भाषा

ENहिગુ
ग्रंथ पाठ

अष्टाङ्गसंग्रह · अध्याय 1.28

1.28.1

अथातो बस्तिविधिं नामाध्यायं व्याख्यास्यामः ।
इति ह स्माहुरात्रेयादयो महर्षयः ॥

1.28.2

बस्तिरनिलप्रधानेषु दोषेषु प्रयुज्यते ।
बस्तिना दीयते बस्तिं वा पूर्वमन्वेत्यतो बस्तिः ॥

1.28.3

स च सर्वोपक्रमाणां प्रधानतमः शीघ्रं बृंहणादिकारित्वाद्विकृतानिलोच्छेदित्वाच्च ॥

1.28.4

अनिलो हि दोषाणां नेता ।
सर्वशरीरचेष्टैककारणम् ।
पञ्चात्मतया अङ्गप्रत्यङ्गव्यापी ।
विधाता विविधबाह्याध्यात्मिकभावानां सर्गस्थितिप्रलयानां हेतुः मार्गत्रयजानामपि रोगाणामिति ॥

1.28.5

सुखत्वादेव च बस्तिर्बालवृद्धकृशस्थूलक्षीणधात्विन्द्रियेषु च स्त्रीषु चानिलोपसर्गादप्रजासु कृच्छ्रप्रजासुचोपदिश्यते ।
तथाग्निबलवर्णमेधास्वरायुःसुखप्रदो वयःस्थापनः पङ्गूरुस्तम्भभग्नसङ्कुचितानिलाध्मानशूलारोचकोदावर्तपरिकर्तिकादिषु हित इति ॥

1.28.6

स तु बस्तिस्त्रिविधः ।
आस्थापनमनुवासनमुत्तरबस्तिश्च ।
तत्रास्थापनं दोषदूष्याद्यनुसारेण नानाद्रव्यसंयोगादिनिर्वृत्तम् ।
तस्य भेदाः ।
उत्क्लेशनं संशोधनं संशमनं लेखनं बृंहणं वाजीकरणं पिच्छाबस्तिर्माधुतैलिकमित्यादयः ।
माधुतैलिकस्य पर्यायाः यापनो युक्तरथो दोषहरः स्निग्धबसतिरिति ।
तेषां नामभिरेव स्वरूपमाख्यातम् ॥

1.28.7

तद्वयःस्थापनाद्दोषस्थापनाद्वास्थापनमित्युच्यते शरीरारोहणाद्दोषनिर्हरणादचिन्त्यप्रभावतया यस्मिन्नूहासम्भवान्निरूह इति ॥

1.28.8

अनुवासनं यथार्हौषधसिद्धः स्नेहनार्थः स्नेहः स्नेहविधौ स चतुर्धाभिहितः ।
तस्य भेदो मात्राबस्तिः ।
स पेयस्नेहह्रस्वमात्रातुल्यः ॥

1.28.9

सेव्यः सदा च माधुतैलिकवत् ।
बालवृद्धाध्वभारयानव्यायामचिन्तास्त्रीनित्यस्त्रीनृपेश्वरसुकुमारदुर्बलानिलभग्नाल्पाग्निभिर्निष्परिहारतया सुखो बल्यो वर्ण्यः सृष्टमलो दोषघ्नश्च तथापि तौ नाजीर्णे योज्यौ न च दिवास्वप्नः सेव्यः ।
यतश्च सो ऽन्नमनुवसन्नपि न दुष्यत्यनुवासरमपि वा दीयत इत्यनुवासनम् ॥

1.28.10

उत्तरबस्तिरपि स्नेहोनुवासनवच्छोधनं निरूहवदपि केचिदाहुः स निरूहादुत्तरमुत्तरेण वा मार्गेण दीयत इत्युत्तरबस्तिः ॥

