भाषा

ENहिગુ
ग्रंथ पाठ

अष्टाङ्गसंग्रह · अध्याय 1.19

1.19.1

अथातो दोषादिविज्ञानीयमध्यायं व्याख्यास्यामः ।
इति ह स्माहुरात्रेयादयो महर्षयः ।
दोषधातुमलमूलो हि देहः ।
तस्मात्तेषां लक्षणमुपदेक्ष्यामः ।
तमुच्छ्वासनिश्वासोत्साहप्रस्पन्दनेन्द्रियपाटववेगप्रवर्तनादिभिर्वायुरनुगृह्णाति ।
पक्त्यूष्माभिलाषक्षुत्पिपासाप्रभाप्रसाददर्शनमेधाशौर्यमार्दवादिभिः पित्तम् ।
स्थैर्यस्नेहसन्धिबन्धवृषताक्षमाधीधृतिबलालौल्यादिभिः श्लेष्मा ॥

1.19.2

तुष्टिप्रीणनरक्तपुष्टिभिस्तु रसः ।
जीवनवर्णप्रसादनमांसपोषणैरसृक् ।
देहलेपमलमेदःपुष्टिभिर्मांसम् ।
नेत्रगात्रस्निग्धतास्नेहदार्ढ्यास्थिपुष्टिभिर्मेदः ।
देहोर्ध्वताधारणमज्जपोषणाभ्यामस्थि ।
स्नेहबलास्थिपूरणशुक्रपुष्टिभिर्मज्जा ।
हर्षबलगर्भोत्पादनैः शुक्रम् ।
अवष्टम्भानिलानलधारणैः शकृत् ।
अन्नक्लेदनिर्वाहणेन मूत्रम् ।
क्लेदत्वक्स्नेहरोमधारणैः स्वेद इति ॥

1.19.3

कार्श्यकार्ष्ण्यगात्रकम्पस्फुरणोष्णकामितासंज्ञानिद्रानाशबलेन्द्रियोपघातास्थिशूलमज्जाशोषमलसङ्गाध्मानाटोपमोहदैन्यभयशोकप्रलापादिभिर्वृद्धो वायुः पीडयति ।
पीतत्वग्ग्लानीन्द्रियदौर्बल्यौजोविस्रंसशीताभिलाषदाहतिक्तास्यतातृण्मूर्च्छाल्पनिद्रताक्रोधादिभिः पित्तम् ।
श्वैत्यशैत्यस्थौल्यालस्यगौरवाङ्गसादस्रोतःपिधानमूर्च्छातन्द्रानिद्राश्वासकासप्रसेकहृल्लासाग्निसादसन्धिविश्लेषादिभिः श्लेष्मा ॥

1.19.4

प्रसेकारोचकास्यवैरस्यहृल्लासस्रोतोरोधस्वादुद्वेषाङ्गमर्दादिभिरन्यैश्च श्लेष्मविकारप्रायैः रसः ।
कुष्ठविसर्पपिटकासृग्दराक्षिमुखमेढ्रगुददाहगुल्मविद्रधिप्लीहव्यङ्गकामलाग्निनाशतमःप्रवेशरक्ताङ्गनेत्रतावातरक्तपित्तादिभिरन्यैश्च पित्तविकारप्रायैरसृक् ।
गलगण्ड गण्डमालार्बुदग्रन्थितालुजिह्वाकण्ठरोगस्फिग्गलौष्ठबाहूदरोरुजङ्घागौरववृद्धिभिः श्लेष्मरक्तविकारप्रायैश्च मांसम् ।
प्रमेहपूर्वरूपैः स्थौल्योपद्रवैश्चान्यैरपि श्लेष्मरक्तमांसविकारप्रायैर्मेदः ।
अध्यस्थिभिरधिदन्तैश्चास्थि ।
नेत्राङ्गरक्तगौरवैः पर्वसु च स्थूलमूलारुर्भिर्मज्जा ।
अतिस्त्रीकामताशुक्राश्मरीसम्भवाभ्यां शुक्राधिक्यम् ।
कुक्षिशूलाटोपगौरवैः शकृदाधिक्यम् ।
बस्तितोदाध्मानैर्मूत्राधिक्यम् ।
कण्डूदौर्गन्ध्यैः स्वेदः ।
अन्ये ऽपि च दूषिकादिमला बाहुल्यद्रवताकण्डूगौरवैः ॥

