भाषा

ENहिગુ
ग्रंथ पाठ

अष्टाङ्गसंग्रह · अध्याय 1.3

1.3.1

अथातो दिनचर्यां नामाध्यायं व्याख्यास्यामः ।
इति ह स्मा ऽहुरात्रेयादयो महर्षयः ॥

1.3.2

ब्राह्मे मुहूर्ते उत्तिष्ठेज्जीर्णाजीर्णं निरूपयन् ।
रक्षार्थमायुषः स्वस्थो जातवेगः समुत्सृजेत् ॥

1.3.3

उदङ्मुखो मूत्रशकृद्दक्षिणाभिमुखो निशि ।
वाचं नियम्य प्रयतः संवीताङ्गो ऽवगुण्ठितः ॥

1.3.4

प्रवर्त्तयेत् प्रचलितं न तु यत्नादुदीरयेत् ।
नामेध्यमार्गमृत्भस्मगोस्थानाकीर्णगोमये ॥

1.3.5

पुरान्तिकाग्निवल्मीकरम्योत्कृष्टचितिद्रुमे ।
न नारीपूज्यगोर्केन्दुवाय्वन्नाग्निजलं प्रति ॥

1.3.6

न चातिरस्कृत्य महीं भयाशक्त्योस्तु कामतः ।
नवेगितो ऽन्यकार्यः स्यान्नाजित्वासाध्यमामयम् ॥

1.3.7

निःशल्यादुष्टमृत्पिण्डीपरिमृष्टमलायनः ।
अभ्युद्धृताभिः शुचिभिरद्भिर्मृद्भिश्च योजयेत् ॥

1.3.8

लेपगन्धापहं शौचमनुत्पतिताबिन्दुभिः ।
स्पृष्ट्वा धातून् मलानश्रुवसाकेशनखांश्युच्तान् ॥

1.3.9

स्नात्वा भोक्तुमना भुक्त्वा सुप्त्वा क्षुत्वा सुरार्च्चने ।
रथ्यामाक्रम्य चाचामेदुपविष्ट उदङ्मुखः ॥

1.3.10

प्राङ्मुखो वा विविक्तस्थो न बहिर्जानु नान्यदृक् ।
अजल्पन्नुत्तरासङ्गी स्वच्छैरङ्गुष्ठमूलगैः ॥

1.3.11

नोद्धृतैर्नानतो नोर्ध्वं नाग्निपक्वैर्न्न पूतिभिः ।
न फेनबुल्बुदक्षारैर्नैकहस्तार्पितैर्जलैः ॥

1.3.12

नाद्रैकपाणिर्न्नामेध्यहस्तपादो न शब्दवत् ।
वटासनार्कखदिरकरञ्जकरवीरजम् ॥

1.3.13

सर्जारिमेदापामार्गमालतीककुभोद्भवम् ।
कषायतिक्तकटुकं मूलमन्यदपीदृशम् ॥

1.3.14

विज्ञातवृक्षं क्षुण्णाग्रमृज्वग्रन्थि सुभूमिजम् ।
कनीन्यग्रसमस्थौल्यं सुकूर्च्चं द्वादशाङ्गुलम् ॥

1.3.15

प्रातर्भुक्त्वा च यतवाग्भक्षयेद्दन्तधावनम् ।
वाप्यत्रिवर्गत्रितयक्षौद्राक्तेन च घर्षयेत् ॥

1.3.16

शनैस्तेन ततो दन्तान् दन्तमांसान्यबाधयन् ।
लिखेदनुसुखं जिह्वां जिह्वानिर्लेखनेन च ॥

