भाषा

ENहिગુ
ग्रंथ पाठ

अष्टाध्यायी · अध्याय 6.4

6.4.1

अङ्गस्य

6.4.2

हलः

6.4.3

नामि

6.4.4

न तिसृ-चतसृ

6.4.5

छन्दस्य् उभयथा

6.4.6

नृ च

6.4.7

न-उपधायाः

6.4.8

सर्वनामस्थाने च असम्बुद्धौ

6.4.9

वा षपूर्वस्य निगमे

6.4.10

सान्तमहतः संयोगस्य

6.4.11

अप्-तृन्-तृच्-स्वसृ-नप्तृ-नेष्टृ-त्वष्टृ-क्षत्तृ-होतृ-पोतृ-प्रशास्तॄणाम्

6.4.12

इन्-हन्-पूष-अर्यम्णां शौ

6.4.13

सौ च

6.4.14

अत्व्-असन्तस्य च अधातोः

6.4.15

अनुनासिकस्य क्वि-झलोः क्ङिति

6.4.16

अज्-झन-गमां सनि

6.4.17

तनोतेर् विभाषा

6.4.18

क्रमश् च क्त्वि

6.4.19

च्च्ः-वोः श्-ऊड्ः-अनुनासिके च

6.4.20

ज्वर-त्वर-स्रिव्य्-अवि-मवाम् उपधायाश् च

6.4.21

राल् लोपः

6.4.22

असिद्धवत्र-आ भात्

6.4.23

श्नान् नलोपः

6.4.24

अनिदितां हल उपधायाः क्ङिति

6.4.25

दंश-सञ्ज-स्वञ्जाम् शपि

6.4.26

रञ्जेश् च

6.4.27

घञि च भावकरनयोः

6.4.28

स्यदो जवे

6.4.29

अवोद-एद्ः-ओद्म-प्रश्रथ-हिमश्रथाः

6.4.30

न अञ्चेः पूजायाम्

6.4.31

क्त्वि स्कन्दि-स्यन्दोः

6.4.32

जान्त-नशां विभाषा

6.4.33

भञ्जेश् च चिणि

6.4.34

शास इदङ्हलोः

6.4.35

शा हौ

6.4.36

हन्तेर्जः

6.4.37

अनुदात्त-उपदेश-वनति-तनोत्य्-आदीनाम् अनुनासिकलोपो झलि क्ङिति

6.4.38

वा ल्यपि

6.4.39

न क्तिचि दीर्घश् च

6.4.40

गमः क्वौ

6.4.41

विड्-वनोर् अनुनासिकस्य आत्

6.4.42

जन-सन-खनां सञ्-झलोः

6.4.43

ये विभाषा

6.4.44

तनोतेर्यकि

6.4.45

सनः क्तिचि लोपश् च अस्य अन्यतरस्याम्

6.4.46

आर्धधातुके

6.4.47

भ्रस्जो र-उपधयो रम् अन्यतरस्याम्

6.4.48

अतो लोपः

6.4.49

यस्य हलः

6.4.50

क्यस्य विभाषा

6.4.51

णेर् अनिटि

6.4.52

निष्ठायां सेटि

6.4.53

जनिता मन्त्रे

6.4.54

शमिता यज्ञे

6.4.55

अय् आम्-अन्त-आल्व्-आय्य-इत्न्व्-इष्णुषु

6.4.56

ल्यपि लघुपूर्वात्

6.4.57

विभाषा+आपः

6.4.58

यु-प्लुवोर् दीर्घश् छन्दसि

6.4.59

क्षियः

6.4.60

नष्ठायाम् अण्यदर्थे

6.4.61

वा+आक्रोश-दैन्ययोः

6.4.62

स्य-सिच्-सीयुट्-तासिषु भाव-कर्मणोर् उपदेशे ऽज्-झन-ग्रह-दृशां वा चिण्वद्-इट् च

6.4.63

दीङो युडचि क्ङिति

6.4.64

आतो लोप इटि च

6.4.65

ईद्यति

6.4.66

घु-मा-स्था-गा-पा-जहाति-सा हलि

6.4.67

एर् लिङि

6.4.68

वा ऽन्यस्य संयोग-आदेः

6.4.69

न ल्यपि

6.4.70

मयतेर् इद्-अन्यतरस्याम्

6.4.71

लुङ्-लङ्-लृङ्-क्ष्व् अड्-उदात्तः

6.4.72

आड् अज्-आदीनाम्

6.4.73

छन्दस्य् अपि दृश्यते

6.4.74

न माङ्योगे

6.4.75

बहुलं छन्दस्य् अमाङ्योगे ऽपि

6.4.76

इरयो रे

6.4.77

अचि श्नु-धातु-भ्रुवां य्-वोर् इयङ्-उवङौ

6.4.78

अभ्यासस्य असवर्णे

6.4.79

स्त्रियाः

6.4.80

वा ऽंशसोः

6.4.81

इणो यण्

6.4.82

एर् अनेकाचो ऽसम्योगपूर्वस्य

6.4.83

ओः सुपि

6.4.84

वर्षाभ्वश् च

6.4.85

न भूसुधियोः

6.4.86

छन्दस्य् उभयथा

6.4.87

हुश्नुवोः सार्वधातुके

6.4.88

भुवो वुग् लुङ्लिटोः

6.4.89

ऊद् उपधाया गोहः

6.4.90

दोषो णौ

6.4.91

वा चित्तविरागे

6.4.92

मितां ह्रस्वः

6.4.93

चिण्-णमुलोर् दीर्घो ऽन्यतरस्याम्

6.4.94

खचि ह्रस्वः

6.4.95

ह्लादो निष्ठायाम्

6.4.96

छादेर् घे ऽद्व्य्-उपसर्गस्य

