भाषा

ENहिગુ
ग्रंथ पाठ

अष्टाङ्गसंग्रह · अध्याय 1.32

1.32.1

अथात आश्च्योतनाञ्जनविधिमध्यायं व्याख्यास्यामः ।
इति ह स्माहुरात्रेयादयो महर्षयः ॥

1.32.2

आश्च्योतनं सर्वाक्षिरोगेष्वाद्य उपक्रमः ।
नानाद्रव्यकल्पनया च रागाश्रुघर्षरुग्दाहतोदभेदपाकशोफकण्डूघ्नम् ।
अव्यकेतेस्वेवंगुणमेव पक्ष्मपरिहारेणाक्षिकेशालेपनम् ।
तञ्च पुनर्बिडालकसंज्ञम् ॥

1.32.3

तयोरकालो रात्रिः ।
कालस्तु सर्वमहर्वेदनोत्पत्तिर्वा ।
निवातशरणशयनस्थस्य विशोध्य नेत्रमपाङ्गे भाजनं कृत्वा वामहस्तेनोन्मील्य दक्षिणहस्तेन शुक्त्यवसक्तया पिचुवर्त्या दशद्वादशाष्टौ वा बिन्दून् कनीनकदेशे द्व्यङ्गुलादवसेचयेत् ।
एवमस्य न बिन्दुपातेनाक्षिताडनाद्रागादयो जायन्ते ।
आश्च्योतितं च मृदुना चैलेन शोधयेत् ।
अन्येन चोष्णाम्बुप्लुतेन वातकफयोः स्वेदयेत् ।
आश्च्योतनं च तयोः कोष्णम् ।
सुशीतं पित्तरक्तविषेषु ।
तत्तु नात्यर्थं तीक्ष्णमुष्णं शीतं प्रभूतमूनमपरिस्रावितं वा योजयेत् ।
अतितीक्ष्णमुष्णं वा दाहरागपाकदृष्टिदौर्बल्यानि करोति ।
अतिशीतं स्तम्भाश्रुघर्षनिस्तोदान् ।
अतिमात्रं कषायवर्त्मतासङ्कोचस्फुरणोन्मीलनप्रवातासहत्वघर्षान् ।
ऊनप्रमाणं न रोगशान्तिम् ।
अपरिस्रुतमश्रुघर्षवेदनाः ॥

1.32.4

नेत्रे च प्रणिहितमौषधं कोशसन्धिसिराशृङ्गाटकघ्राणास्यस्रोतांसि गत्वोर्ध्वं प्रवृत्तमपवर्तयति दोषम् ॥

1.32.5

यदा चाश्च्योतनेन पित्तश्लेष्मशोणितोत्थेषु नयनामयेषु संशोधनैर्विशुद्धस्य दूषिकाघनत्वपैच्छिल्यकण्डूद्रेकश्वयथुम्लानतारागविच्छएदैः पक्वलिङ्गमुपलक्षितं भवति ।
तदा नेत्रमात्राश्रये व्याधावञ्जनं प्रयोज्यम् ।
न दोषवेगोदये ।
न चानिर्हृतदोषे ।
तत्र हि दोषोत्क्लेशेन रागादिवृद्धिः अक्षिपाकतिमिरोत्पत्तिश्च ॥

1.32.6

तत्तु लेखनं रोपणं स्नेहनं प्रसादनमिति चतुर्विधं भवति ।
तत्राम्लादिभी रसैः पञ्चभिः शुक्लार्मादिषु लेखनम् ॥

1.32.7

तिक्तकषायैः सस्नेहैरभिष्यन्देषु रोपणम् ॥

1.32.8

सर्पादिवसादिभिर्वाततिमिरादिषु स्नेहनम् ॥

1.32.9

स्वादुशीतैः सस्नेहैरभिष्यन्दान्ते सूर्योपरागाशनिविद्युत्सम्पातभूतांपिशाचात्यद्भुतदर्शनाद्युपहतायां दृष्टौ स्वस्थवृत्ते च प्रसादनम् ॥

1.32.10

प्रसादन एव चूर्णस्तीक्ष्णाञ्जनाभिसन्तप्ते चक्षुषि प्रयुज्यमानः प्रत्यञ्जनसंज्ञां लभते ।
षड्विधं वा प्रतिरसभेदादञ्जनम् ।
द्विविधमेव वा तीक्ष्णं मृदु च ॥

1.32.11

कल्पना तु त्रिविधा ।
पिण्डो रसक्रिया चूर्णश्च ।
यथापूर्वं ते बलिनस्तस्मात् प्रबलमध्याबलेष्वामयेषुक्रमात्तान् प्रयोजयेत् ।
तत्र पिण्डो हरेणुमात्रस्तीक्ष्णस्य ।
रसक्रिया विडङ्गमात्रा ।
तद्द्विगुणा मृदोः ।
चूर्णो द्विशलाकः ।
मृदोस्त्रिशलाकः ॥

