अष्टाङ्गसंग्रह · अध्याय 1.12
अथातो द्विविधौषधविज्ञानीयमध्यायं व्याख्यास्यामः ।
इति हस्माहुरात्रेयादयो महर्षयः ॥
द्विविधमौषधमूर्जस्करं रोगघ्नं च ।
उभयमपि चोभयात्मकम् ।
बाहुल्येन तु निर्देशः ।
तत्रोर्जस्करं द्विविधं रसायनं वाजीकरणं च ।
रोगघ्नमपि द्विविधम् ।
रोगस्य प्रशमनमपुनर्भवकरं च ।
पुनश्च द्विविधम् ।
द्रव्यमद्रव्यम् च ।
तत्र द्रव्यम् त्रिविधम् ।
भौममौद्भिदं जङ्गममिति ।
तेषु वक्ष्यमाणं हेमादि लवणान्तं प्रायेण भौमम् ।
औद्भिदं पुनर्वनस्पतिवानस्पत्यवीरुदौषधिभेदेन चतुर्विधं भवति ।
तत्र फलिनो वनस्पतिः ।
पुष्पफलवान् वानस्पत्यः ।
वल्लीगुल्मवीरुत् ।
फलपाकान्ताश्चौषध्य इति ।
जङ्गमोद्भवं मधुघृतादि जङ्गमद्रव्यमाहुः ॥
अद्रव्यं पुनरुपवासानिलातपच्छायामन्त्रसान्त्वदानभयोत्त्राससङ्क्षोभणहर्षणभर्त्सनहसनस्वप्नजागरण संवाहनादीनि ।
पुनरपि च त्रिविधं दैवव्यपाश्रयं युक्तिव्यपाश्रयं सत्वावजयश्चेति ।
तत्र दैवव्यपाश्रयं मन्त्रौषधिमणिमङ्गलबल्युपहारहोमनियमप्रायश्चित्तो पवासस्वस्त्ययनप्रणिधानगमनादि ।
युक्तिव्यपाश्रयमाहारौषधयोजनादि ।
सत्वावजयः पुनरहितान्मनोनिग्रहः ।
पुनरपि च त्रिविधम् ।
अपकर्षणं प्रकृतिविघातो निदानत्यागश्च ॥
ते पुनरपकर्षणादयो द्विविधाः बाह्याभ्यन्तरभेदेन ।
तत्र बाह्यमपकर्षणं ग्रन्थ्यर्बुदोपपक्ष्मक्रिमिशल्यादिषु शस्त्रहस्तयन्त्रादिभिः ।
आभ्यन्तरं पुनर्वमनविरेचनादिभिः ।
प्रकृतिविघातः संशमनम् ।
तत् बाह्यमभ्यङ्गस्वेदप्रदेहपरिषेकोपमर्दनादि ।
आभ्यन्तरं यदन्तरमनुप्रविश्याविक्षोभयद्दोषान् शमयति ।
निदानत्यागो यथादोषं शीतोष्णशनव्यायामादीनां वर्जनं स्निग्धरुक्षाद्यनभ्यवहारश्च ।
तत्र शस्त्रादिसाध्ये भेषजमनुक्रमते न तु भेषजसाध्ये शस्त्रादि ॥
पुनरपि त्रिविधं हेतुविपरीतं व्याधिविपरीतमुभयार्थकारि च ।
तत्र हेतुविपरीतं गुरुस्निग्धशीतादिजे व्याधौ लघुरूक्षोष्णादि ।
तथेतरस्मिन्नितरत् ।
व्याधिविपरीतम् ।
द्वौ मूलोपक्रमौ लङ्घनबृंहणे ।
पञ्च कर्माणि वमनादीनि सधूमधूपाञ्जनादीनि च ।
तथा विम्लापनोपनाहनपाटनादीनि ॥
यच्च दोषशमनत्वे सत्यपि ज्वरे विशेषतो हितं मुस्ता पर्पटकं यवाग्वश्च प्रमेहे रजनी यवान्नं चेत्यादि ।
रक्तपित्ते चोर्ध्वागे विरेचनमधोगे वमनम् ।
उभयार्थकारि पुनर्दैवव्यपाश्रयमौषधम् ।
तथा छर्द्यां छर्दनमतिसारे विरेचनं मदात्ययेमद्यपानं तुत्थदग्धे ऽग्निप्रतपनं पित्ते ऽन्तर्न्निगूढे विमार्गगे वा स्वेदः कट्वम्ललवणतीक्ष्णोष्णाभ्यवहारश्च बहिः प्रवर्त्तनाय स्वमार्गापादनाय च ।
श्लेष्मणि चान्तर्निगूढे स्तब्धे बहिः शीतोपचारस्तत्पीडितस्योष्मणो ऽन्तःप्रवेशेन कफो विलयतामुपयाति ।
एवंविधं ह्यविपरीतमेव सत् भेषजं हेतुव्याधिविपरीतमर्थं करोति ॥
अनौषधं पुनर्द्विविधं बाधनमनुबाधनं च ।
तत्र सद्यः प्राणहरं बाधनम् ।
कालान्तरेणानुबाधनमिति ।
परं चातो रसवीर्यादिभेदेन यथास्थूलमौषधैकदेश उपदिश्यते ॥
सुवर्णं बृंहणं स्निग्धं मधुरं रसपाकयोः ।
विषदोषहरं शीतं सकषायं रसायनम् ॥
रूप्यं स्निग्धं कषायाम्ल विपाके मधुरं रसम् ।
वयसः स्थापनं शीतं लेखनं वातपित्तजित् ॥
ताम्रं सतिक्तमधुरं कषायं लेखनं लघु ।
कटुपाकरसं शीतं रोषणं कफपित्तजित् ॥
कस्यं कषायानुरसं विशदं लेखन लघु ।
दृष्टिप्रसादनं रूक्षं तिक्तं पित्तकफापहम् ॥
सतिक्तलवणं भेदि पाण्डुत्वकृमिवातनुत् ।
लेखनं पित्तलं किञ्चित् त्रपु सीसं च तद्गुणम् ॥
चक्षुष्यं कृष्णलोहं तु कषायं स्वादुतिक्तकम् ।
लेखनं वातलं शीतं कृमिकुष्ठकफप्रणुत् ॥
गात्रशैथिल्यपालित्यपाण्डुघ्नं शोषशोफजित् ।
तद्वत्तीक्ष्णं विशेषेण तद्विकाषि सुदुर्जरम् ॥
पद्मरागमहानीलपुष्परागविदूरकाः ।
मुक्ताविद्रुमवज्रेन्द्रवैडूर्यस्फटिकादिकम् ॥
मणिरत्नं सरं शीतं कषायं स्वादुलेखनम् ।
चक्षुष्यं धारणात्तत्तु पाप्मालक्ष्मीविषापहम् ॥
धन्यमायुष्यमोजस्यं हर्षोत्साहकरं शिवम् ।
सक्षार उष्णवीर्यश्च काचो दृष्टिकृदञ्जनात् ॥
शङ्खोदधिमलौ शीतौ कषायावतिलेखनौ ।
तुत्थकं कटु सक्षारं कषायं विषदं लघु ॥
लेखनं भेदि चक्षुष्यं कण्डूकृमिविषापहम् ।
विशदो गैरिकः स्निग्धः कषायमधुरो हिमः ॥
कफघ्नी तिक्तकटुका मनोह्वा लेखनी सरा ।
स्निग्धं कषायकटुकं हरितालं विषप्रणुत् ॥
कषायं मधुरं शीतं लेखनं स्निग्धमञ्जनम् ।
रक्तपित्तविषच्छर्दिहिध्माघ्नं दृक्प्रसादनम् ॥
स्रोतो ऽञ्जनं वरं तत्र ततः सौवीरकाञ्जनम् ।
कफघ्नं तित्तकटुकं छेदि सोष्णं रसाञ्जनम् ॥
स्वादु हिध्माप्रशमनं कासमेहक्षयापहम् ।
कफघ्नमुष्णं कटुकं शिलाजतु रसायनम् ॥
तिक्तं च छेदनं योगवाहित्वात्सर्वरोगजित् ।
विशेषात् कृछ्रमेहार्शःपाण्डुशोफकफापहम् ॥
कषाया मधुरा रूक्षा कासघ्नी वंशरोचना ।
तुगाक्षीरी क्षयश्वासकासघ्नी मधुरा हिमा ॥
विष्यन्दि लवणं सर्वं सूक्ष्मं सृष्टमलं विदुः ।
वातघ्नं पाकि तीक्ष्णोष्णं रोचनं कफपित्तकृत् ॥
