अष्टाङ्गसंग्रह · अध्याय 1.6
अथातोद्रवद्रव्यविज्ञानीयं नामाध्यायं व्याख्यास्यामः ।
इति हस्माहुरात्रेयादयो महर्षयः ॥
जीवनं तर्पणं हृद्यं ह्लादि बुद्धिप्रबोधनम् ।
तन्वव्यक्तरसं मृष्टं शीतं शुच्यमृतोपमम् ॥
सूर्योध्दृतप्रमुक्तत्वाल्लघु वातकंफापहम् ।
शैत्यजीवनसौम्यत्वैः पित्तरक्तविषार्तिजित् ॥
गङ्गाम्बु नभसो भ्रष्टं त्वर्केन्दुमारुतैः ।
हिताहितत्वे तत् भूयो देशकालावपेक्षते ॥
येनाभिवृष्टममलं शाल्यन्नं राजतस्थितम् ।
अक्लिन्नमविवर्णं वा तत् पेयं गाङ्गमन्यथा ॥
सामुद्रं तन्न पातव्यं मासादाश्वयुजाद्विना ।
खातधौतशिलापृष्ठवस्त्रादिभ्यश्च्युतं जलम् ॥
हेममृन्मयपात्रस्थमविपन्नं सदा पिबेत् ।
तदभावे च भूमिष्ठमान्तरिक्षानुकारि यत् ॥
श्वेते कषायं तत्स्वादु कृष्णे तिक्तं च पाण्डुरे ।
नीले कषायमधुरं देशे लवणमूषरे ॥
सक्षारं कपिले मिश्रं मिश्रे ऽथाम्बुगुणाधिके ।
मधुरं लवणाम्लं तु भवेत्भूमिगुणाधिके ॥
तेजोधिके तिक्तकटु कषायं पवनाधिके ।
दिव्यानुकारि त्वव्यक्तरसत्वात् खगुणाधिके ॥
शुचिपृथ्वसितश्वेते देशे चार्कानिलाहतम् ।
कौपसारसताटाकचौण्डप्रास्रवणौद्भिदम् ॥
वापीनदीतोयमिति तत् पुनः स्मृतमष्टधा ।
सक्षारं पित्तकृत् कौपं दीपनान्नातिवातलम् ॥
सारसं स्वादु लघु च ताटाकं गुरु वातलम् ।
चौण्डं तु पित्तलं दोषहरं प्रास्रवणोदकम् ॥
औद्भिदं स्वादु पित्तघ्नं स्वादु वापीजलं गघु ।
नादेयं वातलं रूक्षं कटुकं च तदादिशेत् ॥
धन्वानूपमहीध्राणां सामीप्यात् गुरुलाघवम् ।
पश्चिमोदधिगाः शीघ्रवहा याश्चामलोदकाः ॥
पथ्याः समासात्ता नद्यो विपरीतास्ततो ऽन्यथा ।
उपलास्फालनाक्षेपविच्छेदैः खेदितोदकाः ॥
हिमवन्मलयोद्भूताः पथ्यास्ता एव च स्थिताः ।
क्रिमिश्लीपदहृत्कण्ठशिरोरोगान् प्रकुर्वते ॥
प्राच्यावन्त्यपरान्तोत्था दुर्नामानि महेन्द्रजाः ।
उदरश्लीपदातङ्कान् सह्यविन्ध्यभवाः पुनः ॥
कुष्ठपाण्डुशिरोरोगान् दोषघ्न्यः पारियात्रजाः ।
बलपौरुषकारिण्यः सागराम्भस्त्रिदोषकृत् ॥
कीटाहिमूत्रविट्कोथतृणजालोत्कराविलम् ।
पङ्कपङ्कजशैवालहठपर्णादिसंस्तृतम् ॥
सूर्येन्दुपवनादृष्टं जुष्टं च क्षुद्रजन्तुभिः ।
अभिवृष्टं विवर्णं च कलुषं स्थूलफेनिलम् ॥
