अष्टाङ्गसंग्रह · अध्याय 1.37
अथातः शल्याहरणविधिं नामाध्यायं व्याख्यास्यामः ।
इति ह स्माहुरात्रेयादयो महर्षयः ॥
त्रिविधा हि गतिः शल्यानामूर्ध्वमधस्तिर्यक् च ।
सा पुनः प्रत्येकमृजुवक्रभेदेन द्विविधा ॥
तत्र ध्यामं पिटकाचितं शोफवेदनावन्तं मुहुर्मुहुः शोणितास्राविणं बुद्बुदवदुद्गतं मृदुमांसं च व्रणं सशल्यं विद्यात् ॥
विशेषतस्तु त्वग्गते शल्ये विवर्णः शोफो भवत्यायतः कठिनश्च ।
मांसगते शोफाभिवृद्धिः शल्यमार्गानुपसंरोहः पीडनासहिष्णुता चोषः पाकश्च ॥
पेश्यन्तरस्थे शोफवर्ज्यं मांसप्राप्तवत् ।
सिरागते सिराध्मान्ं शूलं च ।
स्नावगते स्नावजालावक्षेपणं संरम्भश्चोग्ररुक् ॥
स्रोतोगते स्रोतसां स्वकर्मगुणहानिः ।
धमनीस्थे सफेनं रक्तमीरयन्ननिलः सशब्दो निर्गच्छत्यङ्गपीडा हृल्लासश्च ।
अस्थिगते विविधा वेदनाः शोफश्च ॥
सन्धिगते ऽस्थिवच्चेष्टोपरोधश्च ।
अस्थिसन्धिगते ऽस्थिपूर्णता सङ्घर्षो बलवांश्च ॥
कोष्ठगते त्वाटोपानाहौ मूत्रपुरीषाहारदर्शनानि च व्रणमुखाद्भवन्ति ।
मर्मगते मर्मविद्धवत् ॥
यथायथं चोपदिष्टैः परिस्रावैस्त्वगादिषु शल्यमुपलक्षयेत् ।
सूक्ष्मगतिषु शल्येष्वेतान्येव लक्षणान्यविस्पष्टानि भवन्ति ॥
शुद्धदेहानामनुलोमसन्निविष्टान्युपरुह्यन्ते ।
दोषप्रकोपव्यवायव्यायामाभिघातेभ्यश्च प्रचलितानि पुनराबाधयन्ति ॥
तत्र त्वक्प्रनष्टे स्निग्धस्विन्नायां मृन्माषयवगोधूमगोमयचूर्णमर्दितायां त्वचि यत्र संरम्भो वेदना वा भवति ।
यत्र वा स्त्यानं सर्पिर्निहितमाशु विलीयते ।
प्रलेपो वा शुष्यति ।
तत्र शल्यं जानीयात् ।
मांसप्रनष्टे स्नेहादिभिः क्रियाभिरातुरमुपपादयेत् ।
कर्शितस्य च शिथिलीभूतमनवबद्धं क्षुभ्यमानं यत्र यत्र संरम्भं वेदनां वा जनयति तत्र शल्यम् ॥
एवं कोष्ठास्त्निपेशीविवरेष्वपि ॥
सिरास्रोतोधमनीस्नावप्रणष्टे खण्डचक्रमश्वयुक्तं रथमारोप्यातुरं विषमे ऽध्वनि शीघ्रं नयेत् ।
ततः संरम्भादिभिर्जानीयात् ॥
सन्धिप्रणष्टे स्नेहस्वेदोपपन्नं सन्धिं प्रसारणाकुञ्चनबन्धनपीडनैरुपाचरन् पूर्ववदवगच्छेत् ।
अस्थिप्रणष्टे स्निग्धस्विन्नान्यस्थीनि बन्धनपीडनाभ्यां भृशमुपचरंस्तद्वदुपलक्षयेत् ॥
मर्मप्रणष्टे त्वनन्यभावान्मांसादिभ्यो मर्मणामुक्तं परीक्षणं भवति ॥
सामान्यलक्षणं तूच्छ्रितहस्तिस्कन्धाश्वमाद्रुरोहणद्रुतयानलङ्घनप्लवनव्यायामैर्जम्भोद्गारकासक्षवथुष्ठीवनहसनप्राणायामैर्मलशुक्रोत्सर्गैर्वा यत्र संरम्भो वेदना वा भवति ।
