भाषा

ENहिગુ
ग्रंथ पाठ

अष्टाङ्गसंग्रह · अध्याय 1.15

1.15.1

अथातो महाकषायसङ्ग्रहमध्यायं व्याख्यास्यामः इति ह स्माहुरात्रेयादयो महर्षयः ॥

1.15.2

आनन्त्यादौषधानामामयानां चानन्ता एव कषायाः ।
ये तु सुतरामुपयोगवन्तः प्रकर्षवर्तिनो वा ते जीवनीयादिसंज्ञाः ।
प्रत्येकं दशकषायसंयोगात् पञ्चचत्वारिंशन्महाकषाया वक्ष्यन्ते ।
तत्प्रतिपत्यर्थमेव मन्दबुद्धीनाम् ।
बुद्धिमतामुदाहरणामात्रप्रदर्शनार्थम् ।
शक्यं हि बुद्धिमद्भिः स्वादुशीतस्निग्धादीन् जीवन्त्यादिषु साधारणान् गुणानालोच्य क्षीरेक्षुद्राक्षाक्षोडविदारीकन्दादिष्वपि तद्गुणेषु जीवनीयादित्वमवधारयितुम् ।
यथोक्तानुसरणमेव तु श्रेयो मन्दबुद्धेरिति ।
व्यस्ताश्च ते चत्वारि पञ्चाशदधिकानि तदभिधानान्येव ।
यद्यपि तानि तान्येव द्रव्याणीति द्रव्यसङ्करः कषायेषु तथापि न संज्ञाविरोधः ।
एकस्यापि बहुकार्यनिर्वर्तनात् ।
तत्र लवणवर्ज्या रसाः कल्पनायां कषाया इत्युचयन्ते ।
तद्योनित्वात् ।
लवणस्य यतो निर्यासादिकल्पनानामसम्भवः ।
पृथगुपयोगोपकाररहितत्वाच्च नैरथक्यमिति ॥

1.15.3

भवति चात्र ।
जीवन्तीकाकोल्यौ द्वे मेदे मुद्गमाषपर्ण्यौ च ।
ऋषभकजीवकमधुकं चेति गणो जीवनीयाख्यः ॥

1.15.4

वाट्या बला पयस्याकाकोल्याविक्षुवाजिगन्धे च ।
क्षीरिणिराजक्षवके भारद्वाजी च बृंहणीयो ऽयम् ॥

1.15.5

हैमवती चिरिबिल्वं मुस्ता कुष्ठं वचा हरिद्रे च ।
चित्रककटुकातिविषा वर्गोयं लेखनीयाख्यः ॥

1.15.6

अर्कैरण्डौ चित्रा चित्रकचिरिबिल्वशङ्खिनीसरला ।
हेमक्षीरी कटुका वह्निमुखी भेदनीयो ऽयम् ॥

1.15.7

मधुमधुकपृश्निपर्णीकट्फललोध्रप्रियङ्गुधातक्यः ।
अम्बष्ठकी समङ्गा मोचरसश्चेति सन्धानः ॥

1.15.8

हिङ्गुमरिचाम्लवेतस दीप्यकभल्लातकास्थिसंयोगात् ।
वर्गः सपञ्चकोलो निर्दिष्टो दीपनीयो ऽयम् ॥

1.15.9

ऐन्द्र्यतिरसा पयस्या ऋष्यप्रोक्ता स्थिरा बलातिबला ।
इति बल्यो दशको ऽयं हयगन्धा रोहिणी ऋषभः ॥

1.15.10

चन्दनतुङ्गपयस्या सितालतामधुकपद्मकोशरिम् ।
वर्ण्यो गणोयमुदितो मञ्जिष्ठासारिवासहितः ॥

1.15.11

हंसपदीबृहतीद्वयमृद्वीकासारिवेक्षुमूलानि ।
कैडर्यमधुककृष्णाः सविदार्यः कण्ठजननानि ॥

