अष्टाङ्गसंग्रह · अध्याय 1.17
अथातो द्रव्यादिविज्ञानीयमध्यायं व्याख्यास्यामः ।
इति ह स्माहुरात्रेयादयो महर्षयः ॥
इह हि द्रव्यं पञ्चमहाभूतात्मकम् ।
तस्याधिष्ठानं पृथिवी योनिरुदकं खानिलानलसमवायान्निर्वृत्तिविशेषौ ।
उत्कर्षेण तु व्यपदेशः ।
तस्माद्भूतसमवायसम्भवान्नैकरसं द्रव्यम् ।
ततश्च नैकदोषा व्याधयः ॥
तत्र व्यक्तो रसः ।
अनुरसस्तु रसेनाभिभूतत्वादव्यक्तो व्यक्तो वा किञ्चिदन्ते ।
रसस्य तु छेदनोपशमने द्वे कर्मणी ।
हिताहितौ प्रभावौ ।
तदाश्रयेषु च द्रव्यसंज्ञकेषु पृथिव्यादिषु गुणाः प्रकृतिविकृतिविचारदेशकालवशाद्गुर्वादयो रसेषु साहचर्यादुपचर्यन्ते ॥
तत्र द्रव्यं गुरुकठिनविशदमन्दसान्द्रस्थूलस्थिरगन्धगुणबहुलं पार्थिवं उपचयगौरवसङ्घातस्थैर्यकरम् ॥
द्रवस्निग्धशीतगुरुमन्दसान्द्रसरमृदुपिच्छिलरसगुणबहुलमौदकं उपक्लेदस्नेहबन्धविष्यन्दमार्दवप्रह्लादकरम् ॥
तीक्ष्णोष्णरूक्षसूक्ष्मलघुविशदरूपगुणबहुलमाग्नेयं दाहपाकप्रकाशप्रभावर्णकरम् ॥
रूक्षसूक्ष्मलघुविशदविकाषिव्यवायिशीतखरस्पर्शगुणबहुलं वाय्व्यं रौक्ष्यलाघववैशद्यग्लानिविचारकरम् ॥
सूक्ष्मलघुविशदश्लक्ष्णव्यवायिविविक्तशब्दगुणबहुलमाकाशात्मकं सौषिर्यलाघवकरम् ॥
इत्थं च नानौषधभूतं जगति किञ्चिद् द्रव्यमस्ति विविधार्थप्रयोगवशात् ॥
तत्राग्निमारुतात्मकं प्रायेणोर्ध्वभागिकम् ।
तयोर्हिलाघवादूर्ध्वगतित्वाच्चाग्नेः प्लवनत्वाच्च मारुतस्य ॥
भूम्यौदकात्मकं तु प्रायेणाधोभागिकम् ।
तयोर्हि गौरवानिम्नगत्वाच्च तोयस्य ॥
व्यामिश्रात्मकमुभयतोभागम् ॥
शमनं तु दोषविपरीतगुणमुक्तं प्राक् ।
तत्सङ्करे च यतो बाहुल्येन कार्यकर्तृत्वं भवति यदेवाधिकं तदेव तत्कार्यकरमिति व्यपदेशः ।
तथानिलात्मकं ग्राहि ।
अनलात्मकं दीपनपाचनम् ।
उभयात्मकं लेखनम् ।
भूम्युदकात्मकं बृंहणम् ॥
तत्र कट्वम्ललवणा वीर्येण यथोत्तरमुष्णाः ।
तिक्तकषायमधुराः शीताः ॥
तिक्तकटुकषाया रूक्षा बद्धविण्मूत्रमारुताः ।
लवणाम्लमधूराःस्निग्धाःसृष्टविण्मूत्रमारुताः ॥
लवणकषायमधुरा गुरवः ।
तद्वदम्लकटुकतिक्ता लघवः ।
अन्ये पुनर्गुरुलघुस्निग्धरूक्षसाधारणं लवणमिच्छन्ति ॥
वीर्यं तु केचिद् गुरुलघुस्निग्धरूक्षतीक्ष्णमन्दशीतोष्णभेदेनाष्टविधमाहुः ।
अपरे पुनः पठन्ति ॥
वीर्यं द्रव्यस्य तद्ज्ञेयं यद्योगात् क्रियते क्रिया ।
नावीर्यं कुरुते किञ्चित् सर्वा वीर्यकृता हि सा ॥
तैरपि चैवमतिप्रकृष्टशक्तियुक्तानामशेषौधगुणसारभूतानामष्टानामेव गुर्वादीनां वीर्यसंज्ञा विशिष्टाम्नायविहितापि लौकिकीति समुद्भाव्यते ।
तथा हि तया रसविपाकगुणान्तरविजयिनो भूयांसश्च वरिष्ठाश्च गुणाः सङ्गृहीताः ।
विशेषवृत्या च तत्र तत्र द्रव्यस्वरूपकथने व्यवहारः प्रवृत्तितो भवति ।
अत एव सर्वातिशायी द्रव्यस्वभावः प्रभाव इत्याम्नातः ।
