भाषा

ENहिગુ
ग्रंथ पाठ

अष्टाङ्गसंग्रह · अध्याय 1.23

1.23.1

अथातो भेषजावचरणीयमध्यायं व्याख्यास्यामः ।
इति ह स्माहुरात्रेयादयो महर्षयः ॥

1.23.2

भेषजमवचारयन् प्रागेव तावदेवमातुरं परीक्षेत ।
कस्मिन्नयं देशे जातः संवृद्धो व्याधितो वा कस्मिंश्च देशे मनुष्याणामिदमाहारजातमिदं विहारजातमेतावत् बलमेवांविधं सत्वमेवंविधं सात्म्ममियं भक्तिरिमे व्याधयो हितमिदमहितमिदमिति ।
प्राग्ग्रहणेन केन वा निदानविशेषेणास्यकुपितो दोषः ।
दोषस्य ह्येकस्यापि बहवः प्रकोपे हेतवः ।
तस्माद्यथास्वलक्षणैः कर्मभिश्च बुध्वा भिषक्दोषमेवमवगमयेत् ।
तद्यथा ।
किमाहारेण कुपितो वायुः किं विहारेण तथा रूक्षेण लघुना शिशिरेण वा साहसेन वेगरोधेन वा भयेन शोकेन वेति ।
ततश्च तत्प्रतिपक्षमौषधं प्रयुज्यमानमाशु सिद्धये सम्पद्यते ।
तत्र मधुराम्ललवणा रसाः कटुतिक्तकषायाश्चेतरेतरप्रतिपक्षाः ।
तदनन्तरञ्चोपलभेत ।
मृदुमध्यातिमात्रविकल्पनया कथं निदानमासेवितम्
एकरूपस्यापि हि हेतोः मृद्वादिविभागेन पृथक् समवेतानाञ्च दोषाणामंशांशबलविकल्पविशेषात् व्याधेर्बलाबलविशेषः ।
तत्रानेकदोषात्मकेषु व्याधिष्वनेकरसेषु च भेषजेषु रसदोषप्रभावमेकैकशो ऽभिसमीक्ष्य व्याधिभेषजप्रभावतत्वं व्यवस्येत ।
नत्वेवं सर्वत्र ॥

1.23.3

न हि विषमविकृतिसमवेतानां नानात्मकानां परस्परेणोपगृहीतानामुपहतानाञ्चान्यैश्च विकल्पनैर्विकल्पितानामवयवप्रभावानुमानेन समुदायप्रभावतत्वमध्यवसितुं शक्यम् ।
तथाविधे हि समुदाये समुदायप्रभावमेवोपलभ्य व्याध्यौषधप्रभावतत्वमवगच्छेत् ।
तथा कस्य धामाधिष्ठाय व्याधिरयमवस्ह्तित इति निरूपयेत् ।
प्रविसृतो हि दोषः स्वमेव स्थानमातङ्कायाधितिष्ठन् मूर्द्धादीन् वा दुस्तरो भवति ।
ततश्च स्थानविशेषेण भेषजविशेषः पर्येषितव्यः ॥

1.23.4

ततश्चैवमालोचयेत् ।
कस्यायमौषधस्य व्याधिरातुरो वा योग्यः ।
कियतो वा ।
दोषानुरूपो हि भैषज्यवीर्यप्रमाणविकल्पो व्याधिव्याधितबलापेक्षो भवति ॥

1.23.5

सहसातिबलानि संशोधनौषधान्याग्नेयवायव्यान्यतिसौम्यान्यतिमात्राणि वा ।
तथाग्निक्षारशस्त्रकर्माण्यल्पसत्वमातुरमल्पबलं वातिपाययेयुः ।
संशमनानि तु व्याधिबलादधिकानि तमुपशमय्य व्याधिं व्याधिक्षपितदेहे शीघ्रमन्यमावहन्ति ।
शरीरबलाधिकानि ग्लानिमूर्च्छामदमोहबलक्षयान् ।
अग्निबलादधिकानि ग्लानिमग्निसादश्च ॥

