भाषा

ENहिગુ
ग्रंथ पाठ

अष्टाङ्गसंग्रह · अध्याय 1.25

1.25.1

अथातः स्नेहविधिमध्यायं व्याख्यास्यामः ।
इति ह स्माहुरात्रेयादयो महर्षयः ॥

1.25.2

स्नेहादिषूपयोगाय तद्व्यापच्छमनाय च ।
कुर्यात् प्रागेव तद्योगिद्रव्यसम्भारसङ्ग्रहम् ॥

1.25.3

गुरुशीतसरस्निग्धमन्दसूक्ष्ममृदुद्रवम् ।
औषधं स्नेहनं प्रायो विपरीतं विरूक्षणम् ॥

1.25.4

सर्पिर्मज्जा वसा तैलं स्नेहेषु प्रवरं मतम् ।
तत्रापि चोत्तमं सर्पिः संस्कारस्यानुवर्तनात् ॥

1.25.5

माधुर्यादविदाहित्वाज्जन्माद्येव च शीलनात् ।
पित्तघ्नास्ते यथापूर्वमितरघ्ना यथोत्तरम् ।

1.25.6

घृतात्तैलं गुरु वसा तैलान्मज्जा ततो ऽपि च ।
द्वाध्यां त्रिभिश्चतुर्भिस्तैर्यमकस्त्रिवृतो महान् ॥

1.25.7

स्नेहाशया दधिक्षीरं मांसास्थिफलदारु च ।
स्वेद्यसंशोध्यमद्यस्त्रीव्यायामासक्तचिन्तकाः ।
वृद्धबालावलकृशा रूक्षाः क्षीणास्ररेतसः ॥

1.25.8

वातार्तस्यन्दतिमिरदारुणप्रतिबोधिनः ।
स्नेह्याः न त्वतिमन्दाग्नितीक्ष्णाग्निस्थूलदुर्बलाः ।
ऊरुस्तम्भातिसारामगलरोगगरोदरैः ॥

1.25.9

मूर्छार्छद्यरुचिश्लेष्मतृष्णामद्यैश्च पीडिताः ।
अपप्रसूता युक्ते च नस्ये बस्तौ विरेचने ॥

1.25.10

तत्र धीस्मृतिमेधाग्निकाङ्क्षिणां शस्यते घृतम् ।
ग्रन्थिनाडीकृमिश्लेष्ममेदोमारुतरोगिषु ॥

1.25.11

तैलं लाघवदार्ढ्यार्थिक्रूरकोष्ठेषु देहिषु ।
वातातपाध्वभारस्त्रीव्यायामक्षीणधातुषु ॥

1.25.12

रूक्षक्लेशक्षमात्यग्निवातावृतपथेषु च ।
शेषौ वसा तु सन्ध्यस्थिमर्मकोष्ठरुजासु च ॥

1.25.13

तथादग्धाहतभ्रष्टयोनिकर्णाशिरोरुजि ।
तैलं प्रावृषि वर्षान्ते सर्पिरन्यौ तु माधवे ।
सर्वं सर्वस्य च स्नेहं युञ्ज्यात् भास्वति निर्मले ॥

1.25.14

ऋतौ साधारणे दोषसाम्ये ऽनिलकफे कफे ।
दिवा निश्यनिले पित्ते संसर्गे पित्तवत्यपि ॥

1.25.15

त्वरमाणे तु शीते ऽपि दिवा तैलं च योजयेत् ।
उष्णे ऽपि रात्रौ सर्पिश्च दोषादीन्वीक्ष्य चान्यथा ॥

1.25.16

निश्यश्नुते वातकफाद्रोगानहनि पित्ततः ।
युक्यावचारयेत् स्नेहं भक्ष्याद्यन्नेन बस्तिभिः ।
नस्याभ्यञ्जनगण्डूषमूर्धकर्णाक्षितर्पणैः ॥

1.25.17

रसभेदैककत्वाभ्यां चतुष्षष्टिर्विचारणाः ।
स्नेहस्यान्याभिभूतत्वादल्पत्वाच्च क्रमात्स्मृताः ॥

1.25.18

यथोक्तहेत्वभावाच्च नाच्छपेयो विचारणा ।
स्नेहस्य कल्पः स श्रेष्ठः स्नेहकर्माशुसाधनात् ॥

