भाषा

ENहिગુ
ग्रंथ पाठ

अष्टाङ्गसंग्रह · अध्याय 1.29

1.29.1

अथातो नस्यविधिर्नामाध्यायं व्याख्यास्यामः ।
इति ह स्माहुरात्रेयादयो महर्षयः ॥

1.29.2

नासायां प्रणीयमानमौषधं नस्यम् ।
नावनं नस्तःकर्मेति च संज्ञां लभते ।
नासा हि शिरसो द्वारम् ।
तत्रावसेचितमौषधं स्रोतःशृङ्गाटकं प्राप्य व्याप्य च मूर्धानं नेत्रश्रोत्रकण्ठादिसिरामुखानि च मुञ्जादिषीकामिवासक्तामूर्ध्वजत्रुगतां वैकारिकीमशेषामाशु दोषसंहतिमुत्तमाङ्गादपकर्षति ॥

1.29.3

तत्तु त्रिविधं विरेचनं बृंहणं शमनं च ।
तेषां विरेचनं जत्रूर्ध्वगौरवशोफोपदेहकण्डूस्तम्भाभिष्यन्दपाकप्रसेकवैरस्यारोचकस्वरभेदक्रिमिप्रतिश्यायापस्मारगन्धाज्ञानग्रन्थ्यर्बुददद्रुकोठादिषु श्लेष्मजेषु तीक्ष्णेन स्नेहेन शिरोविरेचनद्रव्यैर्वा सिद्धेन तेषां वा क्वाथचूर्णस्वरसैस्तैरेव वा यथार्हद्रवश्लक्ष्णकल्कितालोडितैर्मधुसैन्धवासवपित्तमूत्रैर्यथास्वं चोपदिष्टैर्योज्यम् ॥

1.29.4

तत्र भीतक्लीबकृशसुकुमारेषु स्नेहः ।
गलरोगसन्निपातज्वरातिनिद्रामनोविकारक्रिमिविषाभिपन्नाभिष्यण्णसर्पदष्टविसंज्ञेषु शोषाः ।
तेष्वेव भूयसि दोषे शीघ्रकारिणि च चूर्णः ।
स हि निहितो नासाग्र आवेगकरतरो भवति ॥

1.29.5

बृंहणं सूर्यावर्तार्धावभेदकक्रिमिशिरोरोगाक्षिसङ्कोचस्पन्दतिमिरकृच्छ्रावबोधदन्तकर्णशूलनादनासामुखशोषवाक्यसङ्गस्वरोपघातमन्यारोगापतानकापबाहुकनिद्रानाशादिष्वनिलोत्थेषु स्निग्धमधुरद्रव्यैस्तत्सिद्धैर्यथायथं चोपदिष्टैः स्नेहैर्निर्यासैर्धन्वमांसरसरक्तैश्च ॥

1.29.6

शमनमकालवलीपलितखलतिदारुणकरक्तराजीव्यङ्गनीलिकारक्तपित्तादिषु यथास्वमुपदिष्टैः स्नेहैर्भेषजस्वरसादिभिः क्षीरोदकाभ्यां वा समदोषे वाणुतैलेनेति ॥

1.29.7

तत्र स्नेहो मात्राभेदाद् द्विधा ।
मर्शः ।
प्रतिमर्शश्च ।
विरेचनः शमनो वा नासया प्रणीयमानः कल्को ऽवपीडसंज्ञो विरेचनचूर्णस्तु प्रधमनाख्यः ।
परिशेषं तु नावनमवपीडकसंज्ञम् ।
कल्कीकृतादौषधादवपीडितः स्रुतो रसो ऽवपीड इत्यपरेषाम् ।
तत्र पुनस्तीक्ष्णे वैशेषिकी शिरोविरेचनसंज्ञा ।
तथान्ये सर्वमेव विरेचनं नस्यमित्याहुः ।
सद्यः श्लेष्मविरेचनसामान्यात् ॥

1.29.8

अथाणुतैलस्य विधानमुच्यते ।
अणुतैलविधानं तु मञ्जिष्ठामधुकप्रपौण्डरीकजीवकर्षभककाकोलीद्वयपयस्यासारिवानन्तानीलोत्पलाञ्जनरास्नाविडङ्गतण्डुलमधुपर्णीश्रावणीमेदाकाकनासासरलसालभद्रदारुचन्दनः सुपिष्टैरष्टगुणं षड्गुणेन पयसा तैलं पचेत् ।
घृतं वा पित्तोल्बणेषु दोषेषु ॥

