अष्टाङ्गसंग्रह · अध्याय 1.1
रागादिरोगाः सहजाः समूला येना ऽशुसर्वे जगतो ऽप्यपास्ताः ।
तमेकवैद्यं शिरसा नमामि वैद्यागमज्ञांश्च पितामहादीन् ॥
अथात आयुष्कामीयं नामाध्यायं व्याख्यास्यामः इति ह स्माहुरात्रेयादयो महर्षयः ॥
आयुः कामयमानेन धर्मार्थसुखसाधनम् ।
आयुर्वेदोपदेशेषु विधेयः परमादरः ॥
आयुर्वेदामृतं सार्वं ब्रह्मा सनातनम् ।
ददौ दक्षाय सो ऽश्विभ्यां तौ शतक्रतवे ततः ॥
धर्मार्थकाममोक्षाणां विघ्नकारिभिरामयैः ।
नरेषु पीड्यमानेषु पुरस्कृत्य पुनर्वसुम् ॥
धन्वन्तरिभरद्वाजनिमिकाश्यपकश्यपाः ।
महर्धयो महात्मानस्तथा लम्बायनादयः ॥
शतक्रतुमुपाजग्मुः शरण्यममरेश्वरम् ।
तान्दृष्ट्वैव सहस्राक्षो निजगाद यथागमम् ॥
आयुषः पालनं वेदमुपवेदमथर्वणः ।
कायबालग्रहोर्ध्वाङ्गशल्यदंष्ट्राजरावृषैः ॥
गतमष्टाङ्गतां पुण्यं बुबुधे यं पितामहः ।
गृहीत्वा ते तमाम्रायं प्रकाश्य च परस्परम् ॥
आययुर्मानुषं लोकं मुदिताः परमर्षयः ।
स्थित्यर्थमायुर्वेदस्य ते ऽथ तन्त्राणि चक्रिरे ॥
कृत्वा ऽग्निवेशहारीतभेडमाण्डव्यसुश्रुतान् ।
करालादींश्च तच्छिष्यान् ग्राहयामासुरादृताः ॥
स्वं स्वं तन्त्रं ततस्ते ऽपि चक्रुस्तानि कृतानि च ।
गुरून् संश्रावयामासुः सर्षिसङ्घान्सुमेधसः ॥
तैः प्रशस्तानि तान्येषां प्रतिष्ठां भुवि लेभिरे ।
तेषामेकैकमव्यापि समस्तव्याधिसाधने ॥
प्रतितन्त्राभियोगे तु पुरुषायुषसंक्षयः ।
भवत्यध्ययनेनैव यस्मात् प्रोक्तः पुनः पुनः ॥
तन्त्रकारैः स एव ऽर्थः क्वचित् क्श्चिद्विशेषतः ।
ते ऽर्थप्रत्यायनपरा वचने यच्च नादृताः ॥
सर्वतन्त्राण्यतः प्रायः संहृत्या ऽष्टाङ्गसङ्ग्रहः ।
अस्थानविस्तराक्षेपपुनरुक्तादिवर्जितः ॥
हेतुलिङ्गौषधस्कन्धत्रयमात्रनिबन्धनः ।
विनिगूढार्थतत्वानां प्रदेशानां प्रकाशकः ॥
स्वान्यतन्त्रविरोधानां भूयिष्ठं विनिवर्तकः ।
युगानुरूपसन्दर्भो विभागेन करिष्यते ॥
नित्योपयोगि दुर्बोधं सर्वाङ्गव्यापि भावतः ।
सङ्गृहीतं विशेषेण यत्र कायचिकित्सितम् ॥
न मात्रामात्रमप्यत्र किच्चिदागमवर्जितम् ।
ते ऽर्थाःस ग्रन्थबन्धश्च सङ्क्षेपाय क्रमो ऽन्यथा ॥
वायुः पित्तं कफश्चेति त्रयो दोषाः समासतः ।
प्रत्येकं ते त्रिधा वृद्धिक्षयसाम्यविभेदयः ॥
उत्कृष्टमध्याल्पतया त्रिधा वृद्धिक्षयावपि ।
विकृता ऽविकृता देहं घ्नन्ति ते वर्त्तयन्ति च ॥
