अष्टाङ्गसंग्रह · अध्याय 1.27
अथातो वमनविरेचनविधिं नामाध्ययं व्याख्यास्यामः ।
इति हस्माहुरात्रेयादयो महर्षयः ॥
दोषहरणमूर्ध्वभागं वमनाख्यमधोभागं विरेचनाख्यमुभयं वा मलविरेचनाद्विरेचनमित्युच्यते ॥
तत्रोष्णतीक्ष्णसूक्ष्मव्यवायिविकाषीण्यौषधानि स्ववीर्येण हृदयमुपेत्य सौक्ष्म्यात् व्यवायित्वाच्च धमनीरनुसृत्य स्नेहेन मृदूकृते ऽन्तश्शरीरे स्वेदोष्मणार्द्रदारुवद्विष्यण्णे स्थूलाणुस्रोतेभ्यः सकलमपि दोषसङ्घातमौष्ण्यात् पुनर्विष्यन्दयन्ति ।
तैक्ष्ण्याद्विकाषित्वाच्च विच्छिन्दयन्ति ।
स विष्यण्णविच्छिन्नो दोषसङ्घातः पारिप्लवः स्नेहाक्तभाजनस्थ इवोदकाञ्जलिरसज्जन्ननुप्नसरणभावादामाशयमनुगम्य उदानप्रणुन्नः अग्निवाय्वात्मकत्वात् ऊर्ध्वभागप्रभावाच्चौषधस्योर्ध्वं प्रवर्तते ।
स्लिलपृथिव्यात्मकत्वादधोभागप्रभावाच्च औषधस्याधः ।
उभयतश्चोभयगुणात्मकत्वादुभयभागप्रभावाच्च ॥
तत्रोत्कृष्टे श्लेष्मणि पित्तसंसृष्टे वा तत्स्थानगते वा पित्ते अनिले वा श्लेष्मोत्तरे च वमनमाचरेत् ।
पित्ते तु विरेकं श्लेष्मसंसृष्टे वा तत्स्थानगते वा श्लेष्मणीति ॥
तत्र वमनसाध्या विषपीतदष्टदिग्धविद्धविरुद्धाजीर्णान्ननवज्वरराजयक्ष्मातीसाराधोरक्तपित्तविषूचिकालसकाविपाकारोचकापचिग्रन्थ्यर्बुदश्लीपदमेदोगदगरोन्मादापस्मारश्वासकासहृल्लासवीसर्पप्रमेहकुष्ठपाण्डुवर्त्ममुखघ्राणकपालरोगकर्णरोधशोफस्तन्यदोषादयो दोषभेदीयोक्ताश्च श्लेष्मव्याधयो विशेषेण ।
एते हि परं वमनेन नाशमुपयान्ति सलिलापगमनेनानिष्पन्नशाल्यादिवत् ॥
अवाम्यास्तु गर्भिणीसुकुमारान्यकार्यव्यग्ररूक्षरूक्षाशनप्रायातिदीप्ताग्निभाराध्वकर्मनित्यक्लान्तक्षतक्षीणातिस्थूलकृशवृद्धबालदुर्बलश्रमभयशोकक्रोधमदमूर्छाक्षुत्पिपासार्त्तोपवासव्यवायव्यायामाध्ययनचिन्ताप्रसक्तच्छर्दिरूर्ध्वरक्तपित्तवातास्थापितानुवासितसंवृतकोष्ठदुश्छर्दितहृद्रोगोदावर्तमूत्राघातगुल्मप्लीहोदराष्ठीलार्शःस्वरोपघाततिमिरभ्रमानिलार्तार्दिताक्षेपकाक्षिणिरःशङ्खकर्णपार्श्वशूलिनो ऽनास्थापितकृमिणकोष्ठ इति ।
अन्यत्रामगरीवषविरुद्धाभ्यवहोरभ्यः शीघ्रकारित्वादेषाम् ।
तत्र गर्भिण्या गर्भव्यापदामगर्भभ्रंशाच्च दारुणरोगप्राप्तिः स्यात् ।
सुकुमारस्य हृदयविकर्षणादूर्ध्वमधो वा रुधिरप्रवृत्तिः ।
