भाषा

ENहिગુ
ग्रंथ पाठ

अष्टाङ्गसंग्रह · अध्याय 1.31

1.31.1

अथातो गण्डूषादिविधिमध्यायं व्याख्यास्यामः ।
इति ह स्माहुरात्रेयादयो महर्षयः ॥

1.31.2

चतुर्विधो भवति गण्डूषः ।
स्नैहिकः शमनः शोधनो रोपणश्च ।
तेषामाद्यास्त्रयः क्रमेण वातपित्तकफामयघ्नाः ।
रोपणस्त्वास्यव्रणघ्नः ।
शमनः स्तम्भनः प्रसादनो निर्वापण इति पर्यायाः ॥

1.31.3

तत्र स्वाद्वम्ललवणोष्णैरौषधैः सिद्धो युक्तो वा नात्युष्णः स्नेहो मांसरसस्तिलकल्कोदकं क्षीरं वा स्नैहिकः ।
तिक्तकषायमधुरशीतैः पटोलारिष्टजम्ब्वाम्रमालतीपल्लवोत्पलमधुकक्वाथासितोदकक्षौद्रक्षीरेक्षुरस घृतादिभिः शमनः ।
कट्वम्ललवणोष्णैः शिरोविरेचनद्रव्यैः शुक्तमद्यधान्याम्लमूत्रान्यतमकल्कितालोडितैः शोधनः ।
रोपणस्तु कषायमधुरशीतैर्यथास्वं चोपदिष्टैः ॥

1.31.4

अपि च ।
दन्तहर्षे दन्तचाले मुखरोगे च वातिके ।
सुखोष्णमथवा शीतं तिलकल्कोदकं हितम् ॥

1.31.5

गण्डूषधारणे नित्यं तैलं मांसरसो ऽथवा ।
ऊषादाहान्विते पाके क्षते चागन्तुसम्भवे ॥

1.31.6

विषे क्षाराग्निदग्धे च सर्पिर्धार्यं पयो ऽथवा ।
वैशद्यं जनयत्यास्ये सन्दधाति मुखे व्रणान् ॥

1.31.7

दाहतृष्णाप्रामनं मधुगण्डूषधारणम् ।
धान्याम्लमास्यवैरस्यमलदौर्गन्ध्यनाश्नम् ॥

1.31.8

तदेवालवणं शीतं मुखशोषहरं परम् ।
आशु क्षाराम्बुगण्डूषो भिनत्ति श्लेष्मणश्चयम् ॥

1.31.9

अथ निवाते सातपे सुखोपविष्टस्तन्मनाः स्विन्नमृदितगलकपोलललाटदेशो वरमध्यावरां क्रमाद्वक्त्रार्धत्रिभागचतुर्भागपूरणीं द्रवमात्रां कल्कं वा कोलप्रमाणं किञ्चिदुन्नमितास्यो ऽनभ्यवहरन् धारयेत् ।
कवले तु पर्यायेण कपोलौ कण्ठं च सञ्चारयेत् ।
अयमेव च कवलगण्डूषयोर्विशेषः ॥

1.31.10

मुखे सञ्चार्यते या तु सा मात्रा कवलः स्मृतः ।
असञ्चारा तु या मात्रा स गण्डूषः प्रकीर्तितः ॥

1.31.11

पुनश्च स्वेदमर्दनान्याचरेत् ।
एवमुत्क्लिष्टः कफो वक्त्रं प्रतिपद्यते ।
तावच्च धार्यो यावत् कफपूर्णकपोलता स्रवद्घ्राणनेत्रता भेषजस्य वानुपहतिः कफेन ।
एवं त्रीन् पञ्च सप्त वा गण्डूषान् धारयेत् ।
यावद्वा सम्यग्धूमपीतलिङ्गोत्पत्तिः ।
तस्य स्वास्थ्येन योगं जाड्यरसाज्ञानारुचिप्रसेकोपलेपैरयोगं
मुखशोषपाकक्लमारुचिहृदयद्रवस्वरसादकर्णनादैरतियोगमुपलक्षयेत् ।
तेषां यथास्वं प्रतिकुर्वीत ॥

1.31.12

प्रतिसारणं तु त्रिविधम् ।
गण्डूषोदितानां द्रव्याणाम् ।
रसक्रिया कल्कश्चूर्णश्च ।
तदभिष्यन्दाधिमन्थगलशुण्डिकादिषु युक्त्या प्रयोज्यम् ।
अतिप्रतिसारणादूषाप्लोषदाहक्लेदशोषादयो भवन्ति ॥

