अष्टाङ्गसंग्रह · अध्याय 1.5
अथातो रोगानुत्पादनीयं नामाध्ययं व्याख्यास्यामः ।
इतिहस्माहुरात्रेयादयो महर्षयः ॥
वेगान् नधारयेद्वातविण्मूत्रक्षवतृट्क्षुधाम् ।
निद्राकासश्रमश्वासजृम्भाश्रुच्छर्दिरेतसाम् ॥
अधोवातस्य रोधेन गुल्मोदावर्तरुक्क्लमाः ।
वातमूत्रशकृत्सङ्गद्दष्ट्यग्निवधहृद्गदाः ॥
शकृतः पिण्डिकोद्वेष्टप्रतिश्यायशिरोरुजः ।
ऊर्ध्ववायुः परीकर्तो हृदयस्योपरोधनम् ॥
मुखेन विट्प्रवृत्तिश्च पूर्वोक्ताश्चामयाः स्मृताः ।
अङ्गभङ्गाश्मरीबस्तिमेढ्रवंक्षणवेदनाः ॥
मूत्रस्य रोधात् पूर्वे च प्रायो रोगाः तदौषधम् ।
वर्त्यभ्यङ्गवगाहाश्च स्वेदनं बस्तिकर्म च ॥
अन्नपानं च विड्भेदि विड्रोधोत्थेषु यक्ष्मसु ।
मूत्रजेषु तु पाने च प्राग्भक्तं शस्येत घृतम् ॥
जीर्णान्तिकं चोत्तमया मात्रया योजनाद्वयम् ।
अवपीडकमेतच्च संज्ञितं धारणात् पुनः ॥
उद्गारस्यारुचिः कम्पो विबन्धो हृदयोरसोः ।
आध्मानकासहिध्माश्च हिध्मावत्तत्र भेषजम् ॥
शिरोर्तीन्द्रियदौर्बल्यमन्यास्तम्भार्दितं क्षुतेः ।
तीक्ष्णधूमाञ्जनाघ्राणनावनार्कविलोकनैः ॥
प्रवर्तयेत् क्षुतिं सक्तां स्वेदाभ्यङ्गौ च शीलयेत् ।
योज्यं वातघ्नमन्नं च घृतं चौत्तरभक्तिकम् ॥
शोषाङ्गसादबधिर्यसम्मोहभ्रमहृद्गदाः ।
तृप्णाया निग्रहात्तत्र शीतः सर्वो विधिर्हितः ॥
अङ्गभङ्गारुचिग्लानिकार्श्यशूलभ्रमाः क्षुधः ।
तत्र योज्यं लघु स्निग्धमुष्णमल्पं च भोजनम् ॥
निद्राया मोहमूर्धाक्षिगौरवालस्यजृम्भिकाः ।
अङ्गमर्दश्च तत्रेष्टः स्वप्नः संवाहनानि च ॥
कासस्य रोधात्तद्वृद्धिः श्वासारुचिहृदामयाः ।
शोषो हिध्मा च कार्यो ऽत्र कासहा सुतरां विधिः ॥
गुल्महृद्रोगसम्मोहाः श्रमश्वासाद्विधारितात् ।
हितं विश्रमणं तत्र वातघ्नश्च क्रियाक्रमः ॥
जृम्भायाः क्षववद्रोगाः सर्वश्चानिलजिद्विधिः ।
पीनसाक्षिशिरोहृद्रुङ्मन्यास्तम्भारुचिभ्रमाः ॥
सगुल्मा बाष्पतस्तत्र स्वप्नो मद्यं प्रियाः कथाः ।
विसर्पकोठकुष्ठाक्षिकण्डूपाण्ड्वामयज्वराः ॥
सकासश्वसहृल्लासव्यङ्गश्वयथवो वमेः ।
गण्डूषधूमानाहारं रुक्षं भुक्त्वा तदुद्वमः ॥
व्यायामः स्रुतिरस्रस्य शस्तं चात्र विरेचनम् ।
सक्षारलवणं तैलमभ्यङ्गार्थे च शस्यते ॥
शुक्रात्तत्स्रवणं गुह्यवेदनाश्वयथुज्वराः ।
हृद्व्यथा मूत्रसङ्गाङ्गभङ्गवर्ध्माश्मषण्ढताः ॥
तास्रचूडसुराशलिबस्त्यभ्यङ्गावगाहनम् ।
बस्तिशुद्धिकरैः सिद्धं भजेत् क्षीरं प्रियाः स्त्रियः ॥
तत्र सेवेत सर्वं च वर्जयेद्वेगधारिणम् ।
विड्वामिनं परिक्लिष्टं क्षीणं तृट्छूलपीडितम् ॥
