अष्टाङ्गसंग्रह · अध्याय 1.33
अथातस्तर्पणपुटपाकविधिं नामाध्यायं व्याख्यास्यामः ।
इति ह स्माहुरात्रेयादयो महर्षयः ॥
यन्नयनं परिताम्यति परिसुष्कं रूक्षं स्तब्धं जिह्मं निम्नमाविलमवनद्धं शीर्णपक्ष्म तथा कृच्छ्रोन्मीलसिरोत्पातसिराहर्षर्जुनशुष्कतिमिराभिष्यन्दाधिमन्थान्यतोवातवातपर्ययशुष्काल्पशोफादिरोगातुरमपगतरागाश्रुदूषिकावेदनं तत्र तर्पणं योजयेत् ।
न त्वशान्तोपद्रवे ऽक्ष्णि नातिशीतोष्णवर्षदुर्दिने न नस्यानर्हेषु च ।
तद्वत् पुटपाकमपि ॥
अथ दिवसस्याष्टमे भागे गते शेषे वा निवातातपरयोधूमे कृतनीलपीतान्यतरयवनिके वेश्मनि जीर्णभक्तस्य सुखशयनगतस्य उत्तानस्य मृदितमाषपिष्टकल्केन नेत्रकोशाद् बहिर्द्व्यङ्गुलोच्छ्रायाधारौ परिमण्डलावसम्बादौ समावपरिस्राविणौ कृत्वा तत्रोष्णोदकप्रविलीनं निमीलिते नेत्रे यथास्वौषधविपक्वं क्षीरं सर्पिः सर्पिर्मण्डं वावसेचयेत् ।
यावन्निमग्नान्यक्षिपक्ष्माणि भ्रूरोमाणि च ।
ततः शनैरस्योन्मेषमाचरतो मात्रां गणयेत् ।
वर्त्मजेषु विकारेषु शतं सन्धिजेषु त्रीणि शुक्लजेषु पञ्च कृष्णजेषु सप्त दृष्टिजेष्वष्टौ सहस्रमधिमन्थेषु ।
प्रतिदोषं तु वाते सहस्रं पित्ते षट् शतानि कफे पञ्च स्वस्थकर्मणि च ॥
ततो ऽस्यापाङ्गदेशे शलाकया द्वारं कृत्वा स्नेहं भाजने स्रावयेत् ।
आधारौ चापनीय यवकल्केनाक्षिकोशौ प्रमृज्य स्नेहेरितकफोपशान्तये यथार्हं धूमं पाययेत् ।
सुखोदकप्रक्षालितमुखं चैनं यथाव्याधि भोजयेत् ।
आतपाकाशभास्वद्दर्शनानि च परिहरेत् ॥
अनेन विधिना प्रत्यहं वायावेकान्तरं रक्तपित्तयोद्र्व्यन्तरं कफे स्वस्थे च ।
यथादोषोत्कर्षं संसर्गसन्निपातयोः ।
एवमेकाहं त्र्यहं पञ्चाहं वा कुर्यादातृप्तेर्वा ।
तृप्तातृप्तातितृप्तलिङ्गानि तु क्रमात् स्वास्थ्यवातकफविकारैरादिशेत् ॥
यदा तु सम्यग्योगप्राप्तं तर्पणं भवति तदा तद्विधेष्वेव रोगेषु पुटपाकं विदध्यात् ।
स त्रिविधः ।
स्नेहनो लेखनः प्रसादनश्च ॥
तत्र स्नेहनमानूपसाधारणमांसमेदोमज्जवसाभिः तथा स्वादुद्रव्यैश्च क्षीरपिष्टै रूक्षे ऽक्ष्णि प्रयोजयेत् ॥
लेखनं जाङ्गलमृगपक्षिमांसयकृद्भिर्मुक्ताप्रवालशङ्खताम्रायस्समुद्रफेनकासीसस्रोतोजसैन्धवादिभिश्च लेखनद्रव्यैर्दधिमस्तुमधुपिष्टैः स्निग्धे ॥
प्रसादनीयं तु जाङ्गलमृगपक्षियकृद्धृदयमज्जवसाभिर्मधुरद्रव्यैश्च स्त्रीस्तन्यक्षीराज्यपिष्टैः ।
स तु वातपित्तरक्तदृष्टिदौर्बल्यव्रणनाशनः कफविरुद्धः ॥
अथ बिल्वमात्रं वेशवारीकृतं मांसपिण्डं तन्मात्रेणैवौषधपिण्डेन संसृज्यैरण्डवटोत्पलपत्रैः स्नेहनादिषु क्रमाद्वेष्टयित्वा कुशमुञ्जसूत्रान्यतमेन बध्नीयात् ।
मृत्प्रलेपनं चात्र द्व्यङ्गुलोत्सेधं कृत्वा धवधन्वमधूकन्यग्रोधकाश्मर्यराजादनार्जुननक्तमालपाटलीना मन्यतमैः काष्ठैः शकृता वा गोमहिषयोः पचेत् ।
अग्निवर्णं चैनमपनीय विगतमृत्सूत्रपत्रं कृत्वा वस्त्रेण पीडयेत् ।
तेन रसेन सायं तर्पणवत् पूरयेन्नेत्रे ।
धारयेच्च स्नेहने शतद्वयं मात्राणां लेखने शतं प्रसादने त्रीणि शतानि ॥
तप्रणवदेव धूमपानं प्रसादनवर्ज्यम् ।
सुखोष्णौ च पूर्वौ ।
शीतः प्रसादनः ।
पुटपाकस्त्वेकाहं द्व्यहं त्र्यहं वा योज्यः ।
द्विगुणश्च तर्पणपुटपाकयोः परिहारः ।
बद्धाक्षैश्च मालतीमल्लिकाकुसुमैर्निवसेत् ।
तथा पक्वातिसारे ऽपि पुटपाकस्यायमेव विधिरिति ।
भवति चात्र श्लोकः ॥
सेके ऽञ्जने तर्पणे च पुटपाके च ये गदाः ।
जायेरन् विधिविभ्रंशाद्यथास्वं तान् प्रसाधयेत् ॥
मूल पाठ: Aṣṭāṅgasaṃgraha · Edition: e-text by SARIT · SARIT: Search and Retrieval of Indic Texts · SARIT (e-text) via Internet Archive · CC BY-SA 3.0