं भवति ग्राहि कस्यचित् ।
मन्दो ऽग्निर्भवति प्रायः कफवातोत्तरे हिमे ॥

1.7.236

विषघ्नेनापि पयसा देहे ऽहेर्वर्द्धते विषम् ।
स्थूलस्थविरबालादौ वमनादि निषिध्यते ॥

1.7.237

तक्रमामं कफं कोष्ठे हन्ति कण्ठे करोति तु ।
वातहृत्त्वे ऽपि मृद्वीकाखर्जूरं कोष्ठवातकृत् ॥

1.7.238

नातिपथ्यः शिखी पथ्यः श्रोत्रस्वरवयोदृशाम् ।
दृष्टे स्पर्शहिमं द्रव्यं श्रोत्रस्योष्णं तु पूजितम् ॥

1.7.239

पयः स्वादु सरं शीतं विपरीतं ततो दधि ।
कालेन जायते तस्मात् क्षीरवच्च पुनर्घृतम् ॥

1.7.240

पयो दधि च वातघ्नमजातं वातलं तु तत् ।
तक्रं ग्राहि कषायाम्लमम्लमेव तु भेदनम् ॥

1.7.241

धातकीगुडतोयानि कारणं मद्यशुक्तयोः ।
शीते न तु तदाद्यन्ते स्निग्धाम्ललवणा हिताः ॥

1.7.242

उदमन्थदिवास्वप्नौ ग्रीष्मादन्यत्र गर्हितौ ।
समयोगे ऽपि घर्माद्या वातादिचयहेतवः ॥

1.7.243

ऋतुष्वन्यो रसेष्वन्यो रौक्ष्ये स्नेहे बले क्रमः ।
रसायनं काकमाची सद्यः पर्युषिता विषम् ॥

1.7.244

मूलकं दोसजिद्बालं विपरीतं तु कन्दवत् ।
ज्वरे पेया कषायाश्च सर्पिः क्षीरं विरेचनम् ॥

1.7.245

षडहं षडहं युञ्ज्याद्वीक्ष्य दोषबलाबलम् ।
छर्दिंहृद्रोगगुल्मार्ते वमनं च चिकित्सिते ॥

1.7.246

निषिद्धमपि निर्दिष्टं बस्तिरर्शसकुष्ठिनोः ।
ज्वरे तुल्यर्तुदोषत्वं प्रमेहे तुल्यदूष्यता ॥

1.7.247

रक्तगुल्मे पुराणत्वं सुखसाध्यत्वहेतवः ।
आश्च्योतनमभिष्यन्दे युञ्जीतोर्ध्वं दिनत्रयात् ॥

1.7.248

अञ्जनं पक्वदोषस्य प्रतिश्याये च नावनम् ।
नातिप्रवृद्धे तिमिरे सिरामोक्षो विधीयते ॥

1.7.249

दुष्टास्रसम्भवे ऽपीष्टो नास्रपित्ते सिराव्यधः ।
अपथ्यं पथ्यमप्यन्नं निशायां नेत्ररोगिणाम् ॥

1.7.250

अहिताः सक्तवः शुष्का हितास्ते तु प्रमेहिणः ।
गुल्मिनः क्सीरदध्यादि हपुषाद्यैर्युतं हितम् ॥

1.7.251

वातलं वातकोपे ऽपि वर्षासु मधु शस्यते ।
तदेव मद्यं मद्यस्य विषस्य तु विषान्तरम् ॥

1.7.252

घृतमानूपदेशोत्थं हेमन्ते च बलाधिकम् ।
आलस्यगौरवे रूपं वातजे ऽपि ज्वरे पुरः ॥

1.7.253

स्वेदैर्याति शमं दाहः प्रायो लशुनपानजः ।
दिवास्वप्नाज्जरां याति भुक्तमन्येद्युरद्य न ॥

1.7.254

कोष्ठे रुद्धो ऽग्निकृद्वायुर्मेदसार्शोभिरग्निहृत् ।
दुष्पानं दुर्जरं सर्पिर्दीपनं च पयो ऽन्यथा ॥

1.7.255

सर्पादिशवकोथेभ्यो वृश्चिकानां समुद्भवः ।
ते तैरेव पुनर्दष्टाः सद्यो जहति जीवितम् ॥

1.7.256

स्वयमेव विषं तीव्रं तान् पुनर्नातिबाधते ।
सर्वाङ्गव्यापि तेषां च शुक्रवत् संसृतं विषम् ॥

1.7.257

तन्मांसमुपयोगाय मांसवर्गे च पठ्यते ।
छर्दिघ्नी मक्षिकाविट् च मक्षिकैव तु वामयेत् ॥

1.7.258

कफे लङ्घनसाध्ये ऽपि कर्तरि ज्वरगुल्मयोः ।
तुल्ये ऽपि देशकालादौ लङ्घनं न समं मतम् ॥

1.7.259

सर्वथा दोषजित्तक्रं ग्रहण्यां दोषकृद्व्रणे ।
पीनसश्वासकासादौ सिद्धमेव प्रशस्यते ॥

1.7.260

इत्येते ऽन्ये च बहवः सूक्स्मा दुर्लभहेतुकाः ।
धर्मा विचित्रा भावेषु किञ्चित्तेषां निदर्शितम् ॥

1.7.261

दिशानया देशमपि स्वयमूहेत बुद्धिमान् ।
न शास्त्रमात्रशरणो न चानालोचितागमः ॥

मूल पाठ: Aṣṭāṅgasaṃgraha · Edition: e-text by SARIT · SARIT: Search and Retrieval of Indic Texts · SARIT (e-text) via Internet Archive · CC BY-SA 3.0

Esc