भाषा

ENहिગુ
ग्रंथ पाठ

अष्टाङ्गसंग्रह · अध्याय 1.22

1.22.1

अथातो रोगभेदीयमध्यायं व्याख्यास्यामः इति हस्माहुरात्रेयादयो महर्षयः ।
सप्तविधाः खलु रोगा भवन्ति ।
सहगर्भजातपीडाकालप्रभावस्वभावजाः ।
ते तु पृथग्द्विविधाः ।
तत्र सहजाः शुक्रार्तवदोषान्वयाः ।
कुष्ठार्शोमेहादयः ।
पितृजा मातृजाश्च ।
गर्भजा जनन्यभिवारात् कौब्जपाङ्गुल्यपैग्गल्यकिलासादयो ऽन्नरसजा दौहृदविमाननजाश्च ।
जातजाः स्वापचारात् सन्तर्पणजा अपतर्पणजाश्च ।
पीडाकृताः क्षतभङ्गप्रहारक्रोधशोकभयादयः शारीरमानसाश्च ।
कालजाः शीतादिकृता ज्वरादयो व्यापन्नजा असंरक्षणजाश्च ।
प्रभावजा देवगुरूल्लङ्घनशापार्थवणादिकृता ज्वरादयः पिशाचादयश्च ।
स्वभावजाः क्षुत्पिपासाज्वरादयः कालजा अकालजाश्च ।
तत्र कालजा रक्सणकृताः ।
अरक्षणजा अकालजाः ।
त एते समासतः पुनर्द्विविधा भवन्ति ।
प्रत्युत्पन्नकर्मजाः पूर्वकर्मजाश्च ।
तत्र रोगोत्पत्तिं प्रति प्रत्युत्पन्नं कर्म यदनेनैव शरीरेण दृष्टमदृष्टञ्चोद्दिश्याप्तोपदिष्टानां विहितानां प्रतिषिद्धानामननुष्ठानमनुष्ठानं वा ।
जन्मान्तरातीतेन तु पूर्वम् ।
तत्तु पुनर्दैवाख्यमुक्तञ्च नियतानियतभेदेन प्राक् ।
तस्माद् दृष्टहेतवः प्रत्युत्पन्नकर्मजाः ।
विपरीता दैवजन्मानः अल्पनिदाना महारुजाश्चोभयात्मकाः ॥

1.22.2

तत्र यथास्वं प्रतिपक्षशीलनात् पूर्वेषां रोगाणामुपशमः ।
सत्येव विपक्षशीलने ऽनिष्टकर्मक्षयात् दैविकानाम् ।
दोषकर्मक्षयादन्येषाम् ।
अन्ये पुनः प्रत्युत्पन्नं कर्म परकृतमपि वर्णयन्ति ।
तच्च पराभिसंस्कारमाचक्षते ।
एवञ्चाहुः यदि स्वयं कृतादेवकर्मणः कार्यानिर्वृत्तिः स्यात् ।
न दृष्टपुरुषान्तरकृतात् ।
किमिति विद्वानपि पराचरितयोरुपकारापकारयोः सुखदुःखानुरोधात्तोषरोषौ प्रतिकर्तव्यचित्तं वा प्रतिपद्यते ।
एवमेते व्याधयो द्विविधाः सन्तः त्रिविधा जायन्ते ।
ततश्च दोषवन्तो भूयः सप्तविधाः ॥

1.22.3

सकलो ऽपि चायं रोगसमूहः प्रतिकारवानायुर्वेदविहितमुपदेशमपेक्षते ।
यस्मान्नियतहेतुको ऽप्यामयः सम्यक् भिषगादेशानुष्ठानादुपात्तायुस्संस्कारापरिक्षये जातोपि वा सह्यवेदनतां प्रतिपद्यते ।
अनुपक्रम्यमाणस्तु सर्व एव प्रायशो भिनत्यकण्डे ।
स्वयमपि च दैवान्निदानाल्पतया वा निवर्तमानष्षोडशगुणसमुदित क्रियोपलम्भादाशुतरमपरिक्लिष्टस्य चापगच्छति ।
अनियतफलदायिनि तु दैवे हिताभ्यासरतस्या ऽवकाशमेव न लभते व्याधिः ।
तस्मान्न कस्याञ्चिदवस्थायामात्मवान् हिताहितयोः तुल्यदर्शी स्यात् ।
त्रिविधाश्च पुनर्व्याधयो मृदुमध्याधिमात्रभेदेन ।
तत्राल्पलक्षणा मृदवो मध्यलक्षणा मध्याः सम्पूर्णलक्षणास्त्वधिमात्राः ।
ते पुनः सुखसाध्यादिविशेषेण चतुर्विधाः प्रागुपदिष्टाः ।
सुबहुशो ऽपिच भिद्यमाना व्याधयो निजागन्तुतां न व्यभिचरन्ति ॥