विरसं गन्धवत्तप्तं दन्तग्राह्यतिशैत्यतः ।
अनार्तवं च यद्दिव्यमार्तवं प्रथमं च यत् ॥
लूतादितन्तुविण्मूत्रविषसंश्लेषदूषितम् ।
तत् कुर्यात् स्नानपानाभ्यां तृष्णाध्मानोदरज्वरान् ॥
कासाग्निसादाभिष्यन्दकण्डूगण्डादिकानतः ।
तद्वर्जयेदभवे वा तोयस्यान्यस्य शस्यते ॥
घनवस्त्रपरिस्रावैः क्षुद्रजन्त्वभिरक्षणम् ।
व्यापन्नस्यास्य तपनमग्न्यर्कायसपिण्डकैः ॥
पर्णीमूलबिसग्रन्थिमुक्ताकतकशैवलैः ।
वस्त्रगोमेदकाभ्यां वा कारयेत्तत्प्रसादनम् ॥
पाटलाकरवीरादिकुसुमैर्गन्धनाशनम् ।
पानीयं न तु पानीयं पानीये ऽन्यप्रदेशजे ॥
अजीर्णे क्वथितं चाआमे पक्वे जीर्णे ऽपि नेतरत् ।
शीते विधिरयं तप्ते त्वजीर्णे शिशिरं त्यजेत् ॥
पानीयं प्राणिनां प्राणा विश्वमेव च तन्मयम् ।
अतो ऽत्यन्तनिषेधेन न क्वचिद्वारि वार्यते ॥
आस्यशोषाङ्गसादाद्या मृत्युर्वा तदलाभतः ।
न हि तोयाद्विना वृत्तिः स्वस्थस्य व्याधितस्य वा ॥
केवलं सौषधं पक्वमाममुष्णं हितं च तत् ।
समीक्ष्य मात्रया युक्तममृतं विषमन्यया ॥
अतियोगेन सलिलं तृष्यतो ऽपि प्रयोजितम् ।
प्रयाति श्लेष्मपित्तत्वं ज्वरितस्य विशेषतः ॥
वर्धयत्यामतृण्निद्रातन्द्राध्मानाङ्गगौरवम् ।
कासाग्निसादहृल्लासप्रसेकश्वासपीनसान् ॥
पाके स्वादु हिमं वीर्ये तदुष्णमपि योजितम् ।
तस्मादयोगपानेन लाघवान्न वियोजयेत् ॥
आमविष्टब्धयोः कोष्णं निष्पिपासो ऽप्यपः पिबेत् ।
यावत्यः क्लेदयन्त्यन्नमतिक्लेदो ऽग्निनाशनः ॥
विबद्धः कफवाताभ्यां मुक्तामाशयबन्धनः ।
पच्यते क्षिप्रमाहारः कोष्णतोयद्रवीकृतः ॥
अनव्बस्थितदोषाग्नेर्व्याधिक्षीणबलस्य च ।
नाल्पमप्याममुदकं हितं तद्धि त्रिदोषकृत् ॥
तेजसः प्रतिपक्षत्वान्मन्दाग्निर्वर्जयेज्जलम् ।
सर्वमेव तथा स्यन्दप्लीहविद्रधिगुल्मिनः ॥
पाण्डूदरातिसारार्शोग्रहणीशोषशोफिनः ।
काममल्पमशक्तौ तु पेयमौषधसंस्कृतम् ॥
ऋते शरन्निदाघाभ्यां पिबेत्स्वस्थो ऽपि चाल्पशः ।
भक्तस्यादौ जलं पीतमग्निसादं कृशाङ्गताम् ॥
अन्ते करोति स्थूलत्वमूर्ध्वं चामाशयात् कफम् ।
मध्ये मध्याङ्गतां साम्यं धातूनां जरणं सुखम् ॥
शीतं मदात्ययग्लानिमूर्छाछर्दिश्रमभ्रमान् ।
