अष्टाङ्गसंग्रह · अध्याय 1.11
अथातो मात्राशितीयं नामाध्यायं व्याख्यास्यामः ।
इति हस्माहुरात्त्रेयादयो महर्षयः ॥
मात्राशी स्यात् ।
मात्रा पुनरग्निबलाहारद्रव्यापेक्षिणी ।
कुक्षेरप्रतिपीडनमाहारेण हृदयस्यासंरोधः पार्श्वयोरविपाटनमनतिगौरवमुदरस्य प्रीणनमिन्द्रियाणां क्षुत्पिपासोपरतिः स्थानासनशयनगमनोच्छ्वासप्रश्वासभाष्यसङ्कथासु सुखानुवृत्तिः सायं प्रातश्च सुखेन परिणमनं बलवर्णोपचयकरत्वं चेति मात्राया लक्षणम् ॥
त्रिभागसौहित्यमर्द्धसौहित्यं वा गुरूणामुपदिश्यते ।
लघूनामपि नातिसौहित्यम् ।
अनिलानलगुणबहुलानि हि लघूनि तुल्यगुणत्वादग्निसन्धुक्षणान्यविधिना चाल्पदोषाणि ।
इतराणि तु पृथिवीसलिलगुणबहुलान्यसामान्याद्विपरीतान्यन्यत्र व्यायामाग्निबलात् ।
अमात्रा पुनरशनस्य हीनताधिक्यं च ।
तत्र हीनमात्रमशनं बलवर्णोपचयमनोबुद्धीन्द्रियोपघातकरं विबन्धकृदवृष्यमनौजस्यं सारविध्मापनमलक्ष्मीजननमशीतेश्च वातविकाराणामायतनम् ।
अतिमात्रं पुनः सर्वदोषप्रकोपनमाहुः ।
तेन हि प्रपीड्यमाना वातादयो युगपत्प्रकुपिताः कुक्ष्यैकदेशस्थास्तदेवापरिपक्वमाविश्य विष्टम्भयन्तो ऽलसकमभिनिर्वर्तयन्ति ।
सहसा वाधरोत्तराभ्यां मार्गाभ्यां प्रत्त्यावयन्तो विषूचिकाम् ॥
अपि च ।
प्रयाति नोर्ध्वं नाधस्तादाहारो न च पच्यते ।
आमाशये ऽलसीभूतस्तेन सो ऽलसकः स्मृतः ॥
विविधैर्वेदनोद्भेदैर्वाय्वादिभृशकोपतः ।
सूचीभिरिव गात्राणि विध्यतीति विषूचिका ॥
तत्र वातः शूलानाहाङ्गमर्दमुखशोषप्रलापकम्पमूर्च्छभ्रमजृम्भोद्वेष्टनाक्षिप्रवेशशिरोहृदयातिरुक्सिरा कुञ्चनस्तम्भनानि करोति ।
पित्तं पुनर्ज्वरातिसारान्तर्दाहवैवर्ण्यतृष्णामदभ्रमप्रलयानि ।
श्लेष्मा तु छर्द्यरोचकप्रसेकाङ्गसादाविपाकशीतज्वरगात्रगौरवाणि विशेषतस्तु दुर्बलस्याल्पवह्नेर्बहुश्लेष्मणोवातमूत्रपुरीषवेगविधारिणो ऽन्नपानमनिलप्रपीडितं श्लेष्मणाविबद्धमार्गमलसत्वादबहिर्मुखीभवत् छर्द्यतीसारवर्ज्यानि यथोक्तानि शूलादीन्युपजनयत्यतिमात्राणि ।
सो ऽलसः ।
अतिमात्रदुष्टास्तु दोषाः शरीरं दण्डवत् स्तम्भयन्ति ततस्तमलसकमसाध्यं ब्रुवते ॥
विरुद्धाध्यशनाजीर्णशीलिनः पुनरामदोषमामविषमामनन्ति ।
विषसदृशलिङ्गत्वात् ।
तत्परमसाध्यानाम् ।
अशुकारितया विरुद्धोपक्रमत्वाच्च ।
न च केवलं मात्रयैव कृत्स्नमाहारफलमवाप्तुं शक्यं स्वभावादीनां भिन्नफलत्वात् ॥
तथा हि ।
गुरुरूक्षशुष्कशीतद्विष्टविष्टम्भिविदाअह्यशुचिविरुद्धात्यम्बुपानद्रवमकाले काले वा कामक्रोधलोभेर्ष्याद्व्रीशोकोद्वेगभयक्षुदुपतप्तेन वा यदन्नपानमुपयुज्यते तदप्याममेव प्रदूषयति ॥
तत्र साध्यमानं दुष्टमलसीभूतमुल्लिखेत् पाययित्वा सलवणमुष्णं वारि ।
तथात्वच्छर्दयन्तमतिलीनदोषं कृष्णानागदन्तीकल्कयुक्तं पाययेत् ।
मदनफलकषायं वा पिप्पलीसिद्धार्थकल्कयुक्तम् ।
दन्तीमागधिकावचूर्णितं वा कोशातकीरसम् ।
