भाषा

ENहिગુ
ग्रंथ पाठ

अष्टाङ्गसंग्रह · अध्याय 1.4

1.4.1

अथात ऋतुचर्यां व्याख्यास्यामः ।
इति हस्माहुरात्रेयादयो महर्षयः ॥

1.4.2

कालो हि नाम भगवाननादिनिधनो यथोपचितकर्मानुसारी ।
यदनुरोधादादित्यादयः खादयश्च महाभूतविशेषास्तथा तथा विपरिणमन्तो जन्मवतां जन्ममरणस्यर्तुरसवीर्यदोपदेहबलव्यापत्सं पदां च कारणत्वं पत्ययतां प्रतिपद्यन्ते ॥

1.4.3

स मात्राकाष्ठाकलानाडिकामुहूर्तयामाहोरात्रपक्षमासर्त्वयनवर्षभेदेन द्वादशधा विभज्यते ॥

1.4.4

तत्राक्षिनिमेषो मान्त्रा ताः पञ्चदश काष्ठा तास्त्रिंशत् कला ताः सदशभागा विंशतिर्नाडिका नाडिकाद्वयं मुहूर्तश्च ते तुल्यरात्रिन्दिवे राशिभागे चत्वारः पादोना यामः तैश्चतुर्भिरहो रात्रिश्च पञ्चदशाहोरात्राः पक्षः पक्षद्वयं मासः स शुक्लान्तः तैर्मार्गशीर्षादिभिर्द्विसंख्यैः क्रमाद्धेमन्तशिशिरवसन्तग्रीष्मवर्षशरदाख्याः षडृतवो भवन्ति तेषु शिशिरादयस्त्रयो रवेरुदगयनमादानञ्च शेषा दक्षिणायनं विसर्गश्च तावादानविसर्गौ वर्षम् ॥

1.4.5

तयोरादानमाग्नेयम् तस्मिन् खलु कालस्वभावमार्गपरिगृहीतो ऽत्यर्थोप्णगभस्तिजालमण्डलो ऽर्कस्तत्संपर्काद्वायवश्च तीव्ररूक्षाः सोमजं गुणमुपशोषयन्तो जगतः स्नेहमाददाना ऋतुक्रमेणो पजनितरौक्ष्या रूक्षान् रसांस्तिक्तकषायकटुकानभिप्रबलयन्तो नृणां दौर्बल्यमावहन्ति ॥

1.4.6

वसर्गस्तु सौम्यः तस्मिन्नपि कालमार्गमेघवातवर्षाभिहतप्रभावे दक्षिणायनगे ऽर्के शशिनि चाव्याहतबले शिशिराभिर्भाभिः शश्वदाप्यायमाने माहेन्द्रसलिल प्रशान्त सन्तापे जगत्यरूक्षा रसाः प्रवर्धन्ते ऽम्ललवणमधुरा यथाक्रमं बलं चोपचीयते नृणामिति ॥

1.4.7

भवति चात्र
हेमन्ते शिशिरे चाग्र्यं विसर्गादानयोर्बलम् शरद्वसन्तयोर्मध्यं हीनं वर्षानिदाघयोः ॥

1.4.8

धूमधूम्ररजोमन्दास्तुषाराविलमण्डलाः ।
दिगादित्या मरुच्छैत्यादुत्तरो रोमहर्षणः ॥

1.4.9

लोध्रप्रियङ्गुपुन्नागलवल्यः कुसुमोज्वलाः ।
दृप्ता गजाजमहिषवाजिवायससूकराः ॥

1.4.10

हिमानीपटलच्छन्ना लीनमीनविहङ्गमाः ।
नद्यः सबाष्पाः सोष्माणः कूपापश्च हिमागमे ॥

1.4.11

देहोष्माणो विशन्तो ऽन्तः शीते शीतानिलाहताः ।
जठरे पिण्डितोष्माणं प्रबलं कुर्वते ऽनलम् ॥

1.4.12

विसर्गे बलिनां प्रायः स्वभावादिगुरुक्षमम् ।
बृंहणान्यन्नपानानि योजयेत्तस्य युक्तये ॥

1.4.13

अनिन्धनो ऽन्यथा सीदेदत्युदीर्णतया ऽथवा ।
धातूनपि पचेदस्य ततस्तेषां क्षयान्मरुत् ॥

1.4.14

तेजः सहचरः कुप्येच्छीतः शीते विशेषतः ।
अतो हिमे भजेत्स्निग्धान् स्वाद्वम्ललवणान्रसान् ॥