1.3.17

तथास्यमलवैरस्यगन्धा जिह्वास्यदन्तजाः ।
रुचिवैशद्यलघुता न भवन्ति भवन्ति च ॥

1.3.18

नाद्यादजीर्णवमथुश्वासकासज्वरार्दिती ।
तृष्णास्यपाकहृन्नेत्रशिरःकर्णामयी च तत् ॥

1.3.19

नैव श्लेष्मातकारिष्टबिभीतधवधन्वजान् ।
बिल्ववञ्चुलनिर्गुण्डीशिग्रुतिल्वकतिन्दुकान् ॥

1.3.20

कोविदारशमीपीलुपिप्पलेङ्गुदगुल्गुलून् ।
पारिभद्रकमम्लीकामोचक्यौ शाल्मलीं शणम् ॥

1.3.21

स्वाद्वम्ललवणं शुष्कं सुषिरं पूति पिच्छिलम् ।
पालाशमासनं दन्तधावनं पादुके त्यजेत् ॥

1.3.22

दन्तान् पूर्वमधो घर्षेत् प्रातः सिञ्चेच्च लोचनं ।
तोयपूर्णमुखो ग्रीष्मशरदोः शीतवारिणा ॥

1.3.23

प्रणम्य देवान् वृद्धांश्च मङ्गलाष्टशतं शुभम् ।
शृण्वन् काञ्चनविन्यस्तं सर्पिः पश्येदनन्तरम् ॥

1.3.24

सौवीरमञ्जनं नित्यं हितमक्ष्णोस्ततो भजेत् ।
लोचने तेन भवतो मनोज्ञे सूक्ष्मदर्शने ॥

1.3.25

व्यक्तत्रिवर्णे विमले सुस्निग्धघनपक्ष्मणी ।
चक्षुस्तेजोमयं तस्य विशेषात्च्छेलष्मतो भयम् ॥

1.3.26

योजयेत्सप्तरात्रे ऽस्मात् स्रावणाथ रसाञ्जनम् ।
अणुतैलं ततो नस्यं ततो गण्डूषधारणम् ॥

1.3.27

घनोन्नतप्रसन्नत्वक्रकन्धग्रीवास्यवक्षसः ।
सुगन्धिवदनाः स्निग्धनिस्वना विमलेन्द्रियाः ॥

1.3.28

निर्वलीपलितव्यङ्गा भवेयुर्नस्यशीलिनः ।
ओष्ठस्फुटनपारुष्यमुखशोषद्विजामयाः ॥

1.3.29

न स्युः स्वरोपघाताश्च स्नेहगण्डूषधारणात् ।
खदिरक्षीरिवृक्षारिमेदाम्बुकवलग्रहः ॥

1.3.30

अरोचकास्यवैरस्यमलपूतिप्रसेकजित् ।
सुखोष्णोदकगण्डूषैर्जायते वक्त्रलाघवम् ॥

1.3.31

प्रायोगिकं ततो धूमं गन्धमाल्यादि चाचरेत् ।
धूमादस्योर्ध्वजत्रूत्था न स्युर्वातकफामयाः ॥

1.3.32

अञ्जनोत्क्लेशितं नस्यैः कवलैर्नावनेरितम् ।
धूमेन कवलोत्क्लिष्टं क्रमाद्वातकफं जयेत् ॥

1.3.33

गन्धमाल्यादिकं वृष्यमलक्ष्मीघ्नं प्रसाधनम् ।
वासो न धारयेज्जीर्णं मलिनं रक्तमुल्बणम् ॥

1.3.34

माल्यं न लम्बं न बहिर्न रक्तं जलजाद्दते ।
नैव चान्येन विधृतं वस्त्रं पुष्पमुपानहौ ॥

1.3.35

रुचिवैशद्यसौगन्ध्यमिच्छन्वक्त्रेण धारयेत् ।
जातीलवङ्गकर्पूरकङ्कोलकटुकैः सह ॥

1.3.36

ताम्बूलीनां किसलयं हृद्यं पूगफलान्वितम् ।
रक्तपित्तक्षतक्षीणरूक्षोत्कुपितचक्षुषाम् ।

