अष्टाङ्गसंग्रह · अध्याय 1.18
अथातो रसभेदीयमध्यायं व्याख्यास्यामः ।
इति ह स्माहुरात्रेयादयो महर्षयः ॥
रसः खल्वाप्यः प्रागव्यक्तश्च ।
स षडृतुकत्वात् कालस्य महाभूतगुणैरूनातिरिक्तैः संसृष्टो विषमं विदग्धः षोढा पृथग्विपरिणमते मधुरादिभेदेन ॥
तत्र भूजलयोर्बाहुल्यान्मधुरो रसः ।
भूतेजसोरम्लः ।
जलतेजसोर्लवणः ।
वाय्वाकाशयोस्तिक्तः ।
वायुतेजसोः कटुकः ।
वायूर्व्योः कषायः ॥
तेषां स्वादुरास्वाद्यमानो मुखमुपलिम्पतीन्द्रियाणि प्रसादयति ।
देहं प्रह्लादयति ।
षट्पदपिपीलिकादीनामपीष्टतमः ।
अम्लस्तु जिह्वामुद्वेजयत्युरःकण्ठं विदहति ।
मुखं स्रावयत्यक्षिभ्रुवं सङ्कोचयति दशनान् हर्षयति रोमाणि च ।
लवणो मुखं विष्यन्दयति कण्ठकपोलं विदहति अन्नं प्ररोचयति ।
तिक्तो विशदयति वदनं विशोधयति कण्ठं प्रतिहन्ति रसनाम् ।
कटुको भृशमुद्वेजयति जिह्वाग्रं चिमिचिमायति कण्ठकपोलं स्रावयति मुखाक्षिनासिकं विदहति देहम् ।
कषायस्तु जडयति जिह्वां बध्नाति कण्ठं पीडयति हृदयम् ॥
तत्र मधुरो रसो जन्मप्रभृतिसात्म्यात् सर्वधातुविवर्धनः आयुष्यो बालवृद्धक्षतक्षीणबलवर्णेन्द्रियत्वक्केशकण्ठहितः प्रीणनो बृंहणो जीवनस्तर्पणः स्थैर्यसन्धानः स्तन्यकरो वातपित्तविषदाहमूर्छातृष्णाप्रशमनः स्निग्धः शीतो मृदुर्गुरुश्च ॥
एवंगुणो ऽपि स सदात्युपयुज्यमानः स्थौल्याग्निसादगुरुतालसकातिन्द्रियाः ।
श्वासप्रमेहगलरोगाविसंज्ञतास्यमाधुर्यलोचनगलार्बुदगण्डमालाः ॥
छर्द्युदर्दमूर्द्धरुक्कासपीनसक्रिमीन् श्लीपदज्वरोदरष्ठीवनानि चावहेत् ॥
अम्लो ऽनिलनिबर्हणो ऽनुलोमनः कोष्ठविदाही रक्तपित्तकृदुष्णवीर्यः शीतस्पर्शोबोधयतीन्द्रियाणि ।
रोचनः पाचनो दीपनो बृंहणस्तर्पणः प्रीणनः क्लेदनो व्यवायी लघुः स्निग्धो हृद्यश्च ॥
जनयति शिथिलत्वं सेवितः सोतिदेहे कफविलयनकण्डूपाण्डुतादृग्विघातान् ।
क्षतविहितविसर्पं रक्तपित्तं पिपासां श्वयथुमपि कृशानां तैजसत्वात् भ्रमं च ॥
लवणः स्तम्भबन्धसङ्घातविध्मापनः सर्वरसप्रत्यनीको दीपनो रोचनः पाचनः क्लेदनः शोषणः स्नेहनः स्वेदनो भेदनः छेदनः सरो व्यवायी विकाषी हरति पवनं विष्यन्दयति कफं विशोधयति स्रोतांसि नातिगुरुः स्निग्धतीक्ष्णोष्णश्च ॥
खलतिपलिततृष्णातापमूर्च्छाविसर्पश्वयथुकिटिभकोष्ठाक्षेपरोधास्रपित्तम् ।
क्षतविषमदवृद्धिं वातरक्तं करोति क्षपयति बलभोजः सोति वा सेवनेन ॥
तिक्तः स्वयमरोचिष्णुररुचिविषकृमिमूर्च्छोत्क्लेदज्वरदाहतृटकुष्ठकण्डूहरः क्लेदमेदोवसामज्जविण्मूत्रपित्तश्लेष्मोपशोषणो दीपनः पाचनो लेखनः स्तन्यकण्ठविशोधनो मेध्यो नातिरूक्षः शीतो लघुश्च ॥
