अष्टाङ्गसंग्रह · अध्याय 1.36
अथातः सिराव्यधविधिं नामाध्यायं व्याख्यास्यामः ।
इति ह स्माहुरात्रेयादयो महर्षयः ॥
बहवो हि रक्तावसेचनोपायाः प्रागभिहितास्तेषामन्येषां च विरेकादीनामुपक्रमाणां तत्साध्येष्वामयेषु सिराव्यधः प्रधानम् ।
अमुना हि ते समूलाः शोषमायान्ति केदारसेतुभेदेन शाल्यादय इव ।
तथा च ॥
सिराव्यधश्चिकित्सार्धं संपूर्णं वा चिकित्सितम् ।
शल्यतन्त्रे स्मृतो यद्वद्बस्तिः कायचिकित्सिते ॥
यथा रक्तमधिष्ठानं विकाराणां विकारिणाम् ।
अन्यन्न हि तथा दूष्यं कर्मेदं प्रथमं ततः ॥
तत्राम्बु शारीरमाहारसारभूतं रसाख्यमविकृतमविकृतेन तेजसा रञ्जितमिन्द्रगोपाकारं च शशशोणितगुञ्जाफलालक्तपद्मसुवर्णवर्णं धौतं च विरज्यमानं मधुरमीषल्लवणं स्निग्धमसंहतमशीतोष्णं गुरु पित्तैकचयप्रकोपोपशमं सौम्याग्नेयं प्रकृत्या रक्तमाहुः ।
तथा दोषम् ।
दूष्यमिति केचित् ।
उभयात्मकमन्ये ॥
तच्चैवंविधमेव विधिवदाहारविहाराभ्यासाद्विशुद्धं बलवर्णसुखायुषां योनिः ।
इतरथा पुनः शरत्कालस्वभावादेव वा प्रदुष्टमभिष्यन्दाधिमन्थशुक्लार्मतिमिररक्तराजीशिरस्तोदभेददाहकण्डूकर्णरोगमुखपाकपूतिघ्राणास्योपदेहत्वगुल्मप्लीहविद्रधिवीसर्पज्वररक्तपित्तकुष्ठपिटकाश्लीपदोपदंशशङ्खशोफवातशोणितरक्तमेहक्षुद्ररोगाग्निस्वरनाशाङ्गगौरवसादारोचकाम्लोद्गारलवणास्यताक्रोधमोहस्वेदमदमूर्छायसन्यासकम्पतन्द्रादीनाम् ।
ये च शीतोष्णस्निग्धरूक्षाद्यैः सर्वदोषप्रतिपक्षैः सम्यगप्युपक्रान्ताः साध्या अपि न सिध्यन्ति ।
ते च रक्तप्रकोपजाः तस्मात्तेष्वत्युद्रिक्तरक्तविस्रावणाय यथास्वं सिरां विध्येत् ॥
न तु स्नेहपीतकृतपञ्चकर्मान्यतमगर्भिणीसूतिकाजीर्णकामलाक्लीबोनषोडशातीतसप्ततिवर्षाभिघातातिस्रुतरक्तादुष्टरक्तास्निग्धातिस्निग्धास्विन्नाक्षेपकपक्षाघातातिसारच्छर्दिश्वासकासोदररक्तपित्तार्शःपाण्डुरोगसर्वाङ्गशोफपीडितानाम् ।
न चाव्यधनीयाश्चायन्त्रितानुत्थिताः सिराः न तिर्यङ्न चातिशीतोष्णवर्षवाताभ्रेषु ।
तत्र स्नेहपीतादिषु सम्यग्विद्धा अपि सिरा न स्रवन्त्यतिस्रवन्ति वा सम्यक्स्निग्धस्विन्नस्य पुनर्द्रवीभूता दोषाः शोणितमनुप्रविष्टाः सम्यक् प्रच्यवन्ते ।
न त्वेष निषेधो विषसंसृष्टोपसर्गात्ययिकव्याधिषु ।
प्रतिरोगं तु व्यधं प्रति विभागः ॥
शिरोनेत्ररोगेषु लालाट्यामुपनास्यामपाङ्ग्यां वा कर्णरोगेषु परितः कर्णौ ।
नासारोगेषु नासाग्रे ।
प्रतिश्याये तु नासाललाटस्थाः ।
मुखरोगेषु जिह्वौष्ठहनुतालुगाः ।
जत्रूर्ध्वग्रन्थिषु ग्रीवाकर्णशङ्खमूर्धगाः ।
अपस्मारे हनुसन्धिमध्यगाः ।
