अष्टाङ्गसंग्रह · अध्याय 1.34
अथातो यन्त्रशस्त्रविधिं नामाध्यायं व्याख्यास्यामः ।
इति ह स्माहुरात्रेयादयो महर्षयः ॥
मनःशरीराबाधकराणि शल्यानि ।
तेषां नानाविधानां शल्यानां नानादेशनिविष्टानामाहरणे ऽभ्युपायो यन्त्राण्यर्शोभगन्दरादिषु शस्त्रक्षाराग्न्यवचारणे शेषाङ्गरक्षणे च ।
तथा बस्तिप्रणयनादौ शृङ्गालाबुघटिकादयो जाम्बवौष्ठादीनि ।
अन्यान्यपि चानेकरूपाण्यनेककर्माणि स्वस्थातुरोपकरणानि ।
अतः कर्मवशात्तेषामियत्तावधारणमशक्यम् ॥
अन्ये पुनरेकोत्तरं यन्त्रशतमित्याचक्षते ।
इह पुनः समासतः षोढा निर्दिश्यन्ते ।
तद्यथा स्वस्तिकसन्दंशतालनाडीशलाकाख्यान्यनुयन्त्राणि च ॥
तत्र स्वस्तिकयन्त्राणि कङ्कसिंहगृध्रकुररादिविविधव्यालमुखान्याकारानुगताभिधानानि प्रायशो लौहान्यष्टादशाङ्गुलानि ।
मसूराकारप्रान्तैः कण्ठे कीलैरवबद्धानि मूले ऽङ्कुशवदावृत्तवारङ्गाण्यस्थिविनष्टशल्योद्धरणार्थानि ।
तेषां सिंहव्याघ्रभुजङ्गमकरादिमुखानि दृश्यवारङ्गेषु शल्येषु प्रयोजयेत् ।
इतरेषु तु यथायोगं व्रणाकारानुरोधेन कङ्ककाककुररादिमुखानि ॥
सनिबन्धनो निर्निबन्धनश्च षोडशाङ्गुलौ सन्दंशौ द्वौ भवतः ।
तौ त्वङ्मांससिरास्नायुगतशल्योद्धरणार्थमुपदिश्येते ।
तथान्यः सन्दंशः षडङ्गुलो ऽर्धाङ्गुलविस्तृतो वक्रद्विबाहुरङ्गुष्ठाङ्गुलिप्रान्तसमागमाकृतिः सूक्ष्मशल्याक्षिपक्ष्मव्रणाधिमांसाहरणे ॥
तद्वच्च मुचुटी ।
सा तु सूक्ष्मदन्तर्जुर्द्विभुजा मूले रुचकनद्धा वलयपीडनात् छिन्नार्मशेषगम्भीरव्रणाधिमांसाहरणे ॥
तालयन्त्रे अपि द्वे द्वादशाङ्गुले मत्स्यगलतालकवदेकतालकद्वितालके कर्णनाडीशल्याहरणार्थे ॥
नाडीयन्त्राणि सुषिराण्यनेकप्रकाराण्यनेकप्रयोजनान्येनकतोमुखान्येकतोमुखानि च भवन्ति ।
स्रोतोगतशल्यदर्शनार्थमाहरणार्थं क्रियासौकर्यार्थमाचूषणार्थं चेति ।
तानि स्रोतोद्वारपरिणाहानि तथायोगप्रदीर्घाणि च कुर्यात् ॥
कण्ठशल्यदर्शनार्थं नाडीं दशाङ्गुलायतां पञ्चाङ्गुलपरिणाहां द्विकर्णस्य तु वारङ्गस्य सङ्ग्रहार्थं त्रिच्छिद्रमुखां नाडीं तत्प्रमाणतः कुर्यात् ।
तथा चतुष्कर्णस्य पञ्चच्छिद्रमुखाम् ।
शल्यनिर्घातिनीं तु पद्मकर्णिकाकारशीर्षां द्वादशाङ्गुलां त्र्यङ्गुलसुषिराम् ॥
आर्शोयन्त्रं त्रिविधम् ।
ताम्रायोहैमं दान्तं शार्ङ्गं वार्क्षं वा गोस्तनाकारं चतुरङ्गुलायतं हस्ततलायतमेकं पञ्चाङ्गुलानि परिणाहेन पुंसां षङ्गुलानि स्त्रीणाम् ।