1.25.19

द्वाभ्यां चतुर्भिरष्टाभिर्यामैर्जीर्यन्ति याः क्रमात् ।
ह्रस्वमध्योत्तमा मात्रास्तास्ताभ्यश्च ह्रासीयसीम् ॥

1.25.20

कल्पयेद्वीक्ष्य दोषादीन् प्रागेव तु ह्रसीयसीम् ।
अज्ञातकोष्ठे हि बहुः कुर्याज्जीवितसंशयम् ॥

1.25.21

तत्र दुर्बलमन्दाग्निबालवृद्धसुखात्मकैः ।
अपथ्यरिक्तकोष्ठत्वज्वरातीसारकासिभिः ॥

1.25.22

ह्रस्वा पेया सुखा सा हि परिहारे ऽनुवर्तते ।
चिराच्च बल्या न रुजे व्यापन्नापि प्रकल्पते ॥

1.25.23

मेहोरुःपिटकाकुष्ठवातशोणितपीडितैः ।
मध्यमा मृदुकोष्ठैश्च स्नेहनी स्यात्सुखेन सा ॥

1.25.24

न बलक्षपणी मन्दविभ्रंशा शुद्धये ऽप्यलम् ।
महादोहानलबलक्षुत्तृट्क्लेशसहिष्णुभिः ।
गुल्मोदावर्तवीसर्पदंशाभिपीडितैः ॥

1.25.25

उन्मत्तैः कृच्छ्रमूत्रैश्च महती शीघ्रमेव सा ।
सर्वमार्गानुसारेण जयेद् व्याधीन् सुयोजिता ॥

1.25.26

ह्यस्तेन जीर्ण एवान्ने स्नेहोच्छः शुद्धये बहुः ।
शमनः क्षुद्वयो ऽनन्नो मध्यमात्रश्च शस्यते ॥

1.25.27

बृंहणो रसमद्याद्यैः सभक्तो ऽल्पो हितः स च ।
बालवृद्धपिपासाअर्तस्नेहद्विण्मद्यशीलिषु ॥

1.25.28

स्त्रीस्नेहनित्यमन्दाग्निसुखितक्लेशभीरुषु ।
मृदुकोष्ठाल्पदोषेषु काले चोष्णे कृशेषु च ॥

1.25.29

स्नेहः प्राग्भोजनात् कुर्यादूरुजङ्घाकटीबलम् ।
वेगानुलोम्यमारोग्यमधःकायगदक्षयम् ॥

1.25.30

मध्ये बृहत्त्वाग्निबलस्थिरताकुक्षिरुक्शमान् ।
इन्द्रियस्थिरतामूर्ध्वमूर्ध्वजत्रुगदक्षयम् ॥

1.25.31

वाते सलवणं सर्पिः पित्ते केवलमिष्यते ।
वैद्यो दद्यात् बहुकफे क्षारत्रिकटुकान्वितम् ॥

1.25.32

वार्युष्णमच्छे ऽनुपिबेत्स्नेहे तत्सुखपक्तये ।
आस्योपलेपशुद्ध्यै च तौवरारुष्करे न तु ॥

1.25.33

उष्णोपचारः स्नेहे स्यादुष्णो ह्युष्णैर्विरुध्यते ।
ततो गुरुप्रावरणो निवातशयनस्थितः ।
जरणान्तं प्रतीक्षेत तृष्यन्नुष्णाल्पवारिपः ॥

1.25.34

शिरोरुग्भ्रमनिष्ठीवमूर्च्छासादारतिक्लमैः ।
जानीयाद् भेषजं जीर्यज्जीर्णं तच्छान्तिलाघावात् ॥

1.25.35

अनुलोमनिलस्वास्थ्यक्षुत्तृष्णोद्गारशुद्धिभिः ।
जीर्णाजीर्णविशङ्कायां पुनरुष्णोदकं पिबेत् ।
तेनोद्गारविशुद्धिः स्तात्ततश्च लघुता रुचिः ॥

1.25.36

भोज्यो ऽन्नं मात्रया पास्यन् श्वःपिबन् पीतवानपि ।
द्रवोष्णमनभिष्यन्दि नातिस्निग्धमसङ्करम् ॥