रोगाः सर्वे ऽपि जायन्ते वेगोदीरणधारणैः ।
निर्दिष्टं साधनं तत्र भूयिष्ठं ये तु तान् प्रति ॥
ततश्चानेकधा प्रायः पवनो यत् प्रकुप्यति ।
अन्नपानौषधं तस्य युञ्जीतातो ऽनुलोमनम् ॥
क्रमादपामपि मणौ पङ्को ऽवश्यंभवत्यतः ।
उत्तिष्ठेत यथाकालं मलानां शोधनं प्रति ॥
चयकाष्ठामुपारुह्य कुर्वते ते ह्युपेक्षिताः ।
प्रायशः सुचिरेणापि भेषजद्वेषिणोगदान् ॥
अतिस्थौल्याग्निसदनमेहकुष्ठहृतौजसः ।
स्रोतोरोधाक्षविभ्रंशश्वासश्वयथुपाण्डुताः ॥
आमोरुस्तम्भजठरकृच्छ्रालसकदण्डकान् ।
च्छर्दिगण्डकृमिग्रन्थितन्द्रादुःस्वप्नदर्शनम् ॥
कण्ठामयान् मूर्द्धरुजं प्रणाशं बुद्धिनिद्रयोः ।
तेजोवर्णबलानां च तृप्यतो बृंहणैरपि ॥
उचितैरपि चाहारैर्यस्मादस्य वहन्ति न ।
दोषोपलिप्तवदना रसं रसवहाः सिराः ॥
वमनादीनतो युञ्ज्यात् स्वस्थस्थैव यथाविधि ।
दोषाः कदाचित् कुप्यन्ति जिता लङ्घनपाचनैः ॥
ये तु संशोधनैः शुद्धा न तेषां पुनरुद्भवः ।
यथाक्रमं यथायोगमत ऊर्ध्वं प्रयोजयेत् ॥
रसायनानि सिद्धानि वृष्ययोगांश्च कालवित् ।
भेषजक्षपिते पथ्यमाहारैर्बृंहणं क्रमात् ॥
शालिषष्टिकगोधूममांसक्षीरघृतादिभिः ।
हृद्यदीपनभैषज्यसंयोगाद्रुचिपक्तिदैः ॥
साभ्यङ्गोद्वर्तनस्नाननिरूहस्नेहबस्तिभिः ।
तथा स लभते शर्म सर्वपावकपाटवम् ॥
धीवर्णेन्द्रियवैमल्यं वृषतां दैर्घ्यमायुषः ।
ये भूतविषवाय्वग्निक्षतभङ्गादिसम्भवाः ॥
कामक्रोधभयाद्याश्च ते स्युरागन्तवो गदाः ।
त्यागः प्रज्ञापराधानामिन्द्रियोपशमः स्मृतिः ॥
देशकालात्मविज्ञानं सद्वृत्तस्यानुवर्तनम् ।
अथर्वविहिता शान्तिः प्रतिकूलग्रहार्चनम् ॥
भूताद्यस्यर्शनोपायो निर्दिष्टश्च पृथक् पृथक् ।
अनुत्पत्यै समासेन विधिरेष प्रदर्शितः ॥
निजागन्तुविकाराणामुत्पन्नानां च शान्तये ॥
शीतोद्भवं दोषचयं वसन्ते विशोधयन् ग्रीष्मजमभ्रकाले ।
घनात्यये वार्षिकमाशु सम्यक् प्राप्नोति रोगानृतुजान् न जातु ॥
नित्यं हिताहारविहारसेवी समीक्ष्यकारी विषयेष्वसक्तः ।
दाता समः सत्यपरः क्षमावानाप्तोपसेवी च भवत्यरोगः ॥
अर्थेष्वलभ्येष्वकृतप्रयत्नं कृतादरं नित्यमपायवत्सु ।
जितेन्द्रियं नानुपतान्ति रोगास्तत्कालयुक्तं यदि नास्ति दैवम् ॥
काले ऽनुकूलो विषया मनोज्ञा धर्म्याः क्रियाः कर्म सुखानुबन्धि ।
सत्त्वं विधेयं विशदा च बुद्धिर्भवन्ति धीरस्य सदा सुखाय ॥
मूल पाठ: Aṣṭāṅgasaṃgraha · Edition: e-text by SARIT · SARIT: Search and Retrieval of Indic Texts · SARIT (e-text) via Internet Archive · CC BY-SA 3.0