द्विच्छिद्रं दर्शनार्थमेकच्छिद्रं कर्मणि ।
तथा हि सुखेन दर्शनं शस्त्रक्षाराग्न्यनतिक्रमश्च ।
छिद्रं तु त्र्यङ्गुलायतमङ्गुष्ठोदरविस्तारम् ।
यदङ्गुलमवशिष्टं तस्याधो ऽर्धाङ्गुलमुपरि तथार्धाङ्गुलोच्छ्रितोद्वृत्तकर्णिकम् ।
तृतीयं तु तादृशमेव शम्याख्यं पार्श्वच्छिद्ररहितं पीडनार्थम् ।
भगन्दरे तु छिद्रादूर्ध्वमोष्ठमपनीय कुर्वीत ।
तद्वच्च घ्राणार्शो ऽर्बुदयन्त्रं नाड्याकारं द्व्यङ्गुलायतमेकच्छिद्रं प्रदेशिनीपरीणाहम् ॥
तथाङ्गुलीत्राणकमङ्गुलीप्रवेशितं किञ्चित्स्थूलवृत्तौष्ठमूर्ध्वाधश्छिद्रं गोस्तनाकृति चतुरङ्गुलं दान्तं शार्ङ्गं वार्क्षं वा ।
तद्दृढेन सूत्रेण मणिबन्धप्रतिबद्धमास्यविस्रावणे योज्यम् ॥
योनिव्रणदर्शने यन्त्रं षोडशाङ्गुलम् ।
मध्ये सुषिरं चतुर्भित्तं चतुश्शलाकं सञ्चारिण्यामुद्रयोर्ध्वं निबद्धमुत्पलमुकुलवक्त्रं मूले शलाकाक्रमणादूर्ध्वविकासि च ।
नाडीव्रणप्रक्षालनाभ्यञ्जनयन्त्रे षडङ्गुले बस्तियन्त्राकारे मुखतो ऽकर्णिके मूलमुखयोरङ्गुष्ठकलायप्रवेशस्रोतसी ।
दकोदरे नाडीमुभयतोद्वारां पिच्छनाडीं वा युञ्ज्यात् ।
स्नेहबस्त्युत्तरबस्तिप्रधमनधूममूत्रवृद्धिनिरुद्धमणिप्रभृतिषु यथास्वमेव यन्त्राण्युक्तानि ॥
शृङ्गं तु ह्रस्वमध्यदीर्घमष्टादशद्वादशाङ्गुलायतं त्र्यङ्गुलप्रवेशमुखमग्रे सर्षपोपलच्छिद्रं तनुचर्मनद्धं चूचुकाकारमुखं च ।
तद्वातविषरक्ताम्बुदुष्टस्तन्यचूषणार्थम् ।
श्लेष्मरक्ताचूषणार्थस्त्वलाबुः ।
स द्वादशाङ्गुलदीर्घो ऽष्टादशाङ्गुलपरिणाहस्त्रिचतुरङ्गुलवृत्तसमुच्छ्रितमुखः परिवेष्टितदीप्तकुशबल्वजपिचुगर्भश्च प्रयोज्यः ।
तद्वदेव च मानकर्माभ्यां घटी ।
सा तु गुल्मोन्नमनविलयनार्थं च ॥
शलाकायन्त्राण्यपि नानाकृतीनि नानार्थानि यथायोगं दैर्घ्यपरिणाहानि च भवन्ति ।
तेषामेषणकर्मणी द्वे गण्डूपदमुखे ।
स्रोतोगतशल्याहरणार्थे ऽष्टाङ्गुलनवाङ्गुले द्वे मसूरदलमुखे ।
षट् शङ्कवः ।
तेषां व्यूहनक्रियौ द्वादशषोडशाङ्गुलौ द्वावहिफणामुखौ ।
तथा चालनार्थे दशद्वादशाङ्गुलौ शरपुङ्खमुखौ ।
आहरणार्थे बडिशमुखौ ।
तथा गर्भशङ्कुः शङ्कुतुल्यो ऽष्टादशाङ्गुलः प्रणताग्रो मूडगर्भाहरणे ।
तथा सर्पफणावदेवाग्रवक्रं तदाख्यमश्मर्याहरणार्थम् ।
तथा दन्तनिर्घातनं चतुरङ्गुलं शरपुङ्खमुखं स्थूलवृत्तप्रान्तम् ॥
षट् कार्पासकृतोष्णीषाणि विविधव्रणक्लेदक्षारप्रमार्जनक्रियासु ।