तृष्णोष्णदाहपित्तासृग्विषाणि च निहन्ति तत् ॥
क्षीणपादत्रिभागार्धं देशर्तुगुरुलाघवात् ।
क्वथितं फेनरहितमवेगममलं हितम् ॥
हिध्माध्मानानिलश्लेष्मतृट्कासश्वासपीनसे ।
पार्श्वशूलाममेदस्सु सद्यःशुद्धौ नवज्वरे ॥
दीपनं पाचनं कण्ठ्यं लघु बस्तिविशोधनम् ।
पाषाणरूप्यमृद्धेमजतुतापार्कतापितम् ॥
पानीयमुष्णं शीतं वा त्रिदोषघ्नं तृडरितिजित् ।
लघ्वरूक्षं क्लमघ्नञ्च तोयंक्वथितशीतलम् ॥
संसर्गे पित्तकफयोः सन्निपाते च शस्यते ।
तोयं वन्हिगुणभ्रष्टं पाके ऽम्लं सर्वदोषकृत् ॥
भवेत् पर्युषितं तच्च तोयं हिमकरोद्भवम् ।
अतिशैत्यगुरुस्थैर्यङ्घातैः कफवातकृत् ॥
चन्द्रकान्तभवं रक्षोविषपित्तज्वरापहम् ।
दृष्टिमेधावपुस्थैर्यकरं स्वादु हिमं लघु ॥
नालिकेरोदकं स्निग्धं स्वादु वृष्यं हिमं लघु ।
तृष्णापित्तानिलहरं दीपनं बस्तिशोधनम् ।
दिव्यं वारि वरं वर्षे नादेयमवरं ॥
इति तोयवर्गः ।
स्वादुपाकरसं स्निग्धमोजस्यं धातुवर्धनम् ।
वातपित्तहरं वृष्यं श्लेष्मलं गुरु शीतलं ॥
प्रायः पयः अत्र गव्यं तु जीवनीयं रसायनम् ।
क्षतक्षीणहितं मेध्यं बल्यं स्तन्यकरं सरम् ॥
श्रमभ्रममदालक्ष्मीश्वासकासातितृट्क्षुधः ।
जीर्णज्वरं मूत्रकृच्छ्रं रक्तपित्तं च नाशयेत् ॥
हितमत्यग्न्यनिद्रेभ्यो गरीयो माहिषं हिमम् ।
अल्पाम्बुपानव्यायामकटुतिक्ताशनैर्लघु ॥
आजं शोषज्वरश्वासरक्तपित्तातिसारजित् ।
ईषद्रूक्षोष्णलवणमौष्ट्रकं दीपनं लघु ॥
शस्तं वातकफानाहक्रिमिशोफोदरार्शसाम् ।
मानुषं वातपित्तासृग्भिघाताक्षिरोगजित् ॥
तर्पणाश्च्योतनैर्नस्यैः अहृद्यं तूष्णमाविकम् ।
वातव्याधिहरं हिध्माश्वासपित्तकफप्रदम् ॥
हस्तिन्याः स्थैर्यकृत् बाढं उष्णं त्वैकशफं लघु ।
शाखावातहरं साम्ललवणं जडताकरम् ॥
पयो ऽभिष्यन्दि गुर्वामं युक्त्या शृतमतो ऽन्यथा ।
भवेत् गरीयो ऽतिशृतं धारोष्णममृतोपमम् ॥
पिण्याकाम्लाशिनीनां तु गुर्वभिष्यन्दि तत् भृशम् ।
अचेष्टया च प्रादोषात् गरीयः स्मृतमौषसम् ॥
व्याख्यातस्तेन लघिमा चेष्टावत्प्रकृतिष्वपि ।
ह्रस्वेषु चातिदेहेभ्यो मांसेष्वप्येवमादिशेत् ॥
अम्लपाकरसं ग्राहि गुरूष्णं दधि वातजित् ।
मेदःशुक्रबलश्लेष्मपित्तरक्ताग्निशोफकृत् ॥
रोचिष्णु शस्तमरुचौ शीतके विषमज्वरे ।