1.3.37

विषमूर्च्छामदार्तानामपथ्यं शोषिणां च तत् ।
पथ्यं सुप्तोत्थिते भुक्ते स्नाते वान्ते च मानवे ॥

1.3.38

द्विपत्रंएकं पूगं च सचूर्णखदिरं च तत् ।
उत्तिष्ठेत ततोत्यर्थमर्थेष्वर्थानुबन्धिषु ॥

1.3.39

निन्दितं दीर्घमप्यायुरसन्निहितसाधनम् ।
कृषिं वाणिज्यां गोरक्षामुपायैर्गुणिनं नृपम् ॥

1.3.40

लोकद्वयाविरुद्धां च धनार्थी संश्रयेत् क्रियाम् ।
मुक्तवेगश्च गमनस्वप्नाहारसभास्त्रियः ॥

1.3.41

पाणिना ऽलभ्य निष्क्रामेद्रत्नपूज्याज्यमङ्गलम् ।
सातपत्रपदत्राणो विचरेद्युगमात्रद्दक् ॥

1.3.42

निशि चात्ययिके कार्ये दण्डी मौली सहायवान् ।
प्रावृत्य पर्यटेद्रात्रौ न प्रावृत्य शिरो ऽहनि ॥

1.3.43

चैत्यपूज्यध्वजाशस्तच्चायाभस्मतुषाशुचीन् ।
नाक्रामेच्छर्करालोष्टबलिस्नानभुवो न च ॥

1.3.44

मध्याह्ने सन्ध्ययो रात्रावर्धरात्रे चतुष्पथम् ।
न सेवेत न शर्वर्यां वृक्षचैत्यं न चत्वरम् ॥

1.3.45

सूनाटवीशून्यगृहश्मशानानि दिवा ऽपि न ।
न हुंकुर्याच्छवं पूज्यं प्रशस्तान्मङ्गलानि च ॥

1.3.46

नापसव्यं परिक्रामेन्नेतराण्यनुदक्षिणम् ।
चतुष्पथं नमस्कुर्यात् प्रज्ञातांश्च वनस्पतीन् ॥

1.3.47

न व्यालव्याधिताशस्तैर्नादान्दक्षुत्पिपासितैः ।
न च्छिन्नपुच्छैर्नैकाक्षैगापृष्ठेन च न व्रजेत् ॥

1.3.48

ना ऽतिप्रगे ऽतिसायं वा न नभोमध्यगे रवौ ।
नासन्निहितपानीयो नातितूर्णं न सन्ततम् ॥

1.3.49

न शत्रुणा नाविदितैर्नैको नाधार्मिकैः सह ।
दद्याद्वर्त्मा ऽर्तवृद्धस्त्रीभारिचक्रद्विजन्मने ॥

1.3.50

स्रानभोजनपानानि वाहेभ्यो नआचरेत् पुरः ।
नदीं तरेन्न बाहुभ्यां नाग्निस्कन्धमभिव्रजेत् ॥

1.3.51

ना ऽरोहोद्विषमं शैलं नावं संशयितां तरुम् ।
निपातयेन्न लोष्टेन न फलेन फलं द्रुमात् ॥

1.3.52

न वार्यमाणः प्रविशेन्नाद्वारेण ना चआसने ।
स्वयं तिष्ठेत् परगृहे युक्तनिंद्रं न बोधयेत् ॥

1.3.53

नआचरेत् पाणिवाक्पादद्दङ्मेढ्रेदरचापलम् ।
त्रिः पक्षस्य कचश्मश्रुनखरोमाणि वर्धयेत् ॥

1.3.54

न स्वहस्तेन दन्तैर्वा स्नानं चानु समाचरेत् ।
अथ जातान्नपानेच्छो मारुतघ्नैः सुगन्धिभिः ॥