अन्यकार्यव्यग्रस्यौषधं न प्रवर्तते ।
कृच्छ्रेण वा प्रवर्तमानमयोगदोषान् कुर्यात् ।
रूक्षस्य वायुरङ्गग्रहणम् ।
रूक्षाशनप्रायस्यं वायुना क्षपितदेहत्वाद् बलक्षयः स्यात् ।
तथातिदीप्ताग्नेरग्निबलेन भाराध्वकर्मनित्ययानक्लान्तानां चायासेन क्षतस्य भूयःक्षणनाद्रक्तातिप्रवृत्तिः ।
क्षीणादीनामौषधबलाक्षमत्वाद्देहबलोपरोधो ऽन्तःक्षतभयं च ।
प्रसक्तच्छर्द्यूर्ध्वरक्तपित्तयोरुदान उत्क्षिप्य प्राणान् हरेद्रक्तं चातिप्रवर्तयेत् ।
ऊर्ध्ववातास्थापितानुवासितानामूर्ध्वं वातातिप्रवृत्तिः ।
संवृतकोष्ठस्य दुश्छर्दितस्य वातिमात्रप्रवाहणादन्तः कोष्ठसमुत्क्लिष्टैर्दोषैर्विसर्पस्तम्भजाड्यवैचित्यानि मरणं वा ।
हृद्रोगिणो हृदयोपरोधः ।
उदावर्तादिभिरार्तानामर्दितादिभिश्च यथायथमामयप्रवृद्धिर्मरणं वा ।
कृमिणकोष्ठस्यास्थापनेनाधःपूर्वमनिर्हृतैः कृमिभिरतिबहुत्वादशेषानिस्सरणेन हृदयमतिकर्षद्भिश्छर्दिषो ऽतिप्रवृत्तिः स्यात् ॥
गर्भिण्यादिचिन्ताप्रसक्तान्ताश्चात्र धूमान्तैः प्रायः सर्वकर्मभिर्वक्ष्यमाणः परिहर्तव्याः ।
अजीर्णी तु सर्वैरेव च वमनवर्ज्जैरामदोषभयात् ।
नवज्वरस्य दोषस्तम्भभयादिति ॥
अथ विरेचनसाध्या जीर्णज्वरोर्ध्वरक्तपित्तगुल्मविद्रधिप्लीहार्शोभगन्दरोदरकृमिणकोष्ठमूत्राघातरेतोयोनिदोषवातशोणितहलीमकव्यङ्गतिमिरकाचाभिष्यन्दाक्षिपाकक्षाराग्निदग्धकुष्टव्रणशिरःपक्वाशयशूलोदावर्तविबन्धच्छर्दिविस्फोटादयो वाम्योक्ताश्च विषूचिकादयो दोषभेदीयोक्ताश्च पित्तव्याधयः ।
विशेषेणैते हि परं विरेचनेन नाशमुपयान्त्यग्न्यपनयनेनाग्निगृहतापवत् ॥
अविरेच्याः पुनर्नवज्वरातिसार्यधोरक्तपित्तक्षतगुदलङ्घतरात्रिजागरितास्थापिताल्पाग्निराजयक्ष्ममदात्ययार्ताध्मातसशल्याभिहततिस्निग्धरूक्षक्रूरकोष्ठाः तत्र नवज्वरस्याविपक्वान् दोषान्न निर्हरेत् ।
वातमेव च कोपयेत् ।
अतीसार्यधोरक्तपित्तयोरतिप्रवृत्त्या हन्यात् ।
क्षतगुदस्य गुदे प्राणोपरोधकरीं राजयक्ष्मार्तस्य क्षीणधातुतया मलबलत्त्वम् ।
तदभावाद्देहनाशः स्यात् ।
मदात्ययार्तस्य मद्यक्षीणे देहे वायुः प्राणोपरोधाय ।
आध्मातस्य पुरीषाशये निचितो वायुर्विसर्पन् सहसा तीव्रतरमाध्मानं मरणं वा जनयेत् ।
सशल्याभिहतयोः क्षते वायुराश्रितो जीवितं हिंस्यात् ।
अतिस्निग्धस्यातियोगो भवेत् ।
क्रूरकोष्ठस्यौषधोद्धता दोषा ह्यप्रवर्तमाना हृदयशूलपर्वभेदानाहच्छर्दिमूर्च्छाक्लमान् जनयित्वा प्राणान् हन्युः ।
गर्भिण्यादीनां पूर्वोक्तदोषः स्यात् ॥
अथ साधारणे काले सम्यक्स्निग्धस्विन्नमनुपहतमानसंश्वः च्छर्दयितव्यमिति ग्राम्यानूपौदकशृतमांसरसक्षीरदधिमाषतिलपललशाकादिभिर्द्रवप्रायैः समुत्क्लेशितश्लेष्माणं सुखोषितं जीर्णाहारं पूर्वाह्णे स्नातानुलिप्तं स्रग्विणमहतवाससं देवताग्निद्विजगुरुवृद्धवैद्यानर्चितवन्तं कृतहोमबलिमङ्गलप्रायश्चित्तस्वस्तिवचनं जानुसमसंस्तृतसोपधानोपाश्रयासनोपविष्टं निरन्नभीषत्स्निग्धं वा यवागू मण्डेन घृतमात्रां पीतवन्तं भीरुकृशबालवृद्धसुकुमारान् वा दोषानुरोधेनाकण्ठं पीतक्षीरतक्रयूषेक्षुमांसरसमद्यतुषोदकयवागूमण्डान्यतमं नक्षत्रतिथिकरणमुहूर्तोदये प्रशस्ते यथाव्याधिदोषदूष्यादिविहितामौषधमात्रां मधुसैन्धवयुक्तां सुखोष्णां ब्राह्मणप्रयुक्ताभिराशीर्भिराभिमन्त्रितां
पुनश्च ॥
ब्रह्मदक्षाश्विरुद्रेन्द्रभूचन्द्रार्कानिलानलाः ।
ऋषयः सौषधिग्रामा भूतसङ्घाश्च पान्तु वः ॥
रसायनीमवर्षीणाममराणाभिवामृतम् ।
सुधेवोत्तमनागानां भैषज्यभिदमस्तु ते ॥
औम् नामो भगवते भैषज्यगुरवे वैडूर्यप्रभराजाय तथागतायार्हते सम्यक्सम्बुद्धाय ।
तद्यथा ।
औम् ।
भैषज्ये भैषज्ये महाभैषज्ये भैषज्यसमुद्गते स्वाहा ।
इत्येवमभिमन्त्र्योदग्मुखः प्राङ्मुखमातुरं पाययेत् ॥
ततः पीतवानूरुन्यस्तभुजो वमनानुगतमानसोग्नितप्तैः पाणिभिरुपतप्यमानो मुहूर्तमनुपालयेत् ।
स यदा जानीयात् स्वेदप्रादुर्भावेन दोषं प्रविलयमापद्यमानं
रोमहर्षेण च स्थानेभ्यः प्रविचलितं
कुक्ष्याध्मानेन च कुक्षिमनुसृतं च क्रमात् हृदयोपमर्दहृल्लासास्यसंस्रवणैश्चोर्ध्वमभिमुखीभूतम् ।
अथ समुपस्थितानेकप्रतिग्राहः पार्श्वललाटोपग्रहणे नाभिप्रपीडने पृष्ठप्रतिलोमोन्मर्दने च प्रवृत्ताव्यपत्रपणीयपुरुषो विवृतोष्ठतालुकण्ठो नातिमहता व्यायामेन वेगानुदीरयन् नाप्रवृत्तान् न प्रवर्त्तयन् प्रवृत्तांश्चानुप्रवर्तयन् सुपरिलिखितनखाभ्यामङ्गुलीभ्यामुत्पलकुमुदैरण्डनालैर्वा कण्ठमभिमृशन् वमेत् ।
नात्युन्नतो नात्ववनतो न पार्श्वापवृत्तो वा ।
तत्रात्युन्नतस्य पृष्ठहृदयपीडा भवति ।