पीनसे मूत्रकुछ्रे च रूक्षं तु ग्रहणीगदे ॥
नैवाद्यान्निशि नैवोष्णं वसन्तोष्णशरत्सु न ।
नामुद्गसूपं नाक्षौद्रं नाघृतं नासितोपलम् ॥
न चानामलकं नापि नित्यं नो मन्दमन्यथा ।
ज्वरासृक्पित्तवीसर्पकुष्ठपाण्ड्वामयप्रदम् ॥
तक्रं लघु कषायाम्लं दीपनं कफवातजित् ।
शोफोदरार्शोग्रहणीदोषमूत्रग्रहारुचीः ॥
गुल्मप्लीहघृतव्यापद्गरपाण्ड्वामयान् जयेत् ।
तद्वन्मस्तु सरं स्रोतश्शोधि विष्टम्भजिल्लघु ॥
शीतं स्वादु कषायाम्लं नवनीतं नवोद्धृतं ।
यक्ष्मार्शोर्द्दितपित्तासृग्वातजिद् ग्राहि दीपनम् ॥
क्षीरोद्भवं तु सङ्ग्राहि रक्तपित्ताक्षिरोगजित् ।
शस्तं धीस्मृतिमेधाग्निबलायुःशुक्रचक्षुषाम् ॥
बालवृद्धप्रजाकान्तिसौकुमार्यस्वरार्थिनाम् ।
क्षतक्षीणपरीसर्पशस्त्राग्निग्लपितात्मनाम् ॥
वातपित्तविषोन्मादशोषालक्ष्मीज्वरापहम् ।
स्नेहानामुत्तमं शीतं वयसः स्थापनं घृतम् ॥
सहस्रवीर्यं विधिभिः शृतं कर्मसहस्रकृत् ।
मदापस्मारमूर्छायशिरःकर्णाक्षियोनिजान् ॥
पुराणं जयति व्याधीन् व्रणशोधनरोपणम् ।
पूर्वोक्तांश्चाधिकान् कुर्यात् गुणांस्तदमृतोपमम् ॥
तद्वच्च घृतमण्डो ऽपि रुक्षस्तीक्ष्णस्तनुश्च सः ।
कीलाटदधिकूचीकातक्रपिण्डकमोरटाः ॥
सक्षीरशाकपीयूषा रोचना वह्निसादनाः ।
शुक्रनिद्राकफकरा विष्टम्भिगुरुदोषलाः ॥
विद्याद्दधिघृतादीनां गुणदोषान् यथा पयः ।
गव्ये क्षीरघृते श्रेष्ठे निन्दिते चाविसम्भवे ॥
इति क्षीरवर्गः ।
इक्षोः सरो गुरुः स्निग्धो वृंहणः कफमूत्रकृत् ॥
वृष्यः शीतः पवनजित् भुक्ते वातप्रकोपनः ।
रक्तपित्तप्रशमनः स्वादुपाकरसो रसः ॥
सो ऽग्रे सलवणो दन्तपीडितः शर्करासमः ।
मूलाग्रजन्तुजग्धादिपीडनान्मलसङ्करात् ॥
किञ्चित् कालविधृत्या च विकृतिं याति यान्त्रिकः ।
विदाही गुरु विष्टम्भी तेनासौतत्र पौण्ड्रकः ।
शैत्यप्रसादमाधुर्याद्वरस्तमनुवांशिकः ॥
शातपर्वककान्तारनैपालाद्यास्ततः क्रमात् ।
सक्षाराः सकषायाश्च सोष्णाः किञ्चिद्विदाहिनः ॥
फाणितं गुर्वभिष्यन्दि चयकृन्मूत्रशोधनम् ।
नातिश्लेष्मकरो धौतः सृष्टमूत्रशकृत् गुडः ॥
प्रभूतक्रिमिमज्जासृङ्भेदोमांसकफो ऽपरः ।
हृद्यः पुराणः पथ्यश्च नवः श्लेष्माग्निसादकृत् ॥
वृष्याः क्षीणक्षतहिता रक्तपित्तानिलापहाः ।
मत्स्यण्डिकाखण्डसिताः क्रमेण गुणवत्तमाः ॥
तद्गुणा तिक्तमधुरा कषाया याषशर्करा ।
त्रिदोषघ्नी सिता काशेषुदर्भच्छदसम्भवा ॥
दाहतृट्च्छर्दिमूर्च्छासृक्तिपत्तघ्नः सर्वशर्कराः ।
शर्करेक्षुविकाराणां फाणितं च वरावरे ॥
चक्षुष्यं च्छेदि तृट्श्लेष्मविषहिध्मास्रपित्तनुत् ।
कुष्ठमेहकृमिच्छर्दिश्वासकासातिसारजित् ॥
व्रणशोधनसन्धानरोपणं वातलं मधु ।
रूक्षं कषायमधुरम् तत्तुल्या मधुशर्करा ॥
उष्णमुष्णार्तमुष्णे च युक्तं चोष्णैर्निहन्ति तत् ।
विषान्वयत्वेन विषपुष्पेभ्यो ऽपि यतो मधु ॥
कुर्वते ते स्वयं यच्च सविषा भ्रमरादयः ।
प्रच्छर्दने निरूहे च मधूष्णं न निवार्यते ॥
अलब्धपाकमाश्वेव तयोर्यस्मान्निवर्तते ।
गुरुरूक्षकषायत्वाच्छैत्याच्चाल्पं हितं मधु ॥
न हि कष्टतमं किञ्चित्तदजीर्णाद्यतो नरम् ।
उपक्रमविरोधित्वात् सद्यो हन्याद्यथा विषम् ॥
नानाद्रव्यात्मकत्वाच्च्च योगवाहि परं मधु ।
वृष्ययोगैरतो युक्तं वृषतामनुवर्तते ॥
भ्रामरं पौष्पिकं क्षौद्रं माक्षिकं च यथोत्तरम् ।
वरं जीर्णं च तेष्वन्त्ये द्वे एव ह्युपयोजयेत् ॥
इति इक्षु वर्गः ।
तैलं स्वयोनिवत्तत्र मुख्यं तीक्ष्णं व्यवायि च ।
त्वग्दोषकृदचक्षुष्यं सूक्ष्मोष्णं कफकृन्न च ॥
कृशानां बृंहणायालं स्थूलानां कर्शनाय च ।
बद्धविट्कं क्रिमिघ्नं च संस्कारात्सर्वरोगजित् ॥
तैलप्रयोगादजरा निर्विकारा जितश्रमाः ।
आसन्नतिबला युद्धे दैत्याधिपतयः पुरा ॥
सतिक्तोषणमैरण्डं तैलं स्वादु सरं गुरु ।
वर्ध्मगुल्मानिलकफानुदरं विषमज्वरम् ॥
रुक्छोफौ च कटीगुह्यकोष्ठपृष्ठाश्रयौ जयेत् ।
तीक्ष्णोष्णं पिच्छिलं विस्रं रक्तैरण्डोद्भवं त्वति ॥
उमाकुसुम्भजं चोष्णं त्वग्दोषकफपित्तकृत् ।
दन्तीमूलकरक्षोघ्नकरञ्जारिष्टशिग्रुजम् ॥
सुवर्चलेड्गुदीपीलुशाङ्खिनीनीपसम्भवम् ।
सरलागरुदेवाह्वशिंशपासारजन्म च ॥
तुवरारुष्करोत्थं च तीक्ष्णं कट्वस्रपित्तकृत् ।
अर्शःकुष्ठक्रिमिश्लेष्मशुक्रमेदोनिलापहम् ॥
करञ्जनिम्बजे तिक्ते नात्युष्णे तत्र निर्दिशेत् ।
कषायतिक्तकटुकं सारलं व्रणणोधनम् ॥
भृशोष्णतीक्ष्णकटुके तुवरारुष्करोद्भवे ।