1.3.55

यथर्तुसंस्पर्शसुखैस्तैलैरभ्यङ्गमाचरेत् ।
अभ्यङ्गो वातहा पुष्टिस्वप्नदार्ढ्यबृहत्वकृत् ॥

1.3.56

दग्धभग्नक्षतरुजाक्लमश्रमजरापहः ।
रथाक्षचर्मघटवत् भवन्त्यभ्यङ्गतो गुणाः ॥

1.3.57

स्पर्शने ऽभ्याधिको वायुःस्पर्शनं च त्वगाश्रयम् ।
त्वच्यश्च परमभ्यङ्गो यस्मात्तं शीलयेदतः ॥

1.3.58

शिरः श्रवणपादेषु तं विशेषेण शीलयेत् ।
स केश्यः शीलितो मूर्ध्नि कपालेन्दिर्यतर्पणः ॥

1.3.59

हनुमन्याशिरः कर्णशूलघ्नं कर्णपूरणम् ।
पादाभ्यङ्गस्तु तत्स्थैर्यनिद्राद्दष्टि प्रसादकृत् ॥

1.3.60

पादसुप्तिश्रमस्तम्भसङ्कोचस्फुटनप्रणुत् ।
वर्ज्योभ्यङ्गः कफग्रस्तक्तसंशुद्ध्यजीर्णिभिः ॥

1.3.61

शरीरायासजननं कर्म व्यायाम उच्यते ।
लाघवं कर्मसामर्थ्यं दीप्तो ऽग्निर्मेदसः क्षयः ॥

1.3.62

विभक्तघनगात्रत्वं व्यायामादुपजायते ।
वातपित्तामयी बालो वृद्धो ऽजीर्णी च तं त्यजेत् ॥

1.3.63

अर्द्धशक्त्यानिषेव्यस्तु बलिभिः स्निग्धभोजिभिः ।
शीतकाले वसन्ते च मन्दमेव ततो ऽन्यदा ॥

1.3.64

तं कृत्वा ऽनुसुखं देहं मर्द्दयेच्च समन्ततः ।
तृष्णा क्षयः प्रतमको रक्तपित्तं श्रमः क्लमः ॥

1.3.65

अतिव्यायामतः कासो ज्वरश्च्छर्दिश्च जायते ।
व्यायामजागराध्वस्त्रीहास्यभाष्यादि साहसं ॥

1.3.66

गजं सिंह इवआकर्षन् भजन्नति विनश्यति ।
उद्वर्त्तनं कफहरं मेदसः प्रविलायनम् ॥

1.3.67

स्थिरीकरणमङ्गानां त्वक्प्रसादकरं परम् ।
दीपनं वृष्यमायुष्यं स्नानमूर्जाबलप्रदम् ॥

1.3.68

कण्डूमलश्रमस्वेदतन्द्रातृङ्दाहपाप्मजित् ।
उष्णाम्बुना ऽधःकायस्य परिषेको बलावहः ॥

1.3.69

तेनैव तूत्तमाङ्गस्य बलहृत् केशचक्षुषाम् ।
ना ऽनाप्लुत्य शिरः स्नायान्न जले ऽल्पे न शीतले ॥

1.3.70

नोदकावतरणस्वप्नान् नग्नो न चआचरेत् ।
पञ्चपिण्डाननुद्धृत्य न स्नायात् परवारिणि ॥

1.3.71

नात्मानमीक्षेत जले न तटस्थो जलाशयम् ।
न प्रतिस्फालयेदम्बु पाणिना चरणेन वा ॥

1.3.72

स्नात्वा न मृज्यात् गात्राणि धुनुयान्न शिरोरुहान् ।
निवसीता ऽर्द्र एवआशु सोष्णीषे धौतवाससी ॥

1.3.73

न त्वम्बरं पूर्वधृतं न च तैलवसे स्पृशेत् ।
वासो ऽन्यदन्यच्छयने निर्गमे देवतार्च्चने ॥

