भाषा

ENहिગુ
ग्रंथ पाठ

अष्टाङ्गसंग्रह · अध्याय 1.13

1.13.1

अथातो ऽग्र्यसङ्ग्रहणीयमध्यायं व्याख्यास्यामः ।
इति ह स्माहुरात्रेयादयो महर्षयः ॥

1.13.2

श्रेष्ठमुदकमाश्वासनस्तम्भनक्लेदनानाम् ।
स्नानं सुरा च श्रमहराणाम् ।
क्षीरं जीवनीयानाम् ।
मांसं बृंहणीयानाम् ।
रसः प्रीणनानाम् ।
लवणमन्नद्रव्यरुचिकराणाम् ।
तिन्दुकमन्नद्रव्यारुचिकराणाम् ।
अम्लं हृद्यानाम् ।
कुक्कुटो बल्यानाम् ।
तैलं वातश्लेष्मप्रशमनानाम् ।
सर्पिर्वातपित्तप्रशमनानाम् ।
मधु श्लेष्मपित्तप्रशमनानाम् ।
स्वेदो मार्दवकराणाम् ।
व्यायामः स्थैर्यकराणाम् ।
क्षारः पुंस्त्वोपघातिनाम् ।
आमं कपित्थमकण्ठ्यानाम् ।
आविकं सर्पिरहृद्यानाम् ।
महिषीक्षीरं स्वप्नजननानाम् ।
मन्दकं दध्यभिष्यन्दकराणाम् ।
इक्षुर्मूत्रजननानाम् ।
यवाः पुरीषजननानाम् ।
जाम्बवं वातजननानाम् ।
कुलत्थो ऽम्लपित्तजननानाम् ।
माषाः शष्कुल्यो ऽविक्षीरं च पित्तश्लेष्मजननानाम् ।
दुरालभा पित्तश्लेष्मोपशोषणानाम् ।
उपवासो ज्वरहराणां ।
वृषो रक्तपित्तप्रशमनानाम् ।
कण्टकारिका कासघ्नानाम् ।
लाक्षा सद्यःक्षतघ्नानाम् ।
नागबलाभ्यासः क्षतक्षयघ्नानाम् ।
पुष्करमूलं हिध्माश्वासकासपार्श्वशूलारुचिहराणाम् ।
अजापयः शोषघ्नस्तन्यकररक्तसङ्ग्रहणप्रशमनानाम् ।
मृद्भृष्टलोष्टप्रसादः छर्दितृष्णातियोगप्रशमनानाम् ।
अरुष्करश्चित्रकमूलं च शुष्कार्शःप्रशमनानाम् ।
कुटजो रक्तर्शःप्रशमनानाम् ।
लाजाश्छर्दिघ्नानाम् ।
यावशूकः स्रंसनीयपाचनीयार्शोघ्नानाम् ।
तक्राभ्यासो ऽर्शःश्वयथुग्रहणीदोषघृतव्यापत्प्रशमनानाम् ।
क्रव्यान्मांसाभ्यासो ऽर्शःशोषग्रहणीदोषघ्नानाम् ।
मुस्तं सङ्ग्रहणीयदीपनीयपाचनीयानाम् ।
अतिविषा सङ्ग्रहणीयपाचनीयसर्वदोषहराणाम् ।
बिल्वं सङ्ग्रहणीयदीपनीयवातकफप्रशमनानाम् ।
उदीच्यं निर्वापणदीपनीयछर्द्यतीसारहराणाम् ।
कट्वङ्गं सङ्ग्रहणीयदीपनीयानाम् ।
कुटजत्वक् श्लेष्मपित्तरक्तसङ्ग्रहणीयोपशोषणीयानाम् ।
उत्पलकुमुदकिञ्जल्को ऽनन्ता च सङ्ग्रहणीयरक्तपित्तप्रशमनानाम् ।
काश्मर्यफलं रक्तसङ्ग्रहणीयरक्तपित्तप्रशमनानाम् ।
गन्धप्रियङ्गुः शोणितपित्तातियोगप्रशमनानाम् ।
पृश्निपर्णी रक्तसङ्ग्रहणीयदीपनीयपाचनीयवातहरवृष्याणाम् ।
सालपर्णी वृष्यसर्वदोषहराणाम् ।
बला सङ्ग्रहणीयबल्यवातहराणाम् ।
पिप्पलीमूलं दीपनीयपाचनीयानाहहराणाम् चित्रकमूलं दीपनीयपाचनीयगुदशोफशूलहराणाम् ।
गोक्षुरको मूत्रकृच्छ्रानिलहराणाम् ।
हरिद्रा प्रमेहहराणाम् ।
रक्तावसेको विद्रधिविसर्पपिटकागण्डमालापहराणाम् ।
एरण्डतैलाभ्यासो वर्ध्मगुल्मानिलशूलहराणाम् ।
लशुनो गुल्मानिलहराणाम् ।
हिङ्गुनिर्यासःश्छेदनीयपाचनीयानुलोमिकवातकफप्रशमनानाम् ।
अम्लवेतसो भेदनीयदीपनीयानुलोमिकवातकफप्रशमनानाम् ।
उष्ट्रीक्षीरमुदरश्वयथुघ्नानाम् ।
अयोरजः पाण्डुरोगघ्नानाम् ।
खदिरः कुष्ठघ्नानाम् ।
विडङ्गः कृमिघ्नानाम् ।
रास्ना वातहराणाम् ।
एरण्डमूलं वृष्यवातहराणाम् ।
गुग्गुलुर्मेदोनिलहराणाम् ।
अमृता सङ्ग्रहणीयदीपनीयवातश्लेष्मशोणितविबन्धप्रशमनानाम् ।
मदनफलं वमनास्थापनानुवासनोपयोगिनाम् ।
त्रिवृत्सुखविरेचनानाम् ।
चतुरङ्गुलो मृदुविरेचनानाम् ।
स्नुक्पयस्तीक्ष्णविरेचनानाम् ।
प्रत्यक्पुष्पी शिरोविरेचनानाम् ।
त्रिफलातिमिरघ्नानाम् ।
गुग्गुलुर्व्रण्यानाम् ।
शिरीषो विषघ्नानाम् ।
आमलकं वयस्थापनानाम् ।
हरीतकी पथ्यानाम् ।
क्षीरघृताभ्यासो रसायनानाम् ।
समघृतसक्तुप्राशाभ्यासो वृष्योदावर्तहराणाम् ।
सङ्कल्पो नक्ररेतश्च वृष्याणाम् ॥