1.28.11

तत्रास्थाप्या गुल्मप्लीहानाहशूलशुद्धातीसारजीर्णज्वरप्रतिश्यायाढ्यरोगहृदयकुक्षिपार्श्वग्रहपर्वाभितापपार्श्वयोनिशूलाङ्गसुप्तिशोषकम्पगौरवातिलाघवान्त्रकूजनवातवर्चोमूत्रशुक्रसङ्गाश्मरीशर्करावृद्धिशुक्रार्तवस्तन्यनाशरजःक्षयोन्मादरेतोदोषक्रिमिणकोष्ठविषमाग्निसशब्दाल्पाल्पोग्रगन्धोत्थानादयो दोषभेदीयोक्ताश्च वातव्याधयो विशेषेणैते हि परं बस्तिना नाशमुपयान्ति मूलच्छेदेन वृक्षवत् ॥

1.28.12

अनास्थाप्यास्त्वतिस्निग्धोत्क्लिष्टदोषक्षतोरस्कातिकृशा निरन्नाः कृतवमनविरेचननस्यप्रसक्तच्छर्दिनिष्ठीविकाकासश्वासहिक्कार्शोबद्धच्छिद्रदकादेराध्मानालसकविषूचिकामातीसारारोचकाल्पाग्निगुदशोफकुष्ठमधुमेहार्ताः ।
गर्भिणी चाप्रवृत्ताष्टममासा ।
तत्रातिस्निग्धोत्क्लिष्टदोषयोर्दोषानुक्लेश्योदरं मूर्च्छां श्वयथुं वा निरूहो जनयेत् ।
क्षतोरस्कस्यातिकृशस्य च क्षोभमापन्नः शरीरमाशु पीडयेत् ।
अनिरन्नस्य वक्ष्यते ।
कृतवमनविरेकयोस्तु रिक्तं देहं क्षतं क्षार इव दहेत् ।
स्नेहबस्तिस्तु सद्यो ऽग्निमवसाद्य श्लेष्मामयाय स्यात् ॥

1.28.13

कृतनस्यस्याम्यविभ्रंशं विऋव्तोध्वस्रोतस्तया कुर्यात् ।
अनुवासनं तु दोषोत्क्लेशम् ।
प्रसक्तच्छर्द्यादीनां वायुर्निरूहमूर्ध्वं नयेत् ।
अनुवासनं च ।
अर्शसस्यावृतमार्गत्वादनागच्छन्बस्तिः प्राणान् हिंस्यात् ।
स्नेहः पुनरर्शांस्यभिष्यन्द्याध्मानाय स्यात् ।
बद्धोदराद्याध्मानान्तानां भृशतरमाध्मानान्मृत्युः ।
अलसकार्तादीनां चामदोषात् ।
अरोचकार्तादीनां यथास्वमामयवृद्धिः ।
गर्भिण्याः पूर्वोक्तो दोषः ॥

1.28.14

य एवास्थाप्यास्त एवानुवास्याः ।
रूक्सातिदीप्ताग्रयः केवलानिलार्ताश्च विशेषेण ।
एते परमनुवास नेनाप्याय्यन्ते ।
मूलसेकेन वृक्षवत् ।
य एवानास्थाप्यास्त एवाननुवास्याः ।
तथा निरन्ननवज्वरपाण्डुरोगकामलाप्रमेहप्रतिश्यायप्लीहकफोदराढ्यवातवर्चोभेदार्तपीतविषगरपित्तकफाभिष्यन्दगुरुकोष्ठातिस्थूलश्लीपदगलगण्डापचीक्रिमिणकोष्ठाः ।
तत्रातिस्निग्धादीनां यथास्वमुक्ताः पृथग्दोषाः ।
अपि च ॥

1.28.15

अभुक्ते रिक्तकोष्ठस्य प्रयुक्तमनुवासनम् ।
सरदूरगसूक्ष्मत्वैः क्षिप्रमूर्ध्वं प्रपद्यते ॥

1.28.16

तेन वायोर्जयो न स्याद्वातस्थाने ह्यतिष्ठता ।
कायाग्नेराशु नाशश्च विशेषादनिवर्तनात् ॥

1.28.17

स्नेहःसद्योशिताहाररुद्धे त्वामाशये ऽनिलम् ।
पक्वस्थं हन्ति पक्वस्थश्च्यवते चान्नपाकतः ॥

