भाषा

ENहिગુ
ग्रंथ पाठ

अष्टाङ्गसंग्रह · अध्याय 1.10

1.10.1

अथातो ऽन्नपानविधिमध्यायं व्याख्यास्यामः ।
इतिहस्माहुरात्रेयादयो महर्षयः ॥

1.10.2

विधिविहितमन्नपानमिष्टेन्द्रियार्थमायतनमायुषो ब्रुवते ।
यदायत्तानि ह्योजस्तेजोधात्विन्द्रियबलतुष्टिपुष्टिप्रतिभारोग्यादीनि ।
तदिन्धना चान्तराग्नेः स्थितिः ।
अग्निमूलं च देहधारणमिति ॥

1.10.3

अथात्मवान् स्वभावसंयोगसंस्कारमात्रादेशकालोपयोगव्यवस्थाः सप्ताहारकल्पनाविशेषाणां स्वास्थ्यास्वास्थ्यफलानां हेतुभूताः समीक्ष्य हितमेव अनुरुध्येत ।
तत्र स्वभावतो दिव्योदकरक्तशालिषष्टिकमुद्गैणलावादयो लघवः ।
क्षीरेक्षुव्रीहिमाषानूपामिषादयो गुरव इति ।
ते खल्वपि संयोगादिविशेषैरन्यथात्वं प्रतिपद्यन्ते ॥

1.10.4

तत्र संयोगो नाम द्वयोर्बहूनां वाद्रव्याणां संहतीभावः ।
स विशेषमारभते यन्नैकैकशो द्रव्याणि ।
संस्कारस्तु तोयाग्निसन्निकर्षशौचमन्थनदेशकालभावनाभाजनादिभिरुपजन्यते ।
मात्रा पुनः पिण्डपरिमाणतः समुदायेन प्रतिद्रव्यापेक्षया चाहारराशिः ।
देशो द्रव्यस्योपयोक्तुश्चोत्पत्यवस्थाने ।
तत्र पुनरुपयोक्तास्वस्थातुरत्वतः प्रकृतिभेदतश्च परीक्ष्यः ॥

1.10.5

कालस्तु ऋतुव्याध्यपेक्षो जीर्णाजीर्णलक्षणश्च ।
अजीर्णे ऽपि पूर्वस्याहारस्यापरिणतो रस उत्तरेणोपसंसृज्यमानः सर्वान् दोषान् प्रकोपयत्याशु ।
जीर्णे तु स्वस्थानस्थेषु दोषेषु वातानुलोम्यादुत्सृष्टेषु मूत्रपुरीषवेगेषु विशुद्धेषूद्गारहृदयस्रोतोमुखेषु विशदकरणे लघुनि शरीरे ऽग्नावुदीर्णे जाताया बुभुक्षायामभ्यवहृतमन्नमप्रदूषयद्दोषानायुर्बलवर्णानभिवर्द्धयति ।
केवलमयमेव कालो भोजनस्य ॥

1.10.6

अतीतकालं पुनस्तद्वातविष्टब्धं कृच्छ्राद्विपच्यते कर्शयत्यन्नरुचिं च पुनरुपहन्ति ।
उपयोगव्यवस्था तु नास्नातो न दिग्वासा नैकवस्त्रधृक् न मलिनवसनो नाहुत्वा न जपित्वा नानिरूप्य देवताभ्यो न पितृभ्यो न दत्वाग्रमन्नमग्नये न गुरुभ्यो नातिथये नाभ्यागतेभ्यो न श्ववयःश्वपचेभ्यः प्रत्यवेक्ष्य चाश्रितोपाशितानपि तिरश्चो ऽपि स्वपरिगृहीतान् प्रशस्तदेशकालोपकरणयुक्तः स्रग्वी विभूषितः सुरन्धिरार्द्रपाणिपादः सुविशुद्धवदनो ऽभिमतसहायः केशमक्षिकाद्यनुपजुष्टमनिन्द्यमनिन्दन्ननिन्दितमपुनरुष्णीकृतं नात्युष्णमनुपदग्धं सुसिद्धमलोलो नासात्म्यं नाविदितं नाविदितागमं नातिसायं नातिप्रगे नाकाशे नातपे नान्धकारे नाधो वृक्षस्य न श्य्यास्थो नोन्नम्य प्रदेशिनीं न पात्रे भिन्ने नासंवृते न मलिने भावदूषिते वा न चासनस्थिते न हस्तस्थे न हस्ते प्राङ्मुखः सुमनाः शुचिभक्ताक्षुधितानुकूलजनोपहितं हितमन्नमश्रीयात् ।
न पर्युषितमन्यत्र मांसोपदंशभक्ष्येभ्यः ।
नाशेषमन्यत्र दधिमधुघृतसलिलसक्तुशुक्तपायसेभ्यो ऽपि च ।
स्निग्धं लघूष्णमविलम्बित मनतिद्रुतमजल्पन्नहसंस्तन्मनाः समीक्ष्य सम्यगात्मानम् ॥

