भाषा

ENहिગુ
ग्रंथ पाठ

अष्टाङ्गसंग्रह · अध्याय 1.14

1.14.1

अथ शोधनादिगणसङ्ग्रहमध्यायं व्याख्यास्यामः ।
इति ह स्माहुरात्रेयादयो महर्षयः ॥

1.14.2

मदननीमूतकेक्ष्वाकुकोशातकीद्वयफलपुष्पपत्राणि कुटजकरञ्जत्रपुससर्षपपिप्पलीविडङ्गैलाप्रत्यक्पुष्पीहरेणुपृथ्वीकाकुस्तुम्बरुप्रपुन्नाटानां फलानि शारदानि च हस्तिपर्ण्याः कोविदारकर्बुदारारिष्टश्वगन्धानीपविदुलबिल्वबिम्बीबन्धुजीवकश्वेताशणपुष्पीसदापुष्पीवचाचित्राचित्रकमृगेन्द्रवारुणीसुषवीचतुरङ्गुलस्वादु कण्टकपाठापाटलीशार्ङ्गेष्टामधुकमूर्वासप्तपर्णसोमवल्कद्वीपिशिग्रुसुमनस्सौमनस्यायवानीवृश्चीवपुनर्नवामहा सहाक्षुद्रसहेक्षुकाण्डकालक्तपिप्पलीमूलचविकानलदोशीरह्रीबेरमूलानि ।
शाल्मलीशेलुकाभद्रपण्यैरावण्यावर्त्तक्युपोदकोद्दालधन्वनरसाञ्जनराजादनोपचित्रागोपशृङ्गाटिकापिच्छाः ।
प्रियङ्गुपूष्पम् ।
तालीसपत्रम् ।
हरिद्राशृङ्गवेरकन्दौ ।
मधुयष्टीदारुहरिद्रासासौ ।
तगरगुडूचीमधुफणितक्षीरक्षारलवणानि चेति वमनोपयोगीनि ॥

1.14.3

त्रिवृच्छामादन्तीद्रवन्तीशङ्खिनीसप्तलाजगन्धाजशृङ्गीवचागवाक्षीछगलान्त्रीसुवर्णक्षीरीचित्रककिणिहीह्रस्वपञ्चमूलवृश्चीवपुनर्नवापलङ्कषावास्तुकशाकसालमूलानि ।
तिल्वकरम्यककाम्पिल्यकपाटलीत्वच ।
त्रिफलापीलुप्रियालकुवलबदरकर्कन्धुकाश्मर्यपरूषकद्राक्षानीलिनीक्लीतनकोदकीर्याविडङ्गपूगपञ्चाङ्गुलफलानि ।
चतुरङ्गुलफलपत्राणि ।
पूतीकस्य त्वक्फलपत्राणि ।
महावृक्षसप्तच्छदज्योतिष्मतीक्षीराणि ।
क्षीरमद्यमस्तुतक्रधान्याम्लमूत्राणि चेति विरेचनोपयोगीनि ॥

1.14.4

कोशातकीदेवदालीसप्तलाकारवोल्लिकास्वरसमर्कक्षीरमुष्णोदकं चेत्युभयात्मकानि ।
बस्तिषु तु तेषु तेष्ववस्थान्तरेषुयान्युपयुज्यन्ते द्रव्याणि तान्यसङ्ख्येयत्वान्नोपदिश्यन्ते ।
रसस्कन्धेभ्य एव यथादोषं यथावस्थं च विभजेत् ।
सर्वेषु तु प्रायो मदनकुटज जीमूतकेक्ष्वाकुकोशातकीद्वयत्रपुंसासिद्धार्थकशताह्वाफलानि ।
बलादशमूलैरण्डत्रिवृद्वचायष्ट्याह्वकुष्ठरास्नापुनर्नवकत्तृणमूलानि ।
सरलदेवदारुहपुषाहिङ्गुरसाञ्जनव्योषपत्रैलामृतायवकोलकुलत्थगुडलवणमस्तुधान्याम्लमूत्रस्नेहक्षीरक्षौद्राणि चेति निरूहोपयोगीनि ॥