सैधन्वं तत्र सस्वादु वृष्यं हृद्यं त्रिदोषनुत् ।
लघ्वनुष्णं दृशः पथ्यमविदाह्यग्निदीपनम् ॥
लघु सौवर्चलं हृद्यं सुगन्ध्युद्गारशोधनम् ।
कटुपाकं विबन्धघ्नं दीपनीयं रुचिप्रदम् ॥
ऊर्ध्वाधःकफवातानुलोमनं दीपनं विडम् ।
विबन्धानाहविष्टम्भशूलगौरवनाशनम् ॥
विपाके स्वादु सामुद्रं गुरु श्लेष्मविवर्धनम् ।
सतिक्तकटुकक्षारं तीक्ष्णमुत्क्लेदि चौद्भिदम् ॥
कृष्णे सौवर्चलगुणा लवणे गन्धवर्जिताः ।
रोमकं लघु पांसूत्थं सक्षारं श्लेष्मलं गुरु ॥
लवणानां प्रयोगे तु सैन्धवादीन् प्रयोजयेत् ।
गुल्महृत् ग्रहणीपाण्डुप्लीहानाहगलामयान् ॥
श्वासार्शःकफवातांश्च शमयेद्यवशूकजः ।
स्वर्जिका तद्गुणान्न्यूना क्षारेण तु ततो ऽधिका ॥
क्षारः सर्वश्च परमं तीक्ष्णोष्णः कृमिजिल्लघुः ।
पित्तासृग्दूषणः पाकी छेद्यहृद्यो विदारणः ।
अपथ्यः कटुलावण्याच्शुक्रौजःकेशचक्षुषाम् ॥
कषाया मधुरा पाके रूक्षा विलवणा लघुः ।
दीपनी पाचनी मेध्या वयसः स्थापनी परम् ॥
उष्णवीर्या सरायुष्या बुद्धीन्द्रियबलप्रदा ।
कुष्ठवैवर्ण्यवैस्वर्यपुराणविषमज्वरान् ॥
शिरो ऽक्षिपाण्डुहृद्रोगकामलाग्रहणीगदान् ।
सशोषशोफातीसारमेहमोहवमिक्रिमीन् ॥
श्वासकासप्रसेकार्शःप्लीहानाहगरोदरम् ।
विबन्धं स्रोतसां गुल्ममूरुस्तम्भमरोचकम् ॥
हरीतकी जयेद्व्याधींस्ताअंस्तांश्चकफवातजान् ।
तद्वदामलकं शीतं माधुर्यात् पित्तजित् परम् ॥
कफं कटुविपाकित्वादम्लत्वान्मारुतं जयेत् ।
परं च कण्ठ्यं चक्षुष्यं हृद्यं दाहज्वरापहम् ॥
अक्षं तु तद्गुणान्न्यूनं कषायमधुरं हिमम् ।
कासश्वासगलश्लेष्मपित्तशुक्रहरं लघु ॥
परं केश्यस्तु तन्मज्जा शुक्रघ्नं च ततो ऽञ्जनम् ।
इय रसायनवरा त्रिफलाक्ष्यामयापहा ।
रोपणी त्वग्गदक्लेदमेदोमेहकफास्रजित् ॥
सकेसरं चतुर्जातं त्वक्पत्रैलं त्रिजातकम् ।
पित्तप्रकोपि तीष्णोष्णं रूक्षं रोचनदीपनम् ॥
रसे पाके च कटुकं कफघ्नं मरिचं लघु ।
श्लेष्मला स्वादु शीतार्द्रा गुर्वीं स्निग्धा च पिप्पली ॥
सा शुष्का विपरीतातःस्निग्धा वृष्या रसे कटुः ।
स्वादुपाकानिलश्लेष्मश्वासकासापहा सरा ॥
न तामत्युपयुञ्जीत रसायनविधिं विना ।
नागरं दीपनं वृष्यं ग्राहि हृद्यं विबन्धनुत् ॥
रुच्य लघु स्वादुपाकं स्निग्धोष्णं कफवातजित् ।
तद्वदार्द्रकमेतच्च त्रयं त्रिकटुकं जयेत् ॥
स्थौल्याग्निसदनश्वासकासश्लीपदपीनसान् ।
चविका पिप्पलीमूलं मरिचाल्पान्तरं गुणैः ॥
चित्रको ऽग्निसमः पाके शोफार्शःकृमिकुष्ठहा ।