1.4.15

बिलेशयौदकानूपप्रसहानां भृतानि च ।
मांसानि गुडपिष्टोत्थमद्यान्यभिनवानि च ॥

1.4.16

माषेक्षुक्षीरविकृतिवसातैलनवौदनान् ।
व्यायामोद्वर्तनाभ्यङ्गस्वेदधूमाञ्जनातपान् ॥

1.4.17

सुखोदकं शौचविधौ भूमिगर्भगृहाणि च ।
साङ्गारयानां शय्यां च कुथकम्बलसंस्कृताम् ॥

1.4.18

कुङ्कुमेनानुलिप्ताङ्गो गुरुणा ऽगरुणा ऽपि वा ।
लघूष्णैः प्रावृतः स्वप्यात् काले धूपाधिवासितः ॥

1.4.19

पीनाङ्गनाङ्गसंसङ्गनिवारितहिमानिलः ।
शिशिरे शीतमधिकं मेघमाउतवर्षजम् ॥

1.4.20

रौक्ष्यं चआदानजं तस्मात् कार्यः पूर्वो ऽधिकं विधिः ।
वसन्ते दक्षिणो वायुराताम्रकिरणो रविः ॥

1.4.21

नवप्रवालत्वक्पत्राः पादपाः ककुभो ऽमलाः ।
किंशुकाशोकचूतादिवनराजिविराजिताः ॥

1.4.22

कोकिलालिकुलालापकलकोलाहलाकुलाः ।
शिशिरे सञ्चितः श्लेष्मा दिनकृद्भाभिरीरितः ॥

1.4.23

तदा प्रबाधमानो ऽग्निं रोगान् प्रकुरुते बहून् ।
अतो ऽस्मिंस्तीक्ष्णवमनधूमगण्डूषनावनम् ॥

1.4.24

व्यायामोद्वर्त्तनक्षौद्रयवगोधूमजाङ्गलान् ।
सेवेत सुहृदुद्यानयुवतीश्च मनोरमाः ॥

1.4.25

स्नातः स्वलङ्कृतः स्रग्वी चन्दनागरुरूषितः ।
विचित्रामत्रविन्यस्तान् सहकारोत्पलाङ्कितान् ॥

1.4.26

निगदांश्चआसवारिष्टशीधुमार्द्वीकमाधवान् ।
क्वथितं मुस्तशुण्ठ्यम्बु साराम्भः क्षौद्रवारि वा ॥

1.4.27

गुरुशीतदिवास्वप्नस्निग्धाम्लमधुरांस्त्यजेत् ।
ग्रीष्मे ऽतसीपुष्पनिभस्तीक्ष्णांशुर्दावदीपिताः ॥

1.4.28

दिशो ज्वलन्ति भूमिश्च मारुतो नैऋतः सुखः ।
पवनातपसंस्वेदैर्जन्तवो ज्वरिता इव ॥

1.4.29

तापार्ततुङ्गमातङ्गमहिषैः कलुषीकृताः ।
दिवाकरकराङ्गारनिकरक्षपिताम्भसः ॥

1.4.30

प्रवृद्धरोधसो नद्यः च्छायाहीना महीरुहाः ।
विशीर्णजीर्णपर्णाश्च शुष्कवल्कलताङ्किताः ॥

1.4.31

आदत्ते जगतस्तेजस्तदआदित्यो भृशं यतः ।
व्यायामातपकट्वम्ललवणोष्णं त्यजेदतः ॥

1.4.32

मद्यं न सेव्यं स्वल्पं वा सेव्यं सुबहुवारि वा ।
अन्यथा शोफशैथिल्यदाहमोहान् करोति तत् ॥

1.4.33

नवमृद्भाजनस्थानि हृद्यानि सुरभीणि च ।
पानकानि समन्थानि सिताढ्यानि हिमानि च ॥

1.4.34

स्वादु शीतं द्रवं चान्नं जाङ्गलान्मृगपक्षिणः ।
शालिक्षीरघृतद्राक्षानालिकेराम्बुशर्कराः ॥

1.4.35

तालवृन्तानिलान् हारान् स्रजः सकमलोत्पलाः ।
तन्वीर्मृणालवलयाः कान्ताश्चन्दनरूषिताः ॥

1.4.36

सरांसि वापिः सरितः काननानि हिमानि च ।
सुरभीणि निषेवेत वासांसि सुलघूनि च ॥

1.4.37

निष्पतद्यन्त्रसलिले स्वप्याद्धारागृहे दिवा ।
रात्रौ चआकाशतलके सुगन्धिकुसुमास्तृते ॥