अत्यवनतस्य शिरःकोष्ठपीडा ।
पार्श्वापवृत्तस्य पार्श्वकोष्ठहृदयोर्ध्वजत्रुपीडेति ॥
एवं कटुतीक्ष्णोष्णैः कफे छर्दयेत् ।
स्वादुभिः पित्तयुक्ते ।
अम्लैः सस्नेहैरनिलसंसृष्टे ।
यावत् कफच्छेदः केवलमौषधप्रवृत्तिः पित्तदर्शनं वा ॥
हीनवेगस्तु पिप्पल्यामलकसर्षपकल्कलवणोष्णोदकैः पुनःपुनः प्रवर्तयेत् ।
प्रभूतवमनासहिष्णुर्द्व्यहं त्र्यहं वा विश्रम्य ।
असात्म्यबीभत्सदुर्दर्शदुर्गन्धानि वमनानि विदध्यात् ।
विपरीतानि तु विरेचनानि ।
सर्वेषु च वमनेषु सैन्धवं मधु च विदध्यात्कफविलयनविच्छेदनार्थम् ।
वेगांश्चास्य प्रतिग्राहगतानावेक्षेत ॥
तत्राप्रवृत्तिः केवलस्य वा भेषजस्य प्रवृत्तिर्विबन्धो वा वेगानामयोगलक्षणम् ।
ततश्चारोचकगौरवाध्मानकण्डूस्फोटकोठालस्यशूलप्रतिश्यायलोमहर्षप्रसेकशोफशीतज्वरादयः ॥
योगलक्षणं पुनः काले क्रमात् कफपित्तानिलप्रवृत्तिर्नातिमहती व्यथा स्वयं चावस्थानं ततश्च स्वस्थता मनःप्रसादः स्वरविशुद्धिररोचकादिवैपरीत्यं च ॥
अतियोगे तु फेनिलरक्तचन्द्रिकोद्गमनम् ।
ततश्च क्षामतास्वरक्षयदाहकण्ठशोषभ्रममोहोन्मादमूर्च्छाशिरःशून्यताहृद्धूमायनगात्रशूलसुप्तितृष्णोर्ध्वानिलप्रकोपकर्णशूलार्द्दितवाक्सङ्गहनुसंहननजिह्वाप्रवेशनिर्गमाक्षिव्यावृत्तिविसंज्ञतानिद्राबलाग्निहानयो भवन्ति ।
जीवशोणितप्रवृत्त्या मरणं वा ।
एषां सिद्धिषु साधनं वक्ष्यते ॥
योगेन तु खल्वेनं छर्दितवन्तं सुविशोधितपाणिपादमुखं मुहूर्तमाश्वास्य धूमत्रयस्यान्यतमं सामर्थ्यतः पाययित्वा पुनरुपस्पृष्टोदकं सम्मानितसुरभिताम्बूलं निवातागारशय्यास्थितं स्नेहोक्तेनाचारविधिनानुशिष्यात् ॥
ततोग्निबलमवेक्ष्य क्षुधं च सायाह्ने अपरे वाह्नि सुखोदकपरिषिक्तः पुराणानां रक्तशालितण्डुलानां सुसिद्धमन्नमस्नेहलवणकटुकमल्पस्नेहलवणकटुकं वा द्रवप्रायमुष्णोदकानुप्रायं सायं प्रातरुपभुञ्जानो विधिमिममवेक्षेत पेयादीनाम् ॥
पेयां विलेपीमकृतं कृतं च यूषं रसं त्रीनुभयं तथैकम् ।
क्रमेण सेवेत नरो ऽन्नकालान् प्रधानमध्यावरशुद्धिशुद्धः ॥
यथाणुरग्निस्तृणगोमयाद्यैः सन्धुक्ष्यमाणो भवति क्रमेण ।
महान् स्थिरः सर्वपचस्तथैव शुद्धस्य पेयादिभिरन्तराग्निः ॥
जघन्यमध्यप्रवरे तु वेगाश्चत्वार इष्टा वमने षडष्टौ ।