अवस्थापेक्षी वा वमनकल्पोक्तानि तीक्ष्णवमनानि ।
ततः स्वेदवर्त्तिप्रणिधानाभ्यामुपाचरेत् ॥
अपि च ।
सद्यः सम्यग्विशुद्धस्य शाम्यन्ति तदुपद्रवाः ।
शूले निरन्नकोष्ठे ऽद्भिः कोष्णाभिश्चूर्णिताः पिबेत् ॥
हिङ्गुप्रतिविषाव्योषसौवर्चलवचाभयाः ।
अथवा पिप्पलीमूलं त्रिवृतादारुसैन्धवम् ॥
शुण्ठीः सक्षीरलवणपिप्पलीमरिचानि च ।
पाठाम्लवेतसक्षारयवानीपौष्कराणि वा ॥
द्विरुत्तरं हिङ्गुवचाग्निकुष्ठ सुवर्चिकाक्षारबिडाजमोजम् ।
शूलोदरानाहविषूचिकार्शोहृद्रोगगुल्मोर्ध्वसमीरणघ्नम् ॥
मुस्ताजमोजपूजीकवचाशुण्ठ्यग्निधान्यकैः ।
सवालकशठीबिल्वैः क्वाथं तृट्च्छूलवान् पिबेत् ॥
रास्नाकट्फलषङ्ग्रन्थाबृहतीद्वयजोङ्गकैः ।
गुग्गुल्वतिविषाकुष्ठपत्रत्र्याघ्रनखाम्बुदैः ।
कुर्याच्छुष्कैः समूत्रैर्वा लेपोद्वर्त्तनधूपनम् ॥
सरुक्चानद्धमुदरमम्लपिष्टैः प्रलेपयेत् ।
दारुहैमवतीकुष्ठशताह्वाहिङ्गुसैन्धवैः ॥
यवचूर्णश्च सक्षारतक्रः कोष्ठार्तिजित् परम् ।
योजयेत्सैन्धवान्तैश्च वर्तिं विण्मूत्रसङ्ग्रहे ॥
नाम्यमानानि चाङ्गानि भृशं स्विन्नानि वेष्टयेत् ।
विषूच्यामतिवृद्धायां पार्ष्ण्योर्दाहः प्रशस्यते ॥
द्विक्षारजीर्णपिण्याककुष्ठारुष्करचित्रकैः ।
सशुक्तसैन्धवैस्तैलं पक्वमभ्यञ्जने हितम् ॥
सुच्छर्दितविरिक्तस्य गात्रायामे ऽतिदारुणे ।
भल्लातकमधूच्छिष्टजीर्णपिण्याकनागरैः ।
घृततैलं पचेत्साम्लैस्तच्च खल्लीघ्नमुत्तमम् ॥
त्वक्पत्ररास्नागरुशिग्रुकुष्ठैरम्लप्रपिष्टैः सवचाशताह्वैः ।
उद्वर्त्तनं खल्लिविषूचिकाघ्नं तैलं विपक्वं च तदर्थकारि ॥
तदहश्चोपवास्यैनं विरिक्तवदुपाचरेत् ।
सामान्येनेति सिद्धोक्ता विषूच्यलसकक्रिया ॥
आमदोषेषु त्वन्नकाले जीर्णाहारं दोषोपलिप्तामाशयं स्तिमितगुरुकोष्ठमनन्नाभिलाषिणमभिसमीक्ष्य पाययेद्दोषशेषपाचनार्थमौषधं वह्निसन्धुक्षणार्थं च ।
अजीर्णाहारं पुनर्न पाययेत् ।
यत आमदोषदुर्बलो ह्यग्निर्युगपदामदोषमौषधमाहारजातं चाशक्तः पक्तुम् ॥
अपि चैषा विभ्रमो ऽतिबलत्वादुपरतानलबलमातुरं सहसैवातिपातत्येत् ।
आमदोषजानां पुनर्विकाराणामपतर्पणेनैवोपशमो भवति ॥
तत्तु त्रिविधम् ।
लङ्घनं लङ्घनपाचनमवसेचनं च ।
तत्र लङ्घनमल्पदोषाणाम् ।
तेन ह्यनिलानलवृध्या वातातपपरीत इवाल्पः सलिलाशयो ऽल्पदोषः प्रशोषमापद्यते ।
लङ्घनपाचनाभ्यां मध्यदोषे वातातपाभ्यां पांसुभस्मावकिरणैरिव चानतिमहान् सलिलाशयः ।
बहुदोषाणां पुनर्दोषावसेचनमेव कार्यम् ।
न ह्यस्राविते पल्वलोदकौघे शाल्यादिपुष्टिर्भवति ॥
तस्मात्सन्तर्पणनिमित्तानां नान्तरेणापतर्पणमस्ति शान्तिः ।
अपतर्पणनिमित्तानां च नान्तरेण सन्तर्पणमिति ।
एवमन्येषामपि व्याधीनां यथास्वं निदानविपरीतमौषधमेवावचारयेत् ।
सति त्वनुबन्धे निदानविपरीतमपास्य व्याधिविपरीतमेव तदर्थकारि वा ।
