भाषा

ENहिગુ
ग्रंथ पाठ

अष्टाङ्गसंग्रह · अध्याय 1.24

1.24.1

अथातो द्विविधोपक्रमणीयं नामाध्यायं व्याख्यास्यामः ।
इति ह स्माहुरात्रेयादयो महर्षयः ॥

1.24.2

उपक्रम्यस्य हि द्वित्वाद् द्विधैवोपक्रमो मतः ।
एकस्सन्तर्पणस्तत्र द्वितीयश्चापतर्पणः ।
बृंहणो लङ्घनश्चेति तत्पर्यायावुदाहृतौ ॥

1.24.3

बृंहणं यत् बृहत्वाय लङ्घनं लाघवाय यत् ।
देहस्यं भवतः प्रायो भौमापमितरच्च ते ॥

1.24.4

स्नेहनं रूक्षणं कर्म स्वेदनं स्तम्भनञ्च यत् ।
भूतानां तदपि द्वैध्यात् द्वितयं नातिवर्तते ॥

1.24.5

शोधनं शमनञ्चेति द्विधा तत्रापि लङ्घनम् ।
यदीरयेत् बहिर्दोषान् पञ्चधा शोधनञ्च तत् ॥

1.24.6

निरूहो वमनं कायशिरोरेको ऽस्रविस्रुतिः ।
न शोधयति यद्दोषान् समान्नोदीरयत्यपि ॥

1.24.7

समीकरोति विषमान् शमनं तच्च सप्तधा ।
पाचनं दीपनं क्षुत्तृड्व्यायामातपमारुताः ।
बृंहणं शमनन्त्वेव वायोः पित्तानिलस्य च ॥

1.24.8

बृंहयेद् व्याधिभैषज्यमद्यस्त्रीशोककर्शितान् ।
भाराध्वोरःक्षतक्षीणरूक्षदुर्बलवातलान् ॥

1.24.9

गर्भिणीसूतिकाबालवृद्धान् ग्रीष्मे ऽपरानप्पि ।
मांसक्षीरसितासर्पिर्मधुरस्निग्धबस्तिभिः ॥

1.24.10

स्वप्नशय्यासुखाभ्यङ्गस्नाननिर्वृतिहर्षणैः ।
मेहामदोषातिस्निग्धज्वरोरुस्तम्भकुष्ठिनः ।
विसर्पविद्रधिप्लीहशिरःकण्ठाक्षिरोगिणः ॥

1.24.11

स्थूलांश्च लङ्घयेन्नित्यं शिशिरे त्वपरानपि ।
तत्र संशोधनैः स्थौल्यबलपित्तकफाधिकान् ।
आमदोषज्वरच्छर्दिरतीसारहृदामयैः ॥

1.24.12

विबन्धगौरवोद्गारहृल्लासादिभिरातुरान् ।
मध्यस्थौल्यादिकान् प्रायः पूर्वं पाचनदीपनैः ॥

1.24.13

एभिरेवमयैरार्तान् हीनस्थौल्यबलादिकान् ।
क्षुत्तृष्णानिग्रहैर्दोषैस्त्वार्तान्मध्यबलैर्दृढान् ॥

1.24.14

समीरणातपायासैः किमुताल्पबलैर्नरान् ।
न बृंहयेल्लङ्घनीयान् बृंह्यांस्तु मृदु लङ्घयेत् ।
युक्त्या वा देशकालादिबलतस्तानुपाचरेत् ॥

1.24.15

बृंहिते स्यात् बलं पुष्टिस्तत्साध्यामयसंङ्क्षयः ।
विमलेन्द्रियता सर्गो मलानां लाघवं रुचिः ॥

1.24.16

क्षुत्तृट्सहोदयश्शुद्धहृदयोद्गारकण्ठता ।
व्याधिमार्दवमुत्साहस्तन्द्रानाशश्च लङ्घते ॥

1.24.17

अनपेक्षितमात्रादिसेविते कुरुतस्तु ते ।
अतिस्थौल्यातिकार्श्यादीन् वक्ष्यन्ते ते च सौषधाः ।
रूपं तैरेव च ज्ञेयमतिबृंहितलङ्घते ॥

1.24.18

तत्र शोधनमुद्दिश्य स्थौल्याद्याः प्रगुदाहृताः ।
गुर्वादिवृद्धसंलीनश्लेष्ममिश्रो ऽन्नजो रसः ॥

1.24.19

आम एव श्लथीकुर्वन् धातून् स्ह्तौल्यमुपानयेत् ।
अतिस्थौल्यादतिक्षुत्तृट्प्रस्वेदश्वासनिद्रताः ॥

1.24.20

आयासाक्षमता जाड्यमल्पायुर्बलवेगता ।
दौर्गन्ध्यं गद्गदत्वञ्च भवेन्मेदोतिपुष्टितः ॥