1.19.5

प्रसेकारुचिहृल्लाससंज्ञामोहाल्पवाक्चेष्टताप्रहषाङ्गसादाग्निवैषम्यादिभिः क्षीणो वायुः पीडयति ।
स्तम्भशैत्यानियततोदारोचकाविपाकाङ्गपारुष्यकम्पगौरवनखनयनशौक्ल्यादिभिः पित्तम् ।
भ्रमोद्वेष्टनानिद्राङ्गमर्दपरिप्लोषतोददवदाहस्फोटनवेपनधूमायनसन्धिशैथिल्यहृदयद्रवश्लेष्माशयशून्यतादिभिः श्लेष्मा ॥

1.19.6

शब्दासहत्वहृदयद्रवकम्पशोषशूलशून्यतास्पन्दनघट्टनैरल्पयापि च चेष्टया श्रमतर्षाभ्यां रसः ।
त्वग्रौक्ष्याम्लशीताभिलाषसिराशैथिल्यैरसृक् ।
स्फिग्गण्डादिशुष्कतातोदरौक्ष्याक्षग्लानिसन्धिस्फोटनधमनीशैथिल्यैर्मांसम् ।
प्लीहवृद्धिकटीस्वापसन्धिशून्यताङ्गरौक्ष्यकार्श्यश्रमशोषमेदुरमांसाभिलाषैर्मांसक्षयोक्तैश्च मेदः ।
दन्तनखरोमकेशशातनरौक्ष्यपारुष्यसन्धिशैथिल्यास्थितोदास्थिबद्धमांसाभिलाषैरस्थि ।
अस्थिसौषिर्यनिस्तोददौर्बल्यभ्रमतमोदर्शनैर्मज्जा ।
श्रमदौर्बल्यास्यशोषतिमिरदर्शनाङ्गमर्दपाण्डुतासदनक्लैब्यमुष्कतोदमेढ्रधूमायनैश्चिराच्च निषेकेण सरक्तनिषेकेण वा शुक्रम् ।
सशब्दस्य वायोः कुक्षौ तिर्यगूर्ध्वं च भ्रमणेनान्त्रवेष्टनेन पार्श्वहृदयपीडनेनाल्पतया च शकृत् ।
बस्तिनिस्तोदमुखशोषकृछ्राल्पविवर्णमूत्रतादिभिः सरुधिरमूत्रतया वा मूत्रम् ।
स्तब्धरोमकूपतारोमच्यवनत्वक्परिपाटनस्वापपारुष्यस्वेदनाशैः स्वेदः ॥

1.19.7

अन्ये ऽपि च मला यथायथं मलायनं शोषशून्यत्वलाघवैः ।
विपरीतगुणक्षयवृद्धिभ्यां च वृद्धिक्षयावुपलक्षयेत् ।
मलानां त्वतिसङ्गोत्सर्गाभ्यां च वृद्धिक्षयौ ।
वृद्धेस्तु मलानां क्षयः पीडयति सुतरामनौचित्यात् ॥

1.19.8

तत्रास्थनि स्थितो वायुरसृक्स्वेदयोः पित्तम् ।
शेषेषु श्लेष्मा ।
तस्मादेकवृद्धिक्षयकारणत्वमेषाम् ।
न त्वेवमस्थिवाय्वोः ।
सर्वैव हि वृद्धिः प्रायो ऽतिसन्तर्पणनिमित्तत्वाच्छ्लेष्मणानुगता ।
तद्विपर्ययाच्च क्षयो वायुना ।
तस्माल्लङ्घनबृंहणाभ्यां वृद्धिक्षयजान् विकारानुपचरेत् ।
पवने तु बृंहणलङ्घनाभ्याम् ।
सर्वत्र च द्रव्यगुणकर्मविपर्ययतुल्यभावेनाविरुद्धेन ॥