सत्यपि च क्रियानिर्वर्त्तनसामान्ये तद्विपरीता रसादयो वीर्याख्यया प्रभावसंज्ञया वा न परामृश्यन्ते ॥
अन्ये तु गुर्वादीनामग्नीषोमात्मकत्वादादानविसर्गविभाअगेन कालस्य चोष्णशीतात्मकत्वाद् द्विविधमेवामनन्ति ।
एवं चाहुः ॥
नानात्मकमपि द्रव्यमग्नीषोमौ महाबलौ ।
व्यक्ताव्यक्तं जगदिव नातिक्रामति जातुचित् ॥
तत्रोष्णं दहनपचनस्वेदनविलयनानिलकफशमनानि करोति ॥
शीतं ह्लादनस्तम्भनजीवनरक्तपित्तप्रसादनादीनि ॥
इति वीर्यमुक्तं विपाकस्तूच्यते ।
विपाकस्तु प्रायः स्वादुः स्वादुलवणयोरम्लो ऽम्लस्य कटुरितरेषाम् ।
रसैरसौ तुल्यफलः ॥
द्रव्यगुणविशेषेण चास्याल्पमध्यभूयस्त्वमुपलक्षयेत् ॥
पराशरस्तु पठति ।
पाकास्त्रयो रसानामम्लो ऽम्लं पच्यते कटुः कटुकम् ।
चत्वारो ऽन्ये मधुरं सङ्कीर्णरसास्तु सङ्कीर्णम् ॥
कटुतिक्तकषायाणां कटुको येषां विपाक इति पक्षः ।
तेषां पित्तविघाते तिक्तकषायौ कथं भवतः ॥
तत्र यन्मधुरं रसविपाकयोः शीतवीर्यं च द्रव्यं यच्चाम्लं तयोरुष्णवीर्यं च यद्वा कटुकं तेषां यथास्वं रसेभ्यः प्रायो गुणान् दोषकोपशमनत्वं च विद्यात् ।
तद्यथा क्षीरमदिरामरिचादीनाम् ॥
रसादिसङ्करेण त्वन्यथात्वम् ।
यथा मधु मधुरं श्लेष्माणं शमयति कटुविपाकतया ।
सकषायत्वाद्रौक्ष्याच्च वातं जनयति शीतवीर्यत्वाच्च ।
तथा यवो ऽपि ।
आनूपौदकपिशितं शीतमपि पित्तं करोत्युष्णवीर्यत्वात् ।
तथा तैलं कटुविपाकतया च विपाकत एव बद्धविण्मूत्रम् ।
अम्लं काञ्जिकं कफं जयति रूक्षोष्णत्वात् कपित्थं तु रौक्ष्यात् पित्तं तु शीतवीर्यत्वात् ।
आमलकं पित्तं शीतवीर्यत्वात् स्वादुपाकतया च कफं रौक्ष्याल्लाघवाच्च शैत्यरौक्ष्यलाघवैस्तु न वातम् ।
लवणं सैन्धवं स्वादुपाकतया पित्तं जयति लाघवात् कफं जयति ।
कटुकापि शुण्ठी स्नेहौष्ण्यस्वादुपाकैर्वातं क्षपयति पिप्पली च ।
लशुनो ऽपि स्नेहौष्ण्यगौरवैः ।
पलाण्डुश्च ।
स तु स्नेहगौरवाभ्यां जनयति श्लेष्माणम् ।
वृद्धं च मूलकं स्वादुपाकतया ।
स्निग्धानि तिक्तानि व्याघ्रीविशल्यार्कागरूण्युष्णवीर्यत्वात् पित्तं जनयन्ति ।
कषायतिक्तं महत् पञ्चमूलं वातं जयति न तु पित्तं उष्णवीर्यत्वात् ।
कषायश्च कुलत्थो ऽम्लपाकतया चेत्येतन्निदर्शनमात्रमुक्तम् ॥
तस्मात् ।
किञ्चिद्रसेन कुरुते कर्म पाकेन चापरम् ।
द्रव्यं गुणेन वीर्येण प्रभावेणैव किञ्चन ॥
यदद् द्रव्ये रसादीनां बलवत्त्वेन वर्तते ।
अभिभूयेतरांस्तत्तत् कारणत्त्वं प्रपद्यते ॥
विरुद्धगुणसंयोगे भूयसाल्पं हि जीयते ॥
रसं विपाकस्तौ वीर्यं प्रभावस्तान्यपोहति ।
बलसाम्ये रसादीनामिति नैसर्गिकं बलम् ॥
विरुद्धा अपि चान्योन्यं रसाद्याः कार्यसाधने ।
नावश्यं स्युर्विघाताय गुणदोषा मिथो यथा ॥
रसवीर्यप्रभृतयो भूतोत्कर्षापकर्षतः ।
एकरूपा विरूपा वा द्रव्यं समधिशेरते ॥
माधुर्यशैत्यपैच्छिल्यस्नेहगौरवमन्दताः ।
सह वृत्त्या स्थिताः क्षीरे नत्वानूपौदकामिषे ॥