1.10.7

स्निग्धलघूष्णानि हि वह्निमौदर्यमुदीरयन्ति कोष्ठं परिशोधयान्ति धातून्न विकुर्वते क्षिप्रं जरयन्ति अनिलमनुलोमयन्ति ।
तथा स्निग्धं दृढीकरोतीन्द्रियाण्युपचिनोति शरीरमपचिनोति जरसं बलमभिवर्द्धयति वर्णप्रसादमभिनिर्वर्त्तयति ।
लघु च पुनः स्वभावादिभिरन्नमप्रतिपीडयद्दोषानव्यथमानं परिणाममेति ।
विपन्नमपि चाल्पदोषं भवति ।
उष्णं च पुनर्जनयति रुचिमुपशोषयति श्लेष्माणम् ।
विलम्बितं तु भुञ्जानो न तृप्तिमधिगच्छति बहु च भुङ्क्ते शीतीभवति चान्नजातं विषमपाकं च भवति ।
अतिद्रुतं तु भुञ्जानस्य जल्पतो हस्तो ऽन्यमनसो वा भवेदुत्स्नेहनमवसादनं भोजनस्याप्रतिष्ठानं गुणदोषाविभावनं च ॥

1.10.8

समीक्ष्य सम्यगात्मानमिति ममेदं सात्म्यमिदमसात्म्यमिति नित्यमप्रमत्तः प्रत्यवेक्षेत ।
तत्र सात्म्यं नाम सहात्मना भवत्यभ्यस्तं तदौचित्यादुपशेत इत्येके ।
सात्म्यविपरीतमनुपशयादसात्म्यम् ।
अन्ये पुनः प्रकृतिवयोदेशर्तुदोषव्याधिवशेन सात्म्यं बहुविधमिच्छन्ति ।
ते ह्युपशयमात्रमङ्गीकृत्य विपरीतगुणमप्युपचारेण सात्म्यमाचक्षते ।
तुल्यगुणं चानुपशयादसात्म्यम् ।
सात्म्यं तु प्रवरावरमध्यविभागेन त्रिविधम् ।
तत्र सर्वरसं प्रवरमेकरसमवरं मध्यं तु मध्यममेव ।
तेषु प्रवरं समदोषस्योपदिशन्तीति ।
इतरेषामपि क्रमेण सात्म्यमपि चाहितं पादेन वा विवर्जयेदित्युक्तं प्राक् ।
तत्र यदाहारजातं समधातूननुवर्त्तयति विषमांश्च समीकरोति तत्समासतो हितम् ।
विपरीतमहितम् ।
तत् पुनर्मात्रायोगादिवैचित्र्यादनियतमपि यथोपदेशं यथाभूयिष्ठं च शीलयेत् परिहरेच्च ॥

1.10.9

तथा विशेषतः समशनमध्यशनममात्रशनं विषमाशनं च वर्जयेत् ।
तत्र पथ्यापथ्येमकत्रभुक्तं समशनम् ।
भुक्तस्योपरि भुक्तमध्यशनम् ।
अमात्राशनं पुनः पृथगेवोपदेक्ष्यते ।
अप्राप्तातीतकालं तु भुक्तं विषमाशनमिति ।
भुञ्जानस्तु पेयायूषरसान् व्यञ्जनानि राजतेषु पात्रेषु निदध्यात् ।
परिशुष्कप्रदिग्धानत्युष्णं च पयः सौवर्णेषु ।
खलखट्वरकाम्बलिकान् कांस्येषु ।
रागषाडवसट्टकान् वज्रवैडूर्य विचित्रेषु ।
घृतमायसे पयः सुशीतं ताम्रमये पानीय पानकानि च मृद्धेमस्फटिककाचमयेषु औदनं च विस्तीर्णे मनोरमे स्थाने ।
अन्यथा हि वर्णगन्धरसान्यत्वादहितं स्यात् ॥

1.10.10

अपि च ।
दक्षिणपार्श्वे भक्ष्यं स्थापयेत् ।
सव्ये पेयं लेह्यं मुखोद्घर्षणपिण्डीं च मध्ये भोज्यमिति ।
यथाग्निसात्म्यं तु प्राक् द्रवमुपशुष्कं वाश्नीयात् ।
प्रागेव तु गुरुस्वादुस्निग्धं च ।
मध्ये ऽम्ललवणम् ।
अन्ते रूक्षं द्रवमितररसयुक्तं च ।
तत्र मन्दाग्रेर्द्रवोष्णेन समुत्तेजितोष्मणो ऽन्यदुपयुक्तं सम्यक् पाकमेति ॥

1.10.11

अनुपाने तु सलिलमेव श्रेष्ठं सर्वरसयोनित्वात्सर्वभूतसात्म्यत्वाज्जीवनादिगुणयोगाच्च ।
तच्छीतं दधिमधुयवगोधूममद्यविशेषेषु सर्वेषु च विदाहिषु शरद् ग्रीष्मयोश्च ।
उष्णं पिष्टमयेष्वन्येषु च दुर्जरेषु हेमन्ते च ।
द्रवद्रव्यविज्ञानीयं चेक्षेत ।
क्षीरं शालिषष्टिकयोः तथैवोपवासाध्वभाष्यस्त्रीव्यायामक्लान्तबालवृद्धेषु ।
मांसरसः शोषादिषु ।
वाते त्वम्लानि च ।
पित्ते शर्करोदकम् ।
त्रिफलोदकं तु सक्षौद्रं श्लेष्मणि प्राथश्चाक्षिगलरोगेषु ।
मस्त्वेव वा दध्नि कूचिकाकीलाटयोश्च ।
धान्याम्लं मस्तु तक्रं वा शाकावरान्नेषु ।
मद्यं मांसेषु फलाम्लमम्बु वासवांश्च विविधान् विभज्य प्रयोजयेत् ।
विशेषतस्तु मध्वासवान् ग्राम्येषु तीक्ष्णान् त्रिफलासवान् वन्येषु ।
न्यग्रोधादिफलासवान् विष्किरेषु अर्कशेलुशिरीषकपित्थासवान् बिलेशयेषु दिग्धहतेषु च ।
अम्लफलासवान् प्रसहेषु काशेक्षुपद्मबीजशृङ्गाटककशेरुकमृद्वीकाखदिरासवान् क्षौद्रयुक्तं वा शीतमुदकमुदश्चिद्वा महामृगेष्वौदकेषु च ।
सुरां प्रतुदेषु तथा श्रमार्त्तेषु कृशेषु च ।
मधूदकं स्थूलेषु ।
मद्यं मद्यमांससात्म्येष्वल्पाग्निषु ।
अपि च ।
समासेनान्नविपरीतमविरोधि च ॥

1.10.12

अनुपानं खलु तर्पयति प्रीणयत्यूर्जयति बृंहयति देहस्य पर्याप्तिमभिनिर्वर्तयति भुक्तमवसादयत्यन्नसङ्घातं भिनत्ति मार्दवमापादयति क्लेदयति सुखपरिणामितामाशुव्यवायितां चाहारस्योपजनयति ।
वर्ज्यं तूर्ध्वजत्रुगदश्वासकासप्रसेकहिध्मास्वरभेदोरःक्षतिभिर्गीतभाष्यप्रसक्तैश्च ।
तेषां हि प्रदूष्यामाशयमुरःकण्ठस्थितमाहारजं स्नेहमासाद्य तदभिष्यन्दाग्निसादच्छर्द्यादीनामयान् विदध्यात् ।
पीत्वा च भाष्यगेयाध्वस्वप्नान्न शीलयेत् ।
पानं च प्रक्लिन्नदेहमेदहण्ठाक्षिरोगव्रणिन इति ॥