तेषामपि दूरासन्नघ्राणव्रणोपयोगिनी षट् सप्ताङ्गुले द्वे ।
पायौ दशद्वादशाङ्गुले ।
कर्णशोधनं स्रुवमुखमश्वत्थपत्राग्रम् ।
तथा क्षाराग्निकर्मार्थे जाम्बवोष्ठानि द्वादशाष्टाङ्गुलानि क्रमाद्व्यङ्गुलाङ्गुलार्द्धाङ्गुलफलानि ॥
शलाकाश्च स्थूलसूक्ष्मदीर्घह्रस्वमध्याः ।
आन्त्रवृद्धौ त्वर्धेन्दुवक्रा मध्योर्ध्वनिर्गतशलाकाः ।
दहने नासार्शो ऽर्बुदयोः कोलास्थिदलमात्रमुखा वेल्लितौष्ठा ।
क्षारविषौषधप्रणिधानाय च दर्व्यस्तिस्रो ऽष्टाङ्गुला दर्व्याकाराः कनिष्ठिकानामिकामध्यमाङ्गुलिनखपरिमाणनिम्नमुखास्तथाञ्जलिसंस्थानाः ।
उत्तरबस्त्यञ्जनादिषु यथायथमेवोपदिष्टानि ॥
अनुयन्त्राण्ययस्कान्तरज्जुचर्मान्त्रवस्त्राश्ममुद्गरपाणिपादतलाङ्गुलिजिह्वादन्तमुखशाखानखबालाश्वकालपाकहर्षभयानि ॥
एतानि देहे सर्वस्मिन् देहस्यावयवे ऽपि वा ।
सन्धौ कोष्ठधमन्यां च यथायोगं प्रयोजयेत् ॥
यन्त्रकर्माणि तु निर्घातनपूरणबन्धनव्यूहनपरिवर्तनचालनविवरणपीडनमार्गशोधनविकर्षणाहरणव्यथनोन्नमनविनमनभञ्जनोन्मथनाचूषणैषणदारणौजूकरणप्रक्षालनप्रधमनाञ्जनप्रमार्जनानि बाहुल्येनचतुर्विंशतिर्भवन्ति ॥
विवर्तते साध्ववगाहते च ग्राह्यं गृहीत्वोद्धरते च यस्मात् ।
यन्त्रेष्वतः कङ्कमुखं प्रधानं स्थानेषु सर्वेष्वधिकारि यच्च ॥
शस्त्राणि तु षड्विंशतिर्भवन्ति ।
तद्यथा दन्तलेखनमण्डलाग्रवृद्धिपत्रोत्पलपत्राध्यर्धधारमुद्रिकाकर्तरीसर्पवक्त्रकरपत्रकुशापत्राटीमुखान्तर्मुखशरारीमुखत्रिकूर्चकुठारिकाव्रीहिमुखशलाकावेतसपत्राराकर्णव्यधनसूचीसूचीकूर्चखजैषिणीबडिशनखशस्त्राणि चेति ।
प्रायश्च तानि षडङ्गुलानि सुध्मातावर्तितायोघटितान्युत्पलपत्रनीलानि सुग्रहाणि सुरूपाणि सुधाराणि सुसमाहितमुखाग्राण्यकरालानि प्रत्येकं च प्रायो द्वित्राणि स्वप्रमाणार्धचतुर्थभागफलानि ।
तानि व्याधिदेशवशात् प्रयुञ्जीत ।
तेषां नामभिरेवाकृतयः प्रायेण यन्त्रवद्व्याख्याताः ॥
तत्र त्रयमाद्यं लेखने ।
वृद्धिपत्रादीनि त्रीणि पाटने ।
चत्वारि भेदने ।
मण्डलाग्रादीन्यष्टौ छेदने ।
कुशपत्रादीनि पञ्च प्रच्छाने ।
कुठारिकादीनि षट् व्यधने ।
तेषामाराव्रीहिमुखे भेदने छेदने च ।
सूच्यः सीवने ।
सूचीकूर्चः कुट्टने ।
खजो मथने ।
एषिण्येषणे भेदने च ।
बडिशो ग्रहणे ।
नखशस्त्रमुद्धरणे ।
छेद्यभेद्यलेख्यप्रच्छानेषु च ।
इति द्वादशाविधे शस्त्रकर्मण्युपयोगः ॥
विशेषतस्तु दन्तलेखनं सुप्रबन्धवच्चतुरस्रमेकधारं दन्तशर्करालेखने ।
मण्डलाग्रं प्रदेशिन्यन्तर्नखविस्तृतफलं तल्लेखनच्छेदनयोर्वर्त्मरोगोत्सन्नदन्तमांसदुर्निविष्टव्रणगलशुण्डिकादिषु प्रयोज्यम् ॥
वृद्धिपत्रं क्षुराकारं तत्तून्नते गम्भीरे वा श्वयथावृजुसूच्यग्रमिष्टम् ।
विपरीते तु पृष्ठतो ऽवनतधारम् ॥
अङ्गुलिशस्त्रकं मुद्रिकानिर्गतमुखं वृद्धिपत्रमण्डलाग्राध्यर्धधारान्यतमतुल्यार्धाङ्गुलायतधारं प्रदेशिनीप्रथमपर्वप्रमाणार्पणवृत्तमुद्रिकं दृढसूत्रप्रतिबन्धं कण्ठरोगेषु प्रयुज्यते ॥
कर्तरी त्रिभागपाशा व्रणस्नायुकेशसूत्रच्छेदनार्था ।
सर्पवक्त्रं वक्रमर्धाङ्गुलफलं घ्राणकर्णार्शो ऽर्बुदच्छेदनार्थम् ।
करपत्रं दशाङ्गुलं द्व्यङ्गुलविस्तारं सूक्ष्मदन्तं खरधारं सुत्सरुनिबद्धमस्थिच्छेदनार्थम् ।
कुशपत्राटीमुखे द्व्यङ्गुलफले ।
अन्तर्मुखमर्धचन्द्राकारमध्यर्धाङ्गुलफलम् ॥
कुठारिका पृथुदण्डा गोदन्ताकारा अर्धाङ्गुलफलास्थ्याश्रितसिराव्यधार्था ।
व्रीहिमुखमध्यर्धाङ्गुलफलं मांसलप्रदेशसिराव्यधार्थं वर्ध्मोदरगुल्मविद्रध्यादिव्यधनभेदनार्थं च ।
शलाकोभयतोमुखी कुरबकमुकुलाग्रा ताम्रमयी लिङ्गनाशव्यधनार्था ॥
आरा चतुरस्रार्धाङ्गुलवृत्तमुखा तावत्प्रवेशा बहलकर्णपालीव्यथार्था पक्वामशोफसन्देहभेदनार्था च ।
कर्णव्यधनं त्र्यङ्गुलायतमङ्गुलसुषिरं घनं यूथिकामुकुलाग्रम् ॥
सूच्यस्तिस्रो वृत्ता निगूढदृढपाशाः ।
तत्र मांसलेष्ववकाशेषु त्र्यङ्गुला त्र्यस्रा ।
सन्ध्यस्थिव्रणेष्वल्पमांसेषु च द्व्यङ्गुला वृत्ता पक्वामाशययोर्मर्मसु च सार्धद्व्यङ्गुला धनुर्वक्रा व्रीहिमुखा च ॥
सूचीकूर्चो वृत्तैकमूलो ऽग्रे सुनिबद्धसप्ताष्टसूचिकः कुष्टश्वित्रव्यङ्गेन्द्रलुप्तसुप्तादिषु ।
खजस्त्वर्धाङ्गुलायताष्टकण्टकमुखस्ताम्रो लौहो वा नासाभ्यन्तरगतशोणितमोक्षणार्थः ।
एषण्या द्वे सुश्लक्ष्णस्पर्शे तयोरेकाष्टाङ्गुला गतिकोथशल्यस्राववत्सु व्रणेषु सुषिरान्वेषणे ।
अन्या सूचीसंस्थाना क्षाराक्तसूत्रप्रतिबद्धा नाडीनां भगन्दरगतीनां च भेदने ।
बडिशो ऽत्यवनतमुखः सूचीतीक्ष्णाग्रो ग्रहणे गलशुण्डिकार्मादेः ।
नखशस्त्रमष्टाङ्गुलमेकतो ऽश्वकर्णमुखमन्यतो वत्सदन्तमुखं सूक्ष्मशल्योद् वृतौ ॥
अणुशस्त्राणि तु जलौकःक्षाराग्निसूर्यकान्तकाचस्फटिककुरुचिन्दनखशाकशोफालिकादिखरपत्रसमुद्रफेनशुष्कगोमयादीनि ।
स्वबुद्ध्या च विकल्प्य विविधानि यन्त्रशस्त्राणि तत्कर्माणि चोपकल्पयेत् ।