1.13.3

दौर्मनस्यमवृष्याणाम् ।
तैलगण्डूषाभयासो दन्तबलरुचिकराणाम् ।
चन्दनोदुम्बरं दाहनिर्वापणलेपनानाम् ।
रास्नागरुणी शीतापनयनप्रलेपनानाम् ।
लामज्जकोशीरे दाहत्वग्दोषस्वेदापनयनप्रलेपनानाम् ।
कुष्ठं वातहराभ्यङ्गोपनाहोपयोगिनाम् ।
मधुकं चक्षुष्यवृष्यकेश्यकण्ठ्यबल्यविरेचनीयरोपणीयानाम् ।
अजीर्णाशनं ग्रहणीदूषणानाम् ।
विरुद्धवीर्याशनं निन्दितव्याधिकराणाम् ।
गुरुभोजनं दुर्विपाकानाम् ।
अतिमात्राशनमामदोषहेतूनाम् ।
यथाग्न्यभ्यवहारो ऽग्निसन्धुक्षणानाम् ।
यथासात्म्यमाहारविहारौ सेव्यानाम् ।
एकासनशयनभोजनं सुखनाशकराणाम् ।
विषमाशनमग्निवैषम्यकराणाम् ।
काले भोजनमारोग्यकराणाम् ।
सुदर्शनमन्नं श्रद्धाजननानाम् ।
वेगधारणमनारोग्यकराणाम् ।
तृप्तिराहारगुणानाम् ।
अनशनमायुषो ह्रासकराणाम् ।
प्रमिताशनं गवेधुकान्नं च कर्शनीयानाम् ।
उद्दालकान्नं रूक्षणीयानाम् मद्यं सौमनस्यजननानाम् ।
मद्याक्षेपो धीधृतिस्मृतिहराणाम् ।
स्त्रीष्वतिप्रसङ्गः शोषकराणाम् ।
शुक्रवेगविनिग्रहः षाण्ढ्यकराणाम् पादाभ्यामुद्वर्तनमन्नश्रद्धाजननानाम् ।
सूनादर्शनमन्नाश्रद्धाजननानाम् ॥