1.3.74

स्नानमर्दितनेत्रास्यकर्णरोगातिसारिषु ।
आध्मानपीनसाजीर्णभुक्तवत्सु च गर्हितम् ॥

1.3.75

अन्नपानविधानेन भुञ्जीतान्नं विना ऽत्ययात् ।
अभिनन्द्य प्रसन्नात्मा हुत्वा दत्वा च शक्तितः ॥

1.3.76

पाकं सजलमेकान्ते यथासुखमितिश्रुवन् ।
प्रयच्छेत्सर्वमुद्दिश्य पाचयेन्ना ऽन्नमात्मने ॥

1.3.77

ना ऽन्नमद्यान्मुमूर्षूणां मृतानां दुःखजीविनां ।
स्त्रीजितक्लीबपतितक्रूरदुष्कृतकारिणां ॥

1.3.78

गणारिगणिकासत्रधूर्त्तान्नापणिकञ्च न ।
नोत्सङ्गे भक्षयेत् भक्ष्यान् जलं नाञ्जलिना पिबेत् ॥

1.3.79

सर्वञ्च तिलसम्बद्धं ना ऽद्यादस्तमिते रवौ ।
न भुक्तमात्र आस्येन्न निषिद्धं भजेत्सुखं ॥

1.3.80

धर्मोत्तराभिरर्थ्याभिः कथाभिस्त्रिगुणात्मभिः ।
मध्यं दिनस्य गमयेदिष्टशिष्टसहायवान् ॥

1.3.81

न लोकभूपविद्विष्टैर्न सङ्गच्छेत नास्तिकैः ।
कलिवैररुचिर्न स्यात् धीरः सम्पद्विपत्तिषु ॥

1.3.82

श्रुतादन्यत्र सन्तुष्टस्तत्रैव च कुतूहली ।
क्षान्तिमान् दक्षिणो दक्षः सुसमीक्षितकार्यकृत् ॥

1.3.83

ह्रीमान् धीमान् महोत्साहः संविभागी प्रियातिथिः ।
अक्षुद्रवृत्तिर्गम्भीरः साधुराश्रितवत्सलः ॥

1.3.84

दाता पितृभ्यः पिण्डस्य यष्टा होता कृपात्मकः ।
अनुज्ञाता सुवार्तानां दीनानामनुकम्पकः ॥

1.3.85

आश्वासकारी भीतानां क्रुद्धानामनुनायकः ।
पूर्वाभिभाषी सुमुखः सुशीलः पूज्यपूजकः ॥

1.3.86

वित्तबन्धुवयोविद्यावृत्तैः पूज्या यथोत्तरम् ।
आत्मद्रुहममर्यादं मूढमुज्झितसत्पथम् ॥

1.3.87

सुतरामनुकम्पेत नरकार्चिष्मदिन्धनम् ।
धर्म्यमर्थ्यं प्रियं तथ्यं मितं पथ्यं वदेद्वचः ॥

1.3.88

नात्मानमवजानीयान्न स्तूयान्न च पीडयेत् ।
न हीनानवमन्येत् वृत्तार्थाङ्गबलश्रुतैः ॥

1.3.89

ना ऽरुन्तुदः स्यान्न क्रूरो न तीक्ष्णो नो ऽपतापवान् ।
हेतावीर्ष्येन्न तु फले पापं पापे ऽपि नाचरेत् ॥

1.3.90

परस्य दण्डं नोद्यच्छेत् क्रुद्धो नैनं निपातयेत् ।
अन्यत्रपुत्राच्छिष्याद्वा शासनार्हाद्धिताशयः ॥

1.3.91

नृत्यवादित्रगीतादि नोल्बणामाचरेत् क्रियाम् ।
प्रसिद्धकेशवाग्वेषशमसान्त्वपरायणः ॥

1.3.92

ऊर्ध्वं नाभेः शरीरस्य स्पृशोन्ना ऽधरवाससा ।
न कुर्यान्मिथुनीभूय शौचं प्रति विलम्बनम् ॥