1.19.9

धातवः खलु शारीराः समानैः समानगुणभूयिष्ठैर्वाहारविहारैरभ्यस्यमानैर्वृद्धिमाप्नुवन्ति ।
ह्रासं तु विपरीतैर्विपरीतगुणभूयिष्ठर्वा ।
तथा हि देहधातवो ये गुरवस्ते गुरुभिरैक्यकारितयोपचीयन्ते ।
लघवस्तु लघुभिस्तद्विपरीतैस्तु पृथक्त्वकारिभिरपचीयन्ते ।
तस्मादन्येभ्यो द्रव्येभ्यो ऽपि सुतरां रक्तमाप्याय्यते रक्तेन मांसं मांसेन मेदो मेदसास्थि तरुणास्थ्ना मज्जा मज्ञा शुक्रं शुक्रेणामगर्मेण गर्भः ।
यत्र त्वेवं लक्षणेन सामान्येन सामान्यवतामाहारविहाराणामसान्निध्यं स्यात् सन्निहितानां चाभ्यवहरणमशक्यं विरुद्धत्वाद् घृणित्वादरुचेरन्यस्माद्वा कारणान्तरात् ।
तत्र समानगुणभूयिष्ठानामन्यप्रकृतीनामाहारविहाराणामभ्यवहारः श्रेयान् ॥

1.19.10

तद्यथा शुक्रक्षये क्षीरसर्पिषोरुपयोगो मधुरस्निग्धशीतानामपरेषां च द्रव्याणाम् ।
कर्मापि यद्यस्य धातोः समानक्रियतया वृद्धिकरं तस्य तस्य वृद्धिमभिलषता तत्तदासेव्यम् ।
तथैव चतुल्यक्रियतया ह्रासकरं तदर्थिनेति ।
अपि च ।
विशेषतो रक्तवृद्धिजान् रक्तनिर्हरणप्रसादनकायविरेचनेन ।
मांसवृद्धिजान् संशोधनशस्त्रक्षाराग्निकर्मभिः ।
मेदोजान् स्थौल्यकार्श्यक्रियाक्रमेण ।
रसक्षयजान् मांसरसमद्यक्षीरैः ।
अस्थिक्षयजान् बस्तिभिस्तिक्तोपहितैः क्सीरबस्तिभिश्च ।
शकृद्वृद्धिजानतीसारविधानेन ।
शकृत्क्षयजान्यवमाषकुल्माषाजमेषमध्यादिभिः ।
मूत्रवृद्धिक्षयजान् मेहकृछ्रचिकित्सया ।
स्वेदक्षयजानभ्यङ्गव्यायाममद्यस्वप्ननिवातशरणस्वेदैरिति ।
भवति चात्र ॥

1.19.11

ये पाचकांशा धातुस्थास्तेषां मान्द्यातितैक्ष्ण्यतः ।
वृद्धिः क्षयश्च धातूनां जायते शृणु चापरम् ॥

1.19.12

पारम्पर्ये ऽपि दावाग्नेस्तत्तत् प्राप्येन्धनं शिखा ।
वृद्धिक्षयौ यथा याति तद्वद्धातुपरम्परा ॥

1.19.13

द्रव्यं तुल्यं विशिष्टं हि स्वं स्वं वृध्द्यै क्षयाय च ।
प्रत्यात्मबीजनियतं भृशमाशु प्रजायते ॥

1.19.14

पूर्वो धातुः परं कुर्यात् वृद्धः क्षीणश्च तद्विधम् ।
दोषा दुष्टा रसैर्धातून् दूषयन्त्युभये मलान् ॥

1.19.15

अधो द्वे सप्त शिरसि खानि स्वेदवहानि च ।
मला मलायनानि स्युर्यथास्वं तेष्वतो गदाः ॥

1.19.16

वक्ष्यन्ते वातजास्तत्र निदाने वातरौगिके ।
पित्तं त्वचि स्थितं कुर्याद्विस्फोटकमसूरिकाः ॥

1.19.17

रक्ते विसर्पं दाहं च मांसे मांस्पाककोथनम् ।
सदाहान्मेदसि ग्रन्थीन् स्वेदात्युद्वमनं तृषम् ॥

1.19.18

अस्थ्नि दाहं भृशं मज्ञि हारिद्रनखनेत्रताम् ।
पूतिपीतावभासं च शुक्रं शुक्रसमाश्रितम् ॥

1.19.19

सिरागतं क्रोधनतां प्रलापं स्नावगं तृषम् ।
कोष्ठगं मदतृड्दाहान् व्यापिनो ऽन्यांश्चयक्ष्मणः ॥