दशैव ते द्वित्रिगुणा विरेके प्रस्थस्तथास्याद् द्विचतुर्गुणश्च ॥
पित्तावसानं वमनं विरेकादर्द्धं कफान्तं च विरेकमाहुः ।
द्वित्रान् सविट्कानपनीय वेगान् मेयं विरेके वमने तु पीतम् ॥
इति
अथ वमितवन्तं पुनरेवं स्नेहस्वेदाभ्यामुपपाद्यश्वो विरेचयितव्य इति सुजरमश्लेष्मलं स्निग्धं फलाम्लमुष्णमुष्णोदकानुपानं जाङ्गलरसौदनं भोजयेत् ।
ततः सुखोषितं पूर्वोक्तेन विधिनातीते श्लेष्मकाले निरन्नं विभज्य कोष्ठं यथार्हौषधमात्रां पाययेत् ।
न त्वकृतवमनमन्यत्रातिक्रूरकोष्ठात् ॥
अकृतवमनस्य हि श्लेष्मणोपहतमौषधमूर्ध्वं प्रवर्तते ।
उरसि वावरुद्धमवतिष्ठते ।
ततो नालं विरेकाय ।
सम्यग्विरिक्तस्यापि चाधःस्रस्तः श्लेष्मा ग्रहणीं छादयित्वा गौरवमापादयति ।
प्रवाहिकां वा ।
न त्वेष दोषो ऽतुक्रूरकोष्ठस्य वाय्वात्मकत्वात् ॥
श्लेष्मकाले त्वकृतवमनोक्तदोषाः शूलाध्मानगौरवाणि वा कृत्वा छर्दिक्षीणे श्लेष्मण्यपराह्णे रात्रौ वा विरेचयेत् ।
तेनान्नावृतमपि तुल्यम् ।
छर्द्रिं च पुनस्तज्जनयति ।
अविरिक्तस्य तु श्लेष्मकाले च वमनं निरन्नं योज्यम् ।
तथोर्ध्वं सुखेन निर्हरणात् ॥
कोष्ठस्तु त्रिविधो भवति ।
मृदुः क्रूरो मध्यमश्च ।
तत्र बहुपित्तो मृदुः ।
स विरिच्यते क्षीरेक्षुरसाम्लतक्रमस्तुगुडकृसरसर्पिर्नवमद्योष्णोदकपीलुद्राक्षापूगफलादिभिरपि ।
बहुवातः क्रूरः ।
स दुर्विरेच्यस्त्रिफलातिल्वकत्रिवृन्नीलिनीफलादिभिरपि ।
बहुश्लेष्मासमदोषश्च मध्यः स साधारणः ।
ये च स्निह्यन्त्यच्छपानेन प्रायशः त्रिसप्तपञ्चरात्रैरिति ॥
तत्र कषायमधुरद्रव्यैः पित्ते विरेचनम् ।
मूत्रकटूष्णैः कफे ।
स्निग्धोष्णलवणैर्वाते ।
पीतमात्र एव चौषधे छर्दिविघाताय शीताम्बुना मुखमस्य सहसा सिञ्चेत् ।
ततश्चोष्णोदकेन सो ऽन्तर्मुखं विशोध्यार्द्रसुरभिमृन्मातुलुङ्गजम्बीरसुमनःसौगन्धिकादिहृद्यगन्धानुपजिघ्रेत् ।
निवातसुखशय्यास्थितश्चाविबन्धार्थमल्पाल्पमुष्णोदकमनुकण्ठयंस्तन्मना वेगान्न धारयन् ईरयमाणाश्च शय्यासन्ने प्रतिग्राहे ऽशीतस्पृग्विरिच्येत ।
यथा च वमने स्वेदप्रसेकौषधकफपित्तानिलाः क्रमेण प्रवर्तन्ते तथा विरेचने वातमूत्रपुरीषपित्तकफाः ।
पुनश्चान्ते वायुः ।
दोषाणां हि देहे तथा सन्निवेशान्मार्गवैपरीत्याच्च शोधनयोरिति ॥
