भाषा

ENहिગુ
ग्रंथ पाठ

अष्टाङ्गसंग्रह · अध्याय 1.16

1.16.1

अथातो विविधद्रव्यगणसङ्ग्रहमध्यायं व्याख्यास्यामः ।
इति ह स्माहुरात्रेयादयो महर्षयः ॥

1.16.2

विदारिपञ्चाड्गुलवृश्चिकालीवृश्चीवदेवाह्वयशूर्पपर्ण्यः ।
कण्डूकरी जीवनह्रस्वसंज्ञे द्वे पञ्चके गोपसुता त्रिपादी ॥

1.16.3

विदार्यादिरयं हृद्यो बृंहणो वातपित्तहा ।
शोषगुल्माङ्गमर्दोर्ध्वश्वासकासहरो गणः ॥

1.16.4

सारिवोशीरकाश्मर्यमधूकशिशिरद्वयम् ।
यष्टीपरूषकं हन्ति दाहपित्तास्रतृड्ज्वरान् ॥

1.16.5

पद्मकपुण्ड्रौ वृद्धितुगर्ध्यः शृङ्ग्यमृता दश जीवनसंज्ञाः ।
स्तन्यकरा घ्नन्तीरणपित्तं प्रीणनबृंहणजीवनवृष्याः ॥

1.16.6

परूषकं वरा द्राक्षा कट्फलं कतकात् फलम् ।
राजाह्वं दाडिमं शाकं तृण्मूत्रामयवातजित् ।
अञ्जनं फलिनी मांसी पद्मोत्पलरसाञ्जनम् ।
सैलामधुकनागाह्वं विषान्तर्दाहपित्तनुत् ॥

1.16.7

पटोलकटुरोहिणीचन्दनं मधुस्रवगुडूचिपाठान्वितम् ।
निहन्ति कफपित्तकुष्ठज्वरान् विषं वमिमरोचकं कामलाम् ॥

1.16.8

गुडूचीपद्मकारिष्टधानका रक्तचन्दनम् ।
पित्तश्लेष्मज्वरच्छर्दिदाहतृष्णाघ्नमग्निकृत् ॥

1.16.9

आरग्वधेन्द्रयवपाटलिकाकतिक्तानिम्बामृतामधुरसास्रुववृक्षपाठाः ।
भूनिम्बसैर्यकपटोलकरञ्जयुग्मसप्तच्छदाग्निसुषवीफलबाणघोण्टाः ॥

1.16.10

आरग्वधादिर्जयति छर्दिकुष्ठविषज्वरान् ।
कफं कण्डूं प्रमेहं च दुष्टव्रणविशोधनः ॥

1.16.11

असनतिनिशभूर्जश्वेतवाहप्रकीर्याः खदिरकदरभण्डीशिंशपामेषशृङ्ग्यः ।
त्रिहिमनतपलाशाजोङ्गकः शाकसालौ धवकबुककलिङ्गच्छागकर्णाश्वकर्णाः ॥

1.16.12

असनादिर्विजयते श्वित्रकुष्ठकफक्रिमीन् ।
पाण्डुरोगं प्रमेहं च मेदोदोषनिबर्हणः ॥

1.16.13

वरणसैर्यकयुग्मशतावरीदहनमोरटबिल्वविषाणिकाः ।
द्विबृहतीद्विकरञ्जजयाद्वयं बहलपल्लवदर्भरुजाकराः ॥

1.16.14

वरणादिः कफं मेदो मन्दाग्नित्वं नियच्छति ।
आढ्यवातं शिरश्शूलं गुल्मं चान्तः सविद्रधिम् ॥

1.16.15

ऊषकस्तुत्थकं हिङ्गुकासीसद्वयसैन्धवम् ।
सशिलाजतु कृच्छ्राश्मगुल्ममेदः कफापहम् ॥

1.16.16

भवन्ति चात्र
वीरतरारणिकौ नगगुच्छौ मोरटटुण्टुकसैर्यकयुग्मम् ।
मुस्तकमञ्जरिकर्कशपार्था मूत्रविरेककरो दशकश्च ॥

1.16.17

वर्गो वीरतराद्यो ऽयं हन्ति वातकृतान् गदान् ।
अश्मरीशर्करामूत्रकृच्छ्राघातरुजापहः ॥

1.16.18

लोध्रशाबरकलोध्रपलाशाजिङ्गिणीसरलकट्फलयुक्ताः ।
कुत्सिताम्बकदलीगतशोकाः सेलवालुपरिपेलवमोचाः ॥

1.16.19

एष लोध्रादिको नाम मेदःकफहरोगणः ।
योनिदोषहरः स्तम्भी वर्ण्यो विषविनाशनः ॥

1.16.20

अर्कालर्कौ नागदन्ती विशल्या भार्ङ्गी रास्ना वृश्चिकाली प्रकीर्या ।
प्रत्यक्पुष्पी पीततैलोदकीर्याः श्वेतायुग्मं तापसानां च वृक्षः ॥

1.16.21

अयमर्कादिको वर्गः कफमेदोविषापहः ।
कृमिकुष्ठप्रशमनो विशेषात् व्रणशोधनः ॥

1.16.22

सुरसयुगफणिज्जं कालमाला विडङ्गं खरबुकवृषकर्णीकट्फलं कासमर्दः ।
क्षवकसरसिभार्ङ्गीकार्मुकाः काकमाची कुलहलविषमुष्टी भूस्तृणो भूतकेशी ॥