1.22.4

तत्र निजास्तु दोषोत्थाः ।
तेषु पूर्वं वातादयो वैषम्यमापद्यन्ते ततो व्यथाभिनिर्वर्तते ।
बाह्यहेतुजास्त्वागन्तवः तेषु प्राहरेण व्यथा पूर्वमुपजायते ततो दोषवैषम्यम् ।
दोषवैषम्येणैव च बहुरूपा रुगनुबध्यते प्रवर्द्धते च ।
एवञ्च कृत्वा न दोषव्यतिरेकेण रोगानुबन्धः केवलं पौर्वापर्ये विशेषः ।
तस्मादेकाकारा एवरोगा रुक्सामान्यात् ।
असङ्ख्यभेदा वा प्रत्येकं समुत्थानस्थानसंस्थानवर्णनामवेदनाप्रभावो पक्वमविशेषात् ।
यथास्थूलं यथास्वमेवोपदेक्ष्यन्ते ।
असङ्ख्येयत्वाच्च दोषलिङ्गैरेव रोगानुपक्रमं च विभजेत् ॥

1.22.5

दोषा एव हि सर्वरोगककारणम् ।
यथैव शकुनिः सर्वतः परिपतन् दिवसं स्वां च्छायां नातिवर्तते ।
यथा वा कृत्स्नं विकारजातं वैश्वरूप्येण व्यवस्ह्तितं गुणत्रयमप्यतिरिच्य न वर्तते ।
तथैवेदमपि कृत्स्नं विकारजातं दोषत्रयमिति ।
यथा च विद्युद्वर्षादयो नभसि भवन्ति न त्ववश्यं निमित्ततस्त्ववश्यमपि ।
तरङ्गबुद्बुदादयश्चाम्भसि तथा दोषेषु रोगाः ॥

1.22.6

त्रिविधन्तु निमित्तमेषामसात्म्येन्द्रियार्थसंयोगः पज्ञापराधाः परिणामश्च ते पुनः प्रत्येकमतियोगायोगमिथ्यायोगभेदात् त्रिधा भिद्यन्ते ।
तत्र यथास्वं चक्षुरादीन्द्रियाणां रूपादिभिरर्थैरतिसंसर्गो ऽतियोगः ।
अल्पशो नैव वा संसर्गस्त्वयोगः ।
सूक्ष्मातिदूरान्तिकस्थातिभास्वत्भरवाप्रियविकृतादिदशनम् ।
द्विष्टात्युच्चपरुषभीषणादिश्रवणम् ।
पूत्यमेध्यातितीक्ष्णोग्रप्रतिकूलाद्याघ्राणम् ।
स्वभावादिभिराहारकल्पनाविशेषायतनैरपथ्यानां रसानामभ्यवहारः तथा स्नानादीनां शीतोष्णादीनाञ्च स्पृश्यानामयथावदुपसेवनमशुचिभूताभिघातविषवातादिसंस्पर्शश्च भिथ्यायोगः ॥