पञ्चकोलकमेतच्च मरिचेन विना स्मृतम् ।
गुल्मप्लीहोदरानाहशूलघ्नं दीपनं परम् ॥
बिल्वकाश्मर्यतर्कारीपाटलाटुण्टुकैर्महत् ।
जयेत् कषायं तिक्तोष्णं पञ्चमूलं कफानिलौ ॥
ह्रस्वं बृहत्यंशुमतीद्वयगोक्षुरकैः स्मृतम् ।
स्वादुपाकरसं नातिशीतोष्णं सर्वदोषजित् ॥
बलापुनर्नवैरण्डशूर्पपर्णीद्वयेन च ।
मध्यमं कफवातघ्नं नातिपित्तकरं लघु ॥
अभीरुवीराजीवन्तीजीवकर्षभकैः स्मृतम् ।
जीवनाख्यं तु चक्षुष्यं वृष्यं पित्तानिलापहम् ॥
तृणाख्यं शरदर्भेक्षुशालिकाशैस्तु पित्तजित् ।
अजशृङ्गी हरिद्रा च विदारीशारिवामृताः ॥
बल्याख्यं कण्टकाख्यं तु श्वदंष्ट्राभीरुसैर्यकैः ।
सहिस्त्राकरमर्दीकैस्सर्वदोषहरे च ते ॥
कारवीकुञ्चिवाजाजीकवरीधान्यतुम्बरु ।
अन्नगन्धहरं रुच्यं दीपनं कफवातजित् ॥
वाष्पिका कटुतिक्तोष्णा कृमिश्लेष्महरा परम् ।
शूलाटोपहरा रुच्या दीप्यकः कोष्ठशूलजित् ॥
अहृद्याः सर्षपाः स्निग्धा बाष्पिकावच्च कीर्त्तिताः ।
हिङ्गु वातकफानाहशूलघ्नं पित्तकोपनम् ॥
कटुपाकरसं रुच्यं दीपनं पाचनं लघु ।
पित्तास्रकोपि तच्चैव श्रेष्ठं बोष्काणदेशजम् ॥
ततो न्यूनगुणं त्वन्यद्द्रव्यव्यञ्जनधूपनम् ।
शताह्वाकुष्ठतगरसुरदारुहरेणवः ॥
एलैलवालुसरलत्वग्व्याघ्रनखचोरकाः ।
लघूष्णाः कटुकाः पाके कफवातनिबर्हणाः ॥
सैर्यकस्तिक्तमधुरः स्निग्धोष्णः कफवातजित् ।
बस्तिमूत्रविबन्धघ्नो वृष्यो गोक्षुरको हिमः ॥
पाचनं कफपित्तघ्नं तिक्तं शीतं विषाद्वयम् ।
कफघ्नं तिक्तकटुकं मुस्तं संग्राहि पाचनम् ॥
तिक्तामृता त्रिदोषघ्नी ग्राहिण्युष्णा रसायनी ।
दीपनी ज्वरतृड्दाहकामलावातरक्तनुत् ॥
तिक्तशीतौ ज्वरहरौ लघू भूनिम्बपर्पटौ ।
निम्बस्तिक्तो हिमः कुष्ठकृमिपित्तकफापहः ॥
महानिम्बः परं ग्राही कषायो रूक्षशीतलः ।
गुग्गुलुः पिच्छिलः स्पर्शे विशदो ऽभ्यवहारतः ॥
सस्वादु सकटुस्तिक्तः सकषायो रसायनम् ।
व्रण्यः स्वर्यः कटुः पाके रुक्षः सूक्ष्मो ऽग्निदीपनः ॥
क्लेदमेदोनिलश्लेष्मगण्डमेहापचीक्रिमीन् ।
पिटकाग्रन्थिशोफांश्च हन्त्युष्णः स्रंसनो लघुः ॥
शङ्खपुष्पी सरा तिक्ता मेध्या कृमिविषापहा ।
कटुतिक्तोष्णमगरु स्निग्धं वातकफापहम् ॥
पित्तास्रविषतृड्दाहक्लमघ्नं गुरु रूक्षणम् ।
सर्वं सतिक्तमधुरं चन्दनं शिशिरं परम् ॥
लघु रक्तं तथोशीरं वालकं पाचनं च तत् ।
ज्वरातिसारवमथुरक्तपित्तक्षतापहम् ॥
मधुकं रक्तपित्तघ्नं व्रणशोधनरोपणम् ।
गुरु स्वादु हिमं वृष्यं चक्षुष्य्ं स्वरवर्णकृत् ॥