1.25.37

उष्णोदकोपचारी स्यात् ब्रह्मचारी क्षपाशयः ।
व्यायामवेगसंरोधशोकवर्षहिमातपान् ॥

1.25.38

प्रवातयानयानाध्वभाष्यात्यासनसंस्थितीः ।
नीचात्युच्चोपधानाहस्स्वप्नधूमरजांसि च ॥

1.25.39

यान्यहानि पिबेत्तानि तावन्त्यन्यान्यपि त्यजेत् ।
सर्वकर्मस्वयं प्रायो व्याधिक्षीणेषु च क्रमः ॥

1.25.40

उपचारस्तु शमने कार्यः स्नेहे विरिक्तवत् ।
स्नेहस्य पानात् पूर्वं च दातव्यं मृदुभेषजम् ।
उत्तेजनं हुताशस्य कोष्ठलाघवकारि च ॥

1.25.41

त्र्यहमच्छं मृदौ कोष्ठे क्रूरे सप्तदिनं पिबेत् ।
सम्यक्स्निग्धो ऽथवायावदतःसात्मीभवेत् परम् ॥

1.25.42

सात्मीभूतो हि कुरुते न मलानामुदीरणम् ।
अतियोगेन वा व्याधीन् यथाम्ब्बोधोतियोजनात् ॥

1.25.43

विहत्य सेतुं मृत्कोष्ठात् स्रवति क्षपयन् मृदम् ।
स्नेहो ऽप्यग्निं तथा हत्वा स्रवति क्षपयंस्तनुम् ॥

1.25.44

वातानुलोम्यं दीप्तो ऽग्निर्वर्चः स्निग्धमसंहतम् ।
मृदुस्निग्धाङ्गताग्लानिःस्नेहोद्वेगो ऽथलाघवम् ॥

1.25.45

विमलेन्द्रियता सम्यक् स्निग्धे रूक्षे विपर्ययः ।
पाण्ड्वामयाग्गसदनघ्राणवक्त्रगुदस्रवाः ।
गुददाहारुचिश्छर्दिमूर्छातृष्णाप्रवाहिकाः ॥

1.25.46

शुक्तोद्गारभ्रमश्वासकासाः स्नेहातिसेवनात् ।
अमात्रयाहितो ऽकाले मिथ्याहारविहारतः ।
स्नेहः करोति शोफार्शस्तन्द्रानिद्राविसंज्ञताः ॥

1.25.47

कण्डूकुष्ठज्वरोत्क्लेशशूलानाहबलक्षयान् ।
जठरेन्द्रियदौर्बल्यजाड्यामस्तम्भवाग्ग्रहान् ॥

1.25.48

तांस्तान् स्वदोषहेतूत्थान् पाण्ड्वादींश्चातियोजनात् ।
क्षुत्तृष्णोक्लेखनस्वेदरूक्षपानान्नभेषजम् ।
तक्रारिष्टखलोद्दालयवश्यामाककोद्रवाः ॥

1.25.49

पिप्पलीत्रिफलाक्षौद्रपथ्यागोमूत्रगुग्गुलु ।
यथास्वं प्रतिरोगं च स्नेहव्यापदि साधनम् ॥

1.25.50

विरूक्षणे लङ्घनवत् कृतातिकृतलक्षणम् ।
स्नेहेन पैत्तिकस्याग्निर्यदा तीव्रतरीकृतः ।
स्नेहमाशु जरां नीत्वा पुनरोजो ऽभितश्चरन् ॥

1.25.51

उदीरयेत् सोपसर्गां पिपासामस्य बाधिकाम् ।
सो ऽसूंस्त्यजेद्यद्युदकं न पिबेदाशु शीतलम् ॥

1.25.52

शीतसेकावगाहान् वा तत्तृष्णापीडितो भजेत् ।
स्नेहाग्निना दह्यमानः स्वविषेणेव पन्नगः ॥

1.25.53

अजीर्णे बलवत्या तु शीतैर्दिह्याच्छिरोमुखम् ।
छर्दयेत्तदशान्तौ च पीत्वा शीतोदकं पुनः ॥

1.25.54

रूक्षान्नमुल्लिखेद्भुक्त्वा तादृश्यां तु कफानिले ।
समदोषश्च निःशेषं स्नेहमुष्णाम्बुनोद्धरेत् ॥