1.29.9

अथवा चन्दनागरुपत्रदार्वीत्वङ्मधुकबलाद्वयबिल्वोत्पलपद्मकेसरप्रपौण्डरीकविडङ्गोशीरह्रीबेरवन्यत्वङ्मुस्तासारिबाबृहतीद्वयांशुमतीद्वयजीवन्तीदेवदारुसुरभिशतावरीः शतगुणे दिव्ये ऽम्भसि दशभागावशिष्टं क्वाथयेत् ततस्तस्य क्वाथस्य दशमांशेन समांशं तैलं साधयेत् ।
दशमे चात्र पाके तैलतुल्यमाजमपि पयो दद्यात् ।
एतदप्यणुतैलं पूर्वस्माद्विशेषेणेन्द्रियदार्ढ्यकरं केश्यं त्वच्यं कण्ठ्यं प्रीणनं बृंहणं दोषत्रयघ्नं च ॥

1.29.10

अनस्यार्हास्तु भुक्तभक्तस्नेहमद्यगरतोयपीतपातुकामशिरः स्नातस्नातुकामसिरादिव्यधस्रुतरक्तमूत्रितोच्चारिताभिहतकृतवमनविरेकबस्तिकर्मगर्भिणीसूतिकानवप्रतिश्यायश्वासकासिनो ऽनार्तवदुर्दिनेष्वपि ।
तत्र भुक्तभक्तस्य नस्येरितो दोष ऊर्ध्वस्रोतांस्यावृत्य छर्दिश्वासकासप्रतिश्यायान् जनयेत् ।
स्नेहादिपीतपातुकामानामक्षिनासास्यस्यन्दोपहतितिमिरशिरोरोगान् ।
शिरःस्नातस्य शिरो ऽक्षिकर्णशूलकण्ठरोगपीनसहनुमन्यास्तम्भार्दितशिरःकम्पान् ।
स्नातुकामस्य मूर्धस्तैमित्यजाड्यारुचिपीनसान् ।
स्रुतरक्तस्य क्षामतामरुचिमग्निसादं च ।
मूत्रितोच्चारितयोर्भृशतरं वेगधारणजान् विकारान् ।
अभिहतस्य तीव्रतरां रुजम् ।
कृतवमनादीनां श्वासकासस्वरेन्द्रियहानिशिरोगौरवकण्डूकृमिदोषान् ।
गर्भिण्या भक्तद्वेषज्वरमूर्च्छार्धावभेदकाः स्युरपत्यं च व्यङ्गं विकलेन्द्रियमुन्मादापस्मारयुक्तं वा ।
सूतिकायाः स्रुतरक्तोक्तान् दोषान् ।
नवप्रतिश्यायस्य स्रोतोरोधाद्दुष्टप्रतिश्यायकेशशातकृमिकण्डूविचर्चिकाः ।
श्वासकासिनोर्व्याधिवृद्धिः ।
अकाले दुर्दिने सहसैव शैत्याच्छिरोरुग्वेपथुस्तैमित्यतालुनेत्रकण्डूपाकमन्यास्तम्भकण्ठरोगप्रतिश्यायारूषिकाः ॥

1.29.11

तेषु यथास्वमायतनं दोषोद्रेकं चापेक्ष्य स्नेहस्वेदशोरोवक्त्रलेपसेकतीक्ष्णावपीडधूमगण्डूषादीनाचरेत् ।
विशेषेण तु गर्भिणी रूक्षे नस्यकर्मणि वर्षाभूकाकोलीकपिकच्छुभिः शृतं पयः पिबेत् ।
बलाविदार्यंशुमतीमेदाभिर्वा ।
एभिरेव च शृतं हविः वातहरसिद्धश्च स्नेहः शिरोबस्तौ कर्णपूरणे च योज्यः ।
सर्वं च बृंहणमन्नपानम् ।
भुक्तभक्तादिष्वपि चात्ययिकव्याध्यातुरमपेक्षेत ॥

1.29.12

मर्शप्रमाणं तु प्रदेशिन्यङ्गुलीपर्वद्वयान्निमग्नेद्धृताद्यावत् पतति स बिन्दुः ।
अमी दशाष्टौ षड्बिन्दव उत्तममध्यमकनीयस्यो मात्राः ।
क्वाथादीनामष्टौ षट् चत्वारः ।
प्रधमनस्य तु षडङ्गुलद्विमुखया नाड्यामुखानिलेरितस्याकण्ठगतेर्दोषानुरोधतश्च पुनःपुनर्योजनमिति ॥

