भाषा

ENहिગુ
ग्रंथ पाठ

अष्टाङ्गसंग्रह · अध्याय 1.2

1.2.1

अथातः शिष्योपनयनीयमध्यायं व्याख्यास्यामः ।
इति ह स्माहुरात्रेयादयो महर्षयः ॥

1.2.2

गुरुभक्तो ऽभियुक्तो ऽतियुक्तो धीस्मृतिपाटवैः ।
ऋज्वास्यनासानयनस्तनुस्निग्धनखच्छविः ॥

1.2.3

ब्रह्मचारी जितद्वन्द्वो धीरः सुचरितः स्थिरः ।
षण्मासानुषितः शक्लो लज्जाशौचकुलान्वितः ॥

1.2.4

शिष्यो ऽध्याप्यो गतो यावदन्तं तन्त्रार्थकर्मणाम् ।
ना ऽकालविद्युत्स्तनिते भूकम्पे राहुदर्शने ॥

1.2.5

पञ्चदश्यामचन्द्रायां परोक्षे वा गुरोः पठेत् ।
नातिच्छिन्नपदं नातिमन्दं नात्युच्चनीचकैः ॥

1.2.6

हीनान्यवेष आचार्यं पर्युपासीत राजवत् ।
शयीत सुप्त एवास्मिन्नुत्तिष्ठेतास्य पूर्वतः ॥

1.2.7

न ब्रूयात् केवलं नाम ना ऽसाध्वपि विनाटयेत् ।
अभेद्यो ऽनुद्धतः स्तब्धः सूनृतः प्रियदर्शनः ॥

1.2.8

बहुश्रुतः कालवेदी ज्ञातग्रन्थो ऽर्थशास्त्रवित् ।
अनाथान् रोगिणो यश्च पुत्रवत् समुपाचरेत् ॥

1.2.9

गुरुणा समनुज्ञातः स भिषक्छब्दमश्नुते ।
यस्तु केवलशास्त्रज्ञः कर्मस्वपरिनिष्ठितः ॥

1.2.10

स मुह्यत्यातुरं प्राप्य प्राप्य भीरुरिवाहवम् ।
यः पुनः कुरुते कर्म धार्ष्ट्याच्छास्त्रविवर्ज्जितः ॥

1.2.11

स सत्सु गर्हामाप्नेति वधं चर्च्छति राजतः ।
हेतौ लिङ्गे प्रशमने रोगाणामपुनर्भवे ॥

1.2.12

ज्ञानं चतुर्विधं यस्य स राजार्हो भिषक्तमः ।
शस्त्रं शास्त्राणि सलिलं गुणदोषप्रवृत्तये ॥

1.2.13

पात्रापेक्षीण्यतः प्रज्ञां बाहुश्रुत्येन बृंहयेत् ।
प्रदीपभूतं शास्त्रं हि दर्शनं विपुला मतिः ॥

1.2.14

ताभ्यां भिषक् सुयुक्ताभ्यां चिकित्सन्नापराध्यति ।
आहूत एव यो याति सुवेषः सुनिमित्ततः ॥

1.2.15

गत्वा ऽतुरार्थादन्यत्र न निधत्ते मनः क्वचित् ।
व्याधीन् परीक्षते सम्यङ्निदानादिविशेषतः ॥

1.2.16

ह्रेपणीयां च तद्वाअर्त्तां न प्रकाशयते बहिः ।
सहसा न च तस्यापि क्रियाकालमहापयन् ॥

1.2.17

जानाति चोपचरितुं स वैद्यः सिद्धिमश्नुते ।
नाददीता ऽमिषं स्त्रीभ्यस्तदध्यक्षे पराङ्मुखे ॥

1.2.18

ताभिश्च रहसि स्थानं परिहासं च वर्जयेत् ।
आर्त्तं च नृपसद्वैद्यैर्द्विष्टं तद्वेषिणं द्विषम् ॥

1.2.19

चण्डं शोकातुरं भीरुं कृतघ्नं वैद्यमानिनम् ।
हीनोपकरणं व्यग्रमविधेयं गतायुषम् ॥

1.2.20

जिजीविषुर्व्याधितो ऽपि पूर्वोक्तगुणवर्जितान् ।
क्रियाविक्रयिणो वैद्यान् मृत्योरग्रेसरा हि ते ॥