उन्मादेतूरो ऽपाङ्गललाटगाः ।
विद्रधौ पार्श्वशूले च पार्श्वकक्षास्तनान्तरस्थाः ।
चतुर्थके स्कन्धाधोगतामन्यतरपार्श्वाश्रयाम् ।
तृतीयके ऽंसयोरन्तरे त्रिकसन्धिमध्यगताम् ।
प्रवाहिकायां शूलिन्यां श्रोण्याः समन्तात् द्व्यङ्गुले ।
निर्वृत्तोपदंशशुक्रव्यापत्सु मेढ्रे ।
गलगण्डः ऊर्मूलसंश्रिताम् ।
गृद्ध्रस्यां जानुसन्धेरुपर्यधो वा चतुरङ्गुले ।
अपच्यामिन्द्रबस्तेरधस्तात् द्व्यङ्गुले ।
क्रोष्टुकणीर्षे सक्थिवातरुजासु च गुल्फस्योपरिष्टाच्चतुरङ्गुले ।
श्लीपदेषु यथास्वं वक्ष्यते ।
दाहहर्षचिप्पवातशोणितवातकण्टकविदारिकापाददारीप्रभृतिषु पादरोगेषु क्षिप्रमर्मण उपरिष्टात् द्व्यङ्गुले ।
एतेनेतरसक्थिबाहू व्याख्यातौ ।
विशेषतस्तु वामभागाभ्यन्तरतो बाहुमध्ये प्लीहोदरे ।
एवमेव दक्षिणे बाहौ यकृदाख्ये ।
तथा कासश्वासयोरप्यादिशन्ति ।
गृध्रस्यामिव विश्वाच्याम् ।
बाहुशोषापबाहुकयोरप्येके ।
अदृश्यमानासु त्वेतास्वतिवृद्धस्य व्याधेरन्यव्याध्युक्तानामपि यथासन्नं व्यधः ॥
प्रागेव चोपकल्पयेच्छयनासनोदकुम्भवस्त्रपट्टादि ।
तथा यथालाभं च तगरैलाशीतशिवकुष्ठपाठाविडङ्गभद्रदारुत्रिकटुकागारधूमहरिद्रार्काङ्कुरनक्तमालचूर्णमसृक्स्रावणाय ।
असृक् स्थापनाय च लोद्ध्रमधुकप्रियङ्गुपत्तङ्गगैरिकरसाञ्जनशाल्मलीशङ्खयवगोधूममाषचूर्णम् ।
वटअश्वत्थाश्वकर्णपलाशबिभीतकसर्जार्जुनधन्वनधातकीसालसारारिमेदतिन्दुकत्वगङ्कुरनिर्यासश्रीवेष्टकमृत्कपालमृणालाञ्जनचूर्णम् ।
क्षौममषीलाक्षासमुद्रफेनचूर्णं वा ।
तथान्यच्चातिस्रुतरक्तव्यापत्प्रतीकारोपकरणम् ।
सज्जोपकरणो हि विद्यो न मोहमाप्नेति ॥
अथ कृतस्वस्त्ययनमातुरं व्याधिबलसात्म्याद्यवेक्ष्य स्निग्धं जाङ्गलरसं यवागूं वा पाययित्वा मुहूर्तमात्रमाश्वासितं पूर्वाह्णे ऽपराह्वे वाङ्गारतापोष्णबाष्पान्यतरेण स्विन्नं जानूच्छ्रिते मृदावासने जानुनिहितकूर्परं समस्थितपादं प्रत्यादित्यमुपवेशयेत् ।
केशान्ते च प्लोतचर्मवल्कलपट्टान्यतमेन बध्नीयात् ।
ततश्चायतेन वस्त्राङ्गुष्ठगर्भेण मुष्टिद्वयेनातुरो यथास्वं मन्ये निपीडयेद्दन्तैश्च दन्तान् ।
गण्डौ चाध्मापयेत् ।
पुरुषश्चैनं पृष्ठत ऊर्ध्वस्थः वस्त्रकृकाटिकान्तरन्यस्तयन्वस्त्रं प्राणानबाधमानो यन्त्रयेदित्येषो ऽन्तर्मुखवर्ज्यानां सिराणां व्यधने यन्त्रविधिः ।
ततश्चास्य वैद्यो ऽङ्गुष्ठविष्टब्धया मध्यमयाङ्गुल्या सिरां ताडयेत् ।
उत्थिताञ्च स्पन्दमानां स्पर्शदां वाभिलक्ष्य वामहस्तेन कुठारिकामूर्ध्वदण्डां कृत्वा सिरामध्येन्यस्य लक्षयित्वा च तथैव च मध्यमयाङ्गुल्या ताडयेदङ्गुष्ठोदरेण वा पीडयेत् ।