1.22.7

कायवाङ्मनोभेदेन तु त्रिविधमप्यहितं कर्म प्रज्ञापराधः ।
तत्र कायादिकर्मणो ऽतिप्रवृत्तिरतियोगः ।
अल्पशो नैव वा प्रवृत्तिरयोगः ।
वेगोदीरणधारणविषमाङ्गेचष्टनस्खलनकण्डूयनप्रहारप्राणायामादि ।
तथा क्षुत्पिपासार्धभुक्तभाषणादि ।
भयशे केर्ष्यामात्सर्यादि ।
दशविधं चाकुशलं कर्म यथास्वं मिथ्यायोगः ।
परिणामः काल उच्यते ।
सो ऽपि शीतोष्णवर्षभेदात्त्रिधा ।
तत्रालितिमात्रस्वलक्षणः कालो ऽतियोगः ।
हीनस्वलक्षणस्त्वयोगः ।
विपरीतो मिथ्यायोगः ।
त एते ऽतियोगादयः सामान्यतो ऽनुपशयलक्षणाः ।
सर्वो वा प्रज्ञापराध एवायं यदेषामविवर्जनम् ।
अर्थकर्मकालाः पुनःसम्यग्योगेनोपशयात् भूयिष्ठं स्वास्थ्यहेतवः ।
तत्रापि रसवर्ज्या विषया यथायथमिन्द्रियं बाधन्ते ऽनुगृह्णन्ति च ।
शेषा रसकर्मकालास्तु सर्वं देहं ।
अपि च ॥

1.22.8

सर्वभावानां भावाभावौ नान्तरेण योगातियोगादीन् व्यवस्येत् ।
सर्वेषां पुनर्विकाराणां निदानदोषदूष्याविशेषेभ्यो भावाभावविशेषा भवन्ति ।
यदा ह्येते त्रयो निदानादिविशेषात् नान्योन्यमनुबध्नन्तीषद्वानुबध्नन्त्यबला वा न तदामिनिर्वर्त्तन्ते व्याधर्याश्चरा द्वाभिनिर्वर्त्तन्ते तनवो वा भवन्त्यसम्पूर्णलिङ्गा वा ।
विपर्यये तु विपरीताः ॥

1.22.9

त्रयश्च रोगाणां मार्गा बाह्यमध्याभ्यन्तराः तत्र बाह्यो रक्तादिधातवस्त्वक् च ।
स पुनः शाखाख्यः ।
तदाश्रयाः गण्डपिटकालज्यपचीचर्मकीलार्बुदाधिमांसमशव्यङ्गादयो बहिर्भागाश्च शोफार्शोगुल्मवीसर्पविद्रध्यादयः ।
मध्यो मूर्द्धहृदयबस्त्यादीनि मर्माण्यस्थिसन्धयः ।
तत्रोपनिवद्धाश्च स्नायुसिराकण्डरादयः तदाश्रयाः ।
पक्षवधग्रहापतानकार्दितराजयक्ष्मास्थिसन्धिशूलगुदभ्रंशादयो मूर्द्धादिरोगाश्च ।
आभ्यन्तरो महास्रोतः शरीरमध्यं महानिम्नमामपक्वाशयाश्रयः कोष्ठो ऽन्तरिति पर्यायाः तदाश्रया ज्वरातीसारछर्द्यलसकविषूचिकाश्वासकासहिध्मानाहोदरप्लीहादयो ऽन्तर्भागाश्च विसर्पशोफार्शोविद्रधिगुल्मादयः ॥

1.22.10

ते च रोगाः स्वप्रधाना भवन्त्यन्यपरिवारा वा क्रमादनुबन्ध्यनुबन्धाख्याः ।
तत्राद्याः स्वतन्त्राः स्पष्टाकृतयो यथास्वं समुत्थानोपशयाश्च ।
इतरे तु तद्विपरीताः तद्वच्च दोषा अपि ।
तत्रान्यपरिवारा व्याधयो द्विविधाः ।
पुरोगामिनोनुगामिनश्च ।
तेष्वाद्याः पूर्वरूपसंज्ञाः ।
उपद्रवास्त्वितरे ।
तान्यथायथमेव वक्ष्यमाणानुपलक्षयेत् ।
प्रधानप्रशमे च प्रशमो भवति तेषामनुपशाम्यतो वा पश्चात्तानुपक्रमेत् ।
त्वरितं वा बलवन्तमुपद्रवं प्रधानाविरोधेन ।
स हि पीडाकरतरो भवति व्याधिपरिक्लिष्टदेहत्वात् प्रमेहपिटकादिवत् ।
तथान्यः प्रधान एव रोगो ऽन्यस्य प्रधानस्य हेतुः भवति ।
यथा ज्वरो रक्तपित्तस्य रक्तपित्तं वा ज्वरस्य ।
तौ श्वासस्य ।
प्लीहा जठरस्य ।
तच्छ्वयथोः ।
अर्शांसि गुल्मोदरातीसारग्रहणीनां ।
प्रतिश्यायः कासज्वरयोः ।
तौ क्षयस्य ।
क्षयः शोषस्य ।
एकश्चापचारो निमित्तमेकस्य व्याधेः बहूनां च तथा बहवः तद्वदेकं लिङ्गम् ।
एवमेव प्रशमे ऽभ्युपायः तथा स एवान्यस्य प्रकोपे ।
तस्मात्तानवहितः सम्यगागमादिभिः परीक्षेत ॥