1.25.55

ततो दोषादिबलतः पूर्वोक्तं च विधिं श्रयेत् ।
न सर्पिः केवलं पित्ते पेयं सामे विशेषतः ।
सर्वं ह्यनुव्रजेद्देहं हत्वा संज्ञां च मारयेत् ॥

1.25.56

स्निग्धद्रवोष्णधन्वोत्थरसभुक्स्वेदमाचरेत् ।
स्निग्धस्त्र्यहं स्थितः कुर्याद्विरेकं वमनं पुनः ॥

1.25.57

एकाहं दिनमन्यच्च कफमुत्क्लेश्य तत्करैः ।
तिलमाषदधिक्षीरगुडमत्स्यरसादिभिः ॥

1.25.58

मासला मेदुरा भूरिश्लेष्माणो विषमाग्नयः ।
स्नेहोचिताश्च ये स्नेह्यास्तान् पूर्वं रूक्षयेत्ततः ॥

1.25.59

संस्नेह्य शोधयेदेवं स्नेहव्यापन्न जायते ।
अलं मलानीरयितुं स्नेहश्चासात्म्यतां गतः ॥

1.25.60

बालवृद्धादिषु स्नेहपरिहारासहिष्णुषु ।
योगानिमाननुद्वेगान् सद्यःस्नेहान् प्रयोजयेत् ॥

1.25.61

प्रभूतमांसनिष्क्वाथान् जाङ्गलानूपजान् रसान् ।
स्नेहभृष्टेषु वा तेषु यवागूं नातिसंहताम् ॥

1.25.62

तिलचूर्णं च सस्नेहं फाणितं कृसरां तथा ।
तिलकाम्बलिकं भूरिस्नेहं सर्पिष्मतीमपि ॥

1.25.63

पेयां सुखोष्णा क्षैरेयीं पात्रे वा ससिताघृते ।
सर्पिर्लवणयुक्तं वा सद्योदुग्धं तथा पयः ॥

1.25.64

पेयां च पञ्चप्रसृतां स्नेहैस्तण्डुलपञ्चमैः ।
पायसं माषमिश्रं च बहुस्नेहसमूयुतम् ।
तैलशुण्ठीगुडरसं जीर्णे मांसरसाशिनः ॥

1.25.65

स्नेहं वैकं सुराच्छेन दध्नो वा सगुडं सरम् ।
वसां वराहजां सर्पिः पिप्पलीं लवणं तिलान् ॥

1.25.66

पिप्पलीं लवणं स्नेहांश्चतुरो दधिमस्तुकम् ।
दध्ना सिद्धं व्योषगर्भं धात्रीद्राक्षारसे घृतम् ॥

1.25.67

यवकोलकुलत्थाम्बुक्षारक्षीरसुरादधि ।
घृतं च सिद्धं तुल्यांशं सद्यःस्नेहनमुत्तमम् ॥

1.25.68

सिद्धांश्च चतुरः स्नेहान् बदरत्रिफलारसैः ।
योनिशुक्रामयहरान् सद्यःस्नेहान् प्रयोजयेत् ॥

1.25.69

लवणोपहिताः स्नेहाः स्नेहयन्त्यचिरान्नरम् ।
तद्धि विष्यन्द्यरूक्षं च सूक्ष्ममुष्णं व्यवायि च ॥

1.25.70

गुडानूपामिषक्षीरतिलमाषसुरादधि ।
कुष्टशोफप्रमेहेषु स्नेहार्थं न प्रकल्पयेत् ॥

1.25.71

त्रिफलापिप्पलीपथ्यागुग्गुल्वादिविपाचितान् ।
स्नेहान्यथास्वमेतेषां योजयेदविकारिणः ॥

1.25.72

क्षीणानां त्वामयैरग्निदेहसन्धुक्षणक्षमान् ।
दीप्तान्तराग्निः परिशुद्धकोष्ठः प्रत्यग्रधातुर्बलवर्णयुक्तः ।
दृढेन्द्रियो मन्दजरः शतायुः स्नेहोपसेवी पुरुषः प्रदिष्टः ॥

मूल पाठ: Aṣṭāṅgasaṃgraha · Edition: e-text by SARIT · SARIT: Search and Retrieval of Indic Texts · SARIT (e-text) via Internet Archive · CC BY-SA 3.0

Esc