विमुक्तामदोषस्य पुनः परिपक्वामदोषशेषस्य दीप्ते चाग्नावभ्यङ्गास्थापनानुवासनं विविधस्नेहपानं च युक्त्या प्रयोज्यम् ।
प्रसमीक्ष्य दोषौषधादीनामवस्थान्तराणि ।
भवन्ति चात्र ॥
यः श्यावदन्तौष्ठनखो ऽल्पसंज्ञः छर्द्यर्दितो ऽन्तर्गतताम्रनेत्रः ।
क्षामस्वरः स्रस्तसमस्तसन्धिर्यायान्नरो ऽसौ पुनरागमाय ॥
व्योषं करञ्जस्य फलं हरिद्रे मूलं समावाप्य च मातुलुङ्ग्याः ।
छयाविशुष्का गुलिकाः कृतास्ता हन्युर्विषूचीं नयनाञ्जनेन ॥
शिरीषनक्ताह्वफणिज्जबीजत्रायन्त्यपामाअर्गफलैश्च वर्त्तिः ।
बस्तस्य मूत्रेण विषूचिकाघ्नी प्रलेपधूपाञ्जननस्ययोगैः ॥
अजीर्णं च कफादामं विष्टब्धमनिलाद्भवेत् ।
विदग्धं पित्तकोपेन त्रिप्रकारमिति स्मृतम् ॥
तत्रामे गुरुतोत्क्लेदः शोफो गण्डाक्षिकूटयोः ।
उद्गारश्च यथाभुक्तमविदग्धः प्रवर्त्तते ॥
विष्टब्धे शूलमाध्मानं विविधा वातवेदनाः ।
मलवाताप्रवृत्तिश्च स्तम्भो मोहो ऽङ्गपीडनम् ॥
विदग्धे भ्रमतृण्मूर्छाः पित्तच्च विविधा रुजाः ।
उद्गारश्च साधूमाम्लः स्वेदो दाहश्च जायते ॥
लङ्घनं कार्यमामे तु विष्टब्धे स्वेदनं भृशम् ।
विदग्धे वमनं यद्वा यथावस्थं हितं भवेत् ॥
रगीयसो भवेल्लीनादामादेव विलम्बिका ।
कफवातानुविद्धामलिङ्गा तत्समसाधना ॥
रसशेषे ऽन्नविद्वेषो हृदयाशुद्धिगौरवे ।
तत्राभुक्त्वा दिवस्वप्यात् क्षुद्वानद्याल्लघुप्रति ॥
यामैश्चतुर्भिर्द्वाभ्यां च भोज्यभैषज्ययोः समे ।
पाको ऽग्नौयुक्तयोर्द्राक्च तीक्ष्णे मन्दे पुनश्चिरात् ॥
सभक्तमौषधं तस्मान्मन्दाग्नेरवचारयेत् ।
पूर्वाह्णे भोजनं सात्म्यं लघु दीपनबृंहणम् ॥
प्रातराशे त्वजीर्णे ऽपि सायमाशो न दुष्यति ।
अजीर्णे सायमाशे तु प्रातराशो हि दुष्यति ॥
दिवा प्रबोध्यते ऽर्केण हृदयं पुण्डरीकवत् ।
तस्मिन्विबुद्धे स्रोतांसि स्फुटत्वं यान्ति सर्वशः ॥
व्यायामाच्च विचाराच्च विक्षिप्तत्वाच्च चेतसः ।
न क्लेदमुपगच्छन्ति दिवा तेनास्य धातवः ॥
अक्लिन्नेष्वन्नमासिक्तमत्यन्तेन न दुष्यति ।
अविदग्धेष्विव पयस्स्वन्यत्संमिश्रितं पयः ॥
रात्रौ तु हृदये म्लाने संवृतेष्वयनेषु च ।
यान्ति कोष्ठे परिक्लेदं संवृते सर्वधातवः ॥
क्लिन्नेष्वन्यदपक्वेषु तेष्वासिक्तं प्रदुष्यति ।
विदग्धेषु पयस्स्वन्यात् पयस्तप्तेष्विवापितम् ।
नैशे तस्मादजीर्णे ऽन्ने नान्यद्भुञ्जीत भोजनम् ॥
उद्गारशुद्धिरुत्साहो वेगोत्सर्गो यथोचितः ।
लघुता क्षुत्पिपास च जीर्णाहारस्य लक्षणम् ॥
प्रायः प्रज्ञापराधेन रोगग्रामः प्रजायते ।
नृणामशनलुब्धानां विशेषेण विषूचिका ॥
दोषोपनद्धं यदि लीनमन्नं पित्तोल्बणरयावृणुयान्न वह्निम् ।
जायेत दुष्टा तु ततो बुधुक्षा या मन्दबुद्धीन् विषवन्निहन्ति ॥
मूल पाठ: Aṣṭāṅgasaṃgraha · Edition: e-text by SARIT · SARIT: Search and Retrieval of Indic Texts · SARIT (e-text) via Internet Archive · CC BY-SA 3.0