1.22.11

तत्रागमतो रोगमेवमेवं प्रकोपणमेवं योनिमेवमधिष्ठानमेवमात्मानमेवं देवनमेवं रूपशब्दगन्धरसस्पर्शमेवं पूर्वरूपमेवमुपद्रवमेवं वृद्धिस्थानक्षयान्वितमेवमुदर्कमेवं नामानम् ।
तस्मिन्नियं प्रतीकारस्य प्रवृत्तिः अन्यथा निवृत्तिः ।
प्रत्यक्षतस्त्वातुरस्य यथास्वमिन्द्रियैर्वर्णसंस्थानप्रमाणोपचयछायाविण्मूत्र छर्दिताधिक्यमान्त्रकूजनमङ्गुल्यादिषुसन्धिषु स्फुटनं देहशकृद्वर्णादिगन्धं सुप्तशीतोष्णस्तम्भनसंस्पन्दश्लक्ष्णखरस्पर्शञ्च ।
प्रकृतिविकृतियुक्तमास्यरसन्तु प्रश्नेन तथा सुच्छर्दनदुच्छर्दनत्वं मृदुक्रूरकोष्ठतां स्वप्नदर्शनमभिप्रायं जन्मामयप्रवृत्तिनक्षत्रद्विष्टेष्टसुखदुःखानि च ।
तथा वयः प्रत्यक्षेण च ।
अनुमानतस्तु यूकापसर्पणेन शरीरवैरस्यम् ।
मक्षिकोपसर्पणेन शरीरमाधुर्यम् ।
तथाग्निं जरणशक्त्या ।
बलं व्यायामशक्त्या ।
गूढलिङ्गं व्याधिमुपशयानुपशयतः ।
दोषप्रमाणमपचारविशेषेणायुषः क्षयं रिष्टैः ।
प्रकृति सत्वसारसात्म्यबलाननुशीलनेनेति ।
भवति चात्र ॥

1.22.12

ज्ञानबुद्धिप्रदीपेन यो नाविशति योगिवत् ।
आतुरस्यान्तरात्मानं न स गोरांश्चिकित्सति ॥

1.22.13

द्वाविमौ व्याधितौ व्याधिस्वरूपस्याप्रकाशकौ ।
तद्यथैको गुरुव्याधिः सत्वदेहबलाश्रयात् ॥

1.22.14

लघुव्याधिवदाभाति लघुव्याधिरतोन्यथा ।
बाह्यावयवमात्रेण तयोर्मुह्यति बालिशः ॥

1.22.15

ततोल्पमल्पवीर्यं वा विपरीतमतो ऽथवा ।
पथ्यंविपर्यये युञ्जन् प्राणान् मुष्णाति रोगिणाम् ॥

1.22.16

ज्ञानांशेन न हि ज्ञानं कृत्स्ने ज्ञेये प्रवर्तते ।
बुभुत्सेत भिषक् तस्मात् तत्वं तन्त्रानुशीलनात् ॥

1.22.17

अभियुक्तस्तु सततं सर्वमालोच्य सर्वथा ।
न जातु स्खलति प्राज्ञो विषमेपि क्रियापथे ॥

1.22.18

आगन्तुरन्वेति निजं विकारं निजस्तथागन्तुमतिप्रवृद्धः ।
तत्रानुबन्धं प्रकृतिञ्च सम्यक् ज्ञात्वा ततः कर्म समारभेत ॥

मूल पाठ: Aṣṭāṅgasaṃgraha · Edition: e-text by SARIT · SARIT: Search and Retrieval of Indic Texts · SARIT (e-text) via Internet Archive · CC BY-SA 3.0

Esc