अष्टाङ्गसंग्रह · अध्याय 1.35
अथातो जलौकोविधिं नामाध्यायं व्याख्यास्यामः ।
इति ह स्माहुरात्रेयादयो महर्षयः ॥
नृपाढ्यभीरुसुकुमारबालस्थविरनारीणामसृग्विस्रावणाय जलौकसो योजयेत् ॥
तास्तु द्विविधाः सविषा निर्विषाश्च ।
तत्र दुष्टाम्बुसर्पमण्डूकमत्स्यादिशवकोथमूत्रपुरीषजा रक्तश्वेतातिकृष्णतनुस्थूलचपलपिच्छिलाः स्थूलमध्यरोमशाः शक्रायुधवद्विचित्रोर्ध्वराजीचिता वा सविषाः ।
तद्दंशाद्दाहशोफपाककण्डूपिटकाविसर्पज्वरमूर्छश्वित्रोत्पत्तिः ।
तत्र विषपित्तरक्तहरां क्रियां कुर्वीत ।
पद्मोत्पलसौगन्धिकादिसुगन्धिविमलविपुलसलिलशैवालजाः शैवालश्यावा नीलोर्ध्वराजयो वृत्ताश्च निर्विषाः ॥
सर्वासां च परं प्रमाणमष्टादशाङ्गुलानि ।
तत्र चतुष्पञ्चषडङ्गुला नृषु योजयेत् ।
गजवाजिष्वपराः ।
तासु सुकुमारास्तनुत्वचो ऽल्पशिरस्का बृहदधरकायाश्च स्त्रियः ।
विपरीताः पुमांसो ऽर्धचन्द्राकृतिपुरोवृत्ताश्च ।
तत्र बहुदोषेषु चिरोत्थितेषु चामयेषु पुमांसो योजयितव्याः ।
स्त्रियो विपरीतेषु ।
जलौकसस्त्वार्द्रचर्माह्युपायैर्गृहीत्वा सुरभिपङ्कगर्भे नवे घटे स्थापयेत् ।
शृङ्गाटककशेरुकशालूकशैवालमृणालवल्लूरमृत्स्नापुष्करबीजचूर्णं स्वादुशीतं स्वच्छं च तोयमन्नपानार्थे ताभ्यो दद्यात् ।
लालादिकोथपरिहारार्थमेवं च त्र्यहात् त्र्यहादूर्ध्वं पूर्वमन्नपानमपनीयान्यद्दद्यात् ।
पञ्चाहाच्च तद्विध एव घटान्तरे ताः सञ्चारयेत् ।
तासां तु दुष्टशोणितासम्यग्वमनात् प्रततपातनाच्च मूर्च्छा भवति ।
तासामम्भोभिः पूर्णभाजनस्थानामचेष्टयाहारानभिलाषेण च ज्ञात्वा ता विवर्जयेत् ।
इतरास्तु हरिद्रासर्षपकल्काम्भसि मुक्तपुरीषा अवन्तिसोमे तक्रे वा पुनराश्वासिता जले सुखोपविष्टस्य संविष्टस्य वा मृद्गोमयचूर्णाभ्यामनुसुखं विरूक्ष्य दंशदेशं योजयेत् ।
अलगन्तीषु क्षीरघृतनवनीतरुधिरान्यतमबिन्दून् न्यसेत् प्रच्छेद्वा ।
अश्वखुरवच्च वक्त्रं निवेश्योन्नतस्कन्धा दशन्ति ।
यदा च शिशुवच्छ्वसन्त्यो शिरःस्पन्दोर्मिवेगैः पिबन्ति तदार्द्रवाससावच्छादयेत् ।
सेचयेच्चाम्भसाल्पाल्पम् ।
यथा च हंसः क्षीरोदकात् क्षीरमादत्ते ।
तद्वदुत्क्लिष्टे रक्ते जलौकाः प्राग् दुष्टमसृक् ।
यदा च तद्दंशे तोदः कण्डूर्वा तदा शुद्धरक्तरक्षणार्थमपनयेत् ।
लौल्याच्च दंशममुञ्चन्त्याः क्षौद्रं लवणचूर्णं वा मुखे दद्यात् ॥
पतितां तु तण्डुलकण्डनोपदिग्धगात्रां तैललवणाभ्यक्तमुखीं आपुच्छादामुखमनुलोमं शनैः पीडयन् सम्यग्वामयेत् ।
ततः पूर्ववत् सन्निदध्यात् ।
सप्तरात्रं च ताः पुनर्न पातयेत् ।
अशुद्धे तु रक्ते मधुना गुडेन वा दंशात् किञ्चिदवघट्टयन् स्रावयेत् ।
स्रुतरक्तस्य च सद्यो दंशं शीताभिरद्भिः प्रक्षाल्य सर्पिःपिचुनावगुण्ठयेत् ।
स्थितरक्तं चोत्क्लिष्टशोणितशेषप्रसादनाय कषायमधुरशिशिरैः सघृतैः प्रदेहैः प्रदिह्यात् ॥
तत्र योगादीन् सिराव्यधवदुपलक्षयेत् ।
प्रतिकुर्वीत च ।
दुष्टरक्तापगमात् श्वयथुशैथिल्यं दाहरागशूलोपशमश्च ।
रक्तपित्तेन दुष्टमलाबुघटिकाभ्यां न निर्हरेदग्निसंयोगाद्वातकफाभ्यां च दुष्टं निर्हरेत् ।
तथा कफेन न शृङ्गेण स्कन्नत्वात् ।
वातपित्ताभ्यां तु दुष्टं निर्हरेत् ।
अथ प्रच्छाद्याङ्गं तनुवस्त्रपटलावनद्धप्रान्तेन शृङ्गेणाचूषेत् ।
तथा प्रदीप्तापिचुगर्भाभ्यामलाबुघटिकाभ्यामिति ।
भवन्ति चात्र श्लोकाः ॥
गात्रं बध्वोपरिदृढं रज्ज्वा पट्टेन वा समम् ।
स्नायुसन्ध्यस्थिमर्माणि त्यजन्प्रच्छानमाचरेत् ॥
अधोदेशप्रविसृतैः पदैरुपरिगामिभिः ।
न गाढघनतिर्यग्भिर्न पदे पदमाच्रेत् ॥
प्रच्छानेनैकदेशस्थं सुप्तं शृङ्गादिभिर्हरेत् ।
ग्रथितं तु जलौकोभिरसृग्व्यापि सिराव्यधैः ॥
प्रच्छानं पिण्डिते वास्यादवगाढे जलौकसः ।
त्वक्स्थे ऽलाबुघटीशृङ्गं सिरैव व्यापके ऽसृजि ।
वातादिधाम वा शृङ्गजलौको ऽलाबुभिः क्रमात् ॥
स्रुतासृजः प्रदेहाद्यः शीतैः स्याद्वायुकोपतः ।
सतोदकण्डूः शोफस्तं सर्पिषोष्णेन सेचयेत् ॥
मूल पाठ: Aṣṭāṅgasaṃgraha · Edition: e-text by SARIT · SARIT: Search and Retrieval of Indic Texts · SARIT (e-text) via Internet Archive · CC BY-SA 3.0