विशेषात् क्रिमिकुष्ठघ्ने तथोर्ध्वाधोविरेचने ॥
अक्षातिमुक्तकाक्षोडनालिकेरमधूकजम् ।
त्रपुसोर्वारुकूष्माण्डश्लेष्मातकप्रियालजम् ॥
वातपित्तहरं केश्यं श्लेष्मलं गुरु शीतलम् ।
पित्तश्लेष्मप्रशमनं श्रीपर्णीकिंशुकोद्भवम् ॥
तिलतैलं वरं तेषु कौसुम्भमवरं परम् ।
वसा मज्जा च वातघ्नौ बलपित्तकफप्रदौ ॥
मांसानुगस्वरूपौ च विद्यान्मेदोपि ताविव ।
बौलूकी सौकरी पाकहंसजा कुक्कुटोद्भवा ॥
वसा श्रेष्ठा स्ववर्गेषु कुम्भीरमहिषोद्भवा ।
काकमद्गु वसा तद्वत् कारण्डोत्था च निन्दिता ॥
दीपनं रोचनं मद्यं तीक्ष्णोक्ष्णं तुष्टिपुष्टिदम् ।
सत्वादुतिक्तकटुकमम्लपाकरसं सरम् ॥
सकषायं स्वरारोग्यप्रतिभावर्णकृल्लघु ।
नष्टनिद्रातिनिद्रेभ्यो हितं पित्तास्रदूषणम् ॥
कृशस्थूलहितं रूक्षं सूक्ष्मं स्रोतोविशोधनम् ।
वातश्लेष्महरं युक्त्या पीतं विषवदन्यथा ॥
गुरु तद्दोषजननं नवं जीर्णमतो ऽन्यथा ।
पेयं नोष्णोपचरेण न विरिक्तक्षुधातुरैः ॥
नातितीक्ष्णमृदुस्वच्छघनं व्यापन्नमेव वा ।
गुल्मोदरार्शोग्रहणीशोषहृत् स्नेहनी गुरुः ॥
सुरनिलघ्नी मेदोसृक्स्तन्यमूत्रकफावहा ।
तद्गुणा वारुणी हृद्या लघुस्तीक्ष्णा निहन्ति च ॥
शूलकासवमिश्वासविबन्धाध्मानपीनसान् ।
शूलप्रवाहिकाटोपतृष्णाशोफार्शसां हितः ॥
जगलः पाचनो ग्राही रूक्षस्तद्वच्च मेदकः ।
बक्कसो हृतसारत्वाद्विष्टम्भी दोषकोपनः ॥
नातितीव्रमदा लघ्वी पथ्या बैभीतकी सुरा ।
व्रणे पाण्ड्वामये कुष्ठे न चात्यर्थं विरुध्यते ॥
विष्टम्भिनी यवसुरा गुर्वी रूक्षा त्रिदोषला ।
कौहली बृंहणी गुर्वी श्लेष्मलस्तु मधूलकः ॥
यथाद्रव्यगुणो ऽरिष्टः सर्वमद्यगुणाधिकः ।
ग्रहणीपाण्डुकुष्ठार्शः शोषशोफोदरज्वरान् ॥
हन्ति गुल्माक्रिमिफीहः कषायकटुवातलः ।
मार्द्विकं लेखनं हृद्यं नात्युष्णं मधुरं सरम् ॥
अल्पपित्तानिलं पाण्डुमेहार्शःक्रिमिनाशनम् ।
अस्मादल्पान्तरगुणं खार्जूरं वातलं गुरु ॥
शार्करः सुरभिः त्वादुर्हृद्यो नातिमदो मघुः ।
सृष्टमूत्रशकृद्वातो गौडस्तर्पणदीपनः ॥
वातपित्तकरः शीधुः स्नेहश्लेष्मविकारहा ।
मेदःशोफोदरार्शोघ्नस्तत्र पक्वरसो वरः ॥
च्छेदि मध्वासवस्तीक्ष्णो मेहपीनसकासजित् ।
सुरासवस्तीक्ष्णमदः स्वादुस्तीक्ष्णो ऽनिलापहः ॥