1.14.5

अपामार्गविडङ्गमरिचपिप्पलीशिरीषविल्वाजाज्यजमोजवार्ताकपृथ्वीकैलाहरेणुफलानि ।
तालीसतमालतर्कारीहरितकवर्गपत्राणि ।
सर्षपाफलपत्राणि ।
शिग्रुफलपत्रत्वचः ।
हरिद्रामूलकलशुननागरकन्दपत्राणि ।
अतिविषाकन्दाः ।
कुष्ठवचाभार्ङ्गीश्वेताकिणिहीनागदन्तीज्योतिष्मतीगवाक्षीवयस्थावृश्चिकालीबम्बीकरञ्जमूलानि ।
अर्कालर्कपुष्पमूलानि ।
लोध्रमदनसप्तपर्णनिम्बपीलुबीजानि ।
मुरुङ्गीमातुलुङ्गीलवङ्गपुष्पाणि ।
अगरुसुरदारुसरलसल्लकीजिङ्गिण्यसनरसाञ्जनहिङ्गुलाक्षानिर्यासाः ।
तमालसालतालमधूकदार्वीसाराः ।
तेजस्विनीमेषशृङ्गीवराङ्गेङ्गुदीबृहतीद्वयचोचत्वचः ।
राजादनमज्जक्षौद्रलवणानि मद्यानि गवादिशकृद्रसमूत्रपित्तान्येवंविधानि चेन्द्रियोपशयान्यन्यान्यपि तथा स्नेहाः क्षीरं रक्तं मांसरसो धान्यरसस्तोयमिति शिरोविरेचनोपयोगीनि ॥

1.14.6

मधुकपद्मकमञ्जिष्ठाशारिवामुस्तापुन्नागनागकेसरैलवालुकसुवर्णत्वक्तमालपृथ्वीकाहरेणुलाक्षाशतपुष्पासल्लकीशर्करामदनकमरुबकन्यग्रोधोदुम्बराश्वत्थप्लक्षलोध्रत्वक् पद्मोत्पलानि सर्वगन्धद्रव्याणि च कुष्ठतगरवर्ज्यानि प्रायोगिकधूमोपयोगीनि अगरुगुग्गुलुसल्लकीशैलेयकनलदह्रीबेरहरेणूशीरमुस्ताध्यामकवराङ्गश्रीवेष्टकस्थौणेयकपरिपेलवैलवालुककुन्दुरुकसर्जरसयष्ट्याह्वफलसारस्नेहमधूच्छिष्टबिल्वफलमज्जयवतिलमाषकुङ्कुमानि मेदोमज्जवसासर्पीषि च स्नैहिकधूमोपयोगीनि ।
शिरोविरेचनद्रव्याणि गन्धद्रव्याणि च तीक्ष्णानि मनोह्वा हरितालं चेति तीक्ष्णधूमोपयोगीनि ॥

1.14.7

भद्रदारुकुष्ठतगरवरुणबलातिबलार्तगलकच्छुराह्लादिनीकुबेराक्षीवत्सादिन्यर्कालर्ककतकभार्ङ्गीकार्पासीवृश्चिकालीपत्तूरप्रभृतीनि विदार्यादिगणो वीरतरादि स्तृणाख्यवर्ज्यानि षट् पञ्चमूलानि चेति वातशमनानि ।
दूर्वानन्तामोचरसमञ्जिष्ठापरिपेलवकालाकालीयककदलीकन्दलीपयस्यात्मगुप्तानालिकेरखर्ज्जूरद्राक्षाविदारीबदरीबलानागबलानागपुष्पशतावरीशीत पाक्योदनपाकीतृणशूल्यांशुमतीद्वयारिष्टकारिष्टाटरूषकेत्कटर्प्रियङ्गुधातकीधवधवधन्वनस्यन्दनखदिरकदरप्रियालतालसालसर्जतिनिशाश्वकर्णगुन्द्रावानीरपद्मापद्मकपद्मबीजमृणालकुमुदनलिनसौगन्धिकपुण्डरीकशतपत्रशैवालकल्हारोत्पलकाकोल्युत्पलिकाशलूकशृङ्गाटककशेरुकक्रौञ्चादनप्रभृतीनि अन्यानि च शीतवीर्याणि सारिवादिः पद्मकादिः पटोलाअदिर्न्यग्रोधादिर्दाहहरो महाकषायस्तृणपञ्चमूलं चेति पित्तशमनानि ।
शीतशिवशतपुष्पासरलसुरदारुरास्नेङ्गु दीसातलासुमनःकाकादनीलाङ्गलिकाहस्तिकर्णमुञ्जातलामज्जकप्रभृतीन्यन्यानि च रूक्षोष्णवीर्याण्यारग्वधादिरसनादिरर्कादिः सुरसादिर्मुष्ककादिर्वत्सकादिर्मुस्तादिः शीतघ्नश्च महाकषायो वल्लीकण्टकपञ्चमूले च श्लेष्मशमनानीति ॥

1.14.8

भवति चात्र ।
समीक्ष्य दोषदूष्यादीनमी वर्गाः सुयोजिताः ।
सर्वामयजयायालं जायन्ते नियतात्मनाम् ॥

मूल पाठ: Aṣṭāṅgasaṃgraha · Edition: e-text by SARIT · SARIT: Search and Retrieval of Indic Texts · SARIT (e-text) via Internet Archive · CC BY-SA 3.0

Esc