1.24.21

स्रोतस्तु मेदोरुद्धेषु वायुः कोष्ठे विशेषतः ।
चरन् प्रज्वलयत्यग्निं क्षुत्तृषौ स्तस्ततो ऽधिकम् ॥

1.24.22

स्थूलं कोटरवद्वृद्धौ दहतो ऽग्न्यनिलौ च तम् ।
स्वेदवाहिसिरामूलभावाद्विष्यन्दनादपि ।
मेदसः श्लेष्मयोगाच्च भवति स्वेदभूरिता ॥

1.24.23

कोष्ठ एव विपक्वे ऽस्य संरुद्धस्रोतसो रसे ।
सर्वत्रालब्धवृत्तित्वात् प्रयो मेदः प्रचीयते ॥

1.24.24

तच्छेषो ऽल्परसो ऽल्पत्वान्नालं रक्तादिपुष्टये ।
तुल्येपि वाय्वादिचये प्राक्चितं चीयतेतराम् ।
मेदस्तेनासमस्तेन धातूनां विदधाति तत् ॥

1.24.25

श्वासादीनचिराच्चान्यान् ज्वरोदरभगन्दरान् ।
मेहोरुस्तम्भपिटकाविद्रधिप्रभृतीन् गदान् ॥

1.24.26

अयथोपचयोत्साहश्चलस्फिगुदरस्तनः ।
अतिस्थूलः स्मृतो योज्यं तत्रान्नं मारुतापहम् ॥

1.24.27

श्लेष्ममेदोहरं यच्च कुलत्था यवका यवाः ।
जूर्णश्यामाकमुद्गाद्याः पाने ऽरिष्टं मधूदकम् ॥

1.24.28

मस्तु तक्रं च तीक्ष्णोष्णं रूक्षं छेदि च भेषजम् ।
चिन्ताव्यवायव्यायामशोधनास्वपनं भजेत् ॥

1.24.29

देहापेक्षी तथा रूक्षं स्नानमुद्वर्तनादि च ।
मधुना त्रिफलां लिह्यात् गुडूचीमभयां घनम् ।
रसाञ्जनस्य महतः पञ्चमूलस्य गुग्गुलोः ॥

1.24.30

शिलाह्वस्य प्रयोगश्च साग्निमन्थरसो हितः ।
विडङ्गं नागरं क्षारः काललोहरजो मधु ॥

1.24.31

यवामलकचूर्णं च योगो ऽतिस्थौल्यदोषजित् ।
मदनं त्रिफला मुस्ता सप्ताह्वारिष्टवत्सकम् ॥

1.24.32

सपाठारग्वधं पीतमतिबृंहणरोगजित् ।
तद्वद्वत्सकशम्याकदेवदारुनिशाद्वयम् ॥

1.24.33

समुस्तपाठाखदिरत्रिफलानिम्बगोक्षुरम् ।
मदनादीनि चालेपः स्ननादिष्वपि योजयेत् ॥

1.24.34

हिङ्गुगोमेदकव्योषकुष्ठक्रौञ्चास्थिगोक्षुरम् ।
एलावृक्षकषड्ग्रन्थाखराश्वोपलभेदकम् ॥

1.24.35

तक्रेण दधिमण्डेन पीतं कोलरसेन वा ।
मूत्रकृछ्रं कृमीन् मेहं स्थूलतां च व्यपोहति ॥

1.24.36

कृमिघ्नत्रिफलं तैलसक्तुत्र्यूषणदीप्यकैः ।
लोहोदकाप्लुतो मन्थः शस्तो बृंहणरोगिणाम् ॥

1.24.37

व्योषकट्वीवराशिग्रुविडङ्गातिविषास्थिराः ।
हिङ्गुसौचर्चलाजाजीयवानीधान्यचित्रकाः ॥

1.24.38

निशे बृहत्यौ हपुषा पाठा मूलं च केम्बुकात् ।
एषां चूर्णं मधु घृतं तैलं च सदृशांशकम् ॥

1.24.39

सक्तुभिः षोडशगुणैर्युक्तं पीतं निहन्ति तत् ।
अतिस्थौल्यादिकान् सर्वान् रोगानन्यांश्च तद्विधान् ।
हृद्रोगकामलाश्वित्रश्वासकासगलग्रहान् ॥

1.24.40

बुद्धिमेधास्मृतिकरं सन्नस्याग्नेश्च दीपनम् ।
योज्यं तथा यथाव्याधि स्वेदासृक्स्रावणान्यपि ॥

1.24.41

अतिकार्श्यं भ्रमः कासस्तृष्णाधिक्यमरोचकः ।
स्नेहाग्निनिद्रादृक्श्रोत्रशुक्रौजःक्षुत्स्वरक्षयः ॥