ते व्यापिनो ऽपि हृन्नाभ्योरधोमध्योर्ध्वसंश्रयाः ।
वयोहोरात्रिभुक्तानां ते ऽन्तमध्यादिगाः क्रमात् ॥
तैर्भवेद्विषमस्तीक्ष्णो मन्दश्चाग्निः समैः समः ।
कोष्ठः क्रूरो मृदुर्मध्यो मध्यः स्यात्तैः समैरपि ॥
शुक्रार्तवस्थैर्जन्मादौ विषेणेव विषक्रिमेः ।
तैश्च तिस्रः प्रकृतयो हीनमध्योत्तमाः पृथक् ॥
समधातुः समस्तासु श्रेष्ठा निन्द्या द्विदोषजाः ।
तत्र रूक्षो लघु शीतः खरः सूक्ष्मश्चलो ऽनिलः ॥
पित्तं सस्नेहतीक्ष्णोष्णं लघु विस्रं सरं द्रवम् ।
स्निग्धः शीतो गुरुर्मन्दः श्लक्ष्णो मृत्स्नः स्थिरः ॥
संसर्गः सन्निपातश्च तद्वित्रिक्षयकोपतः ।
तौ षोढा दशधा चोक्तावुत्कर्षादिविकल्पनात् ॥
रसासृङ्मांसमेदोस्थिमज्जशुक्राणि धातवः ।
सप्त दूष्या मला मूत्रशकृत्स्वेदादयो ऽपि च ॥
रसादिस्थेषु दोषेषु व्याधयः सम्भवन्ति ये ।
तज्जानित्युपचारेण तानाहुर्घृतदाहवत् ॥
प्रीणनं जीवनं लेपः स्नेहो धारणपूरणे ।
गर्भोत्पादश्च कर्माणि धातूनां क्रमशो विदुः ॥
शरीरं धारयन्त्येते धात्वाहारश्च सर्वदा ।
वृद्धिः समानैः सर्वेषां विपरीतैर्विपर्ययः ॥
रसाः स्वाद्वम्ललवणतिक्तोषणकषायकाः ।
षड् द्रव्यमाश्रितास्ते च यथापूर्वं बलावहाः ॥
तत्राद्या मारुतं घ्नन्ति त्रयस्तिक्तादयः कफम् ।
कषायतिक्तमधुराः पित्तमन्ये तु कुर्वते ॥
शमनं कोपनं स्वस्थहितं द्रव्यमिति त्रिधा ।
उष्णशीतगुणोत्कर्षात्तत्र वीर्यं द्विधा स्मृतम् ॥
त्रिधा विपाको द्रव्यस्य स्वाद्वम्लकटुकात्मकः ।
गुरुमन्दहिमस्निग्धश्लक्ष्णसान्द्रमृदुस्थिराः ॥
गुणाः ससूक्ष्मविशदा विंशतिः सविपर्ययाः ।
इन्द्रियार्था व्यवायी च विकाषी चापरे गुणाः ॥
व्यवायी देहमखिलं व्याप्य पाकाय कल्पते ।
विकाषी विकषन् धातून् सन्धिबन्धान् विमुञ्चति ॥
सरतीक्ष्णप्रकर्षौ तु कैश्चित्तौ परिकीर्त्तितौ ।
सत्त्वं रजस्तमश्चेति त्रयः प्रोक्ता महागुणाः ॥
कालार्थकर्मणां योगो हीनमिथ्यातिमात्रकः ।
सम्यग्योगश्च विज्ञेयो रोगारोग्यैककारणम् ॥
रोगस्तु दोषवैषम्यं दोषसाम्यमरोगता ।
निजागन्तुविभागेन रोगाश्च द्विविधा मताः ॥
तेषां कायमनोभेदादधिष्ठानमपि द्विधा ।
रजस्तमश्च मनसो द्वौ च दोषवुदाहृतौ ॥
दर्शनस्पर्शनप्रश्नैः परीक्षेत च रोगिणम् ।
रोगं निदानप्राग्रूपलक्षणोपशयाप्तिभिः ॥
भूमिदेहप्रभेदेन देशमाहुरिह द्विधा ।