1.3.93

ना ऽसंवृतमुखो हास्यक्षवोत्गारविजृम्भणम् ।
पाणिद्वयेन युगपत् कण्डूयेन्नात्मनः शिरः ॥

1.3.94

वहेन्न भारं शिरसा युगपच्चाग्निवाहिणी ।
नासिकां न विकुष्णीयाद्दशनान्न विघट्टयेत् ॥

1.3.95

कुर्याद्विलेखनच्छेदभेदास्फोटनमर्दनम् ।
पादं पादेन ना ऽक्रामेन्न कण्डूयेन्न शौचयेत् ॥

1.3.96

न कांस्यभाजने तौ च नोपविष्टः प्रसाधयेत् ।
अभीक्ष्णं निर्मलान् दध्यान्नखपादमलाशयान् ॥

1.3.97

ना ऽसमिद्धमुपासीत हुताशं नैव चाशुचिः ।
ना ऽनुवातं न विवृतो न क्लान्तो ना ऽन्यमानसः ॥

1.3.98

धमेन्ना ऽस्येन न स्कन्देन्ना ऽधः कुर्यान्न पादतः ।
सततं न निरीक्षेत चलसूक्ष्माप्रियाणि च ॥

1.3.99

नाप्रशस्तं न विण्मूत्रं न दर्पणममार्जितम् ।
उद्यन्तमस्तमायान्तं तपन्तं प्रतिमागतम् ॥

1.3.100

उपरक्तं च भास्वन्तं वाससा वा तिरोहितम् ।
ना ऽन्यदप्यतितेजस्वि न क्रुद्धभ्य गुरोर्मुखम् ॥

1.3.101

स्त्रियं स्त्रवन्तीं नोदक्यां न नग्नां ना ऽन्यसङ्गताम् ।
न पत्नीं भोजनस्वप्नक्षुतजृम्भादुरासने ॥

1.3.102

शयीत नैकशयने न चाश्नीयास्तया सह ।
तामनीर्ष्यंश्च गोपायेत् स्वैरिणीं नाधिवासयेत् ॥

1.3.103

नोच्छिष्टस्तारकाराहुतुहिनाशुदिवाकरान् ।
पश्येन्न यायान्न पठेन्न स्वप्यान्न स्पृशेछिरः ॥

1.3.104

पाययन्तीं चरन्तीं वा नान्यस्मै गां निवेदयेत् ।
अर्केन्दुपरिवेषोल्काशतक्रतुधनूंषि च ॥

1.3.105

नान्यद्देवार्चने कर्म कुर्याद्धावेन्न वर्षति ।
तिथिं पक्षस्य न ब्रूयात् नक्षत्राणि न निर्दिशेत् ॥

1.3.106

नआत्मनो जन्मलग्नर्क्षधनसारं गृहे मलम् ।
प्रकाशयेन्नावमानं न च निःस्नेअतां प्रभोः ॥

1.3.107

पुरोवातातपरजस्तुषारपरुषानिलान् ।
अनृजुः क्षवथूद्रारकासस्वप्नान्नमैथुनम् ॥

1.3.108

सशब्दमलिनं हस्तभ्रूनेत्रोत्क्षेपवादिताम् ।
कूलच्छायां सुरापानं व्यालदंष्ट्रिविषाणिनः ॥

1.3.109

हीनानार्यातिनिपुणसेवां विग्रहमुत्तमैः ।
सन्ध्यास्वभ्यवहारस्त्रीस्वप्नाध्ययनचिन्तनम् ॥

1.3.110

आरोग्यजीवितैश्वर्यविद्यासु स्थिरमानिताम् ।
तोयाग्नि पूज्यमध्येन यानं धूमं शवाश्रयम् ॥

