भाषा

ENहिગુ
ग्रंथ पाठ

अष्टाङ्गसंग्रह · अध्याय 1.21

1.21.1

अथातो दोषोपक्रमणीयमध्यायं व्याख्यास्याम इति हस्माहुरात्रेयो महर्षयः ।
वातस्योपक्रमः स्नेहः स्वेदो मृदूनि स्निग्धोष्णमधुराम्ललवणानि संशोधनान्यभ्यवहार्याणि चाभ्यङ्गपूर्वमुपनाहनोपवेष्टनोन्मर्दनपरिषेकावगाहसंवाहन पीडनानि वित्रासनविध्मापनविस्मरणानि सुरासवविधानं स्नेहाश्चानेकयोनयो दीपनीयपाचनीयवातहरविरेचनीयद्रव्योपहितास्तथा शतपाकसहस्रपाकाः सर्वशः प्रयोगार्था बस्तयो बस्तिनियमो विशेषतस्तैलं मांसरसो ऽनुवासनानि सुखशीलता स्त्रीसम्पर्कवर्ज्यश्च हैमन्तो विधिः ॥

1.21.2

पित्तस्य सर्पिष्पानं सर्पिषा स्नेहनमधोदोषहरणं मधुरतिक्तकषायाणामौषधाभ्यवहार्याणामुपयोगो मृदुसुरभिशीतहृद्यानां गन्धानामुपसेवा परमशिशिरसुरभिसलिलमज्जनम् ।
मनो ऽनुकूलसंस्पर्शसुखानां मुक्तामणिवैडूर्याश्मगर्भशङ्खशिलापद्मरागचन्द्रकान्तकान्ततरतरलावलीनां भ्रमरत्रासितसहस्रपत्रासितोत्पल कदलीदलनवमालिकाकुन्दमल्लिकादिविविधवर्णप्रसूनविरचितानां स्रजां च धारणमुरसा ।
क्षणे क्षणे चाग्र्यचन्दनप्रियङ्गुकालेयकमृणालकर्पूरसुगन्धिशीतस्वच्छगन्धवारिभिः सकमलकुमुदकुवलयैर्भूमितलकवाटवातायनहर्म्यभित्तीनामभिप्रोक्षणम् ।
श्रुतिसुखमृदुमधुरमनो ऽनुगानां गीतवादित्राणामभ्युदयानां च श्रवणम् ।
अयन्त्रणैः समानविषयवेषचरितैरुत्सवोत्सवतरान्योन्यदर्शनैः सुहृद्भिः सहासनम् ।
अनृतवचनविरहस्वभावसुरभितरवदनकुड्मलानां नातिस्पष्टाभिधायिनामनुपचारमधुरकोमलोल्लापानां प्रियाणामपत्यकानां सदयमाश्लेषः ।
निर्दयं च तनुतरमृदुसुरभिनिवसनाभिर्मल्लिकामुकुलानुकारिमुक्ताफलप्रायालङ्काराभिः सहचरीनिनादसञ्जल्पोपजनितौत्सुक्यकलहंसानुनादितनूपुररशनाकलापशिञ्जितानुगमनसम्मुग्धमुग्धस्निग्धमृदुवचनाभिर्निजजघननिबिडकुचयुगलालङ्कारभारोद्वहनश्रमश्वसनकम्पितमध्यमुकुलितलोचनोत्पलाभिः किञ्चिद्विगलितनवयौवनाभिः प्रियङ्गसङ्गमात्रातिमात्रसुखास्वादविस्रंस्यमानांशुकैककालोपजातव्रीडावैलक्ष्यप्रगल्भतावैक्लव्यहर्षविषादविस्मयस्मितकोपप्रसादसाध्वसस्रस्तस्विन्नसर्वाङ्गद्रवीकृतहिमाङ्गरागाभिः समस्तदेहहृदयप्रह्लादकारिणीभिर्विलासवतीभिश्चतुरङ्गमिवानङ्गबलमङ्गैस्तनुभिरपि समुद्वहन्तीभिरङ्गनाभिराश्लेषः ।
सकलरजनीकरकरनिकरावकीर्णशिशिरतराणि भवनतलसलिलपुलिनानि ।
अतिसितसिकतोपास्तृततलमनोककाययन्त्रप्रवृत्तीवमलसलिलधारं धारागृहम् ।
सागरानुकारितोयाशयोपतीरसुनिविष्टकुसुमितबहुविटपपृथुतुङ्गविविधतरतटरुहतरुनिवहबहलच्छायोपसञ्छन्नं घवलरक्तनीलनीरजरजोव्याप्तसमस्तजलविपुलसिकतिलतलोपकल्पितं दोलायमानगणतिथपृथुदृतिकलशसरणकरकस्रवदुदकप्रवाहाहितमृत्सौरभभूतलैकदेशं प्रलम्बमानाम्रजम्बूकदम्बविदुलनिचुलादिकिसलयमञ्जरीस्तबकप्रत्युप्तपटालिकं मुहुर्मुहुः पुरुषप्रयत्नप्रेरितघटमुखोद्गीर्णोशीरचन्दनानुविद्धावलग्नपतितशेष मुक्ताफलायमानजललवमुछ्रायविस्तारवदनिषिद्धदूरविस्तृतशीतवातप्रवेशमत्यर्थसन्तताम्बुशीतशीकराभिषेकप्रतिहतसन्तापदाहमोहश्रमक्लमपिपासमतिशयप्राप्तरामणीयकं हिमाचलस्पर्द्धिशैत्यमम्बुधरकाललीलाविडम्बि कायमानम् ।
प्रफुल्लपद्मोत्पलपुण्डरीकसौगन्धिककोकनदशतपत्रपरागरागानुरञ्जितजलचरविहगगणकलनिनदरम्या दीर्घिकाः मधुपानलोभनिलीयमानालिकुलचलितलताप्रताननिपतितविविधकुसुमनिचयशयनरचनासव्यापारमृदुपवनान्युपवनानि ।
विशेषतस्तु घृतं पयो विरेचनानि सौम्याः सर्वे भावाः दिवास्वप्नवर्ज्यश्च ग्रैष्मो विधिः ॥

