अष्टाङ्गसंग्रह · अध्याय 1.30
अथातो धूमपानविधिं नामाध्यायं व्याख्यास्यामः ।
इति ह स्माहुरात्रेयादयो महर्षयः ॥
धूमो हि शिरो ऽक्षिकर्णशूलाभिष्यन्दगौरवार्धावभेदकपीनसकासश्वासास्यवैरस्यप्रसेकवैस्वर्यपूतिघ्राणमुखहिध्मागलरोगदन्तशूलदौर्बल्यारुचिहनुमन्याग्रहक्रिमिकण्डूपाण्डुत्वक्वेशदोषक्षवथुनाशबाहुल्यतन्द्रातिनिद्राक्रथनादिजत्रूर्ध्वगतवातकफव्याधिप्रशमाय प्रयुज्यते ।
तथा शिरःकपालेन्द्रियमनोबृंहणप्रसादनाय च ॥
शीतद्रव्यनिर्वृत्तो ऽप्यग्निसंयोगादुष्णतया पित्तरक्तविरुद्धः ।
स त्रिविधो भवति ।
शमनो बृंहणः शोधनश्च ।
तथा कासघ्नो वामनो व्रणधूपनश्च ।
तत्र शनमः प्रायोगिको मध्यम इति पर्यायः ।
बृंहणः स्नेहनो मृदुरिति ।
शोधनो विरेचनस्तीक्ष्ण इति च ॥
अधूमार्हास्तु विरिक्तदत्तबस्तिरात्रिजागरिताभिहतशिरोमधुदधिदुग्धमद्यस्नेहयवागूविषपयःपीतमत्स्याशितपाण्डुरोगप्रमेहोदराध्मानोर्ध्ववाततिमिररोहिणिकारक्तपित्तिनो ऽत्युष्णो ऽन्येपि च ।
एषां हि भ्रमज्वरशिरो ऽभितापेन्द्रियोपघाततालुशोषपाकधूमायनच्छर्दिमूर्छारक्तपित्तार्दितानि मृत्युं वा धूमो जनयति ।
अतिमात्रश्चान्येषामपि ॥
तत्र वातकफान्यतरसंसृष्टं पित्तमुपलक्ष्य यथास्वं सर्पिःकषायपाननस्यास्यालेपनाञ्जनपरिषेकान् स्निग्धरूक्षशीतान् प्रयुञ्जीत ।
एतेन सर्वधूमोपघातप्रतिकारा व्याख्याताः ॥
विशेषतस्तु सर्वस्रोतोगते धूमे भवन्त्यूषाध्माननेत्ररोगश्वासकासपीनसाङ्गस्वरसादाम्लकाः ।
तत्र घृतक्षीरेक्षुरसद्राक्षाशर्करोपयोगस्तद्विधैरेव वमनम् ।
कटुतिक्तैरपि च नस्यगण्डूषाः ॥
पानकालास्त्वष्टौ प्रायोगिकस्य निशामूत्रशकृद्दन्तधाचनस्वेदनस्याहारशस्त्रकर्मान्ताः ।
एकादश मृदोः ।
क्षुतव्यवायहसितचिरासितजृम्भितमूत्रशकृद्दन्तधावनतर्पणपुटपाकशस्त्रकर्मान्ताः ।
पञ्च तीक्ष्णस्य नस्याञ्जनछर्दितस्नानाहस्स्वप्नान्ताः ।
एषु हि कालेषु वातकफोत्क्लेशो भवति ॥
नेत्रं तु बस्तिनेत्रद्रव्यभवं गोपुच्छाकारमग्रमूलयोः कनिष्ठिकाङ्गुष्ठपरिणाहं राजमाषवाहिधूमवर्तिप्रवेशाच्छिद्रमृजु त्रिकोशं श्लक्ष्णं शिथिलशलाकागर्भं शमनादिषु क्रमादातुराङ्गुलमानेन चत्वारिंशद्द्वात्रिंशच्चतुर्विंशत्यङ्गुलं कुर्यात् ।
कासघ्ने वमने च दशाङ्गुलम् ।