1.4.38

कर्पूरचन्दनार्द्राङ्गो विरलानङ्गसङ्गमः ।
वर्षासु वारुणो वायुः सर्वसस्यसमुद्गमः ॥

1.4.39

भिन्नेन्द्रनीलनीलाभ्रवृन्दमन्दाविलं नभः ।
दीर्घिकानववार्यौघमग्नसोपानपङ्क्तयः ॥

1.4.40

वारिधाराभृशाघातविकासितसरोरुहाः ।
सरितः सागराकारा भूरव्यक्तजलस्थला ॥

1.4.41

मन्द्रस्तनितजीमूतशिखिदर्दुरनादिता ।
इन्द्रगोपधनुःखण्डविद्युदुद्योतदीपिता ॥

1.4.42

परितः श्यामलतृणा सिलिन्ध्रकुटजोज्वला ।
तदादानाबले देहे मन्दे ऽग्नौ बाधिते पुनः ॥

1.4.43

वृष्टिभूबाष्पतोयाम्लपाकदुष्टैश्चलादिभिः ।
बस्तिकर्म निषेवेत कृतसंशोधनक्रमः ॥

1.4.44

पुराणाशालिगोधूमयवान् यूषरसैः कृतैः ।
निगदं मदिरारिष्टमार्द्वीकं स्वल्पमम्बु वा ॥

1.4.45

दिव्यं क्वथितकूपोत्थं चौण्डं सारसमेव वा ।
वृष्टिवाताकुलेत्वन्हि भोजनं क्लेदवातजित् ॥

1.4.46

परिशुष्कं लघुस्निग्धमुष्पाम्ललवणं भजेत् ।
प्रायो ऽन्नपानं सक्षौद्रं संस्कृतं च घनोदये ॥

1.4.47

असरीसृपभूबाष्पशीतमारुतशीकरम् ।
साग्नियानं च भवनं निर्दंशमशकोन्दुरम् ॥

1.4.48

प्रघर्षोद्वर्तनस्नानधूमगन्धागरुप्रियः ।
यायात् करेणुमुख्याभिश्चित्रस्रग्वस्त्रभूषितः ॥

1.4.49

नदीजलोदमन्थाहः स्वप्नातिद्रवमैथुनम् ।
तुषारपादचरणव्यायामार्ककरांस्त्यजेत् ॥

1.4.50

शरदि व्योम शुभ्राभ्रं किञ्चित् पङ्काङ्किता मही ।
प्रकाशकाशसप्ताह्वकुमुदा शालिशालिनी ॥

1.4.51

विक्षिप्ततीक्ष्णकिरणो मेघौघविगमाद्रविः ।
बभ्रुवर्णो ऽतिविमलाः क्रौञ्चमालाकुला दिशः ॥

1.4.52

कमलान्तरसंलीनमीनहंसांसघट्टनैः ।
तरङ्गभङ्गानि सरांसि विमलानि च ॥

1.4.53

वर्षाशीतोचिताङ्गानां सहसैवार्करश्मिभिः ।
तप्तानां सञ्चितं पूर्वं तदा पित्तं प्रकुप्यति ॥

1.4.54

शस्तं तिक्तहविःपानं विरेको ऽस्रस्रुतिः सदा ।
शीतं लघ्वन्नपानं च कषायस्वादुतिक्तकम् ॥

1.4.55

शालिषष्टिकगोधूमयवमुद्गसितामधु ।
पटोलामलकं द्राक्षा जाङ्गलं क्षुद्वतां भृशम् ॥

1.4.56

दिवा दिवाकरकरैर्निशाकरकरौर्नीशि ।
सन्तप्तं ह्लादितं तोयमगस्त्येनाविषीकृतम् ॥

1.4.57

निर्मलं शुचि कालेन पक्वं पाने ऽमृतोपमम् ।
हंसौघपक्षविक्षेपभ्रमत्भ्रमरपङ्क्तिषु ॥

1.4.58

सुसरोरुहसेव्यासु सरसीषु प्लवेत च ।
लघुशुद्धाम्बरः स्रग्वी शीतोशीरविलेपनः ॥

1.4.59

सेवेत चन्द्रकिरणान् प्रदोषे सौधमाश्रितः ।
तृप्तिदध्यातपक्षारवसातैलपुरोनिलान् ॥

1.4.60

तीक्ष्णमद्यदिवास्वप्नतुषारांश्च विवर्जयेत् ।
नित्यं सर्वरसाभ्यासः स्वस्वाधिक्यमृतावृतौ ॥

1.4.61

र्त्वोरन्तादिसप्ताहावृतुसन्धिरिति स्मृतः ।
तत्र पूर्वो विधिस्त्याज्यः सेवनीयो ऽपरः क्रमात् ॥

1.4.62

असात्म्यजा हि रोगाः स्युः सहसा त्यागशीलनात् ।
र्तुष्वेवंविधेष्वेष विधिः स्वास्थ्ये च देहिनां ॥

1.4.63

निर्दिश्यते ऽन्यरूपेषु विरुद्धाज्ञानिको विधिः ।
मासराशिस्वरूपाख्यमृतोर्यल्लक्षणत्रयम् ॥

1.4.64

यथोत्तरंभजेच्चर्यां तत्र तस्य बलादिति ॥

मूल पाठ: Aṣṭāṅgasaṃgraha · Edition: e-text by SARIT · SARIT: Search and Retrieval of Indic Texts · SARIT (e-text) via Internet Archive · CC BY-SA 3.0

Esc