अप्रवृत्तौ तु भेषजोत्तेजनार्थमुष्णोदकं पाययेत् ।
पाणितापैश्च जठरं स्वेदयेत् ।
प्रवृत्ते च दीप्ताग्नेः स्निग्धवपुषा बहुदोषस्याल्पदोषे नैव वा प्रवृत्ते ऽल्पदोषस्यापि जीर्णभैषज्यस्याहःशेषं बलं चापेक्ष्य भूयो मात्रां विदध्यात् ।
न त्वजीर्णौषधस्यातियोगभयात् ॥
तदहर्वा भुक्तवतो ऽन्येद्युरदृढस्नेहं वा दशरात्रादूर्ध्वमुपस्कृतदेहमवहितो भूयः पाययेत् ॥
ह्रीभयलोभैश्च वेगाघातशीलाः प्रायशः स्त्रियो राजसमीपस्था वणिजश्च भवन्ति ।
तस्मादेते वेगधारणप्रवृद्धवातत्वात्सदातुरा दुर्विरेच्याश्च ।
तान् सुस्निग्धान् शोधयेत् ॥
अन्यानपि चाकालनिर्हारविहाराहारान् ।
ततश्चैषां सदातुरत्वादल्पो ऽप्यामयो दुःसाध्यो भवति ।
तेषां पुनः क्रियाविधिः स्नेहव्यापत्सिद्धावुपदेक्ष्यते ॥
तत्रासम्यग्विरेकात् कुक्षिहृदयाविशुद्धिराध्मानमरुचिः प्रसेकः कफपित्तोत्क्लेशछर्दिभ्रमाः कण्डू पिटका विदाहो गौरवमग्निसादस्तन्द्रा स्तैमित्यं प्रतिश्यायो वातविण्मूत्रसङ्गश्च ।
सम्यग्विरेकात् व्याध्युपशमो यथोक्तविपर्ययश्च ।
अतिविरेकात्तु केवलं दोषरहितमुदकं रक्तं वा मेदोमांसधावनोपमं कृष्णं वा प्रवर्तते ।
परिकर्तिका हृदयोद्वेष्टनं गुदनिस्सरणं नयनप्रवेशः पिपीलिकासञ्चार इवाङ्गे वमनातियोगतुल्यता च ॥
सम्यग्विरिक्तं चैनं वमनोक्तेन धूमवर्ज्येन विधिनोपपादयेत् ।
अथ वमितवानिव क्रमेणान्नान्युपयुञ्जानः प्रकृतिभोजनमागच्छेदिति ।
भवति चात्र ॥
जीर्णे ऽन्ने वमनं योज्यं कफे जीर्णे विरेचनम् ।
मन्दवह्निमस्ंशुद्धमक्षामं दोषदुर्बलम् ॥
अदृष्टजीर्णलिङ्गं च लङ्घयेत् पीतभेषजम् ।
स्नेहस्वेदौषधोत्क्लेशसङ्गैरिति न बाध्यते ॥
संशोधनास्रविस्रावस्नेहयोजनलङ्घनैः ।
यात्यग्निर्मन्दतां तस्मात् क्रमं पेयादिमाचरेत् ॥
स्रुताल्पपित्तश्लेष्माणं मद्यपं वातपैत्तिकम् ।
पेयां न पाययेत्तेषां तर्पणादिक्रमो हितः ॥
अपक्वं वमनं दोषान् पच्यमानं विरेचनम् ।
निर्हरेद्वमनस्यातः पाकं न प्रतिपालयेत् ॥
ऊर्ध्वाधोरेचनं युक्तं वैपरीत्येन जायते ।
यदा तदा छर्दयतः सिञ्चेदुष्णेन वारिणा ।
पादौ शीतेन चोर्ध्वाङ्गं विपरीतं विरेचने ॥
दुर्बलो बहुदोषश्च दोषपाकेन यः स्वयम् ।
विरिच्यते भेदनीयैर्भोज्यैस्तमुपपादयेत् ॥
दुर्बलः शोधितः पूर्वमल्पदोषः कृशो नरः ।