1.29.13

अथ नस्यार्हं नरमव्याहतवेगं धौतान्तर्बहिर्मुखं स्निग्धस्विन्नशिरसं नातिक्षुधितं प्रायोगिकधूमपानविशुद्धस्रोतसं स्वास्तीर्णनिवातशयनस्थुत्तानशीर्षमीषदुन्नतपादं प्रसारितकरचरणं जत्रूर्ध्वं पाणितापेन पुनः पुनः स्वेदयेत् ।
ततः कनकरजतताम्रान्यतमशुक्तिस्थितं प्रदेयमौषधत्रिभागमुष्णाम्बुप्रतप्तं किञ्चित् प्रलम्बितशिरसो वामहस्ताङ्गुष्ठकनिष्ठिकाभ्यामाक्रम्य नयनप्रच्छादनं चतुर्गुणं वासो मध्यमया नासाग्रमुन्नमय्य प्रदेशिन्यनामिकाभ्यां चैकैकं नासापुटं पर्यायेण पिधायेतरस्मिन् नासास्रोतसि दक्षिणहस्तेन प्रनाड्या पिचुना वानवच्छिन्नमासिञ्चेत् ॥

1.29.14

वातपित्तकफामयेषु क्रमेणापराह्णमध्याह्नपूर्वाह्णेषु ।
लालास्रावसुप्तप्रलापदन्तकटकटायनक्रथनकृच्छ्रोन्मीलनपूतिमुखकर्णनादतृष्णार्दितशिरोरोगश्वासकासोन्निद्रेषु रात्रौ ।
स्वस्थवृत्ते तु शीते मध्याह्ने शरद्वसन्तयोः प्राह्णे ग्रीष्मे ऽपराह्णे वर्षास्वादित्यदर्शने ।
पञ्चकर्माण्याचरतो बस्तिकर्मोत्तरकालमेव ॥

1.29.15

न च हीनाधिकं सकृदेव सर्वमत्युष्णशीतमत्युन्नतावनतशिरसे सङ्कुचितगात्रावयवाय देयम् ।
तत्र हीनं दोषमुत्क्लेश्य न निर्हरेत् ।
गौरवारुचिकासप्रसेकपीनसच्छर्दिकण्ठरोगान् कुर्यात् ।
अधिकमतियोगदोषान् ।
सकृदेव सर्वं दत्तमुत्स्नेहनशिरोरोगप्रतिश्यायघ्राणक्लेदानुच्छ्वासोपरोधं च ।
अत्युष्णं दाहपाकज्वररक्तागमशिरोरुग्दृष्टिदौर्बल्यमूर्च्छाभ्रमान् ।
अतिशीतं हीनदोषान् ।
अत्युन्नतशिरसो ऽपि सम्यक्शिरो ऽप्रतिपद्यमानं तानेव ।
अत्यवनतशिरसो ऽतिदूरगमनान्मूर्छाजाड्यकण्डूदाहज्वरान् ।
सङ्कुचितगात्रस्य सम्यग्धमनीरव्याप्नुवद्दोषोत्क्लेशं वेदनां स्तम्भं वा ।
यदि च नस्ये दीयमाने भेषजवेगादसात्म्यतया वा मूर्च्छा स्यात् ततः शिरोवर्जं शीताम्भसा सिञ्चेत् ।
न च नस्ये निषिच्यमाने कोपहास्यव्याहारस्पन्दनोच्छिङ्खनान्याचरेत् ।
तथा हि शिरोरुक्प्रतिश्यायकासतिमिरखलतिपलितव्यङ्गतिलकालकमुखदूषिकाणां सम्भवः ॥

1.29.16

दत्तमात्रे तु नस्ये कर्णललाटकेशभूमिगण्डमन्यास्कन्धपाणिपादतलान्यनुसुखं मर्दयेत् ।
शनैश्चोच्छिङ्खेत् ।
अनभ्यवहरंश्च वामदक्षिणपार्श्वयोरौषधं निष्ठीवेत् ।
सकफं हि तदभ्यवहृतमग्निमवसादयेत् ।
दोषं च संवर्धयेत् ।
एकपार्श्वनिष्ठीवनेन सर्वाः सिरा भेषजेन सम्यग्व्याप्यन्ते ।
पुनः पुनश्चैनं स्वेदयेदाभेषजदर्शनान्नोछिङ्खेन्निष्ठीवेच्चाततश्चैवमेव द्वितीयमंशमनुषेचयेत्तथा तृतीयं दोषादिबलेन वा ।
विरेचने त्ववपीडे दोषबलमपेक्ष्य पश्चात् स्नेहमनुषेचयेत् ।
निवृत्तनस्यं चैवमुन्निद्रमुत्तानं वाक्शतमात्रं शाययेत् ।
ततः पुनरप्युत्क्लिष्टदोषशेषोपशान्तये वैरेचनिकं यथार्हं वा धूमं पाययित्वोष्णोदकगण्डूषान् धारयेत् ।
अथास्य स्नेहोक्तमाचारमादिशेत् ।
अतिद्रवपानं च वर्जयेत् ।
पुनश्च तृतीये ऽहनि नस्यमवसेचयेत् ।
हिध्मास्वरोपघातमन्यास्तम्भापतानकेषु शिरसि चानिलार्त्याद्यभिभूते प्रत्यहं सायंप्रातरुभयकालं वा ।
अनेन विधिना पञ्च सप्त नव वा दिनानि दद्यादासम्यग्योगाद्वा ॥

1.29.17

तत्र सम्यक्स्निग्धे मूर्धनि विरिक्ते वा सुखोच्छ्वासनिश्वासक्षवथुस्वप्नप्रबोधशिरोवदनेन्द्रियविशुद्धयो भवन्ति ।
यथोक्तव्याध्युपशमश्च ।
अयोगातियोगयोस्तु यथास्वं वातकफविकारास्तान्यथास्वमेव साधयेत् ।
अन्यांश्च पूर्वोक्तान् विकारान् ॥

1.29.18

प्रतिमर्शस्तु क्षामक्षततृष्णामुखशोषवृद्धबालभीरुसुकुमारेष्वप्यकालवर्षदुर्दिनेष्वपि च योज्यः ।
न तु दुष्टप्रतिश्यायबहुदोषक्रिमिणशिरोमद्यपीतदुर्बलश्रोत्रेषु ।
एषां ह्युदीर्णदोषत्वात् तावता दोषोत्क्लेशो भवति ।
तस्य पञ्चदश कालास्तेषां च गुणाः ।
प्रातर्दत्ते भुक्तवतश्चान्ते स्रोतोविशुद्धिः शिरोलाघवं मनःप्रसादश्च भवति ।
विण्मूत्रशिरोभ्यङ्गाञ्जनकवलान्ते दृष्टिप्रसादः ।
दन्तधावनान्ते दन्तदृढता सौगन्ध्यं च ।
अध्वव्यायामव्यवायान्ते श्रमक्लमस्वेदस्तम्भनाशः ।
दिवास्वप्नान्ते निद्राशेषगौरवप्रणाशो मनःप्रसादश्च ।
अतिहसितान्ते ऽनिलप्रशमः ।
छर्दितान्ते स्रोतोलीनश्लेष्मव्यपोहः ।
दिनान्ते स्रोतोविशुद्धिः सुखनिद्राप्रबोधश्च भवति ।
भवति चात्र ॥

1.29.19

प्रमाणं प्रतिमर्शस्य बिन्दुद्वितयमिष्यते ।
बिन्दुर्वा येन चोत्क्लेशो नानुत्क्लिष्टस्य जायते ॥

1.29.20

निष्ठ्यूते यत्र वा स्नेहो न साक्षादुपलक्ष्यते ।
न नस्यमूनसप्ताबदे नातीताशीतिवत्सरे ॥

1.29.21

न चोनाष्टादशे धूमः कवलो नोनपञ्चमे ।
न शुद्धिरूनदशमे न चातिक्रान्तसप्ततौ ॥

1.29.22

आजन्ममरणं शस्तः प्रतिमर्शस्तु बस्तिवत् ।
मर्शवच्च गुणान् कुर्यात् स हि नित्योपसेवनात् ॥

1.29.23

न चात्र यन्त्रणा नापि व्यापद्भ्यो मर्शवद्भयम् ।
तैलमेव च नस्यार्थे नित्याभ्यासेन शस्यते ।
शिरसः श्लेष्मधामत्वात् स्नेहाः स्वस्थस्य नेतरे ॥

1.29.24

आशुकृच्चिरकारित्वं गुणोत्कृष्ताव्कृष्टता ।
मर्शे च प्रतिमर्शे च न विशेषो भवेद्यदि ।
को मर्शं सपरीहारं सापदं च भजेत्ततः ॥

1.29.25

अच्छपानविचाराख्यौ कुटीवातातपस्थिती ।
अन्वासमात्राबस्ती च तद्वदेव च निर्दिशेत् ॥

मूल पाठ: Aṣṭāṅgasaṃgraha · Edition: e-text by SARIT · SARIT: Search and Retrieval of Indic Texts · SARIT (e-text) via Internet Archive · CC BY-SA 3.0

Esc