धातुबलक्षयमूर्च्छाग्लानिभ्रमवातरोगपरुषत्वम् ।
खरविशदरौक्ष्यभावैः सोति समासेवितःकुर्यात् ॥
कटुको ऽलसकश्वयथूदर्दस्थौल्याभिष्यन्दकृमिवक्त्ररोगविषकुष्ठकण्डूप्रसाधनो व्रणावसादनः स्नेह क्लेदशोषणो रोचनः पाचनो दीपनो लेखनः शोधनः शोषयत्यन्नं स्फुटयतीन्द्रियाणि भिनत्ति शोणितसंघातं छिन्नत्ति बन्धान् विवृणोति स्रोतांसि क्षपयति श्लेष्माणं लघुरूक्षतीक्ष्णोष्णश्च ॥
कुरुते ऽतिनिषोवितः स तृष्णामदमूर्च्छावमिमोहदेहसादान् ।
बलशुक्रगलोपशोषकम्पभ्रमतापग्लपनातिकर्शनानि ॥
करचरणपार्श्वपृष्ठप्रभृतिष्वनिलस्यकोपमतितीव्रम् ।
सङ्काचतोदभेदैर्वाव्यग्निगुणाधिकत्वेन ॥
कषायो बलासं सपित्तं सरक्तं निहन्त्याशु बध्नाति वर्चोतिरूक्षः ।
गुरुस्त्वक्सवर्णत्वकृत् क्लेदशोषी हिमः प्रीणनो रोपणो लेखनश्च ॥
अत्यभ्यासात् सो ऽपि शुक्रोपरोधं तृष्णाध्मानस्तम्भविष्टम्भकार्श्यम् ।
स्रोतोबन्धं वातविण्मूत्रसङ्गं पक्षाघाताक्षेपकादींश्च कुर्यात् ॥
अथ मधुरस्कन्धो घृतमधुतैलक्षीरमेदोमज्जेक्षुविकृतिद्राक्षाक्षोडखर्जूरमोचचोचपनससिञ्चतिकाप्रियालराजादनखर्यूरीतालमस्तककाश्मर्यमधूकपरूषकतामलकीवीराविदारीशतावरीतुगाक्षीरीजीवकर्षभक्षीरशुक्लामधूलिकात्मगुप्ताबलातिबलाविश्वदेवासहदेवासालपर्णीमुद्गपर्णीपृश्निपर्णीमषपर्णीमहासहाक्षुद्रसहाऋद्धिवृद्धिश्रावणीच्छत्रातिच्छत्रर्श्यर्पोक्ताश्व
गन्धाश्वदंष्ट्रामृणालिकापुष्करबीजशृङ्गाटककशेरुकतककनकबिम्बीप्रपौण्डरीकप्रभृतीनि जीवनीयो गणस्तृणपञ्चमूलं च ॥
अम्लद्रव्यस्कन्धो दाडिमामलकाम्राम्रातककोशाम्रमातुलुङ्गवृक्षाम्लाम्लीकाम्लेवतसकुवललकुचपारावतभव्यकरमर्दधवधन्वनकोलबदरैरावतकपित्थदन्तशठप्राचीनामलकनारङ्गतिलकण्टकरूप्यदधिमस्तुतक्रधान्याम्लमद्यशुक्तप्रभृतीनि ॥
लवणद्रव्यस्कन्धः सैन्धवादीनि क्षारान्तानि त्रपुसीसप्रभृतीनि ॥
तिक्तद्रव्यस्कन्धो ऽगरुतगरोशीरवालकचन्दननलदकृतमालनक्तमालापामार्गहरिद्राद्वयमुस्तमूर्वामदनफलाजशृङ्गीत्रायमाणाकटुकाकिराततिक्तककरवीरविशालासुषव्यतिविषायवासकज्योतिष्मतीपाठाविकङ्कतार्ककाकमाचीवचावरणवत्सकवैजयन्तीवेतससप्तपर्णसोमवल्कसुमनःकांस्यलोहप्रभृतीनि पटोलादिश्च शाकवर्गः ॥
कटुकद्रव्यस्कन्धो मरिचहिङ्गुतेजोवतीहस्तिपिप्पलीविडङ्गभल्लातकास्थिमूलकसर्षपलशुनपलाण्डुकरञ्जमनश्शिलालदेवदारुकुष्ठैलासुरसचोरकहरेणुकामूत्रपित्तप्रभृतीनि कुठेरादिश्च हरितवर्गः पञ्चकोलं च ॥