हस्त एव चात्र प्रधानतमस्तदधीनत्वाद्यन्त्रशस्त्राणाम् ॥
तत्र दीर्घह्रस्वस्थूलतनुवक्रविषमग्राह्यग्राहिशिथिलता इत्यष्टौ यन्त्रदोषाः ।
अत्राद्याः पञ्च कुण्ठखण्डखरधाराश्चेत्यष्टावेव शस्त्रदोषाः ।
अन्यत्र करपत्रात् ॥
तत्र क्षारेण पायितं शस्त्रं शरशल्यास्थिच्छेदनेषु उदकेन मांसच्छेदनेषु ।
तैलेन पाटनभेदनेषु सिराव्यधस्नायुच्छेदनेषु च प्रयुञ्जीत ॥
धारा पुनः छेदनानां मासूरी लेखनानामर्धमासूरी ।
व्यधनानां विस्रावणानां च कैशिकी ॥
तेषां छेदनभेदनलेखनानि वृन्तसाधारणे भागे प्रदेशिनीमध्यमाङ्गुष्ठैः सुसमाहितो गृह्णीयात् ।
वृन्ताग्रे विस्रावणानि प्रदेशिन्यङ्गुष्ठाङ्गुलीभ्याम् ।
हस्ततलप्रच्छादितवृन्ताग्रं व्रीहिमुखं मुखे ।
मूलेष्वाहरणार्थानि ।
पाशस्योपरि मध्ये लघुसन्दंशं कर्तरीं च ।
शेषाण्यपि यथायोगं क्रियासौकर्येण ॥
निशातनी तु तेषां सुश्लक्ष्णा शिला माषमुद्गप्रभा ।
धारासंस्थापनं च शाल्मलीफलकम् ॥
न चाधिगतशास्त्रोप्यकृतयोग्यः सुबहुशो वाप्यदृष्टकर्मा शस्त्रकर्माणि प्रवर्त्तेत ।
सिरास्नायुमर्मादिव्याप्तत्वाद्देहस्य ।
तस्मात् सरोमचर्मपुष्पफलालाबुत्रपुसोदकपङ्कपूर्णदृतिबस्तिवर्ध्ममांसपेशिकोत्पलनालादिषु यथार्हमाहरणादियोग्यां कुर्यात् ।
तथा घटपार्श्वस्रोतस्यम्भोभिः पूर्णेन नेत्रेण बस्तिपीडनयोग्याम् मृदुमांसखण्डेष्वग्निक्षारावचरणयोग्याम् ।
पुस्तमयपुरुषाङ्गप्रत्यङ्गेषु बन्धनयोग्याम् ।
अपि च ॥
युक्तकारी भिषग् बुभूषुः पुरुषं संपूर्णगात्रमविषहतमदीर्घव्याधिपीडितं निष्कृष्टदृष्टान्त्रमावहन्त्यामापगायां मुञ्जबल्बजवेष्टितं पञ्जरस्थमप्रकाशे देशे कोथयेत् ।
तं सम्यक्प्रकुथितं चोद्घृत्यायतदेहं कृत्वोशीरवेणुकूर्चादीनामन्यतमेन शनैश्शनैरवघृष्य त्वगादीन् सर्वानेव बाह्याभ्यन्तरानङ्गसिरास्नाय्वादीनवयवानाचार्योपदर्शितेनागमेन चक्षुषा च लक्षयेत् ॥
इति शास्त्रेण यद्दृष्टं दृष्टं प्रत्यक्षतश्च यत् ।
समागतं तदुभयं भूयो ज्ञानं विवर्धयेत् ॥
स्यान्नवाङ्गुलविस्तारः सुघनो द्वादशाङ्गुलः ।
क्षौमपत्रोर्णकौशेयदुकूलमृदुचर्मजः ॥
विन्यस्तपाशः सुस्यूतः सान्तरोर्णास्थशस्त्रकः ।
शलाकापिहितास्यश्च शस्त्रकोशः सुसञ्चयः ॥
मूल पाठ: Aṣṭāṅgasaṃgraha · Edition: e-text by SARIT · SARIT: Search and Retrieval of Indic Texts · SARIT (e-text) via Internet Archive · CC BY-SA 3.0