1.3.111

मद्यातिसक्तिं विस्त्रंभस्वातन्त्र्ये स्त्रीषु च त्यजेत् ।
नैकाहमप्यधिवसेद्वास्तु तच्छास्त्रगर्हितम् ॥

1.3.112

न देशं व्याधिबहुलं नावैद्यं नाप्यनायकम् ।
नाधर्मिजनभूयिष्ठं नोपसृष्टं न पर्वतम् ॥

1.3.113

वसेत् प्राज्याम्बुभैषज्यसमित् पुष्पतृणेन्धने ।
सुभिक्षक्षेमरम्यान्ते पण्डितैर्मण्डिते पुरे ॥

1.3.114

नरामराणां सिद्धानां शास्त्राणाञ्चाजुगुप्सकः ।
आधारकस्त्रिवर्गस्य यथायोग्यं जनस्य च ॥

1.3.115

दश कर्मपतान्रक्षन् जयन्नभ्यन्तरानरीन् ।
हिंसास्तेयान्यथाकामं पैशुन्यं परुषानृतम् ॥

1.3.116

संभिन्नलापं व्यापादमभिध्यां दृग्विपर्ययम् ।
पापं कर्मेतिदशधा कायवाङ्मानसैस्त्ययेत् ॥

1.3.117

परोपघातक्रियया वर्जयेदार्जनं श्रियः ।
अर्थानां धर्मलब्धानामदाता ऽपिह्यसम्भवात् ॥

1.3.118

स्वर्गापवर्गविभवानयत्नेनाधितिष्ठति ।
सायं भुक्त्वा लघु हितं समाहितमनाः शुचिः ॥

1.3.119

शास्तारमनुसंस्मृत्य स्वचर्यां चाथ संविशेत् ।
देशे शुचावनाकीर्णे द्वित्राप्तपरिचारकः ॥

1.3.120

युक्तोपधानं स्वास्तीर्णं विस्तीर्णाविषमं सुखम् ।
जानुतुल्यं मृदु शुभं सेवेत शयनासनम् ॥

1.3.121

प्राग्दक्षिणशिराः पादावकुर्वाणो गुरून् प्रति ।
पूर्वापरदिशो भागे धर्ममेवानुचिन्तयन् ॥

1.3.122

आददीत सदा देहादित्थं सारमसारतः ।
बिभ्यत् प्रतिक्षणं मृत्योरयथातथचेष्टितात् ॥

1.3.123

आरोग्यविभवप्रज्ञावयोधर्मक्रियावतः ।
सुखमायुर्हितं चोक्तं विपरीतं विपर्यये ॥

1.3.124

सर्वतेजोनिधानं हि नृप इत्युच्यते भुवि ।
अदूषयन्मनस्तस्मात् भक्तिमांस्तमुपाचरेत् ॥

1.3.125

पर्यस्तिकोपाश्रयकोपहासविवादनिष्ठीवनजृम्भणानि ।
सर्वाः प्रकृत्यभ्यधिकाश्च चेष्टास्तत्सन्निधाने परिवर्जयेत्तु ॥

1.3.126

सत्वाद्यवस्था विविधाश्च तास्ताः सम्यक् समीक्ष्यात्महितं विदध्यात् ।
अन्यो ऽपि यः कश्चिदिहा ऽस्ति मार्गो हितोपदेशेषु भजेत तं च ॥

1.3.127

इति चरितमुपेतः सर्वजीवोपजीव्यं प्रथितपृथुगुणौधो रक्षितो देवताभिः ।
समधिकशतजीवी निर्वृतः पुण्यकर्मा व्रजति सुगतिनिम्नो देहभेदे ऽपि तुष्टिम् ॥

मूल पाठ: Aṣṭāṅgasaṃgraha · Edition: e-text by SARIT · SARIT: Search and Retrieval of Indic Texts · SARIT (e-text) via Internet Archive · CC BY-SA 3.0

Esc