1.10.13

ततः पाणिगतमन्नमन्येनापनीय दन्तान्तरस्थं च शनैः शनैः शोधनेन विशोध्य लेपगन्धस्नेहापनोदमाचान्तो ऽङ्गुल्यग्रगलिताम्बुपरिषिक्तनेत्रस्ताम्बूलादिकृत वदनवैशद्यो धूमपानादिहृतोर्ध्वकफवेगः पदशतमात्रं गत्वा वामपार्श्वेन संविशेत् ।
द्रवोत्तरभोजनस्तु शय्यां नातिसेवेत ।
यानप्लवनवाहनाग्न्यातपांश्च भुक्तवान् वर्जयेत् ।
आहारपरिणामकराः पुनरिमे भावाः ।
तद्यथा ऊष्मा वायुः स्नेहः क्लेदः कालः समयोगश्च ।
तत्रोष्मा पचति वायुरपकर्षति स्नेहो मार्दवं जनयति क्लैदः शैथिल्यमापादयति कालः सर्ववपुर्व्याप्तिमभिनिर्वर्त्तयति ।
समयोगस्त्वेषामन्नपरिणामधातुसाम्यकरः सम्पद्यते ।
समयोगस्य तु पुनः कारणान्युचितो हितश्च देहसंस्कारो ऽभ्यवहारश्चेष्टा शयनं सौमनस्यं च ।
परिणमतस्त्वाहारस्य गुणाः शरीरगुणभावमापद्यन्ते यथास्वमविरुद्धाः ।
विरुद्धास्तु विहताश्च विरोधिभिर्विहन्युः शरीरमिति ।
भवन्ति चात्र ॥

1.10.14

औकुलाभ्योषपृथुकान् सुपिष्टकृततण्डुलान् ।
न जातुभुक्तवानद्यान्मात्रयाद्यात्सुकाङ्क्षितः ॥

1.10.15

शाकावरान्नकट्वम्लकषायलवणोत्कटम् ।
त्यजेदेहरसासात्म्यं गुरु शुष्कं च भोजनम् ॥

1.10.16

वक्ष्यते यन्निदानादौ सर्वदोषप्रकोपणम् ।
अत्यभिष्यन्दि विष्टम्भि विदाहि गुरु रूक्षणम् ॥

1.10.17

कीलाटदधिकूचीकामत्स्यशुष्काममूलकम् ।
क्षारपिष्टविरूढाद्यं तत्समस्तं न शीलयेत् ॥

1.10.18

शीलयेच्छालिगोधूमयवषष्टिकजाङ्गलम् ।
सुनिषण्णकजीवन्तीबालमूलकवास्तुकम् ॥

1.10.19

पथ्यामलकमृद्धीकापटोलीमुद्गशर्कराः ।
घृतंदिव्योदकक्षीरक्षौद्रदाडिमसैन्धवम् ॥

1.10.20

त्रिफलां मधुसर्पिर्भ्यां निशि नेत्रबलाय च ।
स्वास्थ्यानुवृत्तिकृद्यच्च रोगोच्छेदकरं च यत् ॥

1.10.21

स्वभावमात्रायोगादिपरस्परविपर्ययैः ।
भोजनानि विरुध्यन्ते तानि विद्वान् विवर्जयेत् ॥

1.10.22

त्यागाद्विषमहेतूनां समानां चोपसेवनात् ।
विषमा नानुबध्नन्ति जायन्ते धातवः समाः ॥

1.10.23

अन्नेन कुक्षेर्द्वावंशौ पानेनैकं प्रपूरयेत् ।
आश्रयं पवनादीनां चतुर्थमवशेषयेत् ॥

1.10.24

मन्दानलबलारोग्यनृपेश्वरसुखात्मसु ।
योज्यः क्रमो ऽयं सततं नावश्यमितरेषु च ॥

1.10.25

करोति रूक्षं बलवर्णनाशं त्वग्रूक्षतां वातशकृन्निरोधम् ।
स्निग्धं त्वतिश्लेष्मचयप्रसेक हृद्गौरवालस्यरुचिप्रणाशान् ॥

1.10.26

अत्युष्णमन्नं मददाहतृष्णाबलप्रणाशभ्रमरक्तपित्तम् ।
शीतं तु सादारुचिवह्निसादहृल्लासविष्टम्भनरोमहर्षान् ॥

1.10.27

अतिस्थिरं मूत्रशकृद्विबन्धमतृप्तिमव्याप्तिमशीघ्रपक्तिम् ।
अतिद्रवं पीनसमेहकासस्यन्दान् करोत्यग्निबलं च हन्ति ॥

1.10.28

अतिमधुरमनलशमनं भुक्तमसात्म्यं न पुष्टये वपुषः ।
अतिलवणमचक्षुष्यं तीक्ष्णात्यमलं जरा साक्षात् ॥

1.10.29

तनुमपि तनुजां रुजां त्वनाप्य व्रजति नरः स समाशतस्य पारम् ॥

मूल पाठ: Aṣṭāṅgasaṃgraha · Edition: e-text by SARIT · SARIT: Search and Retrieval of Indic Texts · SARIT (e-text) via Internet Archive · CC BY-SA 3.0

Esc