कटुतिक्ते निशे कुष्ठमेहपित्तकफापहे ।
प्रलेपाज्जयतः कण्डूं शोफं दुष्टव्रणं विषम् ॥
प्रपौण्डरीकं चक्षुष्यं शिशिरं व्रणरोपणम् ।
कषायतिक्तमधुरं रक्तपित्तप्रसादनम् ॥
बलात्रयं स्वादु वृष्यं स्निग्धं शीतं बलप्रदम् ।
तत्र नागबला बल्या क्षतक्षीणहिता गुरुः ॥
ताम्बुलं कटु सक्षारं रुच्यमुष्णं कफप्रणुत् ।
भेदि सम्मोहकृत् पूगं कषायं स्वादु रोचनम् ॥
जातिपत्री कटुफलं कङ्कोलकलवङ्गकम् ।
लघु तृष्णापहं हृद्यं वक्त्रदौर्गन्ध्यनाशनम् ॥
सस्वादुतिक्तस्तृष्णाघ्नः कर्पूरश्च्छेदनो हिमः ।
लताकस्तूरिका तद्वन्मुखशोषहरा परम् ॥
कषायमधुरं शीतं पद्मं पित्तकफास्रजित् ।
तद्वत् बकुलपुन्नागकुमुदोत्पलपाटलम् ॥
सचम्पकं ततो न्यूनं गुणैः कोरण्डकिंशुकम् ।
मालतीमल्लिकापुष्पं तिक्तं जयति मारुतम् ॥
विषपित्तकफान्नगं सिन्दुवारं च तद्गुणम् ।
कफघ्नं कैतकं तिक्तं शैरीषं विषहारि च ॥
वातलं पुष्पमागस्त्यं कषायं कफपित्तजित् ।
चातुर्थिकज्वरहरं नावनेनोपयोजितम् ॥
बन्धूकं श्लेष्मलं ग्राहि तद्वदेव च यूथिका ।
कफघ्नमुष्णवीर्यं च कुङ्कुमं व्रणशोधनम् ।
अवल्वेडकजं बीजं कटिवातकफप्रणुत् ॥
आस्या वर्णश्लेष्ममेदःसौकुमार्यकृदन्यथा ।
अतो ऽध्वाग्निबलांयूषि कुर्याच्चङ्क्रमणं सुखम् ॥
मारुतस्यानुलोम्यं च खुडस्तम्भश्रमापहम् ।
अन्वर्थसंज्ञं पादत्रं बलदृक्शुक्रवर्द्धनम् ॥
वर्ण्यं नेत्रहितं छत्रं वातवर्षातपापहम् ।
प्रवातो रौक्ष्यवैवर्ण्यस्तम्भकृद्दाहतृड्भ्रमान् ॥
श्रमाग्निमूर्च्छाश्च जयेदप्रवातस्त्वतो ऽन्यथा ।
प्राग्वायुरुष्णो ऽभिष्यन्दी त्वग्दोषार्शोविषक्रिमीन् ॥
सन्निपातज्वरं श्वासमामं वायुं च कोपयेत् ।
पश्चिमः शिशिरो हन्ति मूर्च्छां दाहं तृषं विषम् ॥
दक्षिणो मारुतः श्रेष्ठो नेत्र्यो ऽङ्गबलवर्द्धनः ।
रक्तपित्तप्रशमनो न च वातप्रकोपनः ॥
उत्तरो मारुतः स्निग्धो मृदुर्मधुर एव च ।
कषायानुरसः शीतो दोषाणामप्रकोपनः ॥
आतपो भ्रमतृट्स्वेददाहमूर्च्छाविवर्णताः ।
कुर्यात् पित्तास्रवह्नींश्च छाया चैतानपोहति ।
तमः कषायकटुकं ज्योत्स्ना मधुरशीतला ॥
भवति चात्र ।
रसादिभेदैरिति भेषजाना दिङ्मात्रमुक्तं न यतो ऽस्ति किञ्चित् ।
अनौषधं द्रव्यमिहावबोधो रूपस्य तेषां वनगोचरेभ्यः ॥
मूल पाठ: Aṣṭāṅgasaṃgraha · Edition: e-text by SARIT · SARIT: Search and Retrieval of Indic Texts · SARIT (e-text) via Internet Archive · CC BY-SA 3.0