1.24.42

बस्तिहृन्मूर्द्धजङ्घोरुत्रिकपार्श्वरुजा ज्वरः ।
प्रलापोर्ध्वानिलग्लानिः छर्द्दिः पर्वास्थिभेदनम् ॥

1.24.43

वर्चोमूत्रग्रहाद्याश्च जायन्ते ऽतिविलङ्घनात् ।
अतिकार्श्येन नायासवर्षशीतोष्णतृट्क्षुधः ॥

1.24.44

तृप्तिव्याध्यौषधमनान् सहते ऽल्पबलत्वतः ।
श्वासकासक्षयप्लीहगुल्मार्शोवह्निमन्दताः ॥

1.24.45

कृशं प्रायश्च धावन्ति रक्तपित्तानिलामयाः ।
कार्श्यमेव वरं स्थौल्यान्न हि स्थूलस्य भेषजम् ।
बृंहणं लङ्घनं नालमतिमेदो ऽग्निवातजित् ॥

1.24.46

मधुरस्निग्धसौहित्यैर्यत् सौख्येन च नश्यति ।
क्रशिमा स्थविमात्यन्तविपरीतनिषेवणैः ॥

1.24.47

शुष्कस्फिगुदरग्रीवाः स्थूलपर्वा सिराततः ।
उच्यते ऽतिकृशस्तत्नप्रागुक्तो बृंहणो विधिः ॥

1.24.48

अश्वगन्धाविदार्याद्या वृष्याश्चौषधयो हिताः ।
अचिन्तया हर्षणेन ध्रुवं सन्तर्पणेन च ॥

1.24.49

स्वप्नप्रसङ्गाच्च कृशो वराह इव पुष्यति ।
लङ्घनोत्थेषु रोगेषु शेषेष्वप्युपकल्पयेत् ।
यत्तदात्वे समर्थं स्याद्यच्चाभ्यासेन पुष्टये ॥

1.24.50

सद्यः क्षीणो यतः सद्यो बृंहणेनोपचीयते ।
चिरं क्रमेण च क्षीणस्तदभ्यासेन तत्र च ॥

1.24.51

बृंहणं देहमात्राग्निबलादीन् वीक्ष्य योजयेत् ।
न हि मांससमं किञ्चिदन्यद्देहबृहत्त्वकृत् ।
मांसादमांसं मांसेन सम्भृतत्वाद्विशेषतः ॥

1.24.52

क्रव्यान्मांसरसांस्तस्माद्दकलावणिकान् लघून् ।
वेशवारीकृतैस्तद्वज्जाङ्गलैश्च कृताकृतान् ।
रसांस्तथा च क्षीरादीन् तर्पणांस्तर्पणान् पुनः ॥

1.24.53

युञ्ज्यात् कृशानां ज्वरिणां कासिनां मूत्रकृच्छ्रिणाम् ।
तृष्यतामूध्ववातानां मूढमारुतवर्चसाम् ॥

1.24.54

समैः कृष्णासितातैलक्षौद्राद्यैद्र्व्यंशतर्पणैः ।
मन्थस्तद्वत् सिताक्षौद्रमदिरासक्तुयोजितः ॥

1.24.55

फाणितं सक्तवः सर्पिर्दधिमण्डो ऽम्लकाञ्जिकम् ।
तर्पणं मूत्रकृच्छ्रघ्नमुदावर्त्तहरं परम् ॥

1.24.56

मन्थः खर्जूरमृद्वीकावृक्षाम्लाम्लीकदाडिमैः ।
परूषकैः सामलकैः सद्यस्तृष्णादिरोगजित् ॥

1.24.57

स्वादुरम्लो जलकृतः सस्नेहो रूक्ष एव वा ।
सद्यः सन्तर्पणो मन्थः स्थैर्यवर्णबलप्रदः ॥

1.24.58

गुरु चातर्पणं स्थूले विपरीतं हितं कृशे ।
यवगोधूममुभयोस्तद्योग्याहितकल्पनम् ॥

1.24.59

स्यौल्यकार्श्ये प्रकृत्यापि स्यातां तत्राप्ययं विधिः ।
सततं व्याधिततया सदा योज्यो विभज्य च ॥

1.24.60

मात्रादियुक्ते सेवेत यस्तु लङ्घनबृंहणे ।
समधात्वग्निदेहो ऽसौ समस्ंहननो भवेत् ॥

1.24.61

दृढेन्द्रियबलत्वाच्च न द्वन्द्वैरभिभूयते ।
दोषगत्यातिरिच्यन्ते ग्राहिभेद्यादिभेदतः ।
उपक्रमा न तु द्वित्वाद्भिन्ना अपि गदा इव ॥

मूल पाठ: Aṣṭāṅgasaṃgraha · Edition: e-text by SARIT · SARIT: Search and Retrieval of Indic Texts · SARIT (e-text) via Internet Archive · CC BY-SA 3.0

Esc