1.15.12

वृक्षाम्लबदरदाडिमकुवलाम्राम्रातालिकुचकरमर्दम् ।
हृद्यं समातुलुङ्गाम्लवेतसं विद्धि वर्गमिमम् ॥

1.15.13

नागरचविकाचित्रकविडङ्गमूर्वामृतावचामुस्ताः ।
सहपिप्पलीपटोलास्तृप्तिघ्नो ऽयं गणः प्रथितः ॥

1.15.14

कुटजफलबिल्वचित्रकमहौषधप्रतिविषावचाचविकाः ।
धन्वयवासं पथ्या दारुहरिद्रागणो ऽयमर्शोघ्नः ॥

1.15.15

खदिरामलकारुष्करनिशाभयासप्तपर्णकरवीराः ।
कुष्ठाघ्नाश्चतुङ्गुलविडङ्गजातिप्रवालाश्च ॥

1.15.16

नलदकृतमालचन्दनसर्षपघननिम्बकुटजमधुकानि ।
कण्डूं दारुहरिद्रासनक्तमालानि निघ्नन्ति ॥

1.15.17

अक्षीवमरिचकेबुकविडङ्गगण्डीरकिणिहिनिर्गुण्ड्यः ।
घ्नन्ति क्रिमीन् श्वदंष्ट्राविषाखुपर्ण्यस्तथा न चिरात् ॥

1.15.18

मञ्जिष्ठाश्लेष्मातकरजनीसुवहाशिरीषपालिन्द्यः ।
सैलाचन्दनकत्काः ससिन्दुवारा विषं घ्नन्ति ॥

1.15.19

शालिकुशकाशषष्टिकवीरणदर्भेक्षुवालिकेक्षूणाम् ।
तद्वद् गुन्द्रोत्कटयोर्मूलमलं स्तन्यजननाय ॥

1.15.20

पाठानागरसुरतरुघनामृतासारिवेन्द्रयवमूर्वाः ।
कटुकाकिराततिक्तं वर्गो ऽयं स्तन्यशुद्धिकरः ॥

1.15.21

मेदाकाकोलीद्वयवृक्षरुहाजीवकर्षभकुलिङ्गाः ।
शुक्रजननो गणो ऽयं सह जटिलाशूर्पपर्णीभिः ॥

1.15.22

कुष्ठैलवालुककट्फलकाण्डेक्ष्विक्ष्वब्धिफेनकोशीरैः ।
वसुकेक्षुरकैः शुक्रं शुध्येत् सकदम्बनिर्यासैः ॥

1.15.23

द्राक्षाकाकोलीद्वय मधुपर्णीमधुकजीवकविदार्यः ।
स्नेहोपगाः समेदा जीवन्तीशालिपर्णीकाः ॥

1.15.24

सौभञ्जनकपुनर्नववृश्चीवकुलत्थमाषबदराणि ।
स्वेदोपगानि विद्यात् सयवतिलार्कोरुपूगानि ॥

1.15.25

लाजाम्रबदरदाडिमयवषष्टिकमातुलुङ्गसेव्यानि ।
जम्ब्वाम्रपल्लवानि च वमिनिग्रहणानि मृत्सा च ॥

1.15.26

नागरधन्वयवासकवालकपर्पटकचन्दनगुडूच्यः ।
भूनिम्बघनपटोली कुस्तुम्बर्यस्तृषं घ्नन्ति ॥

1.15.27

बृहतीद्वयवृक्षरुहापुष्करमूलाभयाकणाशृङ्ग्यः ।
हिध्मां निघ्नन्ति शटी दुरालभा बदरबीजं च ॥

1.15.28

शामानन्ता पद्मा कट्वङ्गः पद्मकेसरं लोध्रम् ।
धातकिकुसुमसमङ्गामोचरसाम्रास्थि विड्ग्रहणम् ॥

1.15.29

जम्बूसल्लकिमधुकं नीलोत्पलकच्छुरातिलश्र्याह्वम् ।
भृष्टा च मृत् पयस्या सशाल्मली विड्विरजनानि ॥