1.28.18

निरूहश्च समीरश्च तीक्ष्णवेगावुभावपि ।
तावन्नमूर्च्छितौ तीक्ष्णावधो ऽन्नेन सहागतौ ॥

1.28.19

ऊर्ध्वं वा शकृता सार्द्धं संस्थितौ कोष्ठ एव वा ।
समलाहारविष्टब्धौ हरेतामाशु जीवितम् ॥

1.28.20

भुक्तवाननुवास्यो ऽस्मान्न निरूह्यस्तु भुक्तवान् ।
पाण्डुरोगार्तादीनां दोषानुत्क्लेश्य स्नेहबस्तिरुदरं जनयेत् ।
प्रैश्यायादिमतां भूय एव दोषं वर्धयेत् ॥

1.28.21

तयोस्तु नेत्रं सुवर्णादिधातुमणिशङ्खशृङ्गदन्तास्थिवेणुनलखदिरकदरतिनिशतिन्दुकादिदारुसारमयमृज्वककशं गोपुच्छाकृतिगुलिकामुखमूनवर्षवार्षिकसप्तद्वादशषोडशवर्षाणां विंशतिप्रभृतिषु च क्रमात् पञ्चषट्सप्ताष्टनवद्वादशाङ्गुलप्रमाणम् ।
मूले ऽग्रे चातुराङ्गुष्ठकनिष्ठिकापरिणाहमर्धाग्गुलात् प्रभृत्यर्धाङ्गुलप्रवृद्धत्र्यङ्गुलपर्यन्तप्रवेशमूलच्छिद्रम् वनमुद्गमुद्गमाषकलायक्लिन्नकलायर्ककन्धुवाह्यग्रच्छिद्रम् मूलछिद्रप्रमाणाङ्गुलैरग्रे यथास्वं सन्निविष्टकर्णिकं कर्णिकान्तःप्रतिबद्धसूत्रान्तर्गृहीताग्रपिधानघनचैलवर्ति ।
मूले द्व्यङ्गुलान्तराले कर्णिकाद्वयं कारयेत् ।
वर्षान्तरेषु च वयोबलशरीराण्यवेक्ष्य नेत्रप्रमाणमुत्कर्षयेत् ॥

1.28.22

ततोजाविवराहहरिणगोमहिषान्यतमजं स्नेहमुद्गविमृदितं विगतच्छिद्रसिराग्रन्थिस्कन्धं नातिवर्तुलं मृदु दृढं कषायरक्तं सुखसंस्थाप्यौषधप्रमाण न्युब्जं विवृताननं निवेश्य बस्तिं कर्णकयोर्दृढेन सूत्रेण घनं समं च बध्वा परिवर्त्त्य पुनश्चान्यद्वस्तिमुखबन्धनार्थं सूत्रमुपधायानुगुप्तं निधापयेत् ॥

1.28.23

बस्त्यभावे प्लवनीच्छागलाङ्कपादमधूच्छिष्टोपदिग्धघनसूक्ष्मतान्तवान्यतमं निवेशयेत् ॥

1.28.24

आस्थापनमात्रा तु प्रथमे वर्षे प्रकुञ्चः ।
ततः परं प्रतिवर्षं प्रकुञ्चमभिवर्धयेदाषट्प्रसृतात् ।
ततश्चोर्ध्वं प्रसृताभिवृद्धिः ।
प्राप्तानतीताष्टादशसप्ततेस्तु द्वादश प्रसृताः ।
परं चातो दशैव ।
अन्ये पुनर्द्वादशप्रसृतस्याप्यष्टाविच्छन्ति ॥

1.28.25

यथास्वमास्थापनमात्रा पादहीना माधुतैलिके प्रयोज्या ।
अनुवासने स्वेवमेवास्थापनस्य पाद इति ॥

1.28.26

अथास्थापनीयमातुरं स्नेहस्वेदोपपन्नं कृतवमनविरेकमासेवितपेयादिसंसर्गक्रममुपजातबलमनुवासनार्हं पूर्वमेवानुवासयेत् ।
शीतवसन्तयोर्दिवा अन्यथा रात्राववेक्ष्य वा दोषादीन् ।
अन्यथा हि स्हेहोक्तामयप्रादुर्भावः ॥