1.21.3

श्लेष्मणः पुनर्विधिविहितानि तीक्ष्णानि संशोधनानि रूक्षप्रायाण्यभ्यवहार्याणि कटुतिक्तकषायोपहितानि तीक्ष्णानि दीर्घकालस्थितानि हृद्यानि मद्यानि धावनलङ्घनप्लवनजागरणानियुद्धयुद्धव्यवायव्यायामरूक्षोन्मर्दनस्नानोच्छादनानि ।
विशेषतः क्षौद्रं यूषो वमनानि सर्वशश्चोपवासः सधूमगण्डूषः सुखप्रतिषेधः सुखार्थमेव वासन्तिको विधिरिति ।
भवन्ति चात्र ॥

1.21.4

उपक्रमः पृथग्दोषान् यो ऽयमुद्दिश्य कीर्तितः ।
संसर्गसन्निपातेषु तं यथास्वं विकल्पयेत् ॥

1.21.5

ग्रैष्मः प्रायो मरुत्पित्ते वासन्तः कफमारुते ।
मरुतो योगवाहित्वात् कफपित्ते तु शारदः ॥

1.21.6

योज्याः पट्वम्लमधुरा वायौ क्रुद्धे रसाःक्रमात् ।
पित्ते पित्तस्ततः स्वादुः कषायश्च रसो हितः ॥

1.21.7

कटुकः प्राक् ततस्तिक्तः कषायो ऽन्ते कफामये ॥

1.21.8

चयप्रकोपप्रशमा वायोर्ग्रीष्मादिषु त्रिषु ।
वर्षादिषु तु पित्तस्य श्लेष्मणेः शिशिरादिषु ॥

1.21.9

चीयते लघुरूक्षाभिरोषधीभिः समीरणः ।
तद्विधस्तद्विधे देहे कालस्यौष्ण्यान्न कुप्यति ॥

1.21.10

अद्भिरम्लविपाकाभिरोषधीभिश्च तादृशम् ।
पित्तं याति चयं कोपं न तु कालस्य शैत्यतः ॥

1.21.11

चीयते स्निग्धशीताभिरुदकौषधिभिः कफः ।
तुल्ये ऽपि काले देहे च स्कन्नत्वान्न प्रकुप्यति ॥

1.21.12

इति कालस्वभावो ऽयम् आहारादिवशात् पुनः ।
चयादीन् यान्ति सद्यो ऽपि दोषाः काले ऽपि वा न तु ॥

1.21.13

व्याप्नोति सहसा देहमापादतलमस्तकम् ।
निवर्तते तु कुपितो मलो ऽल्पाल्पं जलौघवत् ॥

1.21.14

चय एव जयेद्दोषं कुपितं त्वविरोधयन् ।
सर्वकोपे बलीयांसं शेषदोषाविरोधतः ॥

1.21.15

क्रमान्मरुत्पित्तकफान् सर्वत्र सदृशे बले ।
वातादीनां यथापूर्वं यतः स्वाभाविकं बलम् ॥

1.21.16

ऊचे पराशरो ऽप्यर्थममुमेव प्रमाणयन् ।
यथोपन्यासतः प्राप्तमादौ दोषभिषग्जितम् ॥

1.21.17

नेतृभङ्गेन दृष्टो हि समं सैन्यपराजयः ॥

1.21.18

स्थानतः केचिदिच्छन्ति प्राक् तावच्छ्लेष्मणो वधम् ।
शिरस्युरसि कण्ठे च प्रलिप्ते ऽन्नरुचिः कुतः ॥

1.21.19

तदभावे कथं भोज्यपानद्रव्यावचारणम् ।
असत्यभ्यवहारे च कुतो दोषविनिग्रहः ॥

1.21.20

तस्मादादौ कफो घात्यः कायद्वारार्गलो हि सः ।
मध्यस्थायि यतः पित्तमाशुकारि च चिन्त्यते ॥