1.13.4

मिथ्यायोगो व्याधिमुखानाम् ।
रजस्वलागमनमलक्ष्मीमुखानाम् ।
ब्रह्मचर्यमायुष्याणम् ।
परदारगमनमनायुष्याणाम् ।
अयथाप्राणमारम्भः प्राणोपरोधिनाम् ।
विषादो रोगवर्द्धनानाम् ।
हर्षः प्रीणनानाम् ।
शोकः शोषणानाम् ।
आश्वासो बलकराणाम् ।
निर्वृतिः पुष्टिकराणाम् ।
पुष्टिः स्वप्नकराणाम् ।
स्वप्नः तन्द्रीकराणाम् ।
सर्वरसाभ्यासो बलकराणाम् ।
एकरसाभ्यासो दौर्बल्यारोचकान्यतमदोषप्रकोपकराणाम् ।
गर्भशल्यमाहार्याणाम् ।
अग्निरामस्तम्भशीतशूलोद्वेष्टकप्रशमनानाम् ।
अजीर्णमुद्धार्याणाम् ।
बालो मृदुभेषजार्हाणाम् ।
वृद्धो याप्यानाम् ।
गर्भिणी तीक्ष्णौषधव्यवायव्यायामवर्जनीयानाम् ।
सौमनस्यं गर्भधारणानाम् ।
असौमनस्यं दुःखजनानाम् ।
सन्निपातो दुश्चिकित्स्यानाम् ।
आमविषमचिकित्स्यानाम् ।
ज्वरः शीघ्ररोगाणाम् ।
कुष्ठं दीर्घरोगाणाम् ।
राजयक्ष्मा रोगसमूहानाम् ।
प्रमेहो ऽनुषङ्गिणाम् ।
जलौकसो ऽनुशस्त्राणाम् ।
बस्तिर्यन्त्राणाम् ।
हिमवानौषधभूमीनाम् ।
सोम औषधीनाम् ।
मरुभूमिरारोग्यदेशानाम् ।
आनूपभूमिरहितदेशानाम् ।
निर्देशकारित्वमातुरगुणानाम् ।
अनिर्देशकारित्वमरिष्टानाम् ।
भिषक्चिकित्साङ्गानाम् ।
सिद्धिर्वैद्याङ्गानाम् ।
नास्तिको वर्ज्यानाम् ।
लौल्यं क्लेशकराणाम् ।
आत्मवत्तोपकारिणाम् ।
शास्त्रसहितस्तर्कः साधकानाम् ।
दृष्टकर्मता निस्संशयकराणाम् ।
असमर्थता भयंकराणाम् ।
तद्विद्यसम्भाषा बुद्धिवर्द्धनानाम् ।
आचार्यः शास्त्राधिगमहेतूनाम् ।
आयुर्वेदो ऽमृतानाम् ।
सद्वैद्यद्वेषः प्राणत्यागहेतूनाम् ।
सद्वचनमनुष्ठेयानाम् ।
वायुः प्राणसंज्ञाप्रदानहेतूनाम् ।
सर्वसन्यासः सुखानामिति ।
तत्रोदकाग्निमृद्भृष्टलोष्टप्रसादतक्राभ्यासरक्तावसेकैरण्डतैलाभ्यासोष्ट्रीक्षीरमदनफलमद्याक्षेपैकरसगर्भिणीनामेकैकस्मात् समुदायाच्च निर्द्धारणम् ।
पुष्करमूलादीनां तु समुदायादेवेति ॥

1.13.5

भवति चात्र ।
अग्र्याणां शतमुद्दिष्टं पञ्च पञ्चाशदुत्तरम् ।
अलमेतद्विजानीयाद्धिताहितविनिश्चये ॥

मूल पाठ: Aṣṭāṅgasaṃgraha · Edition: e-text by SARIT · SARIT: Search and Retrieval of Indic Texts · SARIT (e-text) via Internet Archive · CC BY-SA 3.0

Esc