1.28.27

धन्वन्तरीयाः पुनराहः ।
न रात्रौ प्रणयेद्बस्तिं स्नेहोत्क्लेशो हि रात्रिजः ।
अह्नि स्थानस्थिते दोषे वह्नौचन्नरसान्विते ॥

1.28.28

स्फुटस्रोतोमुखं देहं स्नेहो यत् परिसर्पति ।
अल्पपित्तकफं रूक्षं भृशं वातरुजार्दितम् ॥

1.28.29

भुक्तं जीर्णाशनं कामं रात्रावप्यनुवासयेत् ।
केवलानिलनिपीडितं त्वशुद्धमप्यनिरूपितबलं चाप्यनुवासयेदात्ययिकत्वात् व्याधेः ।
तस्य विधिर्वमनादधिकतरं कृतमङ्गलमनुसुखमभ्यक्तमुष्णाम्बुस्नातं युक्तस्नेहमुचितात् पादहीनं द्रवपूर्वं लघूष्णं सानुपानमशनमशितवन्तं कृतचङ्क्रमणमुत्सृष्टविण्मूत्रमशनार्द्रहस्तमशङ्कनीयपरिचारकं निवाते वेश्मनि प्रतत शयने नात्युच्छ्रिते स्वास्तृते ईषदुन्नमितपाददेशे वामपाश्वन प्राक्शिरसं संवेशयेत् ।
अतिस्निग्धाशिनो ह्युभयमार्गसंसर्गात् स्नेहो मदमूर्च्छाग्निसादहृल्लासान् जनयति ।
रूक्षाशिनो विष्टम्भं बलवर्णहानिं वा ।
अल्पमात्रद्रवाशिनो विसृष्टविण्मूत्रस्य चानावृतेन तदावृतात् व्यापदम् ।
चिरमशितवतो विदाहाभिमुखभक्तस्य ज्वरं कुर्यात् ।
यतश्च वामपार्श्वाश्रयाणि वह्निग्रहणीगुदवलामुखानि तानि तत्पार्श्वशायिनो निम्नानि भवन्त्यतस्तदौषधमस्खलितमाप्नोति प्रवेशनिर्गमाविति ।
संविष्टं चैनमृजुस्थितदेहं स्वबाहूपधानं प्रसारितवामसक्थिमाकुञ्चितेतरं तस्यैव चोपरिप्रसारितदाक्षणबाहुं कारयेत् ॥

1.28.30

पूर्वमेव तु वैद्यो वर्त्त्या सुपिहिताग्रच्छिद्रं नेत्रं भाजनस्योपरि कृत्वा दक्षिणपादाङ्गुष्ठाङ्गुलीभ्यां कर्णिकाया उपरिष्टान्निष्पीड्याविबन्धाय शताह्वासैन्धवचूर्णावचूर्णितं प्रगेव नेत्रस्पर्शात् पूर्ववदाभिमन्त्रितं यथार्हं यथार्हौषधाविपक्व सुखोष्णं बस्तौ स्नेहमासिच्यावलीकोच्छ्वासं निस्सारितवातबुद्बुदमौषधान्ते सूत्रेण द्विस्त्रिर्वा बस्तिमुखमावेष्ट्य दक्षिणपाणौ नेत्रमुपरिधाय तिष्ठेत् ।
ततो घृताभ्यक्ते पायौ वामहस्तप्रदेशिन्याभ्यक्तप्रवेशप्रदेशमपनीतवर्त्युत्तानवामहस्ताङ्गुष्ठोदरपिहिताग्रं मध्यमाप्रदेशिन्युपगृहीतकर्णिकमृज्वनुपृष्ठवंशमनुसुखमेकमना लाघवेन निष्कम्पमद्रुतमविलम्बितं नेत्रमाकर्णिकं प्रवेशयेत् ।
आतुरो ऽपि तदनुलोमयन्नवलम्बेत ।
ततश्च वैद्यो बस्तिमुखं दक्षिणहस्ताङ्गुष्ठप्रदोशिनीभ्याममुञ्चन्नेत्रमचालयन् हस्तद्वयेनोत्तानेनैकग्रहणेनैवानिलाधिष्ठानभूतं किञ्चिदवशेषयन् शनैश्शनैरवेगमनुपीडयेत् ।
अन्यथा हि व्यापदो भवन्ति ।
ताः ससाधनाः सिद्धिषु वक्ष्यन्ते ॥