1.23.6

अपि च ।
अतिस्थूलो ऽतिकृशो दुर्बलो दुर्बद्धमांसशोणितास्थ्यंगावयवो ऽल्पाग्निरल्पाहारो ऽसात्म्याहारोपचितः साररहितो वा व्याधिबलमेव तावदसमर्थसोढुम् ।
किं पुनस्तथाविधो भेषजमेवंवेगम् ।
तस्मात्तादृशमविषादकरैर्मृदुसुखैरुत्तरोत्तरगुरुभिरविभ्रमैश्चोपाचरेदौषधैर्विशेषादबलाः ।
ताह्यनवस्थितमृदुविक्लवहृदयाः प्रायःसुकुमाराः परायत्ताश्च ।
ततो ऽपि विशेषेण शिशवः ।
तथा बलवति व्याध्यातुरे ऽल्पबलमल्पं वा भेषजमकिञ्चित्करं भूय एव दोषमुत्क्लेश्य व्याधिमुदीरयेत् ॥

1.23.7

योग्यमपि चौषधमेवं परीक्षेत ।
इदमेवंरसवीर्यविपाकमेवंगुणमेवंद्रव्यमेवंकर्मैवंप्रभावमस्मिन् देशे जातमस्मिन्नृतावेवंगृहीतमेवंनिहितमेवंविहितमेवंनिषिद्धमेवमुपसस्कृतमेवंसंयुक्तमेवंयुक्तमनया मात्रयैवंविधस्य पुरुषस्यैवंविधे काल एतावन्तं दोषमपकर्षत्युपशमयति वा ।
अन्यदपि चैवंविधं भेषजमभूत् तन्मानेन वा विशेषेण प्रयुक्तमिदमकरोत् ।
सूक्ष्माणि हि दोषौषधदूष्यदेशकालबलानलाहाररससात्म्यसत्वप्रकृतिवयसामवस्थान्तराणि ।
यान्यनालोचितानि निहन्युरातुरम् ।
आलोच्यमानानि तु विपुलबुद्धिमपि चिकित्सकमाकुलीकुर्युः ।
किं पुनरल्पबुद्धिम् ।
तस्मादभीक्ष्णशः शास्त्रार्थकर्मानुशीलनेन संस्कुर्वीत यज्ञाम् ।
अपि च ।
सन्ति व्याधयो ये शास्त्र उत्सर्गापवादैरुपक्रमं प्रति निर्दिष्टाः ।
तत्र प्राज्ञ एव दोषादिगुरुलाघवेन सम्यगध्यवस्येदन्यतरनिष्ठायाम् ॥

1.23.8

कालश्च भेषजस्य योग्यतामादधाति ।
स क्षणलवमुहूर्तादिभेदेनातुरावस्थया च द्विधोक्तः प्रागपि च ।
शीतोष्णवर्षलक्षणस्त्रिविधः कालः ।
तत्र शीतोष्णयोर्वृष्टिशीतयोश्चान्तरे साधारणौ वसन्तजलदात्यायु ।
ग्रीष्मवर्षकालयोस्तु प्रारम्भो वृष्टेः प्रावृडिति विकल्प्यते ।
तेषु साधारणेष्वहस्सु वमनादीनां प्रवृत्तिर्न्निवृत्तिरितरेष्वयोगातियोगभयात् ।
साधारणा हि मन्दशीतोष्णवर्षतया सुखत्वात् भवन्त्यविकल्पकाः शरीरौषधानाम् ।
विपरीतास्त्वितरे ॥

1.23.9

तथा हि शीतकाले ऽतिमात्रशीतोपहितत्वाच्छरीरमत्यर्थशीतवातविष्टब्धमतिस्तब्धबहुगुरुदोषं भवति ।
तदनु प्राप्तञ्च भेषजं संशोधनार्थमुष्णस्वभावमपि शीतोपहतत्वान्मन्दवीर्यतां गतमयोगाय जायते ।
शरीरञ्च वातप्रायोपद्रवाय ।
तद्वद्वर्षास्वपि समन्तादतिघनेन बहलेन घनसम्पातेनावतते नभसि उपरुद्धतेजःयसरेषु दिनकरकरेषु जलपटलोत्प्लावनोद्दामकर्दमायां भूमावत्यर्थोपक्लिन्नमवसन्नानलबलमादानदुर्बलं शरीरं भवति ॥