1.16.23

सुरसादिर्गणः श्लेष्ममेदःक्रिमिनिषूदनः ।
प्रतिश्यायारुचिश्वासकासघ्नो व्रणशोधनः ॥

1.16.24

मुष्ककस्नुग्वराद्वीपीपलाशधवशिंशपाः ।
गुल्ममेहाश्मरीपाण्डुमेदो ऽर्शःकफशुक्रजित् ॥

1.16.25

वत्सको मधुरसा त्रुटिर्वचा दीर्घवृन्तफलवेल्लसर्षपाः ।
रोहिणीस्थपनिहिंगुभार्ङ्गयः शूलघाति दशकं घुणप्रिया ॥

1.16.26

वत्सकाद्यो ऽनिलश्लेष्ममेदो ऽरोचकपीनसान् ।
शूलार्शोज्वरगुल्मांश्च हन्ति दीपनपाचनः ॥

1.16.27

वचाजलददेवाह्वनागरातिविषाभयाः ।
हरिद्राद्वययष्ट्याह्वकलशीकुटजोद्भवाः ॥

1.16.28

वचाहरिद्रादिगणावामातीसारनाशनौ ।
मेदःकफाढ्यपवनस्तन्यदोषनिबर्हणौ ॥

1.16.29

प्रियङ्गुपुष्पाञ्जनयुग्मपद्माः पद्माद्रजो योजनवल्यनन्ता ।
सालद्रुमो मोचरसः समङ्गा पुन्नागशीतं मदनीयहेतुः ॥

1.16.30

अम्बष्ठामधुकनमस्करीनन्दीवृक्षपलाशकच्छुराः ।
लोध्रं घातकिविल्वपेशिका वटवङ्गः कमलोद्भवं रजः ॥

1.16.31

गणौ प्रियङ्ग्वम्बष्ठादी पक्वतीसारनाशनौ ।
सन्धानीयौ हितौ पित्ते व्रणानामपि रोपणौ ॥

1.16.32

मुस्तावचाग्निद्विनिशाद्वितिक्ताभल्लातपाठात्रिफलाविषाख्याः ।
कुष्ठं त्रुटी हैमवती च योनिस्तन्यामयघ्ना मलपाचनाश्च ॥

1.16.33

न्यग्रोधपिप्पलसदाफललोध्रयुग्मजम्बूद्वयार्जुनकपीतनसोमवल्काः ।
प्लक्षास्रवञ्जुलप्रियालपलाशनन्दीकोलीकदम्बविरलामधुकं मधूकम् ॥

1.16.34

न्यग्रोधादिर्गणो व्रण्यः सङ्ग्राही भग्नसाधनः मेदःपित्तास्रतृड्दाहयोनिरोगनिबर्हणः ॥

1.16.35

एलायुग्मतुरुष्ककुष्ठफलिनीमांसीजलध्यामकस्पृक्काचोरकचोचपत्रतगरस्थौणेयजातीरसाः ।
शुक्तिव्याघ्रनखौ सुराह्वमगरुःश्रीवासकःकुङ्कुमं चण्डागुग्गुलुदेवधूपखपुराःपुन्नागनागाह्वयम् ॥

1.16.36

एलादिको वातकफौ विषं च विनियच्छति ।
वर्णप्रसादनः कण्डूपिटकाकोठनाशनः ॥

1.16.37

श्यामादन्तीद्रवन्तीक्रमुककुठरणाशङ्खिनीचर्मसाह्वास्वर्णक्षीरिगवाक्षीशिखरिरजनिका छिन्नरोहा करञ्जः ।
बस्तान्त्री व्याधिघातो बहलबहुरसस्तीक्ष्णवृक्षात् फलानि श्यामाद्यो हन्ति गुल्मं विषमरुचिकफौ हृद्रुजं मूत्रकृछ्रम् ॥

1.16.38

पिप्पलीपिप्पलीमूलचव्यचित्रकशृङ्गवेरमरिचहस्तिपिप्पलीहरेणुकैलाजमोजेन्द्रयवपाठाजीरकसर्षपमहानिम्बफल्गुहिङ्गुभार्ङ्गीवचामुस्तामधुरसातिविषाविडङ्गानि कटुरोहिणी चेति ॥

1.16.39

पिप्पल्यादिः कफहरः प्रतिश्यायानिलारुचीः ।
निहन्याद्दीपनो गुल्मशूलघ्नश्चामपाचनः ॥

1.16.40

पञ्चविंशीतरित्युक्ता वर्गास्तेषु त्वलाभतः ।
युञ्ज्यात्तद्विधमन्यच्च द्रव्यं जह्यादयौगिकम् ॥

1.16.41

एते वर्गा दोषदूष्याद्यपेक्ष्य कल्कक्वाथस्नेहलेहादियुक्ताः ।
पाने नस्ये ऽन्वासने ऽन्तर्बहिर्वा लेपाभ्यङ्गैर्घ्नन्ति रोगान् सुकृछ्रान् ॥

मूल पाठ: Aṣṭāṅgasaṃgraha · Edition: e-text by SARIT · SARIT: Search and Retrieval of Indic Texts · SARIT (e-text) via Internet Archive · CC BY-SA 3.0

Esc