यत्र वा स्वल्पे ऽप्यायासे स्वापो गौरवं घट्टनं शोफो वा स्यात्तत्र शल्यमादिशेत् ॥
समासतश्चतुर्विधं शल्यं भवति ।
वृत्तद्वित्रिचतुरस्रभेदेन ।
तददृश्यमानं वृत्तसंस्थानादनुमिमीत ॥
सर्वशल्यानां महतामाहरणे द्वावेवोपायौ प्रतिलोमो ऽनुलोमश्च ॥
तत्र प्रतिलोममर्वाचीनमानयेदनुलोमं पराचीनम् ।
तिर्यग्गतं यतः सुखाहार्यं भवति ।
ततः छित्वापहरेत् ॥
प्रतिलोममनुत्तुण्डितं छेदनीयं पृथुमुखं च शल्यं निर्घातयेत् ।
तथा कक्ष्यावङ्क्षणोरःपरशुकान्तरपतितानि ॥
नैव चाहरेद्विशल्यघ्नं मर्मप्रणष्टं वाशोफवेदनं पाकविरहितम् ॥
अथ हस्तप्राप्यं शल्यं हस्तेनाहरेत् ।
तदशक्यं यथायथं यन्त्रेण ।
तथाप्यशक्यं शस्त्रेण विशस्य ततो निर्लोहितं व्रणं कृत्वाग्निघृतमधुप्रभृतिभिः स्वेदयित्वावदह्य तर्पयित्वा सर्पिर्मधुभ्यां बध्वाचारिकमादिशेत् ।
सिरास्नावलग्नं शलाकाग्रेणाभिमोच्याहरेत् ।
हृदये ऽभिवर्तमानं शल्यं शीतजलादिभिरुद्वेजितस्याहरेत् ।
यथामार्गं दुराहरमन्यतो ऽप्येवमाहरेत् ॥
अस्थिविवरप्रणष्टमस्थिविदष्टं वावगृह्य पद्भ्यां पुरुषं यन्त्रेणापकर्षेत् ।
अशक्यमेवं वा बलवद्भिः सुगृहीतस्य यन्त्रेण ग्राहयित्वा शल्यवारङ्गं प्रतिभुज्य वा धनुर्गुणैरेकतो बध्वान्यतश्च पञ्चाङ्ग्या सुसंयतस्याश्वस्य वक्त्रकटके बध्नीयात् ।
अथैनमेवं कशया ताडयेद्यथोन्नमयञ्छिरो वेगेन ।
शल्यमुद्धरति ॥
दृढां वा वृक्षशाखामवनम्य तम्यां पूर्ववद् बध्वोद्धरेत् ॥
दुर्बलवारङ्गं तु कुशाभिर्बध्वा ।
श्वयथुग्रस्तवारङ्गमुत्पीड्य श्वयथुम् ॥
अदेशोत्तुण्डितमश्ममुद्गरप्रहारेण विचाल्य यथामार्गमेव ॥
कर्णवत्तु यन्त्रेण विमृदितकर्णं कृत्वा ।
नाडीयन्त्रेण व बहुमुखेन यथास्वमुपसङ्गृह्य शलाकायन्त्रेणान्येन वा पूर्ववदाहरेत् ।
अनुलोममकर्णमनल्पव्रणमुखमयस्कान्तेन ।
पक्वाशयगतं विरेचनेन ॥
वातविण्मूत्रगर्भसङ्गं प्रवाहणेन दुष्टवातविषस्तन्यादीन्यास्यविषाणचूषणेन ॥
कण्ठस्रोतोगते तु शल्ये बिसं सक्तं सूत्रं कण्ठे प्रवेशयेत् ।
अथ तद्गृहीतं विज्ञाय शल्यं सममेव सूत्रं बिसं चाक्षिपेत् ।
बिसाभावे मृणाले ऽप्ययमेव विधिः ।
जातुषे तु कण्ठसक्ते कण्ठे नाडीं प्रवेशयेत्तदा चाग्नितप्तां सूक्ष्ममुखीं शलाकामथ तां गृहीतशल्यां शीताभिरद्भिः परिषिच्य स्थिरीभूतामाहरेत् ।
अजातुषे ऽप्येवमेव प्रतप्तां जतुमधूच्छिष्टान्यतरप्रदिग्धां शलाकाम् ।