1.21.21

अतो वातसखस्यास्य कुर्यात्तदनु निग्रहम् ।
अत एव च पित्तादिःकफान्तो ऽन्यैःक्रमःस्मृतः ॥

1.21.22

सुश्रुतश्च न सर्वत्र मतमेतत् ब्रवीति तु ।
जयेज्ज्वरे ऽतिसारेच क्रमात् पित्तकफानिलान् ॥

1.21.23

प्रायेण तापात्मतया ज्वरे तेजो विशिष्यते ।
विशश्च सरणं पित्तात्तथा च मृदुकोष्ठता ॥

1.21.24

तस्यचानुबलःश्लेष्मा गौरवापक्तिजाड्यकृत् ।
वायुश्च वर्द्धते ऽवश्यं यात्स्वहस्सु तयोःक्षये ॥

1.21.25

ज्वरातिसारयोस्तस्मादेष दोषजये क्रमः ॥

1.21.26

कफपित्तानिलानन्ये क्रमादाहुस्तयोरपि ।
यस्मादामाशयोत्क्लेशात् भूयिष्ठं तत्समुद्भवः ॥

1.21.27

क्रमेणाद्येन तत्रापि प्रवृद्धान् स्वाश्रये स्थितान् ।
स्वाश्रयेषु प्रदुष्टानां स्थितैव ह्याशुकारिता ॥

1.21.28

विज्ञाय कर्मभिः स्वैः स्वैर्दोषोद्रेकं यथाबलम् ।
भेषजं योजयेत्तत्तत् तन्त्रीकुर्यान्न तु क्रमम् ॥

1.21.29

प्रयोगः शमयेद् व्याधिं योन्यमन्यमुदीरयेत् ।
नासौ विशुद्धः शुद्धस्तु शमयेद्यो न कोपयेत् ॥

1.21.30

क्रुद्धं मलमलं जेतुं नाल्पभावादुभावपि ।
दोषा दोषात्मकत्वाच्च न समे ऽपि परस्परम् ॥

1.21.31

शीतद्रवाम्ललवणकट्वादिगुणतुल्यता ।
दृष्टा मिथश्च दोषेषु नातोन्योन्यं जयन्ति ते ॥

1.21.32

आरम्भकं विरोधे ऽपि मिथो यद्यत् गुणत्रयम् ।
विश्वस्य दृष्टं युगपद्व्याधेर्दोषत्रयं तथा ॥

1.21.33

वायुरामान्वयः सार्तिराध्मानकृदसञ्चरः ।
दुर्गन्धमसितं पित्तं कटुकं बहलं गुरु ॥

1.21.34

आविलस्तन्तुमांस्त्यानः प्रलेपी पिच्छिलः कफः ।
विपर्यये तु पक्वत्वं तथा ताम्रं समेचकम् ॥

1.21.35

पीतञ्च पित्तमच्छञ्च श्लेष्माच्छः पिण्डितो ऽथवा ।
विशदश्च सफेनश्च धवलो मधुरो रसे ॥

1.21.36

ऊष्मणो ऽल्पबलत्वेन धातुमाद्यमपाचितम् ।
दुष्टमामाशयगतं रसमामं प्रचक्षते ॥

1.21.37

अन्ये दोषेभ्य एवातिदुष्टेभ्यो ऽन्योन्यमूर्च्छनात् ।
कोद्रवेभ्यो विषस्येव वदन्त्यामस्य सम्भवम् ॥

1.21.38

आमेन तेन सम्पृक्ता दोषा दूष्याश्च दूषिताः ।
समा इत्युपदिश्यन्ते ये च रोगास्तदुद्भवाः ॥

1.21.39

सर्वदेहप्रविसृतान् सामान् दोषान् न निर्हरेत् ।
लीनान् धातुष्वनुत्क्लिष्टान् फलादामाद्रसानिव ॥

1.21.40

आश्नयस्य हि नाशाय ते स्युर्दुर्निर्हरत्वतः ।
पाचनैर्दीपनैःस्रेहैस्तान् स्वेदैश्चपरिष्कृतान् ॥

1.21.41

शोधयेच्छोधनैः काले यथासन्नं यथाबलम् ।
हन्त्याशुयुक्तं वक्त्रेण द्रव्यमामाशयान्मलान् ॥

1.21.42

घ्राणेन चोर्ध्वजत्रूत्थान् पक्वाधानात् गुदेन तु ।
उत्क्लिष्टानध ऊर्ध्वं वा न चामान् वहतः स्वयम् ॥

1.21.43

धारयेदौषधैर्दोषान् विधृतास्ते हि कुर्वते ।
रोगानुत्पादनिर्दिष्ठानतिस्थौल्यादिकान् गदान् ॥

1.21.44

प्रवृत्तान् प्रागतो दोषानुपेक्षेत हिताशिनः ।
विबद्धान् पाचनैस्तैस्तैः पाचयन् निर्हरेत वा ॥

मूल पाठ: Aṣṭāṅgasaṃgraha · Edition: e-text by SARIT · SARIT: Search and Retrieval of Indic Texts · SARIT (e-text) via Internet Archive · CC BY-SA 3.0

Esc