1.28.31

अन्ये तु त्रिंशन्मात्राः पीडनकालमाहुः ।
न च बस्तौ दीयमाने क्षवकासहासजृम्भास्पन्दनान्याचरेत् ।
विण्मूत्रानिलवेगे तु नेत्रमाकृष्य वेगान्ते शेषं प्रणयेत् ।
अन्ते चोत्तानस्य स्थिजौ पाणितलेन त्रिचतुरो वारांस्ताडयेत् ।
तथा तत्पार्ष्णिभ्याम् ।
पादतश्च शय्यां त्रिरुत्क्षिपेत् ।
सोपधानस्य च प्रसारितसर्वाङ्गस्य पार्ष्णिके मुष्टिना हन्यात् ।
तथा पार्ष्ण्यङ्गुलिपादतलपिण्डिकाः ।
सरुजं चाङ्गं स्नेहेन प्रतिलोमं वाक्शतमात्रं शनैर्विमृद्नीयात् ।
एवमाशु स्नेहो न निवर्तते ।
समनुगच्छति चासमन्तात्सिराः ।
ततः परं तु स्नेहोक्तमाचार्मनुवर्तते ॥

1.28.32

दीप्तानिं च सायं लघ्वन्नं भोजयेत् ।
नैव चानागतस्नेहं द्वितीये ऽहनि ।
न च तमनुवासयेत् ।
आगमनकालस्तु परो यामत्रयम् ।
ततः परमनागच्छन्तमहोरात्रमुपेक्षेत ।
तदाप्यनिवर्तमाने फलवर्तिभिर्लवणारनालप्रायैर्वा तीक्ष्णबस्तिभिः शोधयेत् ।
स्नेहव्यापत्सिद्धिं चावेक्षेत ।
अतिरौक्ष्यादनागच्छन्नचेज्जाड्याद्युपद्रवाय् स्यात् तथाप्युपेक्ष्यः ।
शीघ्रनिवृत्ते तु विना मलेन केवले स्नेह स्नेहमन्यं पुनर्योजयेत् ।
न ह्यसावतिष्ठन् कार्यकरो भवति ।
सुखोषितं चैनं तथाकृतवमनविरेकास्थापनान्यतमं प्रायः शुण्ठीधान्यक्वाथमितरच्चोष्णोदकं वा स्नेहशेषजरणाय वातकफोपशान्तये च पाययेत् ॥

1.28.33

ततो ऽन्नकाले यथोक्तमन्नमश्नीयात् ।
न चानुवासितं पेयां पाययेत् ।
सा हि सस्नेहकोष्ठमेनमभिष्यन्दयति ।
पुनश्च तृतीये ऽहन्यनुवासयेत् पञ्चमे वा ।
यदा वा स्नेहपक्तिः स्यादतश्च दाप्ताग्निरूक्षवातोल्बणव्यायामनित्यान् प्रत्यहम् ।
एवममुना क्रमेण दोषाद्यनुसारतस्त्रिचतुरैः स्नेहबस्तिभिरुपस्निग्धं शोधनेनास्थापनेन स्रोतोविशुद्ध्यर्थमास्थापयेत् ।
वाताधिक्यादस्निग्धं तु स्नेहनेन ॥