1.23.10

औषधग्रामस्तु जलदोदरप्रततप्रमुक्तधारावपातसम्भृताम्बुनिवहोपप्लावितमूलजालसारविटपो बहलकोमलपल्लवोपचितस्कन्धशाखः पुनरिव बालतामुपगतो ऽल्पवीर्यो भवति ।
अपरिसंस्थिततया च क्षितिमलप्नायाभिरम्लविपाकाभिः खगमृगसरीसृपादिशवधातुमूत्रपुरीषसंस्पृष्टाभिरद्भिः सलिलशिशिरशीकरानुविद्धशिशिरपवनसम्पृक्तेन च धाराधरोष्मणा कोमलत्वादपरिणतस्यास्य सुतरां विदाहो जन्यते ।
ततश्चासावपथ्यतामुपगतो ध्रुवमयोगाय प्रथमसंगृहीतमपिचौषधं तोयदतोयानुगतमारुतोपहते जगतीति ॥

1.23.11

ग्रीष्मे पुनरादानोपहतत्वाच्छरीरमुष्णरूक्षवातातपाध्मातमतिस्विन्नमतिशिथिलमतियलीनदोषं भवति ।
भेषजं पुनरनुष्णमपि तपनकरनिपातादुष्णतीक्ष्णतामुपगतमतियोगायोपकल्पते ।
शरीरञ्च पिपासाभ्रमक्लमोपद्रवाय ।
तस्मात्साधारणेष्वेव तदन्तरालेषु वमनादीनि योजयेन्नचेदात्ययिको व्याधिः ।
आत्ययिके तु कृत्रिमगुणोपधानेन यथर्तुगुणविपरीतेन संयोगसंस्कारप्रमाणविकल्पैश्चोपपाद्यौषधमेवावहितो ऽवचारयेत् ॥

1.23.12

आतुरावस्थासु तु कलाः कालसंज्ञाः ।
तद्यथास्यामवस्थायामस्यौषधस्य कालो ऽकालो वा ।
नह्यप्राप्तातीतकालमौषधं यौगिकं भवति ।
तस्यत्वेकादशधावचारणम् ।
तद्यथा ।
अभक्तं प्राग्भक्तं मध्यभक्तमधोभक्तं सभक्तमन्तरभक्तं सामुद्गं मुहुर्मुहुः सग्रासं ग्रासान्तरा निशि च ॥

1.23.13

तत्राभक्तं नाम केवलमेवौषधं निरन्नोपयोगादतिवीर्यम् ।
कफोद्रेकविमुक्तामाशयस्रोताः प्रातर्बलवानुपयुञ्जीत ।
इतरस्तु प्राग्भक्तादिकमन्नसंसर्गेण हितं नातिग्लानिकरं भवति ॥

1.23.14

प्राग्भक्तं नाम यदनन्तरभक्तम् ।
तदपानानिलविकृतावधः कायस्य च बलाधानार्थं तद्गतेषु च व्याधिषु प्रशमनाय कृशीकरणार्थञ्च योज्यम् ॥

1.23.15

मध्यभक्तं मध्ये भक्तस्य तत् समानानिलविकृतौ ।
कोष्ठगतेषु च व्याधिषु पैत्तिकेषु च ॥

1.23.16

अधोभक्तं भक्तादनन्तरम् ।
तत्तुव्यानविकृतौ प्रातराशान्तमुदानविकृतौ पुनः सायमाशान्तम् ।
पूर्वकायस्य च बलाधानार्थं तद्गतेषु व्याधिषु च श्लैष्मिकेषु च प्रशमाय स्थूलीकरणार्थञ्च ॥

1.23.17

सभक्तं यदन्नेन समं साधितं पश्चाद्वा समालोडितम् ।
तत् बालेषु सुकुमारेष्वौषधद्वेषिष्वरुचौ सर्वाङ्गगेषु च रोगेषु ॥

1.23.18

अन्तराभक्तं यत् पूर्वाह्णे भक्ते जीर्णे मध्याह्ने भेषजमुपयुज्यते ।
तस्मिंश्च जीर्णे पुनरपराह्णे भोजनम् ।
एतेन रात्रिर्व्याख्याता ।
तद्दीप्ताग्नेर्व्यानजेष्वामयेषु ॥

1.23.19

सामुद्गं यदादावन्ते च भुक्तस्य ।
तत्तु लघ्वल्पान्नयुक्तं पाचनावलेहचूर्णादि हिध्मायां कम्पाक्षेपयोरूर्ध्वाधस्संश्रये च दोषे ॥