1.19.20

श्लेष्मा त्वचि स्थितः कुर्यात् स्तम्भं श्वेतावभासताम् ।
पाण्डूवामयं शोणितगो मांससंस्थो ऽर्बुदापचीः ॥

1.19.21

आर्द्रचर्मावनद्धाभगात्रतां चातिगौरवम् ।
मेदोगः स्थूलतां मेहमस्थ्नां स्तब्धत्वमस्थिगः ॥

1.19.22

मज्जगः शुक्लनेत्रत्वं शुक्रस्थः शुक्रसञ्चयम् ।
विबन्धं गौरवं चाति सिरास्थः स्तब्धगात्रताम् ॥

1.19.23

स्नायुगः सन्धिशूलत्वं कोष्ठगो जठरोन्नतिम् ।
अरोचकाविपाकौ च तांस्तांश्च कफसम्भवान् ॥

1.19.24

विण्मूत्रयोः साश्रययोस्तत्र तत्रोपदेक्ष्यते ।
उपतापोपघातौ तु स्वाश्रयेन्द्रियगा मलाः ॥

1.19.25

व्यायामादूष्मणस्तैक्ष्ण्यादहिताचरणादपि ।
कोष्ठाच्छाखास्थिमर्माणि द्रुतत्वान्मारुतस्य च ॥

1.19.26

दोषा यान्ति तथा तेभ्यः स्रोतोमुखविशोधनात् ।
वृध्याभिष्यन्दनात्पाकात्कोष्ठं वायोश्च निग्रहात् ॥

1.19.27

तत्रस्थाश्च विलम्बेरन् भूयो हेतुप्रतीक्षिणः ।
ते कालादिबलं लब्ध्वा कुप्यन्त्यन्याश्रयेष्वपि ॥

1.19.28

तत्रान्यस्थानसंस्थेषु तदीयामबलेषु तु ।
कुर्याच्चिकित्सां स्वामेव बलेनान्याभिभाविषु ॥

1.19.29

आगन्तुं शमयेद्दोषं स्थानिनं प्रतिकृत्य वा ।
तेजो यत्सर्वधातूनामोजस्तत् परमुच्यते ।
मृदु सोमात्मकं शुद्धं रक्तमीषत्सपीतकम् ॥

1.19.30

यत्सारमादौ गर्भस्य यच्च गर्भरसाद्रसः ।
संवर्तमानं हृदयं समाश्रयति यत्पुरा ॥

1.19.31

यच्छरीररसः स्नेहः प्राणो यत्र प्रतिष्ठितः ।
यस्यानाशान्ननाशो ऽस्ति प्रीणिता येन देहिनः ॥

1.19.32

हृदयस्थमपि व्यापि तत् परं जीवितास्पदम् ।
औजः क्षीयत कोपक्षुद्ध्यानशोकश्रमादिभिः ॥

1.19.33

बिभेति दुर्बलो ऽभीक्ष्णं ध्यायति व्यथितेन्द्रियः ।
दुश्च्छायो दुर्मना रूक्षो भवेत् क्षामश्च तत्क्षये ॥

1.19.34

जीवनीयौषधक्षीररसाद्यास्तत्र भेषजम् ।
औजोवृद्धौ हि देहस्य तुष्टिपुष्टिबलोदयः ॥

1.19.35

यदन्नं द्वेष्टि यदपि प्रार्थयेताविरोधि तु ।
तत्तत्यजन् समश्नंश्च तौ तौ वृद्धिक्षयौ जयेत् ॥

1.19.36

कुर्वते ऽभिरुचिं दोषा विपरीतसमानयोः ।
वृद्धाः क्षीणाश्च भूयिष्ठं लक्षयन्त्यबुधा न तत् ॥

1.19.37

यथाबलं यथास्वं च दोषा वृद्धा वितन्वते ।
रूपाणि जहति क्षीणाः समाः स्वं कर्म कुर्वते ॥

1.19.38

य एव देहस्य समा विवृध्यै त एव दोषा विषमा वधाय ।
यस्मादतस्ते हितचर्ययैव क्षयाद्विवृद्धेरिव रक्षणीयाः ॥

मूल पाठ: Aṣṭāṅgasaṃgraha · Edition: e-text by SARIT · SARIT: Search and Retrieval of Indic Texts · SARIT (e-text) via Internet Archive · CC BY-SA 3.0

Esc