गुणा द्रव्येषु ये चोक्तास्त एव तनुदोषयोः ।
स्थितिवृद्धिक्षयास्तस्मात्तेषां हि द्रव्यहेतुकाः ॥
रसं विद्यान्निपातेन तेनाधिवसनेन च ।
वीर्यं विपाकं द्रव्याणां कर्मणः परिनिष्ठया ॥
मधुरस्कन्धनिर्दिष्टघृततैलगुडादिषु ।
गुणास्वादादीभेदेन रसषट्कं न युज्यते ॥
अस्तु भेदादसङ्ख्यत्वमैक्यं वास्वादलक्षणात् ।
भूतोत्कर्षापकर्षेण भेदो यो ऽल्पेन कल्प्यते ॥
सङ्कीर्णत्वात् फले चासौ तुल्यत्वान्न विवक्ष्यते ।
गुर्वादीनां विशेषे ऽपि स्वजातेरनतिक्रमात् ॥
सङ्ख्याभेदो यथा नास्ति रसानामपि स क्रमः ।
दृष्टं मुखोपलेपादि यत्सर्वेषु घृतादिषु ॥
न च तद्दाडिमाद्येषु षडेवातो रसाः स्मृताः ।
आनन्त्यैकत्वयोश्च स्यान्न विचित्रार्थतन्त्रणम् ॥
गुर्वाअंद्या वीर्यमुच्यन्ते शक्तिमन्तो ऽन्यथागुणाः ।
परसामर्थ्यहीनत्वात् गुणा एवेतरे गुणाः ॥
यथारसं जगुः पाकान् षट् केचित्तदसाम्प्रतम् ।
यत्स्वादुर्व्रीहिरम्लत्वं न चाम्लमपि दाडिमम् ॥
याति तैलं च कटुतां कटुकापि न पिप्पली ।
यथारसत्वे पाकानां न स्यादेवं विपर्ययः ॥
यस्मादृद्ष्टो यवः स्यादुर्गुरुरप्यनिलप्रदः ।
दीपनं शीतमप्याज्यं वसोष्णाप्यग्निसादिनी ॥
कटुपाको ऽपि पित्तघ्नो मुद्गो माषस्तु पित्तलः ।
स्वादुपाको ऽपि चलकृत् स्निग्धोष्णं गुरु फाणितम् ॥
रसः स्वादुर्यथा चैतत्तथान्येष्वपि दृश्यते ।
वातलं कफपित्तघ्नमम्लमप्याक्षकीफलम् ॥
कुरुते दधि गुर्वेव वह्निं पारावतं न तु ।
कपित्थं दाडिमं साम्लं ग्राहि नामलकीफलम् ॥
कषाया ग्राहिणी शीता धातकी न हरीतकी ।
अप्रधानाः पृथक् तस्माद्रसाद्याः संश्रितास्तुते ॥
प्रभावश्च यतो द्रव्ये द्रव्यं श्रेष्ठमतो मतम् ।
रसादिसाम्ये यत् कर्म विशिष्टं तत् प्रभावजम् ॥
दन्ती रसाद्यैस्तुल्यापि चित्रकस्य विरेचनी ।
मधुकस्य च मृद्वीका घृतं क्षीरस्य दीपनम् ॥
कटुपाकरसस्निग्धगुरुत्वैः कफवातजित् ।
लशुनो वातकफकृन्न तु तैरेव यद्गुणैः ॥
मिथो विरुद्धान् वातादीन् लोहिताद्या जयन्ति यत् ।
कुर्वन्ति यवकाद्याश्च तत्प्रभावविजृम्भितम् ॥
शिरीषादिर्विषं हन्ति स्वप्नाद्यं तद्विवृद्धये ।
मणिमन्त्रौषधीनां च यत् कर्मविविधात्मकम् ॥
शल्याहरणपुञ्जन्मरक्षायुर्द्धीवशादिकम् ।
दर्शनाद्यैरपि विषं यन्नियच्छति चागदः ॥
विरेचयति यद् वृष्यमाशु शुक्रं करोति वा ।
ऊर्ध्वाधोभागिकं यच्च द्रव्यं यच्छमनादि च ॥
मात्रादि प्राप्य तत्तच्च यत् प्रपञ्चेन वर्णितम् ।
तच्च प्रभावजं सर्वमतो ऽचिन्त्यः स उच्यते ॥
रसेन वीर्येण गुणैश्च कर्म द्रव्यं विपाकेन च यद्विदध्यात् ।
सद्यो ऽन्यथा तत् कुरुते प्रभावाद्धेतोरतस्तत्र न गोचरो ऽस्ति ॥
मूल पाठ: Aṣṭāṅgasaṃgraha · Edition: e-text by SARIT · SARIT: Search and Retrieval of Indic Texts · SARIT (e-text) via Internet Archive · CC BY-SA 3.0