1.28.34

अथैनं तृतीये पञ्चमे वाहनि किञ्चिदावृत्ते माध्याह्ने कृतमङ्गलस्वस्त्ययनमभ्यक्तदेहं स्वेदितमुत्सृष्टमलमनाशितं नातिक्षुधितमवेक्ष्यातुरमार्यावलोकितं नाथमार्यतारामात्मभुवं धातारमश्विनाविन्द्रमात्रेयं सप्तर्षीन् काशिराजं विदेहपतिप्रभृतीनग्निवेशादींश्च तन्त्रकारान् दीपगन्धफलबलिधूर्पैर्यज्ञ इव प्रकल्पितभागान् कृत्वौषधीवृद्धवैद्यद्विजातींश्च संपूज्य तद्विद्यसहितो दोषौषधादिबलेन यथार्हमुपकल्पयेद्वस्तिम् ॥

1.28.35

तत्र विंशतिमात्राणि पलान्यौषधानां मदनफलाष्टकं च क्वाथकल्पेन विपचेत् ।
क्वाथाच्चतुर्थांशां स्नेहमनिले षष्ठांशं पित्ते स्वस्थवृत्ते चाष्टमांशं तु कफे ।
सर्वस्य चाष्टमांशं कल्कस्य स्याद्यावता नात्यच्छसान्द्रता भेवेत् ।
गुडस्य पलं युक्त्या मधुसैन्धवे यथायोग्यं च शेषाणि कल्पयेत् ॥

1.28.36

सर्वाणि चैकध्यमुष्णोदककुम्भीबाष्पाभितप्तानि खजमथितानि बस्तौ प्रक्षिप्यानुवासनवन्निरूहं प्रणयेत् ।
नात्युष्णशीतं नातिमृदुतीक्ष्णं नातिस्निग्धरूक्षं नातितनुसान्द्रं न हीनातिमात्रं नालवणातिलवणं नात्यम्लं च ।
तत्र बाष्पमात्रानुतापादौषधस्य विदाहो न भवति ।
खजप्रमथनात्तु क्वाथस्नेहादयः सम्यक् सम्प्रयुक्ताः सम्यगेव योगमारभन्ते ।
अन्यथा पुनः क्वाथादीनामुल्बणोन्यतमं यथास्वं दोषमीरयेत् ।
अत्युष्णादीनां तु पृथग्व्यापदः साधनानि च सिद्धिषूत्तरकालमुपदेक्ष्यन्ते ॥

1.28.37

अपि च ।
तिर्यक्प्रणीते हि न याति धारा गुदे व्रणः स्याच्चलिते च नेत्रे ।
दत्तः शनैर्नाशयमेति बस्तिः कण्ठं प्रधावेदतिपीडितस्तु ॥

1.28.38

स्तम्भं विधत्ते ऽतिमृदुर्हिमश्च तप्ताम्लतीक्ष्णो भ्रमदाहमोहान् ।
स्निग्धो ऽतिजाड्यं पवनं तु रूक्षस्तन्वल्पमात्रालवणस्त्वयोगम् ॥

1.28.39

करोति मात्राभ्यधिको ऽतियोगं क्षोभ तु सान्द्रः सुचिरेण चैति ।
दाहातिसारौ लवणो ऽति कुर्यात्तस्मात्सुयुक्तं सममेव दह्यात् ॥

1.28.40

मात्रां त्रिपलिकां कुर्यात् स्नेहमाक्षिकयोः पृथक् ।
कर्षार्धं माणिमन्थस्य स्वस्थे कल्कपलद्वयम् ॥

1.28.41

सर्वद्रवाणां शेषाणां पलानि दश कल्पयेत् ।
माक्षिकं लवणं स्नेहं कल्कं क्वाथमिति क्रमात् ॥

1.28.42

आवपेत निरूहाणामेष संयोजने विधिः ॥

1.28.43

दत्तमात्रे तूत्तानः सोपधानो निरूहवीर्येण देहव्याप्तये तन्मनास्थिष्ठेत् ।
उदीर्णवेगश्चोत्कुटिको विसृजेत् ।
आगमनकालस्तु परो मुहूर्तः ।
तदा ह्यनागच्छन्नाशु मृत्यवे स्यात् ।
अतस्तत्रानुलोमिकं स्नेहक्षारमूत्राम्लं स्निग्धतीक्ष्णोष्णमन्यं प्रयोजयेत् ।
फलवर्तिस्वेदभयोत्त्रासादींश्च ।
बस्तिव्यापत्सिद्धिं चावेक्षेत ॥