जाङ्गलं वातभूयिष्ठमानूपं तु कफोल्बणम् ।
साधारणं सममलं त्रिधा भूदेशमादिशेत् ।
क्षणादिव्यार्ध्यवस्था च कालो भैषज्ययोगकृत् ॥
शोधनं शमनं चेति समासादौषधं द्विधा ।
शरीरजानां दोषाणां क्रमेण परमौषधम् ॥
वस्तिर्विरेको वमनं तथा तैलं घृतं मधु ।
धीधैर्यात्मादिविज्ञानं मनोदोषौषधं परम् ॥
तन्त्रस्यास्य परं चातो वक्ष्यते ऽध्यायसङ्ग्रहः ।
आयुष्कामीयशिष्यार्थदिनर्तुव्याध्यसम्भवाः ॥
द्रवान्नज्ञानसंरक्षाविरुद्धान्नान्नपानिकाः ।
मात्राशितौषधज्ञानश्रेष्ठशुध्यादिसङ्ग्रहाः ॥
महाकषायविविधद्रव्यादिरसभेदकाः ।
दोषादिज्ञानतद्भेदतत्क्रिया रोगभेषजम् ॥
व्द्यैषधस्नेहनस्वेदशुध्यास्थापननावनम् ।
धूमगण्डूषदृक्सेकतृप्तियन्त्रजलौकसः ॥
सिराविधिः शल्यविधिः शस्त्रक्षाराग्निकर्मकाः ।
चत्वारिंशदिमे ऽध्यायः सूत्रम् शारीरमुच्यते ॥
पुत्रार्थगर्भावक्रान्तिचर्याव्यापच्छरीरजाः ।
सिरामर्मप्रकृत्याख्या विकृताङ्गेहितामयाः ॥
सदूता द्वादशाध्यायाः निदानं सार्वरौगिकम् ।
ज्वरासृक्श्वासयक्ष्मादिमदाद्यर्शोतिसारिणाम् ॥
मूत्राघातप्रमेहाणां विद्रध्याद्युदरस्य च ।
पाण्डुकुष्ठानिलार्त्तानां वातास्रस्य च षोडश ॥
चिकित्साज्वरयोरस्रकासयोः श्वासयक्ष्मणोः ।
वमौ मदात्यये ऽर्शस्सु विशि द्वौ द्वौ च मूत्रिते ॥
विद्रधौ गुल्मजठरपाण्डुशोफविसर्पिषु ।
कुष्टश्वित्रानिलव्याधिवातास्रेषु चिकित्सितम् ॥
चतुर्विशतिरध्यायाः कल्पसिद्धिरतःपरम् ।
कल्पो वमेर्विरेकस्य तत्सिद्धिर्बास्तिकल्पना ॥
कल्पश्च सिद्धबस्तीनां सिद्धिर्बस्त्यनुवासयोः ।
द्रव्यकल्पो ऽष्टमः स्थानमत उत्तरमुत्तरम् ॥
बालोपचरणे व्याधिग्रहज्ञाननिषेधने ।
स्नाने पृथग्ग्रहे भूते द्वावुन्मादे स्मृतिक्षये ॥
वर्त्मसन्धिगतौ द्वौ द्वौ दृक्तमोलिङ्गनाशिषु ।
सर्वदृक्स्यन्ददृक्पाके कर्णनासामुखेषु च ॥
मूर्ध्नि व्रणे तथा द्वौ द्वौ सद्योभङ्गे भगन्दरे ।
ग्रन्थ्यादौ क्षुद्ररोगेषु गुह्यरोगे पृथग्द्वयम् ॥
विषे द्वौ भुजगे कीटे द्वौ च लूतासु मूषिके ।
विषे विषोपयोगे च तथा ऽध्यायो रसायने ॥
वाजीकरणमुद्दिश्य पञ्चाशो ऽष्टाङ्गपूरणः ।
पञ्चाशदध्यायशतं षड्भिः स्थानैः समीरितम् ॥
मूल पाठ: Aṣṭāṅgasaṃgraha · Edition: e-text by SARIT · SARIT: Search and Retrieval of Indic Texts · SARIT (e-text) via Internet Archive · CC BY-SA 3.0