व्रणधूपनार्थे ऽष्टाङ्गुलम् कलायपरिमण्डलं कुलत्थवाहि स्रोत इति ।
एवं हि धूमो दूरात् प्रवृत्तो नेत्रस्य पर्वच्छेदादूर्ध्वं तनुतया च शनैः श्लिष्यन्नबाधको भवति ॥
कासघ्नादिषु तु नेत्राभावे नलवंशैरण्डादीनामन्यतमा नाडीं योजयेत् ॥
यथास्वं च धूमद्रव्याणां कल्केन श्लक्ष्णेनाक्षमात्रेण द्वादशाङ्गुलामिषीकामम्भस्यहोरात्रोषितां कृत्वा लेपयेत् ।
तत्र च नवाङ्गुलगर्भां पञ्चप्रलेपामङ्गुष्ठस्थूलां यवमध्यां छायाशुष्कां वर्तिं कृत्वा विगतेषीकां च स्नेहाक्तामङ्गारेषु प्रदीप्य नेत्रमूलच्छिद्रे च निधाय यथार्हं पानायोपनयेत् ॥
अथ धूमार्हः सुमना ऋजूपविष्टः प्राक्कृतोच्छ्वासनिश्वासो विवृतौष्ठदशनो नेत्रग्रनिविष्टदृष्टिः पर्यायेणैकैकं नासापुटं पिधायेतरेणाक्षिप्य मुखेनोत्सृजेत् ।
मुखेन तु मुखेनैव ।
न नासया दृग्विघातभयात् ॥
तत्र प्रायोगिकं द्वौ द्वौ त्रींस्त्रीन् वापानां स्त्रींश्च पर्यायान् ।
कण्ठादूर्ध्वमुत्क्लिष्टे दोषे पूर्वं नासया ततो मुखेन ।
कण्ठे तु पूर्वमास्येन ।
परं चाहोरात्रस्य द्विः पिबेत् ॥
स्नेहिकं त्रींस्त्रींश्चतुरश्चतुरो वापानान् यावद्बास्रप्रवृत्तिस्तथा सकृदहोरात्रस्य ॥
तीक्ष्णं नासाभ्यामेव चतुरश्चतुरश्चापानान् यावद्वा स्रोतोलाघवम् ।
तथा त्रिश्चतुर्वाहोरात्रस्य ।
तत्राक्षेपविसर्गावापानमित्याहुः ॥
कासघ्नं तु चूर्णं गुटिकां वा निर्धूमदीप्तस्थिराङ्गारपूर्णे सुसस्थिते शरावे प्रक्षिप्यान्येन मूर्ध्नि प्रवृत्तच्छिद्रेण शरावेणापिधाय निधाय च तत्स्रोतसि नेत्रं कृत्वा मुखेनैव धूमं पिबेत् ।
उरःप्राप्तं च मुखेनैवोद्वमेत् ।
प्रशान्ते च धूमे पुनः क्षिपेत् ।
पिबेच्चादोषशुद्धेर्लाघवाद्वा ॥
तद्वद्वामनमपि कृसरामनतिघनां पीत्वा पिबेत् ।
तद्वच्च व्रणमपि धूपयेद्वैशद्याय क्लेदवेदनोपशमनाय च ॥
धूमस्यायोगे दोषोत्क्लेशाद्रोगवृद्धिः ।
अतियोगे प्रागुक्तमिति ।
भवति चात्र ॥
हृत्कण्ठेन्द्रियसंशुद्धिः शिरसो लाघवं शमः ।
यथेरितानां रोगाणां सम्यक्पीतस्य लक्षणम् ॥
शमनो वातकफयोः संसर्गे स्वस्थकर्मणि ।
बृंहणो मारुते शस्तो धूमः संशोधनः कफे ॥
मूल पाठ: Aṣṭāṅgasaṃgraha · Edition: e-text by SARIT · SARIT: Search and Retrieval of Indic Texts · SARIT (e-text) via Internet Archive · CC BY-SA 3.0