गूडबहलत्वक्प्रतिच्छन्नायामङ्गुष्ठपीडनादुन्नमनमुपलक्षयेत् ।
उत्कसनेन क्रोधसंरम्भेण चापूर्यन्ते सिराः ।
अङ्गुष्ठेन तु नासाग्रमुन्नमय्य व्रीहिमुखेनोपनासिकां विध्येत् ॥
उन्नमितविदष्टाग्रजिह्वस्याधो जिह्वायाः ।
विवृतास्यस्य तालुनि दन्तमूले च ।
ग्रीवासिरासु स्तनयोरुपरि यन्त्रयेत् ।
उदरोरसोः प्रसारितोरस्कस्योन्नमितशिरसः ।
बाहुभ्यामवलम्बमानस्य पार्श्वयोः ।
उन्नतमेढ्रस्य मेढ्रे ।
श्रोणिपृष्ठस्कन्धेषून्नमितपृष्ठस्यावाक्शिरस उपविष्टस्य ।
विश्वाचीगृध्रस्योरनाकुञ्चिते कूर्परे जानुनि च सुखोपविष्टस्य गूढाङ्गुष्ठबद्धमुष्टेर्व्यधनीयप्रदेशस्योपरि चतुरङ्गुले प्लोताद्यन्यतमेन च बध्वा हस्तसिराम् ।
एवमेकपादं सुसंस्थितं स्थापयित्वान्यपादमीषत्सङ्कुचितं तस्योपरि निधाय जानुसन्धेरधोहस्ताभ्यामागुल्फं निपीड्य पूर्ववद्बध्वा पादसिरां विध्येत् ।
तत्र तत्र च तैस्तैरुपायैर्विकल्प्य यन्त्रयेत् ॥
तत्र मांसलेष्ववकाशेषु यवमात्रं व्रीहिमुखेन ।
अतो ऽन्यथार्धयवमात्रं व्रीहिमात्रं वा ।
अस्थ्नामुपरिकुठारिकयार्धयवमात्रम् ।
सर्वत्र चानुत्तानावगाढमृज्वसङ्कीर्णं मर्माद्यनुपघातिसिरामध्ये शस्त्रमाशु पातयेत् ॥
एकप्रहाराभिहता धारया या स्रवेदसृक् ।
मुहूर्तरुद्धा तिष्ठेच्च सम्यग्विद्धेति तां विदुः ॥
अल्पकालं वहत्यल्पं दुर्विद्धा तैलचूर्णनैः ।
सशब्दमतिविद्धा तु स्रवेद्दुःखेन धार्यते ॥
सम्यग्विद्धानामपि च सिराणामवहनकारणानि मूर्छा भयं यन्त्रशैथिल्यमतिगाढत्वमत्याशितता क्षामत्वं कुण्ठशस्त्रव्यधो मूत्रितोच्चारितत्वं दुःस्विन्नता कफावृतव्रणद्वारता चेति ।
अथाप्रवृत्तिकारणं यथास्वमुपलक्ष्य प्रतिकुर्यात् ।
तगरादिचूर्णेन च तैललवणप्रगाढेन सिरामुखमवचूर्णयेत् ।
पृष्ठमध्ये चातुरं पीडयेत् ।
एवं साधु वहति ।
सम्यक् प्रवृत्ते कफानिलोपशमनरक्ताविच्छेदनार्थष्मुणलवणतैलबिन्दुभिः सिरामुखं सिञ्चेत् ॥
अग्रे स्रवति दुष्टास्रं कुसुम्भादिव पीतिका ।
सम्यक्स्रुत्वा स्वयं तिष्ठेच्छुद्धं तदिति नाहरेत् ॥
यस्य तु स्रवति रक्ते मूर्छा जायते तस्य विमुच्य यन्त्रं शीतसलिलार्द्रपाणिस्पर्शेन व्यजनवायुना श्रोत्रसुखेन वचसा च समाश्वासयन्नुपशमय्य मूर्छां पुनः स्रावयेत् ।
पुनर्मूर्छत्यपरेद्युस्त्र्यहे ऽपि वा ।
परं तु रुधिरावसेचनप्रमाणं प्रस्थः ।
अतो ऽन्यथा व्याधिदेहर्तुबलमपेक्षेत ॥
तत्र फेनिलमरुणं श्यावमच्छं रूक्षमस्कन्दि कषायानुरसं लोहगन्धि वेगस्रावि शीतं च रक्तं वातात् ।