मत्स्यकण्टकमन्यद्वा तादृगस्थिशल्यं कण्ठलग्नं सूत्रेण सूत्रप्लोतेन वा वेष्टितयांगुल्यापहरेत् ।
अथवा केशोण्डुकं दृढदीर्घसूत्रबद्धं द्रवोपहितं पाययेद्वामयेच्च ।
वमतश्च शल्यैकदेशसक्तं सूत्रं सहसैवाक्षिपेत् ।
मृदुना वा दन्तधावनकूर्च्चेनापहरेत् ।
परतो वा प्रणुदेत् ।
वालोण्डुके विलग्ने तद्वत् कण्टकम् ॥
क्षतकण्ठश्च त्रिफलाचूर्णं मधुघृतसितोपेतमनुकण्ठयन् लिह्यात् ॥
अपां पूर्णं पुरुषमवाक्चिरसमवपीडयेद्धुनुयाद्वामयेच्च भस्मराशौ वा निखन्यादामुखात् ।
अन्यथा ह्युन्मार्गगामिभिरद्भिराध्मानकासश्वासपीनसेन्द्रियोपघातज्वरादयः श्लेष्मविकारा मृत्युश्च ।
तत्र यथास्वं कफे प्रतिकुर्यात् ।
ग्रासशल्यमम्बुना प्रवेशयेत् ।
स्कन्धे वा मुष्टिनाभिहन्यात् ।
तथा निर्भुज्य वर्त्म वर्त्मगतमपनीय चोष्णाम्बुबाष्पस्वेदं समधुमधुकक्वाथेन सर्पिषा च परिषेकं कुर्यात् ।
स्वयमपि शल्यमश्रुक्षवथुकासोद्गारमूत्रपुरीषानिलैर्नयनादिभ्यो ऽङ्गावयवेभ्यः पतति ॥
कीटे कर्णस्रोतःप्रविष्टे तोदो गौरवं भरभरायमाणं च भवति स्पन्दमाने चाप्यधिकं वेदना ।
तत्र सलवणेनाम्बुना मधुकयुक्तेन मद्येन वा सुखोष्णेन पूरणम् ।
निर्गते च कीटे तदुत्सर्जनम् ।
तत्रैव तु मृते पाककोथक्लेदा भवन्ति ।
तेषु कर्णस्रावोक्तं कुर्यात् ।
प्रतीनाहोक्तं च ।
तोयपूर्णं कर्णं हस्तोन्मथितेन तैलाम्बुना पूरयेत् ।
पार्श्वावनतं वा कृत्वा हस्तेनाहन्यान्नाड्या वा चूषयेत् ।
भवन्ति चात्र श्लोकाः ॥
जाउषं हेमरूप्यादिधातुजं च चिरस्थितम् ।
ऊष्मणा प्रायशः शल्यं देहजेन विलीयते ॥
विषाणवेणुदार्वस्थिदन्तवालोपलानि तु ।
शल्यानि न विशीर्यन्ते शरीरे मृन्मयानि च ॥
विषाणवेण्वयस्तालदारुशल्यं चिरादपि ।
प्रायो निर्भुज्यते तद्धि पचत्याशु पलासृजी ॥
शल्ये मांसावगाढे चेत् स देशो न विदह्यते ।
ततस्तं मर्दनस्वेदशुद्धिकर्शनबृंहणैः ॥
तीक्ष्णोपनाहपानान्नघनशस्त्रपदाङ्कनैः ।
पाचयित्वा हरेच्छल्यं पाटनैषणपीडनैः ॥
शल्यप्रदेशयन्त्राणामवेक्ष्य बहुरूपताम् ।
तैस्तैरुपायैर्मतिमान् शल्यं विद्यात्तथाहरेत् ॥
व्रणे प्रशान्ते प्रान्तेषु नातिस्पर्शासहिष्णुषु ।
अल्पे शोफे च तापे च निःशल्यमिति निर्दिशेत् ॥
काय एव परं शल्यं निजदोषमलाविलः ।
शल्ये शल्यं शराद्यं तु विशेषात्तेन चिन्त्यते ॥
मूल पाठ: Aṣṭāṅgasaṃgraha · Edition: e-text by SARIT · SARIT: Search and Retrieval of Indic Texts · SARIT (e-text) via Internet Archive · CC BY-SA 3.0