1.23.20

मुहुर्मुहुस्तु पुनःपुनर्भुक्ते यदभुक्ते वा ।
तच्छवासकासहिध्मातृट्छर्दिषु विषनिमित्तेषु च विकारेषु ॥

1.23.21

सग्रासं यत् ग्राससम्पृक्तम् ।
ग्रासान्तरं यत् ग्रासयोर्ग्रासयोर्मध्ये द्वयमप्येतत् प्राणानिलविकृतौ ।
तथा सग्रासं चूर्णलेहवटकादिकमग्निदीपनं वाजीकरणानि चोपयुञ्जीत ।
ग्रासान्तरं हृद्रोगे वमनं धूमञ्च ।
जत्रूर्ध्वामयेषु निशायाम् ॥

1.23.22

तत्राद्ये काले तृषितः पीतशीताम्बुरजीर्णी क्षुधितः क्षामश्च भेषजं वर्जयेत् ।
शेषेषु वाहृद्यमसात्म्यमतितीक्ष्णोष्णोग्रगन्धं भूरिमात्रञ्चेति ।
भवति चात्र श्लोकः ॥

1.23.23

रोगमादौ परीक्षेत तदनन्तरमौषधम् ।
ततः कर्म भिषक् पश्चात् ज्ञानपूर्वं समाचरेत् ॥

1.23.24

निवृत्तो ऽपि पुनर्व्याधिरल्पेनायाति हेतुना ।
देहे मार्गीकृते दोषैः शेषः सूक्ष्म इवानलः ॥

1.23.25

तस्मात्तमनुबध्नीयात् प्रयोगेणानपायिना ।
सिद्धानामपि योगानां पूर्वेषां दार्ढ्यमावहन् ॥

1.23.26

सातत्यात्स्वाद्वभावाद्वा पथ्यं द्वेष्यत्वमागतम् ।
कल्पनाविधिभिस्तैस्तैः प्रियत्वं गमयेत् पुनः ॥

1.23.27

मनसोर्थानुकूल्येन तुष्टिरूर्जा रुचिर्बलम् ।
सुखोपभोगता च स्यात् व्याधेश्चातः परिक्षयः ॥

1.23.28

लौल्याद्दोषक्षयाद्व्याधिवैषम्येण च या रुचिः ।
तासु पथ्योपचारज्ञो योगेनाद्यं विकल्पयेत् ॥

1.23.29

शीतोष्णवर्षानिचितं चैत्रश्रावणकार्तिके ।
क्रमात् साधारणे श्लेष्मवातपित्तं हरेद्द्रुतम् ॥

1.23.30

प्रावृट्शरद्वसन्तानां मासेष्वेतेषु वा हरेत् ।
साधारणेषु विधिना त्रिमासान्तरितान्मलान् ॥

1.23.31

कृस्वा शीतोष्णवृष्टीनां प्रतीकारं यथायथम् ।
प्रयोजयेत् क्रियां प्राप्तां क्रियाकालं न हापयेत् ॥

1.23.32

सप्ताहेन गुणालाभे क्रितामन्यां प्रयोजयेत् ।
पूर्वस्यां शान्तवेगायां न क्रियासङ्करो हितः ।
गुणे ऽल्पेपि तु तामेव विशेषोत्कर्षलब्धये ॥

1.23.33

भेषजं नृपतेर्हृद्यमल्पमल्पात्ययं शुचिः ।
शुद्धागमं बहुगुणं बहुकृत्वः प्रयोजितम् ॥

1.23.34

अनन्यकार्यो ऽवहितः तथा तन्मन्त्रिसम्मतः ।
आस्वादितं परिचरैःस्वयञ्चानुप्रयोजयेत् ॥

1.23.35

उचितो यस्य यो देशस्तज्जं तस्यौषधं हितम् ।
देशे ऽन्यत्रापि वसतस्तत्तुल्यगुणजन्म च ॥

1.23.36

वीर्यवद्भावितं सम्यक् स्वरसैरसकृल्लघु ।
रसगन्धादिसम्पन्नं काले जीर्णे च मात्रया ।
एकाग्रमनसा युक्तं भषज्यममृतायते ॥

मूल पाठ: Aṣṭāṅgasaṃgraha · Edition: e-text by SARIT · SARIT: Search and Retrieval of Indic Texts · SARIT (e-text) via Internet Archive · CC BY-SA 3.0

Esc