1.31.13

मुखालेपो ऽपि त्रिविधो दोषघ्नो विषघ्नो वर्ण्यश्च ।
त्रिप्रमाणश्चतुर्भागत्रिभागार्धाङ्गुलोत्सेधः ।
न चालिप्तमुखो ऽतिभाष्यहास्यक्रोधशोकरोदनखादनाग्न्यातपदिवास्वप्नान् सेवेत ।
कण्डूत्वक्शोषपीनसदृष्ट्युपघातभयात् ।
न च शुष्यन्नुपेक्षितव्यः ।
शुष्को हि छविं दूषयति ।
तमार्दयित्वापनयेत् ।
आलेपान्ते च मुखमभ्यज्यात् ॥

1.31.14

न तु योज्यो रात्रिजागरितानीर्णदत्तनस्यारुचिहनुग्रहप्रतिश्यायिनाम् ।
सम्यक्प्रयुक्तश्चाकालवलीपलिततिमिरव्यङ्गतिलकादीन् प्रशमयति ।
स्वस्थस्य तु दृष्टिबलं पुण्ड्द्रीककान्तवक्त्रतां च करोति ॥

1.31.15

मूर्धतैलं पुनश्चतुर्धा भिद्यते ।
अभ्यङ्गः परिषेकः पिचुर्बस्तिरिति ।
यथोत्तरं ते बलिनः तेष्वभ्यङ्गादयः प्रसिद्धस्वरूपाः ॥

1.31.16

शिरोबस्तिविधिस्तु बस्तिं सुमृदितं द्विमुखं शिरःप्रमाणमाकर्णप्रवेशं द्वादशाङ्गुलविस्तारं कुर्यात् ।
अथ शुद्धतनोः सायं रात्रौ वा स्वभ्यक्तस्विन्नस्य जानुसमसोपाश्रयासनोपविष्टस्य केशान्ते श्लक्ष्णं त्र्यङ्गुलं सुसूक्ष्मेण माषपिष्टेन सद्यः सुखाम्बुमृदितेनोभयतः प्रदिग्धं वस्त्रपट्टं बध्नीयात् ।
ततस्तस्योपरि सन्धाय बस्तिमाकर्णं बस्तिमूलं च दृढमवलीकं समञ्चैलवेणिकया बध्वा पुनर्माषपिष्टेनापरिस्रावि कृत्वा यथाव्याधिदोषदूष्यहितं सिद्धमन्यतमं स्नेहं सुसुखोष्णमासेचयेद्यावत् केशभूमेरुपर्यङ्गुलम् ।
तावच्च धार्यो यावत् कर्णमुखनासास्रुतिर्वेदनोपशमो वा भवति ।
विशेषतो वातजेषु विकारेषु दशमात्रासहस्राणि ।
पित्तरक्तजेष्वष्टौ ।
षट् कफजेषु ।
सहस्रमरोगकर्मणि ।
ततो ऽपनीते स्नेहे विमुच्य बस्तिं शिरसः स्कन्धग्रीवापृष्ठललाटादीन्यनुसुखं मर्दयेत् ।
उष्णाम्बुना स्नातं यथार्हं भोजयेत् ।
स्नेहोक्तं चास्याचारमादिशेत् ।
एवं त्रीणि पञ्च सप्त वा दिनानि योजयेदिति ।
भवति चात्र ॥

1.31.17

तत्राभ्यङ्गः प्रयोक्तव्यो रौक्ष्यकण्डूमलादिषु ।
अरूंषिकाशिरस्तोददाहपाकव्रणेषु तु ॥

1.31.18

परिषेकः पिचुः केशशातस्फुटनधूपने ।
नेत्रस्तम्भे च बस्तिस्तु प्रसुप्त्यर्दितजागरे ।
नासास्यशोषे तिमिरे शिरोरोगे च दारुणे ॥

1.31.19

कचशतनसितत्वपिञ्जरत्वं परिपुटनं शिरसः समीररोगान् ।
जयति जनयतीन्द्रियप्रसादं स्वरहनुमूर्धबलं च मूर्धतैलम् ॥

1.31.20

धारयेत् पूरणं कर्णे कर्णमूलं विमर्दयन् ।
रुजः स्यान्मार्दवं यावन्मात्राशतमवेदने ॥

1.31.21

यावत् पर्येति हस्ताग्रं दक्षिणं जानुमण्डलम् ।
निमेषोन्मेषकालेन समं मात्रा तु सा स्मृता ॥

मूल पाठ: Aṣṭāṅgasaṃgraha · Edition: e-text by SARIT · SARIT: Search and Retrieval of Indic Texts · SARIT (e-text) via Internet Archive · CC BY-SA 3.0

Esc