1.2.21

भिषग्द्रव्याण्युपस्थाता रोगी पादचतुष्टयम् ।
चिकित्सितस्य निर्दिष्टं प्रत्येकं तच्चतुर्गुणम् ॥

1.2.22

दक्षस्तीर्थात्तशास्त्रार्थो दृष्टकर्मा शुचिर्भिषक् ।
बहुकल्पं बहुगुणं सम्पन्नं योग्यमौषधम् ॥

1.2.23

अनुरक्तः शुचिर्दक्षो बुद्धिमान् परिचारकः ।
आढ्यो रोगी भिषग्वश्यो ज्ञापकः सत्ववानपि ॥

1.2.24

यद्वैद्ये विगुणे पादा गुणवन्तो ऽप्यनर्थकाः ।
स पादहीनानप्यार्तान् गुणवान् यच्च यापयेत् ॥

1.2.25

चिकित्सायास्तमेवातः प्रधानं कारणं विदुः ।
साध्यो ऽसाध्य इति व्याधिर्द्विधा तौ तु पुनर्द्विधा ॥

1.2.26

सुसाध्यः कृच्छ्रसाध्यश्च याप्यो यश्चानुपक्रमः ।
सर्वौषधमे देहे यूनः पुंसो जितात्मनः ॥

1.2.27

अमर्मगो ऽल्पहेत्वग्ररूपरूपो ऽनुपद्रवः ।
अतुल्यदूष्यदेशर्तुप्रकृतिः पादसम्पदि ॥

1.2.28

ग्रहेष्वनुगुणेष्वेकदोषमार्गो नवः सुखः ।
सुखसाध्यः सुखोपायः कालेनाल्पेन साध्यते ॥

1.2.29

कृच्छ्रैरुपायैः कृच्छ्रस्तु महद्भिश्च चिरेण च ।
असाध्यलिङ्गसङ्कीर्णस्तथा शस्त्रादिसाधनः ॥

1.2.30

शेषत्वादायुषः पथ्यैर्याप्यः प्रायो विपर्यये ।
दत्वा ऽल्पं सुखमल्पेन हेतुना स प्रतन्यते ॥

1.2.31

याति नाशेषतां रोगः कर्मणो नियतायुषः ।
प्रपतन्निव विष्कम्भैर्धार्यते ऽत्रातुरो हितैः ॥

1.2.32

परो ऽसाध्यः क्रियाः सर्वाः प्रत्याख्येयो ऽतिवर्तते ।
तस्मादुपेक्ष्य एवासौ स्थितो ऽत्यन्तविपर्यये ॥

1.2.33

भ्रममोहारतिकरो दृष्टरिष्टो ऽक्षनाशनः ।
व्याधीन् पुरा परीक्ष्यैवमारभेत ततः क्रियाम् ॥

1.2.34

स्वार्थविद्यायशोहानिमन्यथा ध्रुवमाप्नुयात् ।
साध्ययोरपि संयोगो बलिनोर्यात्यसाध्यताम् ॥

1.2.35

विद्यादसाध्यमेवातः साध्यासाध्यसमागमम् ।
नासाध्यः साध्यतां याति साध्यो यातित्वसाध्यताम् ॥

1.2.36

पादापचाराद्दैवाच्च यान्त्यवस्थान्तरं गदाः ।
वरमाशीविषविषं दीप्तमग्निमयो ऽपि वा ॥

1.2.37

उपयुञ्जीत न त्वार्त्तादामिषं कृपणाज्जनात् ।
वरो भूतदया धर्म इत्यार्त्तेषु भिषग्वरः ॥

1.2.38

वर्त्तते यस्तु सिद्धार्थः स सर्वमतिवर्त्तते ॥

मूल पाठ: Aṣṭāṅgasaṃgraha · Edition: e-text by SARIT · SARIT: Search and Retrieval of Indic Texts · SARIT (e-text) via Internet Archive · CC BY-SA 3.0

Esc