1.32.12

पात्रे तु कुर्यात् सौवर्णे मधुरम् ।
राजते ऽम्लम् ।
मेषशृङ्गमये लवणम् ।
कांस्ये तिक्तम् ।
वैदूर्यमये ऽश्ममये वा कटुकम् ।
ताम्रमय आयसे वा कषायम् ।
नलप्लक्षपद्मस्फटिकशङ्खाद्यन्यतमे शीतम् ।
एवमव्यापन्नगुणं भवति ।
वर्तिघर्षणार्था च शिलातिश्लक्ष्णा निम्नमध्यानुद्गारिणी पञ्चाङ्गुलायता त्र्यङ्गुलविस्तीर्णा ॥

1.32.13

शलाकाः पञ्च कनकरजतताम्रलोहोद्भवा अङ्गुली च ।
तत्राद्ये प्रसादने ऽञ्जने स्नेहने च ।
मध्या लेखने ।
अन्त्ये रोपणे ।
मृदुत्वादङ्गुल्यत्र प्रधानतमा ।
अतः सरुजे ऽक्ष्णि सैव प्रयोज्या ।
शेषा दशाङ्गुला राजमाषस्थूलाः ।
सुश्लक्ष्णास्तनुमध्या मुखयोर्मुकुलाकाराः कलायपरिमण्डलाश्च ॥

1.32.14

अथाञ्जनं नातिशीतोष्णाभ्रवातायां वेलायामुभयकालं च योज्यम् ।
तथा सततं नैव वा ॥

1.32.15

सरुजे चाक्ष्णि प्राक् पश्चादितरस्मिन् ।
अन्यथाञ्जनोद्वेगसङ्कुचिते ऽन्तः सम्यगौषधं नानुप्रविशेत् ।
ततैवमतिशीतादिषु च यथास्वं दोषोत्क्लेशाद्विकारपरिवृद्धिः ॥

1.32.16

न च योज्यं क्रुद्धभीतशङ्कितशोकितश्रान्ताशितमात्रविरिक्तधूममद्यपीतदत्तनस्यरात्रिजागरितवेगितरुदितपिपासित ज्वरितच्छर्दितार्ततान्तनेत्राभिहतशिरोरुजार्तशिरःस्नातानुदितादित्येषु ।
एष्वञ्जनादूष्मोर्ध्वगः संरम्भाश्रुवेदनाविलत्वोषारागदूषिकानिस्तोदकृछ्रोन्मीलनश्वयथुशुक्रतिमिरादीन् जनयेत् ॥

1.32.17

अथ समसुखोपविष्टस्योपविष्टो वामांगुष्ठेन वर्त्मोत्तरमुत्क्षिप्य कृष्णभागस्याधःकनीनकादपाङ्गं यावदञ्जनं नयेदनल्पमप्रभूतमनतितक्ष्णिमनच्छमसान्द्रमकर्कशमद्रुतमविलम्बितमतिर्यग्दृष्ट्यकम्पितमघट्टितमनात्रान्तं च ।
चूर्णे तु गतागतं कुर्यात् ।
अन्यथा हि रागाश्रुशुक्राद्युत्पत्तिः ।
ततो ऽञ्जनानुगमनायानुन्मीलयन् शनैश्शनैरन्तश्चक्षुः सञ्चारयेत् ।
एवमक्ष्यनुगच्छति ।
वर्त्मनी किञ्चिच्चालयेत् ।
न तु सहसोन्मेषणनिष्पीडनप्रक्षालनानि कुर्यात् ।
बाष्पोत्क्लिष्टदोषस्तम्भभयात् ।
अपि च ॥

1.32.18

अपेतौषधसंरम्भं निर्वृतं नयनं यदा ।
व्याधिदोषर्तुयोग्याभिरद्भिः प्रक्षालयेत्तदा ॥

1.32.19

सचैलेनाथ नयनं सव्याङ्गुष्ठेन दक्षिणम् ।
ऊर्ध्ववर्त्मनि सङ्गृह्य शनैः शोध्यं समन्ततः ॥

1.32.20

दक्षिणाङ्गुष्ठकेनैवं शोध्यं सव्यं च लोचनम् ।
वर्त्मप्रप्ताञ्जनाद्दोषो रोगान् कुर्यादतो ऽन्यथा ॥

1.32.21

तीक्ष्णाञ्जनान्ते चैनं धूमं पाययेत् ।
यस्याञ्जिते कण्डूजाड्योपदेहाः स्युः ।
तस्य तीक्ष्णमञ्जनं धूमं वा पुनरवचारयेत् ।
एतदेव दुर्विरिक्ताक्षिलक्षणं साधनं च ।
अतिविरेकात् सन्तापनिस्तोदशूलस्तम्भघर्षाश्रुदारुणप्रतिबोधकषायवर्त्मताशिरोरुग्दृष्टिदौर्बल्यानि ।
तत्र शीतमाश्च्योतनं प्रत्यञ्जनं वा ।
सम्यग्विरेकाद्यथास्वमामयोपशमः ।
सुखोन्मीलननिमीलनवातातपसहत्वानि चेति ।
भवति चात्र ॥
रोपणादिष्वपि तथा योगादीननुचिन्तयेत् ।
दोषोदयानुसारेण प्रतिकुर्वीत तेषु च ॥

मूल पाठ: Aṣṭāṅgasaṃgraha · Edition: e-text by SARIT · SARIT: Search and Retrieval of Indic Texts · SARIT (e-text) via Internet Archive · CC BY-SA 3.0

Esc