गृहधूमाञ्जनोदककृष्णं पीतं हरितं विस्रं मत्स्यगन्धि कटुत्वान्मक्षिकानिष्टमौष्ण्यादस्कन्दि सचन्द्रकं गोमूत्राभं च पित्तात् ।
कोविदारपुष्पगैरिकोदकापाण्डु शीतं स्निग्धं स्कन्दि घनं पिच्छिलं तन्तुमद् व्रणद्वारावसादि लवणरसं वसागन्धि च कफात् ।
द्वन्द्वसङ्कीर्णं संसर्गात् ।
कंसनीलमाविलं दुर्गन्धं च सन्निपातात् ।
शुद्धमुक्तं प्राक् ।
ततः स्रुतरक्तस्य व्यधमनुलोममङ्गुष्ठेनोपरुध्य शनैश्शनैर्यन्त्रमपनीयाश्वासयेत् ।
सतैलं च प्लोतं सिरामुखे दत्वा बध्नीयात् ।
संवेशयेच्चैनम् ॥
अतिष्ठति तु रक्ते सिरामुखं सन्धातुं पूर्वोक्तैश्चूर्णैरवचूर्ण्याङ्गुल्यग्रेण पीडयेत् ।
शाल्मल्युपोदकापिच्छां वा व्रणमुखे दत्वा गाढं बध्नीयात् ।
मधूच्छिष्टप्रलिप्तं वा पट्टम् ।
शीताम्बुनावसिञ्चेत् ।
शीतमधुरकषायान्नपानसेकप्रदेहप्रवातवेश्मभिर्वा स्कन्दनायोपचरेत् ।
पद्मकादिक्वाथं शर्करामधुमधुरं क्षीरमिक्षुरसमेणहरिणाजोरभ्रमहिषवराहाणामन्यतमस्य सिरां विध्वा रुधिरमामं घृतभृष्टं वा पानं दद्यात् ।
तेनैव वा दर्भपादमृदितेनानुवासयेत् ।
स्निग्धैश्च यूषरसैर्भोजयेत् ।
व्यधादनन्तरं वा पुनस्तामेव सिरां विध्येत् ।
सर्वथा चानवतिष्ठमाने पाचनाय क्षारं दद्यात् ।
सङ्कोचयितुं वा सिरामुखं तप्तशलाकया दहेत् ।
न च क्षणमप्युपेक्षेत ।
क्षीणरक्तस्य हि वायुर्मर्माण्युपसङ्गृह्य मूर्छासंज्ञानाशाशिरःकम्पभ्रममन्यास्तम्भापतानकहनुभ्रंशहिध्मापाण्डुत्वबाधिर्यधातुक्षयाक्षेपकादीन् करोति ।
मरणं वा ॥
प्राणः प्राणभृतां रक्तं तत्क्षयात् क्षीयते ऽनलः ।
वर्धनं चानिलस्तस्माद्युक्त्या बृंहणमाचरेत् ॥
अशुद्धं तु रक्तमपराह्णे ऽन्येद्युर्वा पुनः स्रावयेत् ।
ततो ऽपि शेषं सर्वथा वाप्यविस्राव्यरक्तस्य शीतसेकप्रदेहविरेकोपवासस्निग्धमधुरान्नपानैः प्रसादयेत् ।
मासमात्रं वा स्नेहादिभिरुपचर्य पुनर्विध्येत् ।
दुर्व्यधातिव्यधकुटिततिर्यग्व्यधादेर्व्यधदोषाद्व्यापदो याः स्युस्ता यथास्वं साधयेदिति ।
भवति चात्र ॥
उन्मार्गगा यन्त्रनिपीडनेन स्वस्थानमायान्ति पुनर्न यावत् ।
दोषाः प्रदुष्टा रुधिरं प्रपन्नास्तावद्धिताहारविहारभाक् स्यात् ॥
नात्युष्णशीतं लघु दीपनीयं रक्ते ऽपनीते हितमन्नपानम् ।
तदा शरीरं ह्यनवस्थितासृगग्निर्विशेषादिति रक्षितव्यः ॥
प्रसन्नवर्णेन्द्रियमिन्द्रिथार्थानिच्छन्तमव्याहतपक्तृवेगम् ।
सुखान्वितं पुष्टिबलोपपन्नं विशुद्धरक्तं पुरुषं वदन्ति ॥
मूल पाठ: Aṣṭāṅgasaṃgraha · Edition: e-text by SARIT · SARIT: Search and Retrieval of Indic Texts · SARIT (e-text) via Internet Archive · CC BY-SA 3.0