1.28.44

स्वयं निवृत्ते तु पूर्ववद् द्वितीयं तृतीयं चतुर्थं च दद्याद्यावद्वा सुनिरूढः स्यात् ॥

1.28.45

तत्राद्यो ऽनिलं स्वमार्गादपकर्षति ।
द्वितीयः पित्तम् ।
तृतीयः श्लेष्माणमिति ॥

1.28.46

तस्य हीनसम्यगतियोगास्तु विरिक्तवत् ।
सम्यङ्निरूढं तु कोष्णसलिलावसिक्तं तनुना जाङ्गलरसेन भोजयेत् ।
स्नाताशितस्यास्य चला दोषशेषाः स्वस्थानमाश्रयन्ते ॥

1.28.47

ततः पुनर्वातार्तमातुरं बृंहणीयमन्यं वा तद्विधमशितानन्तरं सायं वा पुनरल्पलघ्वशितं यथास्वमलिलादिषु दशमूलादिसाधितेन तैलेनानुवासयेत् ।
तस्य हीनसम्यगतियोगाः स्नेहपीतवत् ॥

1.28.48

विशेषस्तु सम्यगनुवासिते किञ्चित्कालं स्थित्वा स्नेहः सपुरीषोनिलानुगतः प्रवर्तत इति ।
भवति चात्र ॥

1.28.49

एवं कफे स्नेहबस्तिमेकं त्रीन् वा प्रयोजयेत् ।
प्ञ्च वा सप्त वा पित्ते नवैकादश वानिले ॥

1.28.50

पुनस्ततोप्ययुग्मांस्तु पुनरास्थापनं ततः ।
कफपित्तानिलेष्वन्नं यूषक्षीररसैः क्रमात् ।

1.28.51

वातघ्नौषधनिष्क्वाथत्रिवृतासैन्धवैर्युतः ।
बस्तिरेको ऽनिले स्निग्धः स्वाद्वम्लोष्णो रसान्वितः ॥

1.28.52

ग्यग्रोधादिगणक्वाथपद्मकादिसितायुतौ ।
पित्ते स्वादुहिमौ साज्यक्षीरेक्षुरसमाक्षिकौ ॥

1.28.53

आरग्वधादिनिष्क्वाथवत्सकादियुतास्त्रयः ।
रूक्षाः सक्षौद्रगोमूत्रास्तीक्ष्णोष्णकटुकाः कफे ॥

1.28.54

त्रयश्च सन्निपाते ऽपि दोषान् घ्नन्ति यतः क्रमात् ।
नाचार्यचरकस्यातो बस्तिस्त्रिभ्यः परं मतः ।
न हि दोषश्चतुर्थो ऽस्ति पुनर्दीयेत यं प्रति ॥

1.28.55

उत्क्लेशनं शुद्धिकरं दोषाणां शमनं क्रमात् ।
त्रिधैव कल्पयेद्बस्तिमित्यन्ये ऽपि प्रचक्षते ।
दोषौषधादिबलतः सर्वमेतत् प्रमाणयेत् ॥

1.28.56

सम्यङ्निरूढलिङ्गं तु नासंभाव्य निवर्तयेत् ॥

1.28.57

प्राक्स्नेह एकः पञ्चान्ते द्वादशास्थापनानि च ।
सान्वासनानि कर्मैवं बस्तयस्त्रिंशदीरिताः ॥

1.28.58

कालः पञ्चदशैकोत्र प्राक्स्नेहो ऽन्ते त्रयस्तथा ॥

1.28.59

षट् पञ्च बस्त्यन्तारताः योगोष्टौ बस्तयो ऽत्र तु ।
त्रयो निरूहाः स्नेहाश्च स्नेहावाद्यन्तयोरुमौ ॥

1.28.60

स्नेहबस्तिं निरूहं वा नैकमेवातिशीलयेत् ।
उत्क्लेशाग्निवधौ स्नेहान्निरूहान्मरुतो भयम् ॥