कषायद्रव्यस्कन्धो हरीतकीप्रियङ्ग्वनन्ताक्षौद्रलोध्रकट्फलधवधन्वनधात्रीफलधातकीपुष्पपद्मापद्मकपद्मपुष्पनागकेसरकुमुकोत्पलतुङ्गतिन्दुककदम्बोदुम्बरजम्ब्वाम्रप्लक्षवटबिभीतकविकङ्कतजम्ब्वाम्रास्थ्यामकपित्थाश्वत्थमोचरससमङ्गासोमवल्कसप्तपर्णस्यन्दनासनसल्लकीसालतालप्रियालैलावास्तुकपरिपेलवजिङ्गिणीबदरीखदिरकदरारिमेदकाशकशेरुकवंशाश्मन्तकाशोकशिरीषशिंशपापलाशशमशिणशङ्खनाभिमेषशृङ्गीतरुणखर्ज्जूरस्फूर्ज्जकभूर्ज्जार्जुनाजकर्णवरणप्रियालमुक्ताञ्जनैगरिकबिसमृणालप्रभृतीनि ॥
तत्र प्रायो मधुरं श्लेष्मलमन्यत्र पुराणशालियवगोधूममुद्गमधुशर्कराजाङ्गलमांसात् ।
प्रायो ऽम्लं पित्तलमन्यत्र दाडिमामलकात् ।
प्रायोलवणमचक्षुष्यमन्यत्र सैन्धवात् ।
प्रायस्तिक्तकटुकं वातलमवृष्यं चान्यत्रामृतापटोलीनागरपिप्पलीलशुनात् ।
प्रायः कषायं शीतं स्तम्भनं चान्यत्र हरीतक्याः ॥
इति यथास्थूलं नित्योपयोगिनां प्रधानतमानां चोपसङ्ग्रहः ॥
घृतामलकसिन्धूत्थपटोलीनागराभयाः ।
श्रेष्ठा यथास्वं स्कन्धेषु रसदेशस्तु वक्ष्यते ॥
अथ यः शिशिरपवनधरणीधरविविधवनगहननदीतटाकपल्वलोदपानकमलकुमुदकुवलयावकीर्णोरम्यः स्थिरस्निग्धभूमिर्भूरिहरिततृणो ऽतिदूरविस्तृतप्रतानप्रवालोपसंच्छन्नपादपः सस्यसरीसृपखगबहुलः श्लेष्मपित्तप्रायो गुर्वौषधिसलिलः श्लीपदगलरोगापाचींज्वराद्यामयोपद्रुतजनपदः सो ऽनूपो मधुररसयोनिः ॥
यस्तु विषमविपुलसिकतास्थलबहुलो ऽतिदूरावगाढविरससलिलः क्लेशसहारोगशरीरदीर्घायुःप्रायो जनपदो ऽनूपरीतश्च स जाङ्गलः कटुकरसयोनिः ।
अत एव चानूपसाधारणो जाङ्गलसाधारणश्च विकल्प्यः ।
तयोराद्यो लवणाम्लयोर्योनिरितरश्चेतरयोः ।
संयोगास्त्वेषां सप्तपञ्चाशद्भवन्ति ।
भवन्ति चात्र ॥
स्वादुर्द्विकेषु पञ्चाम्लश्चतुरो लवणस्त्रयम् ।
द्वौ तिक्तः कटुकश्चैकं याति पञ्चदशैव ते ॥
त्रिकेषु मधुरः साम्लश्चतुरो लवणान्वितः ।
त्रीन्युक्तस्तिक्तकेन द्वौ कटुनैकं निषेवते ॥
स्वादुर्दशैवमम्लः षट् संयोगान् पूर्ववत्क्रिया ।
लवणस्त्रीन् भजत्येकं तिक्त एवं तु विंशतिः ॥
स्वादुश्चाम्लश्चतुष्केषु षट् त्रयं लवणानुगः ।
एकं तिक्तयुतो याति दशैव मधुरो रसः ॥
चत्वारो ऽम्लः पटुश्चैकं भेदाः पञ्चदशेति च ।
एकैकस्य परित्यागात् संयोगाः पञ्चके च षट् ॥
एकश्च षड्रसः षट् च पृथगेवं त्रिषष्टिधा ।
ते रसानुरसतो रसभेदास्तारतम्यपरिकल्पनया च ।
सम्भवन्ति गणनां समतीता दोषभेषजवशादुपयोज्याः ॥
मूल पाठ: Aṣṭāṅgasaṃgraha · Edition: e-text by SARIT · SARIT: Search and Retrieval of Indic Texts · SARIT (e-text) via Internet Archive · CC BY-SA 3.0