मैरेयो मधुरो हृष्यः सरः सन्तर्पणो गुरुः ।
धातक्यभिषुतो जीर्णो रूक्षो रोचनदीपनः ॥
द्राक्षासवो मधुसमः परमं स तु दीपनः ।
मार्द्वीकसदृशः प्रोक्तो मृद्वीकेक्षुरसासवः ॥
समासादासवो हृद्यो वातलः सौषधानुगः ।
द्राक्षेक्षुमाक्षिकं शालिरुत्तमा व्रीहिपञ्चमाः ॥
मद्याकरा यत्तेभ्यो ऽन्यत्तन्मद्यप्रतिरूपकम् ।
गुणैर्यथोद्बणैर्विद्यान्मद्यमाकरसङ्करात् ॥
रक्तपित्तकफोत्क्लेदि शुक्तं वातानुलोमनम् ।
विदाहि भृशतीक्ष्णोक्ष्णं हृद्यं रुचिकरं सरम् ॥
दीपनं शिशिरस्पर्शं पाण्डुदृक्कृमिनाशनम् ।
गुडेक्षुमद्यमार्द्वीकशुक्तं लघु यथोत्तरम् ॥
कन्दमूलफलाद्यांश्च तद्वद्विद्यात्तदासुतान् ।
शाण्डाकी चा ऽसुतं चान्यत् कालाम्लं रोचनं लघु ॥
धान्याम्लं भेदि तीक्ष्णोष्णं पित्तकृत् स्पर्शशीतलम् ।
श्रमक्लमहरं रुच्यं दीपनं बस्तिशूलनुत् ॥
शस्तमास्थापने हृद्यं लघु वातकफापहम् ।
एभिरेव गुणैर्युक्ते सौवीरकतुषोदके ॥
क्रिमिहृद्रोगगुल्मार्शःपाण्डुरोगनिबर्हणे ।
ते क्रमाद्वितुषैर्विद्यात्सतुषैश्च यवैः कृते ॥
इति मद्यवर्गः ।
मूत्रं गोजाविमहिषीगजाश्वोष्ट्रखरोद्भवम् ।
पित्तलं रूक्षतीक्ष्णोष्णं लवणानुरसं कटु ॥
क्रिमिशोफोदरानाहशूलपाण्डुकफानिलान् ।
गुल्मारुचिविषश्वित्रकुष्ठार्शांसि जयेल्लघु ॥
विरेकास्थापनालेपस्वेदादिषु च पूजितम् ।
दीपनं पाचनं भेदि तेषु गोमूत्रमुत्तमम् ॥
श्वासकासहरं च्छागं पूरणात् कर्णशूलजित् ।
दद्यात् क्षारे किलासे च गजवाजिसमुद्भवम् ॥
हन्त्युन्मादमपस्मारं क्रिमीन्मेहञ्च रासभम् ।
कषायतिक्तमेतेषां हिध्माश्वासहरं शकृत् ॥
मार्गमोजःक्षयहरं वैष्किरं वातरोगनुत् ।
प्रसहानामपस्मारमुन्मादञ्च नियच्छति ॥
महामृगसमुद्भूतं कुष्ठहृज्जलचारिणाम् ।
नेत्ररोगहरं पित्तं प्रवृद्धं च नियच्छति ॥
पित्तं तिक्तं विषहरं रोचना कफवातजित् ।
तिक्ता पाप्माहरामूत्रं मानुषं तु विषापहम् ॥
तोयक्षीरेक्षुतैलानां वर्गैर्मद्यस्य च क्रमात् ।
इति द्रवैकदेशो ऽयं यथास्थूलमुदाहृतः ॥
मूल पाठ: Aṣṭāṅgasaṃgraha · Edition: e-text by SARIT · SARIT: Search and Retrieval of Indic Texts · SARIT (e-text) via Internet Archive · CC BY-SA 3.0