1.28.61

तस्मान्निरूढः स्नेह्यः स्यान्निरूह्यश्चानुवासितः ।
स्नेहशोधनयुक्त्यैवं बस्तिकर्म त्रिदोषजित् ॥

1.28.62

अष्टादशाष्टादशकान् बस्तीनां यो निषेवते ।
विधिना ना यथोक्तेन स भवेदजरो ऽरुजः ॥

1.28.63

सहस्रायुः श्रुतधरो वीतपाप्मामरप्रभः ।
वाजिस्यदो नागबलः स्थिरबुद्धीन्द्रियानलः ॥

1.28.64

बस्तौ रोगेषु नारीणां योनिगर्भाशयेषु च ।
द्वित्रास्थापनशुद्धेभ्यो विदध्याद्वस्तिमुत्तरम् ॥

1.28.65

आतुराङ्गुलमानेन तन्नेत्रं द्वादशाङ्गुलम् ।
वृत्तं गोपुच्छवन्मूलमध्ययोः कृतकर्णिकम् ॥

1.28.66

सिद्धार्थकर्पवेशाग्रं श्लक्ष्णं हेमादिसम्भवम् ।
कुन्दाश्वमारसुमनःपुष्पवृन्तोपमं दृढम् ॥

1.28.67

तस्य बस्तिर्मृदुलघुर्मात्रा शुक्तिर्विकल्प्य वा ॥

1.28.68

अथ स्नाताशितस्यास्य स्नेहब्स्तिविधानतः ।
ऋजोः सुखोपविष्टस्य पीठे जानुसमे मृदौ ॥

1.28.69

हृष्टे मेढ्रे स्थिते चर्ज्जु शनैः स्रोतोविशुद्धये ।
मालतीपुष्पवृन्ताग्रपरिणाहां घनामृजुम् ॥

1.28.70

श्लक्ष्णां शलाकां प्रणयेत्तया शुद्धे ऽनुसीवनीम् ।
आमेहनान्तं नेत्रं च निष्कम्पं गुदवत्ततः ॥

1.28.71

पीडिते ऽनुगते स्नेहे स्नेहबस्तिक्रमो हितः ।
बस्तीननेन विधिना दद्यात् त्रींश्चतुरो ऽपि वा ॥

1.28.72

अनुवासनवच्छेषं सर्वमेवास्य चिन्तयेत् ॥

1.28.73

स्त्रीणामार्तवकाले तु योनिर्गृह्णात्यपावृतेः ।
विदधीत तदा तस्मादनृतावपि चात्यये ॥

1.28.74

योनिविभ्रंशशूलेषु योनिव्यापद्यसृग्दरे ॥

1.28.75

नेत्रं दशाङ्गुलं मुद्गप्रवेशं चतुरङ्गुलम् ।
अपत्यमार्गे योज्यं स्याद्द्व्यङ्गुलं मूत्रवर्त्मनि ॥

1.28.76

मूत्रकृच्छ्रविकारेषु बालानां शुक्तिरेव तु ॥

1.28.77

उत्तानायाः शयानायाः सम्यक् सङ्कोच्य सक्थिनी ।
ऊर्ध्वजान्वास्त्रिचतुरानहोरात्रेण योजयेत् ॥

1.28.78

बस्तींस्त्रिरामत्रेवं तु स्नेहमात्रां विवर्धयेत् ।
त्र्यहमेवं च विश्रम्य प्रणिदध्यात् पुनस्त्र्यहम् ॥

1.28.79

पक्साद्विरेको वमिते ततः पक्षान्निरूहणम् ।
सद्यो निरूढश्चान्वास्यः सप्तरात्राद्विरोचितः ॥

1.28.80

यथा कुसुम्भादियुतात्तोयाद्रागं हरेत् पटः ।
तथा द्रवीकृताद्देहाद्बस्तिर्निर्हरते मलान् ॥

मूल पाठ: Aṣṭāṅgasaṃgraha · Edition: e-text by SARIT · SARIT: Search and Retrieval of Indic Texts · SARIT (e-text) via Internet Archive · CC BY-SA 3.0

Esc