1.15.30

जम्ब्वाम्रोदुम्बरवटकपीतनप्लक्षपिप्पलाश्मन्तम् ।
भल्लातसोमवल्कं मूत्रग्रहणाय् निर्दिष्टम् ॥

1.15.31

कमलनलिनकुमुद मधुकसौगन्धिकधातकीलताकुसुमम् मूत्रं नयति विरागं सोत्पलशतपत्रपुण्डरीकं च ॥

1.15.32

वृक्षादनीश्वदंष्ट्रादर्भेत्कटवसुकवशिरकुशकाशाः ।
मूत्रं विरेचयेयुर्गुन्द्रा पाषाणभेदश्च ॥

1.15.33

द्राक्षामलकपुनर्नबवृश्चीवदुरालभाभयाकृष्णाः ।
कासं घ्नन्ति सशृङ्गी तामलकी कण्टकारी च ॥

1.15.34

चण्डाम्लवेतसशटी तामलकीसुरसहिङ्गुजीवन्त्यः ।
पुष्करमूलैलागुरुवर्गो ऽयं श्वासशमनाय ॥

1.15.35

द्राक्षापीलुपरूषकमञ्जिष्ठासारिवामृतापाठाः ।
त्रिफला चेति गणो ऽयं ज्वरस्य शमनाय् निर्दिष्टः ॥

1.15.36

दाडिमफल्गुपरूषकप्रियालयवषष्टिकेक्षुबदराणि ।
श्रमनाशनानि विद्याद् द्राक्षाखर्ज्जूरसहितानि ॥

1.15.37

पद्मकलाजोशीरं मधुकोत्पलसारिवासितोदीच्यम् ।
काश्मर्यफलं चन्दनमेष गणो दाहहा प्रोक्तः ॥

1.15.38

नतनागरागुरुवचाधान्यकभूतीकपिप्पलीव्याघ्रयः ।
शीतं शमयन्त्यचिरात् स्योनाकः साग्निमन्थश्च ॥

1.15.39

तिन्दुकप्रियालवीजकसप्तच्छदखदिरकदरबदराणि ।
अरिमेदवाजिकर्णौ ककुभश्चोदर्दशमनानि ॥

1.15.40

काकोल्येला सेव्यं निदिग्धिके शालिपृश्निपर्ण्यौ च ।
घ्नन्त्यङ्गमर्दमचिराचन्दनमधुकोरुबूकं च ॥

1.15.41

दीप्यकमरिचाजाजीगण्डीरं साजगन्धमथ शूलम् ।
शमयति सपञ्चकोलं शोफं दशमूलमाद्यं च ॥

1.15.42

मधुमधुकलाजगैरिकफलिनीमोचरसमृत्कपालानि ।
संस्थापयन्ति रुधिरं रुधिरं च सशर्करं लोध्रम् ॥

1.15.43

शैलैलवालुकट्फलमोचरसाशोकपद्मकशिरीषम् ।
स्थापयति वेदनामथ सहतुङ्गकदम्बविदुलं च ॥

1.15.44

कैडर्यहिङ्गुचोरकपलङ्कषाशोकरोहिणिवयस्थाः ।
पूत्यरिमेदो जटिलागोलोमिवचाश्च संज्ञादाः ॥

1.15.45

ऐन्द्री दूर्वामोघाविष्वक्सेना व्यथा शिवारिष्टा ।
ब्राह्मी सवाट्यपुष्पी शतवीर्या स्थापयेद् गर्भम् ॥

1.15.46

अमृता पथ्या धात्री जीवन्ती श्रेयसी स्थिरायुक्ता ।
मण्डूकपर्ण्यतिरसा स्थापयति पुनर्नवा च वयः ॥

1.15.47

इति नानाविधव्याधिविघातार्थमुदाहृताः ।
योगा रोगातुरवशात् कल्पयेत्तान् यथायथम् ॥

मूल पाठ: Aṣṭāṅgasaṃgraha · Edition: e-text by SARIT · SARIT: Search and Retrieval of Indic Texts · SARIT (e-text) via Internet Archive · CC BY-SA 3.0

Esc