अपरिज्ञातकोष्ठश्च पिबेन्मृद्वल्पमौषधम् ।
वरं तदसकृत् पीतमन्यथा संशयावहम् ॥
हरेद् बहूंश्चलान् दोषानल्पानल्पान् पुनःपुनः ।
दुर्बलस्य मृदुद्रव्यैरल्पान् संशमये त्तुतान् ।
क्लेशयन्ति चिरं ते हि हन्युर्वैनमनिर्हृताः ॥
मन्दाग्निं क्रूरकोष्ठं च सक्षारलवणैर्घृतैः ।
सन्धुक्षिताग्निं विजितकफवातं च शोधयेत् ॥
रूक्षबह्वनिलक्रूरकोष्ठव्यायामशीलिनाम् ।
दीप्ताग्नीनां च भैषज्यमविरेच्यैव जीर्यति ॥
तेभ्यो बस्तिं पुरो दद्यात्ततः स्निग्धं विरेचनम् ।
शकृन्निर्हृत्य वा किञ्चित्तीक्ष्णाभिः फलवर्त्तिभिः ।
प्रवृत्तं हि मलं सिग्धो विरेको निर्हरेत्सुखम् ॥
विषाभिघातपिटकाकुष्ठशोफविसर्पिणः ।
कामलापाण्डुमेहार्तान् नातिस्निग्धान् विशोधयेत् ॥
सर्वान् स्नेहविरेकैश्च रूक्षैस्तु स्नेहभावितान् ॥
कर्मणां वमनादीनां पुनरप्यन्तरे ऽन्तरे ।
स्नेहस्वेदौ प्रयुञ्जीत स्नेहमन्ते बलाय च ॥
ऊषादिभिर्यथोत्क्लेश्य ह्रियते वाससो मलः ।
तथैव वपुषः स्नेहस्वेदमाषतिलादिभिः ॥
स्नेहस्वेदावनभ्यस्य कुर्यात्संशोधनं तु यः ।
दारुशुष्कमिवानामे शरीरं तस्य दीर्यते ॥
सुखं क्षिप्रं महावेगमसक्तं यत् प्रवर्तते ।
नातिग्लानिकरं नापि हृदि पायौ च रुक्करम् ॥
अन्तराशयगं क्लिन्नं कृत्स्नं दोषं निरस्यति ।
विरेचनं निरूहं वा तत्तीक्ष्णमिति निर्दिशेत् ॥
जलाग्निकीटैरस्पृष्टं देशकालगुणान्वितम् ।
नवं मात्राधिकं किञ्चित् तुल्यवीर्यैः सुभावितम् ॥
स्नेहस्वेदोपपन्नस्य तीक्ष्णत्वं याति भेषजम् ।
अतो विपर्यये मन्दं मन्दतां च प्रपद्यते ॥
तीक्ष्णो मध्यो मृदुर्व्याधिः सर्वमध्याल्पलक्षणः ।
बलापेक्षं हितं तेषु तीक्ष्णं मध्यं मृदु क्रमात् ॥
अप्रवर्त्य मलान् द्रव्यं सात्मीभूतं हि जीर्यति ।
वमनं वा विरेकं वा तस्मात्सात्म्यं न योजयेत् ॥
विभ्रंशो विषवत्सम्यग्योगो यस्यामृतोपमः ।
काले ऽवश्यं प्रयोज्यं च यस्माद्यत्नेन तत् पिबेत् ॥
बुद्धिप्रसादं बलमिन्द्रियाणां धातुस्ह्तिरत्वं ज्वलनस्य दीप्तिम् ।
चिराच्च पाकं वयसः करोति संशोधनं सम्यगुपास्यमानम् ॥
मूल पाठ: Aṣṭāṅgasaṃgraha · Edition: e-text by SARIT · SARIT: Search and Retrieval of Indic Texts · SARIT (e-text) via Internet Archive · CC BY-SA 3.0