6.4.97

इस्-मन्-त्रन्-क्विषु च

6.4.98

गम-हन-जन-खन-घसां लोपः क्ङित्य् अनङि

6.4.99

तनि-पत्योश् छन्दसि

6.4.100

घसि-भसोर् हलि च

6.4.101

हु-झल्भ्यो हेर् धिः

6.4.102

श्रु-शृणु-पॄ-कृ-वृभ्यश् छन्दसि

6.4.103

अङितश् च

6.4.104

चिणो लुक्

6.4.105

अतो हेः

6.4.106

उतश् च प्रत्ययाद् असंयोगपूर्वात्

6.4.107

लोपश् च अस्य अन्यतरस्यां ंवोः

6.4.108

नित्यं करोतेः

6.4.109

ये च

6.4.110

अत उत् सार्वधातुके

6.4.111

श्नसोरल्लोपः

6.4.112

श्ना-अभ्यस् तयोर् आतः

6.4.113

ई हल्यधोः

6.4.114

इद् दरिद्रस्य

6.4.115

भियो ऽन्यतरस्यम्

6.4.116

जहातेश् च

6.4.117

आ च हौ

6.4.118

लोपो यि

6.4.119

घ्व्-असोर् एद्-धाव् अभ्यासलोपश् च

6.4.120

अत एकहल्मध्ये ऽनादेशादेर् लिटि

6.4.121

थलि च सेति

6.4.122

तॄ-फल-भज-त्रपश् च

6.4.123

रधो हिंसायाम्

6.4.124

वा जॄ-भ्रमु-त्रसाम्

6.4.125

फणां च सप्तानाम्

6.4.126

न शस-दद-व्-आदि-गुणानाम्

6.4.127

अर्वणस् त्र्-असाव्-अनञः

6.4.128

मघवा बहुलम्

6.4.129

भस्य

6.4.130

वक्ष्यति - पादः पत्

6.4.131

वसोः सम्प्रसारणं

6.4.132

वाह ऊट्ः

6.4.133

श्व-युव-मघोनाम् अतद्धिते

6.4.134

अल्-लोपो ऽनः

6.4.135

षपूर्व-हन्-धृतराज्ञाम् अणि

6.4.136

विभाषा ङिश्योः

6.4.137

न संयोगाद् व-म्-अन्तात्

6.4.138

अचः

6.4.139

उद ईत्

6.4.140

आतो धातोः

6.4.141

मन्त्रेष्वाङ्यादेरात्मनः

6.4.142

ति विंशतेर् डिति

6.4.143

टेः

6.4.144

नस् तद्धिते

6.4.145

अह्नष् ट-खेर् एव

6.4.146

ओर्गुणः

6.4.147

ढे लोपो ऽकद्र्वाः

6.4.148

यस्य+इति च

6.4.149

सूर्य-तिष्य-अगस्त्य-मत्स्यानां य उपधायाः

6.4.150

हलस् तद्धितस्य

6.4.151

आपत्यस्य च तद्धिते ऽनाति

6.4.152

क्यच्व्योश् च

6.4.153

बिल्वक-आदिभ्यश् छस्य लुक्

6.4.154

तुर् इष्ठ-इम-ईयस्सु

6.4.155

टेः

6.4.156

स्थूल-दूर-युव-ह्रस्व-क्षिप्रक्षुद्राणां यणादिपरं पूर्वस्य च गुणः

6.4.157

प्रिय-स्थिर-स्फिर-उरु-बहुल-गुरु-वृद्ध-तृप्र-दीर्घ-वृन्दारकाणां प्र-स्थ-स्फ-वर्-बंहि-गर्-वर्षि-त्रब्-द्राघि-वृन्दाः

6.4.158

बहोर् लोपो भू च बहोः

6.4.159

इष्ठस्य यिट् च

6.4.160

ज्याद् आद् ईयसः

6.4.161

र ऋतो हलादेर् लघोः

6.4.162

विभाषा र्जोश् छन्दसि

6.4.163

प्रकृत्या+एक-अच्

6.4.164

इन् अण्य्-अनपत्ये

6.4.165

गाथि-विदथि-केशि-गणि-पणिनश् च

6.4.166

संयोग-आदिश् च

6.4.167

अन्

6.4.168

ये च अभाव-कर्मणोः

6.4.169

आत्म-अध्वानौ खे

6.4.170

न मपूर्वो ऽपत्ये ऽवर्मणः

6.4.171

ब्राह्मो ऽजातौ

6.4.172

कार्मस् ताच्छील्ये

6.4.173

औक्षम् अनपत्ये

6.4.174

दाण्डिनायन-हास्तिनायन-आथर्वणिक-जैह्माशिनेय-वासिनायनि-भ्रौणहत्य-धैवत्य-सारव-ऐक्ष्वाक-मैत्रेय-हिरण्मयानि

6.4.175

ऋत्व्य-वास्त्व्य-वास्त्व-माध्वी-हिरण्ययानि च्छन्दसि

मूल पाठ: Aṣṭādhyāyī · Edition: Aryendra Sharma: Kasika - a commentary on Panini's grammar by Vamana and Jayaditya. Hyderabad : Osmania University, Sanskrit Academy 1969-1985 (Samskrtaparisadgranthavali, 17-) · Data entry Ms. Mari Minamino · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc